शास्त्रवैभवनिरूपणं नाम षष्टितमोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
भरद्वाजं प्रति दुर्वाससा वृत्तानुवादव्याजेनापेक्षितयावदर्थ-
प्रतिपादकत्वरूपशास्त्रवैभवप्रपञ्चनम्
दुर्वासाः –
इत्येतन्नारदायादौ पृष्टः प्रोवाच शङ्करः ।
रहस्यं भगवज्ज्ञानं ज्ञानानामुत्तमं महत् ॥ ६०-१ ॥
शास्त्रस्यास्य प्राधान्येन
जगज्जन्मादिकारणभूतब्रह्मस्वरूपरूपगुणविभवादिप्रतिपा-
दनपूर्वकं परदेवतानिष्कर्षकत्वम्
विश्वास-प्रस्तुतिः - ६०-२
स्थित्युत्पत्तिप्रलयकृद् भूतानां यत्र चिन्त्यते ।
स विष्णुश्चिन्त्यते यत्र स्वरूपगुणवैभवैः ॥ ६०-२ ॥
मूलम् - ६०-२
स्थित्युत्पत्तिप्रलयकृद् भूतानां यत्र चिन्त्यते ।
स विष्णुश्चिन्त्यते यत्र स्वरूपगुणवैभवैः ॥ ६०-२ ॥
प्राधान्येन भगवदिच्छाशक्तिभूतलक्ष्मीस्वरूपरूपगुण-
विभवादिप्रतिपादकत्वम्
विश्वास-प्रस्तुतिः - ६०-३
यत्र सा शक्तिसङ्ख्याता विष्णोस्तद्धर्मधर्मिणी ।
शीतरश्मेरिव ज्योत्स्ना भावाभावानुगामिनी ॥ ६०-३ ॥
मूलम् - ६०-३
यत्र सा शक्तिसङ्ख्याता विष्णोस्तद्धर्मधर्मिणी ।
शीतरश्मेरिव ज्योत्स्ना भावाभावानुगामिनी ॥ ६०-३ ॥
अनन्या चान्यरूपा च ज्ञानानन्दक्रियामयी ।
[[६०८]]
महाविभूतिसंस्थाना निर्विकारा निरञ्जना ॥ ६०-४ ॥
विश्वास-प्रस्तुतिः - ६०-५
निःसक्तासक्तसन्मत्रा पूर्णा रिक्ता ऋतम्भरा ।
प्रत्यस्तमितभेदा सा समुन्मीलितभेदिनी ॥ ६०-५ ॥
मूलम् - ६०-५
निःसक्तासक्तसन्मत्रा पूर्णा रिक्ता ऋतम्भरा ।
प्रत्यस्तमितभेदा सा समुन्मीलितभेदिनी ॥ ६०-५ ॥
विश्वास-प्रस्तुतिः - ६०-६
षडध्वविषयातीता षडध्वविषयात्मिका ।
निमेषोन्मेषरूपा सा भावाभावस्वलक्षणा ॥ ६०-६ ॥
मूलम् - ६०-६
षडध्वविषयातीता षडध्वविषयात्मिका ।
निमेषोन्मेषरूपा सा भावाभावस्वलक्षणा ॥ ६०-६ ॥
विश्वास-प्रस्तुतिः - ६०-७
चिन्त्यते यत्र सा लक्ष्मीः स्वरूपगुणवैभवैः ।
भाव्यभावकरूपा सा शक्तिः शक्तिद्वयाभिधा ॥ ६०-७ ॥
मूलम् - ६०-७
चिन्त्यते यत्र सा लक्ष्मीः स्वरूपगुणवैभवैः ।
भाव्यभावकरूपा सा शक्तिः शक्तिद्वयाभिधा ॥ ६०-७ ॥
विश्वास-प्रस्तुतिः - ६०-८
चिन्त्यते यत्र विस्पष्टं स्वरूपगुणवैभवैः ।
शुद्धाशुधस्वरूपा सा विष्णुशक्तिर्जगन्मयी ॥ ६०-८ ॥
मूलम् - ६०-८
चिन्त्यते यत्र विस्पष्टं स्वरूपगुणवैभवैः ।
शुद्धाशुधस्वरूपा सा विष्णुशक्तिर्जगन्मयी ॥ ६०-८ ॥
भूतिर्विचिन्त्यते यत्र भाव्यका यत्र वर्तते ।
तथा प्राधान्येन
भगवत्क्रियाशक्तिभूतसुदर्शनस्वरूपादिप्रतिपादकत्वम्
उत्प्रेक्षारूपिणी शक्तिः सुदर्शनपराह्वया ॥ ६०-९ ॥
विश्वास-प्रस्तुतिः - ६०-१०
सा पङ्कजा जगद्धातुर्भाविका यत्र चिन्त्यते ।
यत्र कारणरूपत्वं क्रियाशक्तेर्विचिन्त्यते ॥ ६०-१० ॥
मूलम् - ६०-१०
सा पङ्कजा जगद्धातुर्भाविका यत्र चिन्त्यते ।
यत्र कारणरूपत्वं क्रियाशक्तेर्विचिन्त्यते ॥ ६०-१० ॥
विश्वास-प्रस्तुतिः - ६०-११
साकारताकारता च शुद्धाशुद्धविभेदिता ।
चिन्त्यते यत्र विस्पष्टं विष्णुशक्तेः क्रियात्मनः ॥ ६०-११ ॥
मूलम् - ६०-११
साकारताकारता च शुद्धाशुद्धविभेदिता ।
चिन्त्यते यत्र विस्पष्टं विष्णुशक्तेः क्रियात्मनः ॥ ६०-११ ॥
विश्वास-प्रस्तुतिः - ६०-१२
प्रमाणरूपता यत्र त्रिविधा परिचिन्त्यते ।
मर्यादास्त्रौघशस्त्रौघशास्त्रौघपरिभेदिता ॥ ६०-१२ ॥
मूलम् - ६०-१२
प्रमाणरूपता यत्र त्रिविधा परिचिन्त्यते ।
मर्यादास्त्रौघशस्त्रौघशास्त्रौघपरिभेदिता ॥ ६०-१२ ॥
पुरुषार्थात्मता शक्तेस्तथा तदधिकारिता ।
[[६०९]]
जगद्रक्षणरूपत्वं मन्त्रयन्त्रास्त्रविस्तृतम् ॥ ६०-१३ ॥
विश्वास-प्रस्तुतिः - ६०-१४
इति सौदर्शनं रूपं निष्कलं यत्र चिन्त्यते ।
नानाव्यूहसमुद्भेदं नानासंस्थानशोभितम् ॥ ६०-१४ ॥
मूलम् - ६०-१४
इति सौदर्शनं रूपं निष्कलं यत्र चिन्त्यते ।
नानाव्यूहसमुद्भेदं नानासंस्थानशोभितम् ॥ ६०-१४ ॥
विश्वास-प्रस्तुतिः - ६०-१५
चिन्त्यते सकलं रूपं यत्र सौदर्शनं महत् ।
जगद्रक्षणविध्वंससृजिशालि महोदयम् ॥ ६०-१५ ॥
मूलम् - ६०-१५
चिन्त्यते सकलं रूपं यत्र सौदर्शनं महत् ।
जगद्रक्षणविध्वंससृजिशालि महोदयम् ॥ ६०-१५ ॥
विश्वास-प्रस्तुतिः - ६०-१६
सुदर्शनाङ्गसम्भूतमस्त्रजातमशेषतः ।
स्वरूपशब्दविक्रान्तैर्निपुणं यत्र चिन्त्यते ॥ ६०-१६ ॥
मूलम् - ६०-१६
सुदर्शनाङ्गसम्भूतमस्त्रजातमशेषतः ।
स्वरूपशब्दविक्रान्तैर्निपुणं यत्र चिन्त्यते ॥ ६०-१६ ॥
साङ्ख्ययोगाद्यर्थप्रतिपादकत्वरूपवैभवान्तरसूचनम्
विश्वास-प्रस्तुतिः - ६०-१७
साङ्ख्ययोगविधिर्यत्र कार्त्स्न्येन परिचिन्त्यते ।
विविधा मन्त्रयोगाश्च मन्त्राश्च विधयोऽखिलाः ॥ ६०-१७ ॥
मूलम् - ६०-१७
साङ्ख्ययोगविधिर्यत्र कार्त्स्न्येन परिचिन्त्यते ।
विविधा मन्त्रयोगाश्च मन्त्राश्च विधयोऽखिलाः ॥ ६०-१७ ॥
विश्वास-प्रस्तुतिः - ६०-१८
नानासामर्थ्यभेदाश्च सेतिहासप्रविस्तराः ।
आत्मन्यासविधिश्चैव विधीनामुत्तमो विधिः ॥ ६०-१८ ॥
मूलम् - ६०-१८
नानासामर्थ्यभेदाश्च सेतिहासप्रविस्तराः ।
आत्मन्यासविधिश्चैव विधीनामुत्तमो विधिः ॥ ६०-१८ ॥
विश्वास-प्रस्तुतिः - ६०-१९
मन्त्रार्था विविधाश्चैव स्थूलसूक्ष्मपरात्मकाः ।
चिन्त्यन्ते यत्र विस्पष्टं विष्णुसङ्कल्पजृम्भिताः ॥ ६०-१९ ॥
मूलम् - ६०-१९
मन्त्रार्था विविधाश्चैव स्थूलसूक्ष्मपरात्मकाः ।
चिन्त्यन्ते यत्र विस्पष्टं विष्णुसङ्कल्पजृम्भिताः ॥ ६०-१९ ॥
एतच्छास्त्राधिकारिनिरूपणम्
विश्वास-प्रस्तुतिः - ६०-२०
तदेतदुपशान्तेन शान्तेन गुरुसेविना ।
अध्येयं तन्त्रसाराख्यमाहिर्बुध्न्यं हि शासनम् ॥ ६०-२० ॥
मूलम् - ६०-२०
तदेतदुपशान्तेन शान्तेन गुरुसेविना ।
अध्येयं तन्त्रसाराख्यमाहिर्बुध्न्यं हि शासनम् ॥ ६०-२० ॥
अनधिकारिनिर्देशपूर्वकं तेभ्यः शास्त्रप्रदाननिषेधः
नाश्रोत्रियाय नाज्ञाय नाप्रातःस्नायिने तथा ।
[[६१०]]
न शठाय न दृप्ताय न कूटविधिसेविने ॥ ६०-२१ ॥
विश्वास-प्रस्तुतिः - ६०-२२
नानन्तेवासिने चैव नासंवत्सरवासिने ।
नैव देयं कृतघ्नाय नासूयानलशायिने ॥ ६०-२२ ॥
मूलम् - ६०-२२
नानन्तेवासिने चैव नासंवत्सरवासिने ।
नैव देयं कृतघ्नाय नासूयानलशायिने ॥ ६०-२२ ॥
योग्याधिकारिनिर्देशपूर्वकं तेभ्यः शास्त्रप्रदानाभ्यनुज्ञा
विश्वास-प्रस्तुतिः - ६०-२३
सुपुत्राय सुशिष्याय सर्वस्वप्राणदायिने ।
गुह्यगोपनशीलाय शास्त्रार्थस्थापकाय च ॥ ६०-२३ ॥
मूलम् - ६०-२३
सुपुत्राय सुशिष्याय सर्वस्वप्राणदायिने ।
गुह्यगोपनशीलाय शास्त्रार्थस्थापकाय च ॥ ६०-२३ ॥
ऊहापोहसुदक्षाय
मन्त्रवत् संस्कृताय च ।
देयमेतत् त्रिवर्णाय
नित्यमध्यात्मशालिने ॥ ६०-२४ ॥
शास्त्रवैभवनिगमनम्
षष्ट्यध्यायैः समुद्दिष्टा
संहिता सेयमुत्तमा ।
यां ज्ञात्वा पुरुषः शश्वत्
सर्वज्ञत्वमवाप्नुयात् ॥ ६०-२५ ॥
परा च मध्यमा चैव ये
हि ते संहिते स्मृते ।
तदर्थः सकलोऽप्यत्र
सङ्क्षेपेण प्रदर्शितः ॥ ६०-२६ ॥
[[६११]]
ग्रन्थसमापनम्
विश्वास-प्रस्तुतिः - ६०-२७
नमः शिवाय शान्ताय नारदाय महर्षये ।
नमः सुदर्शनायाथ विष्णोः सङ्कल्परूपिणे ॥ ६०-२७ ॥
मूलम् - ६०-२७
नमः शिवाय शान्ताय नारदाय महर्षये ।
नमः सुदर्शनायाथ विष्णोः सङ्कल्परूपिणे ॥ ६०-२७ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
शास्त्रवैभवनिरूपणं नाम षष्टितमोऽध्यायः ॥ ६० ॥
आदितः श्लोकाः ३८८०
समाप्ता चेयमहिर्बुध्न्यसंहिता
इति श्रीकौशिकापरपर्यायश्रीमद्बालधन्विकुलावतंसश्रीमन्नृसिंहार्यतनयस्य श्रीशेषार्यवंशमुक्ताफलश्रीमत्पाटरार्यतनूभवश्रीवेङ्कटार्यचरणयुगलसेवासमुज्जृम्-
भितवेदान्तद्वयतत्त्ववैशद्यस्य वाधूलवंशकलशोदधिपूर्णचन्द्रतर्कतीर्थपण्डितरत्नश्रीमत्कस्तूरिरङ्गनाथार्यकृपासमुत्तीर्णसाहितीधर्मशास्त्रपूर्वमीमांसादिपारावारस्य श्रीदेवशिखामणेः रामानुजार्यस्य कृतिषु सिद्धाञ्जनं
नाम अहिर्बुध्न्यसंहिता-विषयविवेचनं
समाप्तम् ।
जिज्ञासन्ते तु ये तत्त्वमहिर्बुध्न्यार्थगोचरम् ।
नियतं तेऽभिवीक्षन्तां सिद्धाञ्जनमिदं मुहुः ॥
सिद्धाञ्जानमिदं भूयाद् विदुषां मोदवृद्धये ।
प्रीयतां तेन भगवान् वासुदेवः श्रिय पतिः ॥