पञ्चहोतृमन्त्रार्थनिरूपणं नाम अष्टपञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
अहिर्बुध्न्यः –
(१) दशहोता चतुर्होता पञ्चहोता तथैव च ।
षड्ढोता सप्तहोता च पञ्च होतार ईरिताः ॥ ५८-१ ॥
१ अत्रेदमवधेयम्- त्रयोविंशेऽध्याये
शतारज्योतिश्चक्रनिरूपणानन्तरं ब्रह्मचक्रं निरूपितम् ।
तत्रातीतेनाध्यायेन ज्योतिश्चक्रमन्त्राणामर्थ उपवर्णिते
क्रमप्राप्तं ब्रह्मचक्रमन्त्रार्थवर्णनमिह प्रस्तूयते । तत्र
ब्रह्मचक्रे बहवो मन्त्रा गर्भिताः- सग्रहाः पञ्चहोतारः,
सम्भाराः, देवपत्न्यः, दक्षिणाः, हृदयानि, शतरुद्राणि,
इत्येवमादयः ।
तत्र तैत्तिरीयारण्यकस्य तृतीयप्रपाठके चित्तिः स्रुक् इत्यारभ्य
समाम्नाता आद्याः पञ्चानुवाकाः क्रमेण दशहोत्रादिभिः
पञ्चभिः शब्दैर्विवक्षिताः,; तेषु यथाक्रमं
दशत्वादिसङ्ख्याविशिष्टानां होमसाधनानामभिधानात् ।
वाग्घोता इति षष्ठोऽनुवाकस्त्वपरः षड्ढोता । यद्यपि सूर्यं ते
चक्षुः इति चतुर्थानुवाके होमसाधनानि न प्रतिपाद्यन्ते, तथापीतरेषु
चतुर्ष्वपि तत्प्रतिपादनात् सृष्टिन्यायेन बाहुल्यात् तथा व्यवहारः । अत
एवोक्तं कविभिरपि- एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः
किरणेष्विवाङ्कः इति । त एते दशहोत्रादयः पञ्चापि
चतुर्होतृनामभ्यामभिधीयन्ते । यत्रैतौ शब्दावेकवचनान्तौ, तत्र
मुख्यवृत्त्या यथोक्तद्वितीयतृतीयानुवाकमात्रोपस्थापकौ । यत्र तु
बहुवचनान्तौ, तत्र लिङ्गसमवायन्यायेन गौण्या वृत्त्या
दशहोत्रादिसमुदायोपस्थापकौ । यथा चैवं सति तेनैव न्यायेन
दशहोतृषड्ढोतृसप्तहोतृशब्दानामपि समुदायोपस्थाकत्वापत्तौ
तेषां तदभावः, चतुर्होतृपञ्चहोतृशब्दयोरेव तद्बोधकत्वम्, तथा
तैत्तिरीयब्राह्मणस्य द्वितीयाषट्के द्वितीयतृतीयपाठकयोः
प्रपञ्चितं तत एव सुगमम् । तथा तेषामेव मन्त्राणां
जगत्सृष्टिहेतुत्वादिना बहुमुखं प्राशस्त्यादिकम्,
तत्तत्फलसाधनत्वेन तेषां विनियोगभेदादिकं च तत्रैव
प्रपञ्चितमिति नेह प्रतन्यते । तत्रैते मन्त्राः प्रत्येकं
भागत्रयात्मकाः- होमसाधनप्रतिपादकः पूर्वो भागः उत्तरस्तु
स्वाहाकारवियुक्तो ग्रहभागः स्वाहाकारस्तु तृतीयो भाग इति । तत्र
पञ्चदशवाक्यात्मके चित्तिः स्रुक् इतिप्रथमानुवाके दश वाक्यानि
पूर्वो भागः । उत्तराणि ग्रहभागः । अन्ते स्वाहाकारः ।
दशवाक्यात्मके पृथिवी होता इति द्वितीयानुवाके
वाक्यचतुष्टयात्मकाः पूर्वो भागः । तदन्यो ग्रहः । अन्ते
स्वाहाकारः । वाक्याष्टकात्मके अग्निर्होता इति तृतीयानुवाके अर्धं
पूर्वो भागः । अर्धं ग्रहः । अन्ते स्वाहाकारः । नववाक्यात्मके
सूर्यं ते चक्षुः इति चतुर्थानुवाके वाक्यषट्कं पूर्वो भागः । उत्तरो
ग्रहः । अन्ते स्वाहाकारः । त्रयोदशवाक्यात्मके महाहविर्होता इति
पञ्चमानुवाकेऽपि वाक्यषट्कमित्यादिः पूर्ववद्विभागः ।
षष्ठोऽनुवाकश्चतुर्थानुवाकेन तुल्यः ।
सर्वेष्वेतेषु मन्त्रेषूत्तरभागे ग्रहशब्दप्रवृत्तिनिमितं तु
तैत्तिरीयब्राह्मणद्वितीयाष्टकद्वितीयप्रपाठकस्य प्रथमानुवाके
प्रजापतिरकामयत प्रजाः सृजेयेति । स एतं दशहोतारमपश्यत् । तं
मनसानुद्रुत्य दर्भस्तम्बेऽजुहोत् । ततो वै स प्रजा असृजत । ता अस्मात्
सृष्टा अपाक्रामम् । ता ग्रहेणागृह्णात् । तद्ग्रहस्य ग्रहत्वम् । इति
निरूपितम् । तत्रायमर्थः- पुरा कदाचित् प्रजापतिः प्रजासृष्टिं
कामयमानस्तदुपायं वेदेषु परीक्ष्य दशहोत्राख्यं मन्त्रं
साक्षात्कृतवान् । तं च मनसोच्चार्य कुत्रचिद् दर्भस्तम्ब आज्येन जुहाव
। ततो होमसामर्थ्यात् कामिताः प्रजाः ससर्ज । सृष्टास्ताः प्रजा
अनुरागरहिता अस्मात् प्रजापतेरपसस्रुः । स च
प्रजापतिर्यथोक्तग्रहभागपठनलब्धसामर्थ्योऽपक्रान्ताः प्रजाः
पुनरगृह्णात् । ततः प्रजाग्रहणसाधनत्वात् ग्रहस्य ग्रहत्वं
निष्पन्नमिति । तदिदं दशहोतृमन्त्रान्तर्गते ग्रहभागे ग्रहशब्दस्य
प्रवृत्तिनिमित्तम् । उत्तरेषु चतुर्ष्वनुवाकेषु तन्निमित्तं तु यथाक्रमं
दर्शपूर्णमासचातुर्मास्यपशुबन्धज्योतिष्टोमग्रहणसाधनत्व-
मिति तत्रैव द्वितीयानुवाके प्रपञ्चितं बोध्यम् ।
तदेवं चतुर्होतृपञ्चहोत्रन्यतरशब्दविवक्षितानामेषां
मन्त्राणामापस्तम्बेन प्रयोगव्यवस्था प्रदर्शिता- त इमे चतुर्होतारो
यत्र होमार्थाः सग्रहाः सस्वाहाकारास्तत्र प्रयुज्येरन्,
यत्राहोमार्थाः अग्रहा अस्वाहाकाराः इत्यादिना । तदत्र
ब्रह्मचक्रयन्त्राङ्गत्वेन त्रयोविंशे विनियुक्तानामेषां
मन्त्राणामहोमार्थत्वेन ग्रहभागरहितानामेव यन्त्राङ्गत्वे
प्राप्ते अस्माच्चक्राद्बहिः पञ्च होतारः सग्रहाः स्मृताः इति तत्रैव
ग्रहभागस्य प्रतिप्रसवः कृत इति ग्रहसहितानामेवैषां यन्त्रलेखने
विनियोग इति तेषां मन्त्राणामर्थनिरूपणायाष्टपञ्चाशोऽध्याय
आरभ्यत इति ।
[[५८४]]
विश्वास-प्रस्तुतिः - ५८-२
विश्वं सिसृक्षतो विष्णोर्यत् तज्ज्ञानमयं तपः ।
होतृभिः क्रतुरूपेण स सङ्कल्पो निरूप्यते ॥ ५८-२ ॥
मूलम् - ५८-२
विश्वं सिसृक्षतो विष्णोर्यत् तज्ज्ञानमयं तपः ।
होतृभिः क्रतुरूपेण स सङ्कल्पो निरूप्यते ॥ ५८-२ ॥
[[५८५]]
विश्वास-प्रस्तुतिः - ५८-३
अद्याप्यवदधानोऽयं योगी तत्तन्निरूपणम् ।
तांस्तान्निर्वर्तयत्येव क्रतून् ज्ञानमयाञ्छुभान् ॥ ५८-३ ॥
मूलम् - ५८-३
अद्याप्यवदधानोऽयं योगी तत्तन्निरूपणम् ।
तांस्तान्निर्वर्तयत्येव क्रतून् ज्ञानमयाञ्छुभान् ॥ ५८-३ ॥
दशहोत्रादिपदविवक्षितमन्त्रविशेषसूचनम्
(१) चित्तिः स्रुग्दशहोतायमग्निहोत्रस्य कारणम् ।
पृथिवीत्यादिको होता चतुर्होता निगद्यते ॥ ५८-४ ॥
(२) दर्शस्य पूर्णमासस्य निदानं स द्वयोरपि ।
(३) अग्निर्होता पञ्चहोता चातुर्मास्योद्भवस्तु सः ॥ ५८-५ ॥
(४) सूर्यं ते स च गाग्घोता पशुबन्धस्य कारणम् ।
षड्ढोताराविमौ वेदे निर्णीतौ मुनिसत्तमैः ॥ ५८-६ ॥
(५) (महाहविः सप्तहोता ज्योतिष्टोमस्य कारणम् ।)
१ दशहोतृमन्त्रस्याग्निहोत्रकारणत्वे प्रमाणं तु
तेनैवोद्द्रुत्याग्निहोत्रं जुहुयात् । प्रजातमेवैनज्जुहोति
(तैत्तिरीयब्राह्मणे, २। २। १।) इतीयं श्रुतिः ।
२ चतुर्होतृमन्त्रस्य दर्शपूर्णमासकारणत्वे प्रमाणं तु
प्रजापतिरकामयत दर्शपूर्णमासौ सृजेयेति । स एतं
चतुर्होतारमपश्यत् । तं मनसानुद्रुत्याहवनीयेऽजुहोत् । ततो वै स
दर्शपूर्णमासावसृजत (तैत्तिरीयब्राह्मणे, २। २। १।) इतीयं श्रुतिः ।
३ एवमत्रापि सोऽकामयत चातुर्मास्यानि सृजेयेति । स एतं
पञ्चहोतारमपश्यत् । तं मनसानुद्रुत्याहवनीयेऽजुहोत् । ततो वै स
चातुर्मास्यान्यसृजत इतीयं श्रुतिस्तत्रैवाम्नाता
प्रमाणत्वेनानुसन्धेया ।
४ तथात्रापि सोऽकामयत पशुबन्ध।सृजेयेति । स
एत।षड्ढोतारमपश्यत् । तं मनसानुद्रुत्याहवनीयेऽजुहोत् । ततो वै स
पशुबन्धमसृजत इतीयं श्रुतिस्तत्रैवोदाहृता बोध्या ।
५ इदमर्धं सर्वमातृकाकोशेष्वनुपलभ्यमानमपि स्वयमनुमाय
सन्निवेशितमत्र; इतरथा न्यूनत्वप्रसङ्गात् । सप्तहोतृमन्त्रस्य
ज्योतिष्टोमकारणत्वे प्रमाणं च सोऽकामयत सौम्यमध्वर।सृजेयेति ।
स एत।सप्तहोतारमपश्यत् । तं मनसानुद्रुत्याहवनीयेऽजुहोत् । ततो वै
सौम्यमध्वरमसृजत इतीयं श्रुतिर्बोध्या ।
[[५८६]]
अथोक्तानां मन्त्राणामर्थवर्णनप्रतिज्ञा
अथार्थो दशहोत्रादेर्वर्ण्यते शृणु नारद ॥ ५८-७ ॥
प्रथमं दशहोतृमन्त्रार्थनिरूपणे चित्त्यादिपदार्थप्रदर्शनम्
विश्वास-प्रस्तुतिः - ५८-८
चित्तिर्नाम स्मृता बुद्धिर्व्यवसायस्य कारणम् ।
अहङ्कारस्तु चित्तं स्यादभिमानस्य कारणम् ॥ ५८-८ ॥
मूलम् - ५८-८
चित्तिर्नाम स्मृता बुद्धिर्व्यवसायस्य कारणम् ।
अहङ्कारस्तु चित्तं स्यादभिमानस्य कारणम् ॥ ५८-८ ॥
विश्वास-प्रस्तुतिः - ५८-९
मनो नामेन्द्रियं हेतुः स सङ्कल्पविकल्पयोः ।
वाङ् नाम व्याहृता वाणी एवमस्त्वितिरूपिणी ॥ ५८-९ ॥
मूलम् - ५८-९
मनो नामेन्द्रियं हेतुः स सङ्कल्पविकल्पयोः ।
वाङ् नाम व्याहृता वाणी एवमस्त्वितिरूपिणी ॥ ५८-९ ॥
विश्वास-प्रस्तुतिः - ५८-१०
आधीतं नाम वागृत्तिर्यदध्ययनमुच्यते ।
केतो ज्ञानमिति प्रोक्तमुच्चार्यस्यावधारणम् ॥ ५८-१० ॥
मूलम् - ५८-१०
आधीतं नाम वागृत्तिर्यदध्ययनमुच्यते ।
केतो ज्ञानमिति प्रोक्तमुच्चार्यस्यावधारणम् ॥ ५८-१० ॥
विश्वास-प्रस्तुतिः - ५८-११
विज्ञातं यत् तदुच्चार्यमवधारणगोचरम् ।
यत् तद्वागिन्द्रियं प्रोक्तं तद्व्यङ्ग्या या सरस्वती ॥ ५८-११ ॥
मूलम् - ५८-११
विज्ञातं यत् तदुच्चार्यमवधारणगोचरम् ।
यत् तद्वागिन्द्रियं प्रोक्तं तद्व्यङ्ग्या या सरस्वती ॥ ५८-११ ॥
विश्वास-प्रस्तुतिः - ५८-१२
सा वाक् तां सुब्रुवन् पाति यः स वाक्यपतिरुच्यते ।
उच्चारणप्रवृत्तेर्यः प्रयत्नो हेतुरुच्यते ॥ ५८-१२ ॥
मूलम् - ५८-१२
सा वाक् तां सुब्रुवन् पाति यः स वाक्यपतिरुच्यते ।
उच्चारणप्रवृत्तेर्यः प्रयत्नो हेतुरुच्यते ॥ ५८-१२ ॥
स प्राणः साम तत् प्रोक्तं यदुच्चारणसौष्ठवम् ।
दशहोत्रादिसमाख्यानिमित्तप्रदर्शनम्
दशहोत्रादिहोत्राख्या यागोपकरणाभिधा ॥ ५८-१३ ॥
क्रियाभूतिविभेदेन भगवच्छक्तेर्द्वैविध्यम्
विश्वास-प्रस्तुतिः - ५८-१४
एकान्तिनो जगद्विष्णोः कुर्वतः शक्तिशालिनः ।
या शक्तिर्वैष्णवी देवी सर्वभावानुगामिनी ॥ ५८-१४ ॥
मूलम् - ५८-१४
एकान्तिनो जगद्विष्णोः कुर्वतः शक्तिशालिनः ।
या शक्तिर्वैष्णवी देवी सर्वभावानुगामिनी ॥ ५८-१४ ॥
[[५८७]]
विश्वास-प्रस्तुतिः - ५८-१५
तदेकांशः क्रिया नाम कृत्योपकरणं हरेः ।
तदेकांशो विभूत्याख्यो लक्ष्यतेऽत्र जगत्तथा ॥ ५८-१५ ॥
मूलम् - ५८-१५
तदेकांशः क्रिया नाम कृत्योपकरणं हरेः ।
तदेकांशो विभूत्याख्यो लक्ष्यतेऽत्र जगत्तथा ॥ ५८-१५ ॥
क्रियायाः सङ्कल्परूपत्वं कृत्योपकरणत्वं च
सङ्कल्पः प्रोच्यते विष्णोः कृत्योपकरणं क्रिया ।
सङ्कल्पस्य च निश्चयात्मकमित्यादिरूपत्वम्
एवमस्त्विति वाक्यान्तो मित्यादिः स च कथ्यते ॥ ५८-१६ ॥
विश्वास-प्रस्तुतिः - ५८-१७
बुद्ध्यहङ्कारमनसां वृत्तिः शब्दे विवक्ष्यते ।
त्रिरूपा मिति रुद्दिष्टा ते स्तब्धो——त्र शब्दितम् ॥ ५८-१७ ॥
मूलम् - ५८-१७
बुद्ध्यहङ्कारमनसां वृत्तिः शब्दे विवक्ष्यते ।
त्रिरूपा मिति रुद्दिष्टा ते स्तब्धो——त्र शब्दितम् ॥ ५८-१७ ॥
चित्त्यादिवाक्योक्तस्रुगादिपदार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५८-१८
बुद्ध्यादिमितिपर्यन्तं वृत्तिमट्वृत्तिरूपकम् ।
यज्ञे जगद्विधानाख्ये वितते हरिमेधसः ॥ ५८-१८ ॥
मूलम् - ५८-१८
बुद्ध्यादिमितिपर्यन्तं वृत्तिमट्वृत्तिरूपकम् ।
यज्ञे जगद्विधानाख्ये वितते हरिमेधसः ॥ ५८-१८ ॥
विश्वास-प्रस्तुतिः - ५८-१९
स्रुक्तयाज्यतया चोपवक्तृत्वेनाग्निभावतः ।
उपवक्ता स्मृतो ब्रह्मानुज्ञा प्रवचनं स्मृतम् ॥ ५८-१९ ॥
मूलम् - ५८-१९
स्रुक्तयाज्यतया चोपवक्तृत्वेनाग्निभावतः ।
उपवक्ता स्मृतो ब्रह्मानुज्ञा प्रवचनं स्मृतम् ॥ ५८-१९ ॥
विश्वास-प्रस्तुतिः - ५८-२०
उच्चार्यत्वेन विज्ञातः शब्दोऽग्निरिति कथ्यते ।
उच्चारणं यदाधीतं तद्बर्हिरिति गीयते ॥ ५८-२० ॥
मूलम् - ५८-२०
उच्चार्यत्वेन विज्ञातः शब्दोऽग्निरिति कथ्यते ।
उच्चारणं यदाधीतं तद्बर्हिरिति गीयते ॥ ५८-२० ॥
तस्य हेतुः प्रयत्नो यः प्राणः स हविरुच्यते ।
[[५८८]]
वाग् व्याहृता तु वेदिः स्याद्धर्ता होतेति गीयते ॥ ५८-२१ ॥
उच्चारणस्य साम्यं यत् साम सोऽध्वर्युरुच्यते ।
यथोक्तस्य जगद्विधानाख्यस्य वैष्णवयज्ञस्य ज्ञेयत्वविधिः
इत्थं जगद्विधानाख्यो दशोपकरणान्वितः ॥ ५८-२२ ॥
विश्वास-प्रस्तुतिः - ५८-२३
यो यज्ञो वैष्णवो वृत्तस्तमद्यत्वे विचिन्तयेत् ।
वाक्यं समुच्चरन् किञ्चिल्लौकिकं वैदिकं तु वा ॥ ५८-२३ ॥
मूलम् - ५८-२३
यो यज्ञो वैष्णवो वृत्तस्तमद्यत्वे विचिन्तयेत् ।
वाक्यं समुच्चरन् किञ्चिल्लौकिकं वैदिकं तु वा ॥ ५८-२३ ॥
वैष्णवं भावमासाद्य मन्त्रं चेमं विचिन्तयेत् ।
तात्पर्यार्थनिरूपणमुखेन
ग्रहभागस्यात्महविःसमर्पणपरत्वस्फुटीकरणम्
वाचस्पते विधे नामन्निति तस्यार्थ उच्यते ॥ ५८-२४ ॥
विश्वास-प्रस्तुतिः - ५८-२५
वाङ् नाम वैष्णवी शक्तिः शब्दब्रह्ममयी परा ।
वाचस्पतिस्तत्पतिः स्याद् विदधातीति वै विधिः ॥ ५८-२५ ॥
मूलम् - ५८-२५
वाङ् नाम वैष्णवी शक्तिः शब्दब्रह्ममयी परा ।
वाचस्पतिस्तत्पतिः स्याद् विदधातीति वै विधिः ॥ ५८-२५ ॥
विश्वास-प्रस्तुतिः - ५८-२६
नामयत्यखिलं स्वस्मिन्निति नामाग्निरुच्यते ।
विधेम भगवन्नाम प्रह्वीभावापराभिधम् ॥ ५८-२६ ॥
मूलम् - ५८-२६
नामयत्यखिलं स्वस्मिन्निति नामाग्निरुच्यते ।
विधेम भगवन्नाम प्रह्वीभावापराभिधम् ॥ ५८-२६ ॥
विश्वास-प्रस्तुतिः - ५८-२७
त्वं चास्माकं विधेः कुर्या नाम प्रवणचित्तताम् ।
एतदेव पुनर्वक्ति मुनिः स्वात्मसमर्पणम् ॥ ५८-२७ ॥
मूलम् - ५८-२७
त्वं चास्माकं विधेः कुर्या नाम प्रवणचित्तताम् ।
एतदेव पुनर्वक्ति मुनिः स्वात्मसमर्पणम् ॥ ५८-२७ ॥
भगवत एवात्महविःसमर्पणजन्यफलभागित्वनिरूपणम्
विश्वास-प्रस्तुतिः - ५८-२८
वाचस्पतिः स पूर्वोक्तः सोमं सोमरसोपमम् ।
पिबत्वात्मरसं स्वस्मै मया हुतमिवाध्वरे ॥ ५८-२८ ॥
मूलम् - ५८-२८
वाचस्पतिः स पूर्वोक्तः सोमं सोमरसोपमम् ।
पिबत्वात्मरसं स्वस्मै मया हुतमिवाध्वरे ॥ ५८-२८ ॥
[[५८९]]
स्वरूपनिरूपकशेषत्वपारतन्त्र्यानुगुणवृत्तिप्रार्थना
विश्वास-प्रस्तुतिः - ५८-२९
पीत्वा चास्मासु नृम्णं यत् स्वमाधादादधातु तत् ।
मननीयं नृभिर्नृम्णं तदनुग्रहरूपकम् ॥ ५८-२९ ॥
मूलम् - ५८-२९
पीत्वा चास्मासु नृम्णं यत् स्वमाधादादधातु तत् ।
मननीयं नृभिर्नृम्णं तदनुग्रहरूपकम् ॥ ५८-२९ ॥
आत्महविःसमर्पणस्य स्वार्थत्वशङ्काव्युदासः
स्वाहेति स्वात्मसन्न्यासः स्वाहुतं तद्भवेदिति ।
चतुर्होतृमन्त्रेऽपि पूर्वोक्तस्यैव यज्ञस्य भङ्ग्यन्तरेण
विवक्षितत्वनिरूपणम्
अयमेव च यज्ञोऽत्र चतुर्होतृतयेष्यते ॥ ५८-३० ॥
पृथिवीद्युरुद्रशब्दानां प्रकृतिपुरुषकालपरत्वप्रदर्शनम्
विश्वास-प्रस्तुतिः - ५८-३१
जगत्प्रथनरूपा सा पृथिवी प्रकृतिः स्मृता ।
पुरुषो द्यौरिति प्रोक्तो द्योतते स स्वया चिता ॥ ५८-३१ ॥
मूलम् - ५८-३१
जगत्प्रथनरूपा सा पृथिवी प्रकृतिः स्मृता ।
पुरुषो द्यौरिति प्रोक्तो द्योतते स स्वया चिता ॥ ५८-३१ ॥
विश्वास-प्रस्तुतिः - ५८-३२
रुणद्धि प्रलये तौ द्वौ स्रावयत्युदयेऽपि च ।
रुद्र इत्युदितः कालः संयोजकवियोजकः ॥ ५८-३२ ॥
मूलम् - ५८-३२
रुणद्धि प्रलये तौ द्वौ स्रावयत्युदयेऽपि च ।
रुद्र इत्युदितः कालः संयोजकवियोजकः ॥ ५८-३२ ॥
बृहस्पप्तिशब्दस्य श्रियः पतित्वपुरस्कारेण भगवत्परत्वम्
विश्वास-प्रस्तुतिः - ५८-३३
बृहत् सा शक्तिरुद्दिष्टा यतो बृंहयतेऽखिलम् ।
बृहस्पतिः पतिस्तस्या देवदेवो जनार्दनः ॥ ५८-३३ ॥
मूलम् - ५८-३३
बृहत् सा शक्तिरुद्दिष्टा यतो बृंहयतेऽखिलम् ।
बृहस्पतिः पतिस्तस्या देवदेवो जनार्दनः ॥ ५८-३३ ॥
ग्रहभागार्थनिरूपणे वाचोवीर्यशब्दस्य
भगवत्कर्तृकसृष्ट्युद्यमपरत्वप्रदर्शनम्
वाचो वीर्यं भवेत् प्राणो विष्णोः सृष्ट्युद्यमः परः ।
[[५९०]]
सम्भृततमशब्देन सृष्ट्युद्यमस्य
सर्वार्थविषयकत्वविवक्षा
तत्सम्भृततमं चैव सर्वार्थविषयत्वतः ॥ ५८-३४ ॥
पूर्वोक्तस्य प्राणस्यैवात्रापि हविष्ट्वविवक्षा
प्राणो हविरिति न्यायात् प्राणो हविरिहेष्यते ।
मन्त्रशेषस्य दास्यमहारसरूपसुखप्रार्थनापरत्वप्रदर्शनम्
आयक्ष्यसे पूज्यसेऽद्य यस्त्वं वाचस्पतिः स्वयम् ॥ ५८-३५ ॥
विश्वास-प्रस्तुतिः - ५८-३६
अतोऽस्मै यजमानाय वार्यं वर्यं सुवः सुखम् ।
आकस्त्वमाकुरुष्वाद्य सोमं पिबति पूर्ववत् ॥ ५८-३६ ॥
मूलम् - ५८-३६
अतोऽस्मै यजमानाय वार्यं वर्यं सुवः सुखम् ।
आकस्त्वमाकुरुष्वाद्य सोमं पिबति पूर्ववत् ॥ ५८-३६ ॥
मन्त्रचरमवक्यस्य प्रतिबन्धनिवृत्तिप्रार्थनापरत्वम्
विश्वास-प्रस्तुतिः - ५८-३७
इरां ददतमिन्द्रं मामिन्द्रियायाद्यशक्तये ।
ब्रह्माप्तिहेतुभूतायै स योग्यं जनयत्वजः ॥ ५८-३७ ॥
मूलम् - ५८-३७
इरां ददतमिन्द्रं मामिन्द्रियायाद्यशक्तये ।
ब्रह्माप्तिहेतुभूतायै स योग्यं जनयत्वजः ॥ ५८-३७ ॥
पञ्चहोतृमन्त्रार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५८-३८
चतुर्होतायमुद्दिष्टः पञ्चहोता निगद्यते ।
अग्निर्निरुदितः पूर्वं स होता परिगीयते ॥ ५८-३८ ॥
मूलम् - ५८-३८
चतुर्होतायमुद्दिष्टः पञ्चहोता निगद्यते ।
अग्निर्निरुदितः पूर्वं स होता परिगीयते ॥ ५८-३८ ॥
विश्वास-प्रस्तुतिः - ५८-३९
ज्ञानप्राणावश्विनौ द्वावश्नुवाते यतो जगत् ।
अध्वर्युः प्रतिप्रस्थाता द्वावध्वर्यू प्रकीर्तितौ ॥ ५८-३९ ॥
मूलम् - ५८-३९
ज्ञानप्राणावश्विनौ द्वावश्नुवाते यतो जगत् ।
अध्वर्युः प्रतिप्रस्थाता द्वावध्वर्यू प्रकीर्तितौ ॥ ५८-३९ ॥
विश्वास-प्रस्तुतिः - ५८-४०
त्वष्टा सङ्कल्प उद्दिष्टस्त्वष्ट्टकार्यं यतोऽखिलम् ।
मित्रो मैत्री समुद्दिष्टा करुणा हरिमेधसः ॥ ५८-४० ॥
मूलम् - ५८-४०
त्वष्टा सङ्कल्प उद्दिष्टस्त्वष्ट्टकार्यं यतोऽखिलम् ।
मित्रो मैत्री समुद्दिष्टा करुणा हरिमेधसः ॥ ५८-४० ॥
ग्रहभागस्यात्मयागसाधनत्वेन विनियोगः
[[५९१]]
सोम इत्यादिमन्त्रोऽयं यजने तस्य शिष्यते ।
तत्र षष्ठ्यन्तयोः प्रथमान्तयोश्च सोमशुक्रपदयोरर्थविवेकः
षष्ठ्यन्तौ सोमशुक्रौ द्वौ लतासाराभिधायिनौ ॥ ५८-४१ ॥
इतरावात्मवचनौ पुरोगा हेतुरुच्यते ।
प्रथमान्तसोमपदविवक्षितस्य जीवस्य षष्ठ्यन्तसोमपदविक्षितात्
लतासारादुत्तमत्वम्
जीवः सोमस्य सोमोऽयं पुरोगाः सेमतोऽपि यत् ॥ ५८-४२ ॥
विश्वास-प्रस्तुतिः - ५८-४३
सोमो ह्यभिष्टुतो यादृक् प्रीणयेत् पुरुषोत्तमम् ।
आत्मयागहुतो जीवो न तादृक् किन्त्वतोऽधिकः ॥ ५८-४३ ॥
मूलम् - ५८-४३
सोमो ह्यभिष्टुतो यादृक् प्रीणयेत् पुरुषोत्तमम् ।
आत्मयागहुतो जीवो न तादृक् किन्त्वतोऽधिकः ॥ ५८-४३ ॥
तदुपपादनम्
मर्त्यो ह्यभिष्टुतः सोमो यस्त्वमर्त्यो हि चिन्मयः ।
शुक्रशब्दस्य जीवपरत्वे प्रवृत्तिनिमित्तप्रदर्शनम्
शुक्र इत्यतिसारत्वाज्जगद्बीजतयापि च ॥ ५८-४४ ॥
आख्या जीवस्य तत्रापि योजनैषा पुरोदिता ।
इन्द्रशब्देन भगवतः सम्बोधनम्
इन्द्रेत्यपि च सम्बोधो देवस्य हरिमेधसः ॥ ५८-४५ ॥
वातापिशब्दस्य
व्याप्तिपूर्वकभगवन्निष्ठकिर्याशक्तिवैशिष्ट्यपरत्वम्
[[५९२]]
विश्वास-प्रस्तुतिः - ५८-४६
वातापीत्युच्यते व्यापी वातेन क्रियया स्वया ।
जगद्धातुः क्रिया सृष्टिरतर्क्या व्याप्तिपूर्विका ॥ ५८-४६ ॥
मूलम् - ५८-४६
वातापीत्युच्यते व्यापी वातेन क्रियया स्वया ।
जगद्धातुः क्रिया सृष्टिरतर्क्या व्याप्तिपूर्विका ॥ ५८-४६ ॥
तस्या अविषयो नास्ति भावः कोऽपि कथञ्चन ।
हवनश्रुत्पदस्य स्वविषयकाह्वानश्रवणरसिकत्वपरत्वम्
हवनश्रुत् समाख्यातः शृण्वन्नाह्वानमादरात् ॥ ५८-४७ ॥
श्राता इत्यादिवाक्यद्वयस्य तात्पर्यार्थनिरूपणमुखेन
सर्वेष्वप्यात्मसु भगवद्गुणकृतदास्यप्रतिपादकत्वप्रदर्शनम्
विश्वास-प्रस्तुतिः - ५८-४८
हे इन्द्र परमेशान कर्तस्ते हवनश्रुतः ।
श्राताः श्रिता गुणैः सोमा आत्मानस्त इमे वयम् ॥ ५८-४८ ॥
मूलम् - ५८-४८
हे इन्द्र परमेशान कर्तस्ते हवनश्रुतः ।
श्राताः श्रिता गुणैः सोमा आत्मानस्त इमे वयम् ॥ ५८-४८ ॥
स्वाहा स्वाहुतमस्त्वेतत् तदिदं परमं हविः ।
अथ षड्ढोतृमन्त्रार्थनिरूपणम्
उद्दिष्टः पञ्चहोतायं षड्ढोताद्य निगद्यते ॥ ५८-४९ ॥
विश्वास-प्रस्तुतिः - ५८-५०
यजमानं पशुं भूतं वाक्त्यात्मानं हविष्कृतम् ।
देहेन्द्रियैः समं विष्णुं प्राप्ताद्य सहविष्कृतम् ॥ ५८-५० ॥
मूलम् - ५८-५०
यजमानं पशुं भूतं वाक्त्यात्मानं हविष्कृतम् ।
देहेन्द्रियैः समं विष्णुं प्राप्ताद्य सहविष्कृतम् ॥ ५८-५० ॥
विश्वास-प्रस्तुतिः - ५८-५१
सूते च रमते चैव यजते चैव कथ्यते ।
सूर्योविष्णुं विशत्वेनं चक्षुर्विज्ञानकारणम् ॥ ५८-५१ ॥
मूलम् - ५८-५१
सूते च रमते चैव यजते चैव कथ्यते ।
सूर्योविष्णुं विशत्वेनं चक्षुर्विज्ञानकारणम् ॥ ५८-५१ ॥
विश्वास-प्रस्तुतिः - ५८-५२
वातो गतिमतः सञ्ज्ञा गतिर्व्याप्तिरुदीरिता ।
द्योतमानस्तथा स द्यौर्देवो विज्ञानसारथिः ॥ ५८-५२ ॥
मूलम् - ५८-५२
वातो गतिमतः सञ्ज्ञा गतिर्व्याप्तिरुदीरिता ।
द्योतमानस्तथा स द्यौर्देवो विज्ञानसारथिः ॥ ५८-५२ ॥
[[५९३]]
विश्वास-प्रस्तुतिः - ५८-५३
अन्तः समीक्षमाणः सन्नन्तरिक्षमुदीर्यते ।
सर्वान् सङ्गमयन् प्राणैर्यज्ञ इज्यतयापि च ॥ ५८-५३ ॥
मूलम् - ५८-५३
अन्तः समीक्षमाणः सन्नन्तरिक्षमुदीर्यते ।
सर्वान् सङ्गमयन् प्राणैर्यज्ञ इज्यतयापि च ॥ ५८-५३ ॥
विश्वास-प्रस्तुतिः - ५८-५४
पृथिवी वैष्णवी शक्ति प्रथमाना स्वतेजसा ।
पञ्चात्मावयवः प्राणः पृष्ठं मूर्धाङ्गमुच्यते ॥ ५८-५४ ॥
मूलम् - ५८-५४
पृथिवी वैष्णवी शक्ति प्रथमाना स्वतेजसा ।
पञ्चात्मावयवः प्राणः पृष्ठं मूर्धाङ्गमुच्यते ॥ ५८-५४ ॥
विश्वास-प्रस्तुतिः - ५८-५५
आत्मान्तःकरणं प्रोक्तमनाद्यन्तस्थितानि च ।
शरीराण्यथ बाह्याङ्गान्यथो ग्रह उदीर्यते ॥ ५८-५५ ॥
मूलम् - ५८-५५
आत्मान्तःकरणं प्रोक्तमनाद्यन्तस्थितानि च ।
शरीराण्यथ बाह्याङ्गान्यथो ग्रह उदीर्यते ॥ ५८-५५ ॥
विश्वास-प्रस्तुतिः - ५८-५६
वाचस्पतिः समुद्दिष्टः शक्तिर्वाग् वैष्णवी क्रिया ।
सैव प्रोक्ता जुहूः प्राणो होत्राहुतिरुदीर्यते ॥ ५८-५६ ॥
मूलम् - ५८-५६
वाचस्पतिः समुद्दिष्टः शक्तिर्वाग् वैष्णवी क्रिया ।
सैव प्रोक्ता जुहूः प्राणो होत्राहुतिरुदीर्यते ॥ ५८-५६ ॥
विश्वास-प्रस्तुतिः - ५८-५७
नानादेहादिरूपेण वृद्धा देवा उदीरितः ।
एरयस्व प्रेरयस्व प्रेरणं त्वेरणं मतम् ॥ ५८-५७ ॥
मूलम् - ५८-५७
नानादेहादिरूपेण वृद्धा देवा उदीरितः ।
एरयस्व प्रेरयस्व प्रेरणं त्वेरणं मतम् ॥ ५८-५७ ॥
अपरस्य षड्ढोतृमन्त्रस्यार्थनिरूपणम्
(१) अथापरस्य षड्ढोतुर्निर्णयं शृणु नारद ।
दीक्षा मानससङ्कल्पो वागवस्था तु वाक् स्मृता ॥ ५८-५८ ॥
विश्वास-प्रस्तुतिः - ५८-५९
आपो दयार्द्रता विष्णोर्मन इच्छा निगद्यते ।
तपो विज्ञानमुद्दिष्टं पोता त्वभिगरो मतः ॥ ५८-५९ ॥
मूलम् - ५८-५९
आपो दयार्द्रता विष्णोर्मन इच्छा निगद्यते ।
तपो विज्ञानमुद्दिष्टं पोता त्वभिगरो मतः ॥ ५८-५९ ॥
१ षड्ढोतृमन्त्रो द्विविधः- चतुर्थानुवाकात्मकः सूर्यं ते चक्षु
इत्यादिरेकः । षष्ठानुवाकात्मकः वाग्धोता इत्यादिरपरः । तत्र
वाग्घोता षड्ढोतृणाम् इति ब्राह्मणनिर्देशात् स एव चातुर्होत्रचयने
प्रयोज्यः । इतरस्य तु पशुबन्धेन यक्ष्यमाणः षड्ढोतारं
मनसानुद्रुत्याहवनीये जुहुयात् इति होतृब्राह्मणकाण्डे विधिदर्शनात्
पशुबन्धे विनियोगः । तदेवं कर्मकाण्डे व्यवस्थितविकल्पेन
विनियुक्तयोरपि षड्ढोतृमन्त्रयोर्ब्रह्मचक्रे समुच्चयेन विनियुक्तत्वाद्
द्विविधयोरपि तयोरिह व्याख्यानं कृतमिति बोध्यम् ।
[[५९४]]
सप्तहोतृमन्त्रार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५८-६०
महाहविरिति प्रोक्तः सप्तहोता मनीषिभिः ।
मनो हविरिति प्रोक्तं मनो हविरिहोच्यते ॥ ५८-६० ॥
मूलम् - ५८-६०
महाहविरिति प्रोक्तः सप्तहोता मनीषिभिः ।
मनो हविरिति प्रोक्तं मनो हविरिहोच्यते ॥ ५८-६० ॥
विश्वास-प्रस्तुतिः - ५८-६१
महाविषयता तस्य महत्त्वं परिगीयते ।
यत्नो हविरिति प्रोक्तं प्राणो हविरिहोच्यते ॥ ५८-६१ ॥
मूलम् - ५८-६१
महाविषयता तस्य महत्त्वं परिगीयते ।
यत्नो हविरिति प्रोक्तं प्राणो हविरिहोच्यते ॥ ५८-६१ ॥
विश्वास-प्रस्तुतिः - ५८-६२
सत्यता त्वविपर्यासः सन्ततोद्युक्तता तथा ।
पाजस्तेज इह प्रोक्तो नित्यताच्युततास्य तु ॥ ५८-६२ ॥
मूलम् - ५८-६२
सत्यता त्वविपर्यासः सन्ततोद्युक्तता तथा ।
पाजस्तेज इह प्रोक्तो नित्यताच्युततास्य तु ॥ ५८-६२ ॥
विश्वास-प्रस्तुतिः - ५८-६३
मनो मतिरिह प्रोक्ता तस्याः पूर्ववदच्युतिः ।
अनाधृष्याप्रधृष्यौ च शक्त्यैश्वर्यनिरूपकौ ॥ ५८-६३ ॥
मूलम् - ५८-६३
मनो मतिरिह प्रोक्ता तस्याः पूर्ववदच्युतिः ।
अनाधृष्याप्रधृष्यौ च शक्त्यैश्वर्यनिरूपकौ ॥ ५८-६३ ॥
विश्वास-प्रस्तुतिः - ५८-६४
पोता च मैत्रावरुणः स्मृतावभिगराविह ।
अनायासविषयत्वादयास्य इति वर्ण्यते ॥ ५८-६४ ॥
मूलम् - ५८-६४
पोता च मैत्रावरुणः स्मृतावभिगराविह ।
अनायासविषयत्वादयास्य इति वर्ण्यते ॥ ५८-६४ ॥
ग्रहभागार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५८-६५
हरति स्वीकरोतीह पूजां हृदिति वर्ण्यते ।
दैव्यस्तन्तुरिति प्रोक्ता शिष्याचार्यपरम्परा ॥ ५८-६५ ॥
मूलम् - ५८-६५
हरति स्वीकरोतीह पूजां हृदिति वर्ण्यते ।
दैव्यस्तन्तुरिति प्रोक्ता शिष्याचार्यपरम्परा ॥ ५८-६५ ॥
मनुष्यस्तन्तुरित्युक्ता सत्सन्तानसमृद्धिता ।
विश्वास-प्रस्तुतिः - ५८-६६
द्यावापृथिव्यौ पितरौ पितरौ श्रीतदीश्वरौ ।
व्याख्यातो होतृवर्गोऽयमिति ते लेशतो मुने ॥ ५८-६६ ॥
मूलम् - ५८-६६
द्यावापृथिव्यौ पितरौ पितरौ श्रीतदीश्वरौ ।
व्याख्यातो होतृवर्गोऽयमिति ते लेशतो मुने ॥ ५८-६६ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
पञ्चहोतृमन्त्रार्थनिरूपणम् नाम अष्टपञ्चाशोऽध्यायः ॥ ५८ ॥
आदितः श्लोकाः ३७७६