पुरुषसूक्तश्रीसूक्तवाराहमन्त्रार्थनिरूपणम् नाम
एकोनषष्टितमोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
ब्रह्मचक्रान्तर्गतसम्भारादिमन्त्रार्थानिरूपणे कारणनिरूपणम्
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ५९-१
सम्भारा देवपत्न्यश्च दक्षिणा हृदयानि च ।
रुद्रा ब्रह्माणि चेत्येतन्निगदेन निरूप्यते (१) ॥ ५९-१ ॥
मूलम् - ५९-१
सम्भारा देवपत्न्यश्च दक्षिणा हृदयानि च ।
रुद्रा ब्रह्माणि चेत्येतन्निगदेन निरूप्यते (१) ॥ ५९-१ ॥
१ अतीतेनाध्यायेन होतृवर्गः सग्रहो व्याख्यातः । अथ
सम्भारादीनां व्याख्यानमवसरप्राप्तम् । तथापि निपुणधियां
निगदेनैव तदर्थबोधसम्भवाद् ग्रन्थविस्तरभयाच्च तेषां नेह
व्याख्यानं प्रस्तूयत इति प्रथमश्लोकाभिप्रायः ।
सम्भारादिपदार्थस्वरूपमात्रमिहास्माभिः बुभुत्सुजनसौकर्याय
प्रदर्श्यते । तथा हि- सम्भारादीनि षट् पदानि मन्त्रविशेषवाचकानि ।
तत्रैकविंशतिवाक्यात्मकः अग्निर्यजुर्भिः इत्ययं
तैत्तिरीयारण्यकतृतीयप्रपाठकस्याष्टमोऽनुवाकः
सम्भारयजुरित्युच्यते; यज्ञाङ्गत्वेन सम्भरणीयानां
यजुःस्तोमदीनां तस्मिन्ननुवाके समाम्नानात् ।
षड्विंशतिवाक्यात्मकः सेनेन्द्रस्य इत्ययं नवमोऽनुवाको
देवपत्न्याख्यः; ऊक् च सूनृता च देवानां पत्नयः इति
मन्त्रलिङ्गोपसंहारदर्शनात् । एकोनपञ्चाशद्वाक्यात्मकः देवस्य
त्वा सवितुः प्रसवे इत्ययं दशमोऽनुवाको दक्षिणाप्रतिग्रहमन्त्रः
राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यम् इत्यादिमन्त्रलिङ्गात् ।
हृदयशब्देन पञ्चहोतृहृदयाख्यो मन्त्रगणो विवक्षितः । स
चाष्टाविंशत्युत्तरशतवाक्यात्मकः सुवर्णं धर्मं परिवेद
वेनम् इत्ययमेकादशोऽनुवाकः । हृदयशब्दविवक्षितरहस्यार्थप्रति-
पादकत्वादस्यानुवाकस्य हृदयशब्दबोध्यत्वम् । चित्तिः स्रुक्
इत्यादीनां हि होतृमन्त्राणां पञ्चानां हृदयं रहस्यं तत्त्वं
परमात्मस्वरूपमनेनानुवाकेन विस्पष्टं विस्पष्टं प्रतिपाद्यते ।
अत एवायमनुवाको भागपञ्चकात्मकः । तत्र सुवर्णं धर्मं
इत्यादिः स मानसीन आत्मा जनानाम् इत्यन्तश्चतुर्दशवाक्यात्मकः
प्रथमोभागः चित्तिः स्रुक् इत्यादिदशहोतृहृदयभूतपरमात्म-
तत्त्वप्रकाशकः । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् इत्यादिः कवयो
निचिक्युः इत्यन्तो द्वादशवाक्यात्मको द्वितीयो भागः पृथिवी होता
इत्यादिचतुर्होतृमन्त्रहृदयभूतपरमपुरुषप्रतिपादकः । शतं
नियुतः इत्यादिः तेन कॢप्तोऽमृतेनाहमस्मि इत्यन्तो द्वादशवाक्यात्मक-
स्तृतीयो भागः अग्निर्होता इत्यादिपञ्चहोतृमन्त्रहृदयभूतभग-
वत्स्वरूपप्रतिपादकः । सुवर्णं कोशं इत्यादिः शतधा चरन्तम्
इत्यन्तो द्वादशवाक्यात्मकश्चतुर्थो भागः वाग्घोता इत्यादि-
षड्ढोतृमन्त्रहृदयभूतपरमपुरुषस्वरूपविशेषप्रतिपादकः ।
इन्द्रो राजा जगतो य ईशे इत्यादिरनुवाकसमाप्त्यन्तोऽष्टसप्ततिवाक्यात्-
मकः पञ्चमो भागः महाहविर्होता इत्यादिसप्तहोतृमन्त्रहृदय-
भूतस्य श्रियः पत्युर्भगवतः स्वरूपविशेषप्रतिपादकः । एकेनैव
भागेन भगवत्स्वरूपप्रतिपादने भगान्तरेण पुनस्तत्प्रतिपादनवै-
यर्थ्याशङ्का तूत्तरोत्तरभागस्य पूर्वपूर्वभागाप्रतिपन्नगुण-
विशेषविशिष्टभगवत्स्वरूपप्रतिपादनपरत्वान्निराकर्तव्या । तदेवं
समस्तोऽयमनुवाको हृदयशब्देन विवक्षितः । रुद्राः शतरुद्रीय-
सञ्ज्ञका मन्त्राः । ते च तैत्तिरीयसंहितायाश्चतुर्थकाण्डस्य
पञ्चमप्रपाठके नमस्ते रुद्र इत्यादिषु तं वो जम्भे दधामि
इत्यन्तेष्वेकादशस्वनुवाकेषु समाम्नाताः । ब्रह्माणि- ब्रह्मलिङ्ग-
कानि सूक्तानि ब्रह्म जज्ञानं इत्यादीनि तैत्तिरीयब्राह्मणद्वितीयाष्ट-
कस्याष्टमप्रपाठकेऽष्टमानुवाके प्रसिद्धानि ।
[[५९६]]
पुरुषसूक्तश्रीसूक्तयोरर्थं निरूपयितुं जगद्धिताय
परमपुरुषाल्लक्ष्म्याश्च तयोराविर्भावकथनम्
विश्वास-प्रस्तुतिः - ५९-२
सूक्तं तु पौरुषं पुंसः परस्मादुत्थितं पुरा ।
जगद्धिताय लक्ष्म्याश्च श्रीसूक्तं तत् समुद्गतम् ॥ ५९-२ ॥
मूलम् - ५९-२
सूक्तं तु पौरुषं पुंसः परस्मादुत्थितं पुरा ।
जगद्धिताय लक्ष्म्याश्च श्रीसूक्तं तत् समुद्गतम् ॥ ५९-२ ॥
पुरुषसूक्तस्य ऋक्सङ्ख्यायां मतभेदप्रदर्शनम्
विश्वास-प्रस्तुतिः - ५९-३
नानाभेदप्रपाठं तत् पौरुषं सूक्तमुच्यते ।
ऋचश्चतस्रः केचित्तु पञ्च षट् सप्त चापरे ॥ ५९-३ ॥
मूलम् - ५९-३
नानाभेदप्रपाठं तत् पौरुषं सूक्तमुच्यते ।
ऋचश्चतस्रः केचित्तु पञ्च षट् सप्त चापरे ॥ ५९-३ ॥
[[५९७]]
विश्वास-प्रस्तुतिः - ५९-४
ऋचः षोडश चाप्यन्ये तथाष्टादश चापरे ।
अधीयते तु पुंसूक्तं प्रतिशाखं तु भेदतः ॥ ५९-४ ॥
मूलम् - ५९-४
ऋचः षोडश चाप्यन्ये तथाष्टादश चापरे ।
अधीयते तु पुंसूक्तं प्रतिशाखं तु भेदतः ॥ ५९-४ ॥
पुरुषसूक्तप्रतिपाद्यप्रमेयप्रदर्शनम्
विश्वास-प्रस्तुतिः - ५९-५
समस्तजगदुत्पत्तिहेतुः स्वर्गापवर्गदः ।
पौरुषो मानुषो यज्ञः सूक्तेऽस्मिन् प्रतिपाद्यते ॥ ५९-५ ॥
मूलम् - ५९-५
समस्तजगदुत्पत्तिहेतुः स्वर्गापवर्गदः ।
पौरुषो मानुषो यज्ञः सूक्तेऽस्मिन् प्रतिपाद्यते ॥ ५९-५ ॥
आद्यानां चतसृणामृचां
वासुदेवादिचातुरात्म्यस्वरूपविवेचकत्वम्
तत्राद्याभिश्चतसृभिश्चातुरात्म्यं विविच्यते ।
तत्राद्यमन्त्रस्य
लक्ष्मीपतित्वपरिष्कृतवासुदेवाख्यप्रथमव्यूहप्रतिपादकत्वम्
यः परः पुण्डरीकाक्षः परमात्मा सनातनः ॥ ५९-६ ॥
विश्वास-प्रस्तुतिः - ५९-७
या च सा जगतां योनिर्लक्ष्मीस्तद्धर्मधर्मिणी ।
भगवान् वासुदेवोऽसावाद्यया प्रतिपाद्यते ॥ ५९-७ ॥
मूलम् - ५९-७
या च सा जगतां योनिर्लक्ष्मीस्तद्धर्मधर्मिणी ।
भगवान् वासुदेवोऽसावाद्यया प्रतिपाद्यते ॥ ५९-७ ॥
मन्त्रस्य प्रतिपदमर्थं वर्णयितुं सहस्रशीर्षशब्दस्य श्रियः
पतित्वपरत्वप्रदर्शनम्
विश्वास-प्रस्तुतिः - ५९-८
सहस्रा सहगा यस्य सहभावमुपेयुषी ।
श्रीर्नाम परमा शक्तिः पूर्णषाड्गुण्यविग्रहा ॥ ५९-८ ॥
मूलम् - ५९-८
सहस्रा सहगा यस्य सहभावमुपेयुषी ।
श्रीर्नाम परमा शक्तिः पूर्णषाड्गुण्यविग्रहा ॥ ५९-८ ॥
विश्वास-प्रस्तुतिः - ५९-९
निःसक्तासक्तको यश्च नित्यं सन् सकलाश्रयः ।
सहस्रशीऋस इत्येवं भगवान् परिगीयते ॥ ५९-९ ॥
मूलम् - ५९-९
निःसक्तासक्तको यश्च नित्यं सन् सकलाश्रयः ।
सहस्रशीऋस इत्येवं भगवान् परिगीयते ॥ ५९-९ ॥
पुरुषशब्दस्यावाप्तसमस्तकामत्वपरत्वम्
पूर्णत्वात् पुरुषो नित्यं पृणातेः पूरणार्थकात् ।
[[५९८]]
सहस्राक्षशब्दस्य
सहस्रत्वगुणविशिष्टबद्धात्मवैशिष्ट्यपरत्वम्
अश्नोतेरथवाश्नातेरक्षोऽजेरञ्चतेरुत ॥ ५९-१० ॥
अक्षः पुरुष उद्दिष्टो यः प्रकृत्याश्रितो विभुः ।
सहस्रपाच्छब्दस्य सहस्रत्वगुणविशिष्टप्रकृतिवैशिष्ट्यपरत्वम्
पद्यतेः परिणामार्थात् पादित्येष निरुच्यते ॥ ५९-११ ॥
पादिति प्रकृतिः प्रोक्ता सा नित्यपरिणामिनी ।
प्रकृतिपुरुषयोः सहस्रशब्दप्रवृत्तिनिमित्तप्रदर्शनम्
षण्णां गुणानां मध्ये या शक्तिः सा हस्र उच्यते ॥ ५९-१२ ॥
विश्वास-प्रस्तुतिः - ५९-१३
प्रधानपुरुषौ तस्याः सृतौ सर्गे सनातनौ ।
तामेवापि श्रितावन्ते तौ सहस्रावतः स्मृतौ ॥ ५९-१३ ॥
मूलम् - ५९-१३
प्रधानपुरुषौ तस्याः सृतौ सर्गे सनातनौ ।
तामेवापि श्रितावन्ते तौ सहस्रावतः स्मृतौ ॥ ५९-१३ ॥
वासुदेवस्य प्रकृतिपुरुषवैशिष्ट्यनिगमनम्
सहस्रपुरुषाव्यक्तः सहस्राक्षः सहस्रपात् ।
उत्तरार्धस्य तात्पर्यार्थनिरूपणमुखेन
कारणगतापरिच्छिन्नत्वगुणपरत्वप्रदर्शनम्
स भूमिं विश्वतो वृत्वेत्येतेनैव निरूप्यते ॥ ५९-१४ ॥
विश्वास-प्रस्तुतिः - ५९-१५
यदतीत्य सृतं विश्वं नानासत्तात्मनः स्थितिः ।
कार्ये हि कारणेयत्ता पयसो दधिसम्भवे ॥ ५९-१५ ॥
मूलम् - ५९-१५
यदतीत्य सृतं विश्वं नानासत्तात्मनः स्थितिः ।
कार्ये हि कारणेयत्ता पयसो दधिसम्भवे ॥ ५९-१५ ॥
विश्वास-प्रस्तुतिः - ५९-१६
कार्यं सत्सन्ततौ क्वापि कार्येयत्तैव कारणे ।
मधूच्छिष्टमये पिण्डे यथाकारवियोगिनी ॥ ५९-१६ ॥
मूलम् - ५९-१६
कार्यं सत्सन्ततौ क्वापि कार्येयत्तैव कारणे ।
मधूच्छिष्टमये पिण्डे यथाकारवियोगिनी ॥ ५९-१६ ॥
नैवं भगवतः सर्गे प्रतिसर्गेऽपि वा सति ।
[[५९९]]
कार्येयत्तात्वमस्तीति स भूमिमिति वर्ण्यते ॥ ५९-१७ ॥
विश्वास-प्रस्तुतिः - ५९-१८
भगवत्यार्जितानीति शुद्धाशुद्धमयानि च ।
भूमिं जगदुपादानं भूमिशक्तिरिहोच्यते ॥ ५९-१८ ॥
मूलम् - ५९-१८
भगवत्यार्जितानीति शुद्धाशुद्धमयानि च ।
भूमिं जगदुपादानं भूमिशक्तिरिहोच्यते ॥ ५९-१८ ॥
विश्वास-प्रस्तुतिः - ५९-१९
शुद्धाशुद्धविभागो यः कालपुम्प्रकृतिस्थितिः ।
स भूमिं विश्वतो वृत्वा विष्टभ्य स्वेन तेजसा ॥ ५९-१९ ॥
मूलम् - ५९-१९
शुद्धाशुद्धविभागो यः कालपुम्प्रकृतिस्थितिः ।
स भूमिं विश्वतो वृत्वा विष्टभ्य स्वेन तेजसा ॥ ५९-१९ ॥
विश्वास-प्रस्तुतिः - ५९-२०
स्वसङ्कल्पस्वरूपेण प्रभवाप्ययवेलयोः ।
अत्यतिष्टिअदतीत्यैव स्थितो भूयो दशाङ्गुलम् ॥ ५९-२० ॥
मूलम् - ५९-२०
स्वसङ्कल्पस्वरूपेण प्रभवाप्ययवेलयोः ।
अत्यतिष्टिअदतीत्यैव स्थितो भूयो दशाङ्गुलम् ॥ ५९-२० ॥
दशाङ्गुलिभिरानन्त्यं कारणस्योपदिश्यते ।
द्वितीयमन्त्रस्य सङ्कर्षणाख्यद्वितीयव्यूहपरत्वप्रतिपादनम्
अथ सङ्कर्षणावस्था जगद्धेतुर्निरूप्यते ॥ ५९-२१ ॥
विश्वास-प्रस्तुतिः - ५९-२२
यदिदं दृश्यते विश्वं भूतभव्यात्मरूपकम् ।
इदं पुरुष एवादौ सिसृक्षायामभूत् किल ॥ ५९-२२ ॥
मूलम् - ५९-२२
यदिदं दृश्यते विश्वं भूतभव्यात्मरूपकम् ।
इदं पुरुष एवादौ सिसृक्षायामभूत् किल ॥ ५९-२२ ॥
मन्त्रगतस्य पुरुषशब्दस्य सङ्कर्षणपरत्वोपपादनम्
विश्वास-प्रस्तुतिः - ५९-२३
पुरुषः स्यन्दति व्यक्तं सम्यग्विज्ञानयोजनात् ।
अतः पुरुष इत्येवं सङ्कर्षण उदीर्यते ॥ ५९-२३ ॥
मूलम् - ५९-२३
पुरुषः स्यन्दति व्यक्तं सम्यग्विज्ञानयोजनात् ।
अतः पुरुष इत्येवं सङ्कर्षण उदीर्यते ॥ ५९-२३ ॥
उत्तरार्धेन सङ्कर्षणस्य
ज्ञानोपदेष्ट्टत्वनिबन्धनमोक्षप्रदत्वप्रतिपादनम्
विश्वास-प्रस्तुतिः - ५९-२४
तिलकालकवद् विश्वं बिभ्रच्चिदचिदात्मकम् ।
सङ्कर्षण उदेति स्म स एवं पुनरुच्यते ॥ ५९-२४ ॥
मूलम् - ५९-२४
तिलकालकवद् विश्वं बिभ्रच्चिदचिदात्मकम् ।
सङ्कर्षण उदेति स्म स एवं पुनरुच्यते ॥ ५९-२४ ॥
विश्वास-प्रस्तुतिः - ५९-२५
उतामृतत्वस्येशान इति तस्यार्थ उच्यते ।
अन्नेन भोग्यभूतेन प्रकृतिप्राकृतात्मना ॥ ५९-२५ ॥
मूलम् - ५९-२५
उतामृतत्वस्येशान इति तस्यार्थ उच्यते ।
अन्नेन भोग्यभूतेन प्रकृतिप्राकृतात्मना ॥ ५९-२५ ॥
[[६००]]
विश्वास-प्रस्तुतिः - ५९-२६
कालसङ्कलितेनैव नानाकारविधाजुषा ।
अचिदंशेन जीवात्मा यश्चिदंशोऽधिरोहति ॥ ५९-२६ ॥
मूलम् - ५९-२६
कालसङ्कलितेनैव नानाकारविधाजुषा ।
अचिदंशेन जीवात्मा यश्चिदंशोऽधिरोहति ॥ ५९-२६ ॥
विश्वास-प्रस्तुतिः - ५९-२७
स्वस्यासम्बन्धपूर्वं यः पूर्वसङ्गवशादिह ।
तस्य सद्गुणसंसर्गान्नानाबन्धक्षये सति ॥ ५९-२७ ॥
मूलम् - ५९-२७
स्वस्यासम्बन्धपूर्वं यः पूर्वसङ्गवशादिह ।
तस्य सद्गुणसंसर्गान्नानाबन्धक्षये सति ॥ ५९-२७ ॥
विश्वास-प्रस्तुतिः - ५९-२८
अमृतत्वं स्वरूपाविर्भावमोक्षापराह्वयम् ।
तस्य सङ्कर्षणो देव ईशानो ज्ञानदेशनात् ॥ ५९-२८ ॥
मूलम् - ५९-२८
अमृतत्वं स्वरूपाविर्भावमोक्षापराह्वयम् ।
तस्य सङ्कर्षणो देव ईशानो ज्ञानदेशनात् ॥ ५९-२८ ॥
तृतीयमन्त्रस्य प्रद्युम्नाख्यतृतीयव्यूहपरत्वप्रतिपादनम्
विश्वास-प्रस्तुतिः - ५९-२९
संसारानलसन्तप्तचेतनानुजिघृक्षया ।
सङ्कर्षणोदयो विष्णुरुच्यतेऽथ तृतीयया ॥ ५९-२९ ॥
मूलम् - ५९-२९
संसारानलसन्तप्तचेतनानुजिघृक्षया ।
सङ्कर्षणोदयो विष्णुरुच्यतेऽथ तृतीयया ॥ ५९-२९ ॥
विश्वास-प्रस्तुतिः - ५९-३०
एतावानस्य महिमा विष्णोः सङ्कर्षणात्मनः ।
यदयं धृतवान् विश्वं समुन्मीलनमादिमम् ॥ ५९-३० ॥
मूलम् - ५९-३०
एतावानस्य महिमा विष्णोः सङ्कर्षणात्मनः ।
यदयं धृतवान् विश्वं समुन्मीलनमादिमम् ॥ ५९-३० ॥
ज्यायानतोऽपि पुरुषः प्रद्युम्न उपकारतः ।
मन्त्रगतेन पुरुषशब्देन प्रद्युम्नस्य ज्यायस्त्वोपपादनम्
पुरू प्रकृतिपुंरूपौ पुरुषः सृजतीति यत् ॥ ५९-३१ ॥
विश्वोपकारचेष्टाभिर्ज्यायस्त्वं तस्य वर्ण्यते ।
चतुर्थमन्त्रस्यानिरुद्धाख्यचतुर्थव्यूहपरत्वप्रतिपादनम्
ऋचा तुरीयया सूक्ते त्रिपादूर्ध्व उदैदिति ॥ ५९-३२ ॥
देवोऽपरिमितेहः सन्ननिरुद्धो निरूप्यते ।
मन्त्रगतस्य पुरुषशब्दस्यानिरुद्धपरत्वोपपादनम्
पुरा सीदति कार्याणि कारयन् प्राणिनोऽखिलान् ॥ ५९-३३ ॥
[[६०१]]
विश्वास-प्रस्तुतिः - ५९-३४
फलानि पुरुषेभ्यश्च सनोति क्रिययार्चितः ।
ततः पुरुष इत्येवमनिरुद्धोऽभिधीयते ॥ ५९-३४ ॥
मूलम् - ५९-३४
फलानि पुरुषेभ्यश्च सनोति क्रिययार्चितः ।
ततः पुरुष इत्येवमनिरुद्धोऽभिधीयते ॥ ५९-३४ ॥
विश्वास-प्रस्तुतिः - ५९-३५
पुरि सन् सन् पुरीवायं पुरादूर्ध्वमुदैत् परात् ।
तदवस्थेन नाघ्रातमित्यर्थोऽयमिहोच्यते ॥ ५९-३५ ॥
मूलम् - ५९-३५
पुरि सन् सन् पुरीवायं पुरादूर्ध्वमुदैत् परात् ।
तदवस्थेन नाघ्रातमित्यर्थोऽयमिहोच्यते ॥ ५९-३५ ॥
विश्वास-प्रस्तुतिः - ५९-३६
पादोऽस्यैकाम्श एवेह चेतनाचेतनात्मकः ।
अन्तर्यामितया व्याप्तिस्तत्तन्नियमनेच्छया ॥ ५९-३६ ॥
मूलम् - ५९-३६
पादोऽस्यैकाम्श एवेह चेतनाचेतनात्मकः ।
अन्तर्यामितया व्याप्तिस्तत्तन्नियमनेच्छया ॥ ५९-३६ ॥
विश्वास-प्रस्तुतिः - ५९-३७
एतदेव व्यनक्तीह ततो विष्वङ्ङिति त्वृचा ।
विष्वक् समन्ततो भूत्वा व्यक्रामत् प्राविशद् बहु ॥ ५९-३७ ॥
मूलम् - ५९-३७
एतदेव व्यनक्तीह ततो विष्वङ्ङिति त्वृचा ।
विष्वक् समन्ततो भूत्वा व्यक्रामत् प्राविशद् बहु ॥ ५९-३७ ॥
विश्वास-प्रस्तुतिः - ५९-३८
साशनानशने प्रोक्ते चेतनाचेतने उभे ।
तस्माद् विराडिति प्रोक्ता विराड् विद्या पराह्वया ॥ ५९-३८ ॥
मूलम् - ५९-३८
साशनानशने प्रोक्ते चेतनाचेतने उभे ।
तस्माद् विराडिति प्रोक्ता विराड् विद्या पराह्वया ॥ ५९-३८ ॥
हिरण्यगर्भो विश्वात्मा स पूरुष इहोच्यते ।
अवशिष्टानां चतुर्दशमन्त्राणामर्थस्य लोकतो
ज्ञेयत्वकथनपूर्वकं पुरुषसूक्तार्थनिगमनम्
शेषं तु लोकतः सिद्धमित्ययं सूक्त ईदृशः ॥ ५९-३९ ॥
तन्त्रान्तरे विस्तरेण निरूपितस्य श्रीसूक्तार्थस्यातिसङ्क्षेपेण सूचनम्
विश्वास-प्रस्तुतिः - ५९-४०
हिरण्यवर्णां श्रीसूक्तं कृतोऽन्यत्रास्य विस्तरः ।
वर्णो वरयते रूपं वर्णो वर उदीरितः ॥ ५९-४० ॥
मूलम् - ५९-४०
हिरण्यवर्णां श्रीसूक्तं कृतोऽन्यत्रास्य विस्तरः ।
वर्णो वरयते रूपं वर्णो वर उदीरितः ॥ ५९-४० ॥
हितश्च रमणीयश्च यस्या वर्ण इति स्थितिः ।
[[६०२]]
हिरण्यवर्णा सा देवी श्रीशक्तिः परमामृता ॥ ५९-४१ ॥
विश्वास-प्रस्तुतिः - ५९-४२
तदेतत् सूक्तमित्युक्तं मिथुनं परचिह्नितम् ।
आदावन्योन्यमिश्रत्वादन्योन्यप्रतिपादकम् ॥ ५९-४२ ॥
मूलम् - ५९-४२
तदेतत् सूक्तमित्युक्तं मिथुनं परचिह्नितम् ।
आदावन्योन्यमिश्रत्वादन्योन्यप्रतिपादकम् ॥ ५९-४२ ॥
नियमपूर्वकं यथोक्तसूक्तद्वयनिष्ठस्य मोक्षप्राप्तिः फलम्
विश्वास-प्रस्तुतिः - ५९-४३
नियतो नियताहारो निरतो नियतेन्द्रियः ।
भजन् सूक्तद्वयं याति तद्विष्णोः परमं पदम् ॥ ५९-४३ ॥
मूलम् - ५९-४३
नियतो नियताहारो निरतो नियतेन्द्रियः ।
भजन् सूक्तद्वयं याति तद्विष्णोः परमं पदम् ॥ ५९-४३ ॥
वराहमन्त्रे स्थूलार्थस्य लोकतो ज्ञेयत्वकथनम्
विश्वास-प्रस्तुतिः - ५९-४४
वाराहो नाम यो मन्त्रो ह्यत्यनुष्टुबितीरितः ।
तस्य सांसर्गिकी मुद्रा विदिता लोकतस्तव ॥ ५९-४४ ॥
मूलम् - ५९-४४
वाराहो नाम यो मन्त्रो ह्यत्यनुष्टुबितीरितः ।
तस्य सांसर्गिकी मुद्रा विदिता लोकतस्तव ॥ ५९-४४ ॥
तस्यैव सङ्क्षेपतः सूक्ष्मार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५९-४५
अस्य प्रतिपदार्थो यो मत्तस्तं त्वं निशामय ।
वराहादावभिव्यक्तं यस्य रूपं सनातनम् ॥ ५९-४५ ॥
मूलम् - ५९-४५
अस्य प्रतिपदार्थो यो मत्तस्तं त्वं निशामय ।
वराहादावभिव्यक्तं यस्य रूपं सनातनम् ॥ ५९-४५ ॥
विश्वास-प्रस्तुतिः - ५९-४६
वराहरूपो भगवान् वसुधाहरणोद्यतः ।
संसारो रात्रिरुद्दिष्टो मोक्षो वरमहः स्मृतः ॥ ५९-४६ ॥
मूलम् - ५९-४६
वराहरूपो भगवान् वसुधाहरणोद्यतः ।
संसारो रात्रिरुद्दिष्टो मोक्षो वरमहः स्मृतः ॥ ५९-४६ ॥
वराहरूप उद्दिष्टो वरस्याह्नो निरूपणात् ।
तस्यैव परार्थनिरूपणम्
अशेषभुवनाधारो गोपनश्चैव सर्वदा ॥ ५९-४७ ॥
प्रज्ञानामपि चाधारो रक्षोदैत्यदवानलः ।
[[६०३]]
पवित्रः सर्वलोकानामप्रमेयः सनातनः ॥ ५९-४८ ॥
विश्वास-प्रस्तुतिः - ५९-४९
परमात्मा वराहोऽभूदित्थं स पर ईरितः ।
दिगियं दर्शिता सम्यगेषा मन्त्रान्तरे गतिः ॥ ५९-४९ ॥
मूलम् - ५९-४९
परमात्मा वराहोऽभूदित्थं स पर ईरितः ।
दिगियं दर्शिता सम्यगेषा मन्त्रान्तरे गतिः ॥ ५९-४९ ॥
न्यायेनानेन मन्त्राणां गतिं पिण्डं निरूपय ।
शास्त्रार्थमुपसंहर्तुं सङ्क्षेपतः सुदर्शनगतिनिरूपणम्
भूयश्च शृणु सङ्क्षेपात् सुदर्शनगतिं प्रति ॥ ५९-५० ॥
विश्वास-प्रस्तुतिः - ५९-५१
निमिषच्चोन्मिषच्चैव चरं चाचरमेव च ।
दिव्यं च प्राकृतं चैव सूक्ष्मं च स्थूलमेव च ॥ ५९-५१ ॥
मूलम् - ५९-५१
निमिषच्चोन्मिषच्चैव चरं चाचरमेव च ।
दिव्यं च प्राकृतं चैव सूक्ष्मं च स्थूलमेव च ॥ ५९-५१ ॥
विश्वास-प्रस्तुतिः - ५९-५२
ह्रस्वं दीर्घं च यत् किञ्चिदीशितव्यमथेश्वरम् ।
विज्ञानं यदविज्ञानं सुखं वा यदि वासुखम् ॥ ५९-५२ ॥
मूलम् - ५९-५२
ह्रस्वं दीर्घं च यत् किञ्चिदीशितव्यमथेश्वरम् ।
विज्ञानं यदविज्ञानं सुखं वा यदि वासुखम् ॥ ५९-५२ ॥
विश्वास-प्रस्तुतिः - ५९-५३
इति द्वन्द्वपदाद्यैर्यद् वस्तु किञ्चिद् विकल्प्यते ।
सुदर्शनसमुन्मेषं तत्तद् विद्धि मुनीश्वर ॥ ५९-५३ ॥
मूलम् - ५९-५३
इति द्वन्द्वपदाद्यैर्यद् वस्तु किञ्चिद् विकल्प्यते ।
सुदर्शनसमुन्मेषं तत्तद् विद्धि मुनीश्वर ॥ ५९-५३ ॥
शास्त्रार्थसङ्क्षेपः
विश्वास-प्रस्तुतिः - ५९-५४
लेशतो भगवानुक्तः स्वरूपगुणवैभवैः ।
तद्धर्मधर्मिणी शक्तिस्तस्य तत्त्वेन वर्णिता ॥ ५९-५४ ॥
मूलम् - ५९-५४
लेशतो भगवानुक्तः स्वरूपगुणवैभवैः ।
तद्धर्मधर्मिणी शक्तिस्तस्य तत्त्वेन वर्णिता ॥ ५९-५४ ॥
विश्वास-प्रस्तुतिः - ५९-५५
तस्या अत्यल्प उन्मेषो भूतिर्भाव्या त ईरिता ।
शुद्धाशुद्धमयी व्यक्तिस्तस्यास्तत्त्वेन वर्णिता ॥ ५९-५५ ॥
मूलम् - ५९-५५
तस्या अत्यल्प उन्मेषो भूतिर्भाव्या त ईरिता ।
शुद्धाशुद्धमयी व्यक्तिस्तस्यास्तत्त्वेन वर्णिता ॥ ५९-५५ ॥
विश्वास-प्रस्तुतिः - ५९-५६
भावकश्चापि शक्त्यंशः सङ्कल्पो वैष्णवः परः ।
रूपतो वर्णितः सम्यक् सुदर्शनपराह्वयः ॥ ५९-५६ ॥
मूलम् - ५९-५६
भावकश्चापि शक्त्यंशः सङ्कल्पो वैष्णवः परः ।
रूपतो वर्णितः सम्यक् सुदर्शनपराह्वयः ॥ ५९-५६ ॥
देशकालादिका व्याप्तिस्तस्य तत्त्वेन वर्णिता ।
[[६०४]]
प्राणक्रिया बलं तेजः सङ्कल्पो वैष्णवं यशः ॥ ५९-५७ ॥
विश्वास-प्रस्तुतिः - ५९-५८
सुदर्शनं परोद्योगः प्राणो विष्णुसमुद्यमः ।
अव्याहतो महायोगो योगात्मा योगभावनः ॥ ५९-५८ ॥
मूलम् - ५९-५८
सुदर्शनं परोद्योगः प्राणो विष्णुसमुद्यमः ।
अव्याहतो महायोगो योगात्मा योगभावनः ॥ ५९-५८ ॥
विश्वास-प्रस्तुतिः - ५९-५९
इत्यादिभिर्महाशब्दैस्तत्तदर्णविगाहिभिः ।
क्रियाशक्तिः परा विष्णोः शास्त्रे शास्त्रे निगद्यते ॥ ५९-५९ ॥
मूलम् - ५९-५९
इत्यादिभिर्महाशब्दैस्तत्तदर्णविगाहिभिः ।
क्रियाशक्तिः परा विष्णोः शास्त्रे शास्त्रे निगद्यते ॥ ५९-५९ ॥
विश्वास-प्रस्तुतिः - ५९-६०
यथा कारणतां याति यथैवाधारतामपि ।
यथा प्रमाणतां याति यथा याति तदर्थताम् ॥ ५९-६० ॥
मूलम् - ५९-६०
यथा कारणतां याति यथैवाधारतामपि ।
यथा प्रमाणतां याति यथा याति तदर्थताम् ॥ ५९-६० ॥
विश्वास-प्रस्तुतिः - ५९-६१
यथा याति विधायाभिस्तत्तदर्थाधिकारिताम् ।
निष्कलेन स्वरूपेण यथा दिव्योऽभवद्विधिः ॥ ५९-६१ ॥
मूलम् - ५९-६१
यथा याति विधायाभिस्तत्तदर्थाधिकारिताम् ।
निष्कलेन स्वरूपेण यथा दिव्योऽभवद्विधिः ॥ ५९-६१ ॥
विश्वास-प्रस्तुतिः - ५९-६२
यथा च मध्यमं रूपं यन्त्रं तदुभयात्मकम् ।
सकलं यच्च तद्रूपं शस्त्रास्त्रमयमुज्ज्वलम् ॥ ५९-६२ ॥
मूलम् - ५९-६२
यथा च मध्यमं रूपं यन्त्रं तदुभयात्मकम् ।
सकलं यच्च तद्रूपं शस्त्रास्त्रमयमुज्ज्वलम् ॥ ५९-६२ ॥
विश्वास-प्रस्तुतिः - ५९-६३
दिव्याः सौदर्शना व्यूहा वैश्वरूप्यं च तन्महत् ।
राज्ञोऽपि विजयः सर्वो रोदसीविजयस्तथा ॥ ५९-६३ ॥
मूलम् - ५९-६३
दिव्याः सौदर्शना व्यूहा वैश्वरूप्यं च तन्महत् ।
राज्ञोऽपि विजयः सर्वो रोदसीविजयस्तथा ॥ ५९-६३ ॥
विश्वास-प्रस्तुतिः - ५९-६४
कृत्स्नो योगविधिश्चैव न्यासयोगविधिस्तथा ।
नानोपद्रवशान्तिश्च व्यवस्था योगगोचरा ॥ ५९-६४ ॥
मूलम् - ५९-६४
कृत्स्नो योगविधिश्चैव न्यासयोगविधिस्तथा ।
नानोपद्रवशान्तिश्च व्यवस्था योगगोचरा ॥ ५९-६४ ॥
विश्वास-प्रस्तुतिः - ५९-६५
ब्रह्मास्त्रादिस्वरूपं च तत्तन्मन्त्रविधिस्तथा ।
महाभिषेचनविधिरस्त्रयोगविधिस्तथा ॥ ५९-६५ ॥
मूलम् - ५९-६५
ब्रह्मास्त्रादिस्वरूपं च तत्तन्मन्त्रविधिस्तथा ।
महाभिषेचनविधिरस्त्रयोगविधिस्तथा ॥ ५९-६५ ॥
विश्वास-प्रस्तुतिः - ५९-६६
ध्वजादिमन्त्रयोगाश्च सेतिहासविनिश्चयाः ।
स्थूलसूक्ष्मपरात्मानो दिव्यमन्त्रविनिश्चयाः ॥ ५९-६६ ॥
मूलम् - ५९-६६
ध्वजादिमन्त्रयोगाश्च सेतिहासविनिश्चयाः ।
स्थूलसूक्ष्मपरात्मानो दिव्यमन्त्रविनिश्चयाः ॥ ५९-६६ ॥
इति ते निखिलेनार्था दर्शितास्ते मुनीश्वर ।
[[६०५]]
निधाय हृदये तत्त्वं स्वस्थो भव निरामयः ॥ ५९-६७ ॥
विश्वास-प्रस्तुतिः - ५९-६८
व्याकृताः संशयाः सर्वे नारदर्षे मनःस्थिताः ।
करामलकवच्चैव दिव्या सौदर्शनी गतिः ॥ ५९-६८ ॥
मूलम् - ५९-६८
व्याकृताः संशयाः सर्वे नारदर्षे मनःस्थिताः ।
करामलकवच्चैव दिव्या सौदर्शनी गतिः ॥ ५९-६८ ॥
विश्वास-प्रस्तुतिः - ५९-६९
आदर्शनस्वरूपेण गुणैः सफलवैभवैः ।
संहितेयं समाख्याता नानाशास्त्रावगाहिनी ॥ ५९-६९ ॥
मूलम् - ५९-६९
आदर्शनस्वरूपेण गुणैः सफलवैभवैः ।
संहितेयं समाख्याता नानाशास्त्रावगाहिनी ॥ ५९-६९ ॥
एतत्संहितोपदेशानर्हजनपरिगणनम्
विश्वास-प्रस्तुतिः - ५९-७०
पञ्चरात्रमयी दिव्या साङ्ख्ययोगादिसम्मिता ।
संहितेयं महागुह्या नानामन्त्रमयी परा ॥ ५९-७० ॥
मूलम् - ५९-७०
पञ्चरात्रमयी दिव्या साङ्ख्ययोगादिसम्मिता ।
संहितेयं महागुह्या नानामन्त्रमयी परा ॥ ५९-७० ॥
विश्वास-प्रस्तुतिः - ५९-७१
नावासुदेवभक्ताय त्वया देया कथञ्चन ।
नास्तिके भिन्नमर्यादे कृतघ्नेऽनृतवादके ॥ ५९-७१ ॥
मूलम् - ५९-७१
नावासुदेवभक्ताय त्वया देया कथञ्चन ।
नास्तिके भिन्नमर्यादे कृतघ्नेऽनृतवादके ॥ ५९-७१ ॥
विश्वास-प्रस्तुतिः - ५९-७२
निःस्वाध्यायवषट्कारे देवब्राह्मणदूषके ।
ब्रह्मचर्यव्रतभ्रष्टे पञ्चयज्ञपराङ्मुखे ॥ ५९-७२ ॥
मूलम् - ५९-७२
निःस्वाध्यायवषट्कारे देवब्राह्मणदूषके ।
ब्रह्मचर्यव्रतभ्रष्टे पञ्चयज्ञपराङ्मुखे ॥ ५९-७२ ॥
दूषणेऽपि च वेदानां ब्राह्मणे मन्त्रवर्जिते ।
योग्याधिकारिपरिगणनम्
वेदविद्याव्रतस्नाते श्रोत्रिये गृहमेधिनि ॥ ५९-७३ ॥
विश्वास-प्रस्तुतिः - ५९-७४
ब्रह्मचारिणि वा सम्यग् गुरुस्वाध्यायतत्परे ।
वनस्थे वा व्रतोपेते भिक्षौ वा तत्त्ववित्परे ॥ ५९-७४ ॥
मूलम् - ५९-७४
ब्रह्मचारिणि वा सम्यग् गुरुस्वाध्यायतत्परे ।
वनस्थे वा व्रतोपेते भिक्षौ वा तत्त्ववित्परे ॥ ५९-७४ ॥
विश्वास-प्रस्तुतिः - ५९-७५
कर्मणा मनसा वाचा भक्ते देवे जनार्दने ।
पञ्चरात्रप्रिये नित्यं वेदविद्यासुनिष्ठिते ॥ ५९-७५ ॥
मूलम् - ५९-७५
कर्मणा मनसा वाचा भक्ते देवे जनार्दने ।
पञ्चरात्रप्रिये नित्यं वेदविद्यासुनिष्ठिते ॥ ५९-७५ ॥
वक्तव्येयं परा विद्या सर्ववेदान्तबृंहणी ।
[[६०६]]
मङ्गलाचरणव्याजेन
शास्त्रप्रमेयसारानुवादपूर्वकं शास्त्रसमापनम्
विश्वास-प्रस्तुतिः - ५९-७६
समस्तजगदुत्पत्तिस्थितिसंहारहेतवे ।
सुदर्शनाभिधानायै नमः शक्त्यै क्रियात्मने ॥ ५९-७६ ॥
मूलम् - ५९-७६
समस्तजगदुत्पत्तिस्थितिसंहारहेतवे ।
सुदर्शनाभिधानायै नमः शक्त्यै क्रियात्मने ॥ ५९-७६ ॥
नारदः –
विश्वास-प्रस्तुतिः - ५९-७७
अज्ञानतिमिरध्वंसभास्करायादिवेधसे ।
शिवङ्कराय भूतानां नमः शान्ताय तेजसे ॥ ५९-७७ ॥
मूलम् - ५९-७७
अज्ञानतिमिरध्वंसभास्करायादिवेधसे ।
शिवङ्कराय भूतानां नमः शान्ताय तेजसे ॥ ५९-७७ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
पुरुषसूक्तश्रीसूक्तवाराहमन्त्रार्थनिरूपणं नाम
एकोनषष्टितमोऽध्यायः ॥ ५९ ॥
आदितः श्लोकाः ३८५३