ज्योतिश्चक्रमन्त्रार्थनिरूपणं नाम सप्तपञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
प्रथमं गायत्त्र्यर्थप्रपञ्चने तच्छब्दस्य
भगवत्सङ्कल्परूपसुदर्शनपरत्वनिरूपणम्
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ५७-१
यत्तु ज्योतिस्त्रयं पूर्वं ज्योतिश्चक्रे निदर्शितम् (१) ।
सावित्रं नाम यज्ज्योतिस्तत् सावित्रीसमाह्वयम् ॥ ५७-१ ॥
मूलम् - ५७-१
यत्तु ज्योतिस्त्रयं पूर्वं ज्योतिश्चक्रे निदर्शितम् (१) ।
सावित्रं नाम यज्ज्योतिस्तत् सावित्रीसमाह्वयम् ॥ ५७-१ ॥
विश्वास-प्रस्तुतिः - ५७-२
तस्य व्याख्यामिमां सम्यग् गदतो मे निशामय ।
सङ्कल्पः कथितो यः स सुदर्शनसमाह्वयः ॥ ५७-२ ॥
मूलम् - ५७-२
तस्य व्याख्यामिमां सम्यग् गदतो मे निशामय ।
सङ्कल्पः कथितो यः स सुदर्शनसमाह्वयः ॥ ५७-२ ॥
विश्वास-प्रस्तुतिः - ५७-३
या सा भूतिर्महाशक्तेर्वैष्णव्याः कोटिभागजा ।
शुद्धाशुद्धमयैर्भावैस्तनुते विस्तृणाति ताम् ॥ ५७-३ ॥
मूलम् - ५७-३
या सा भूतिर्महाशक्तेर्वैष्णव्याः कोटिभागजा ।
शुद्धाशुद्धमयैर्भावैस्तनुते विस्तृणाति ताम् ॥ ५७-३ ॥
विश्वास-प्रस्तुतिः - ५७-४
प्रतिसञ्चरवेलायां तामयत्येव तां पुनः ।
तायते तत्र तत्रैव भूत्यंशे धारकात्मना ॥ ५७-४ ॥
मूलम् - ५७-४
प्रतिसञ्चरवेलायां तामयत्येव तां पुनः ।
तायते तत्र तत्रैव भूत्यंशे धारकात्मना ॥ ५७-४ ॥
प्रमाणत्वेन भूयश्च तत्तदर्थतया पुनः ।
१ त्रयोविंशेऽध्याये चतुश्चत्वारिंशश्लोकस्योत्तरार्धमारम्य
एकोनसप्ततिश्लोकपूर्वार्धान्तैः पञ्चविंशत्या
श्लोकैर्निदर्शितमिदं ज्योतिश्चक्रम् ।
[[५७२]]
अतस्तदिति सङ्कल्पः प्रोच्यते वैष्णवः परः ॥ ५७-५ ॥
सवितृशब्दस्य
जगत्कारणत्वभोगमोक्षप्रदत्वादिगुणविशिष्टपरमपुरुषपरत्वम्
विश्वास-प्रस्तुतिः - ५७-६
प्रसौति सकलाश्चेष्टाः प्रसूते सकलं जगत् ।
अवतेर्गतिकान्त्यर्थात् तरतेर्दानकर्मणः ॥ ५७-६ ॥
मूलम् - ५७-६
प्रसौति सकलाश्चेष्टाः प्रसूते सकलं जगत् ।
अवतेर्गतिकान्त्यर्थात् तरतेर्दानकर्मणः ॥ ५७-६ ॥
विश्वास-प्रस्तुतिः - ५७-७
गतो ह्यवति सर्वत्र षड्भिः कान्तो गुणैः परः ।
भोगापवर्गयोर्दाता सवितेति निरुच्यते ॥ ५७-७ ॥
मूलम् - ५७-७
गतो ह्यवति सर्वत्र षड्भिः कान्तो गुणैः परः ।
भोगापवर्गयोर्दाता सवितेति निरुच्यते ॥ ५७-७ ॥
वरेण्यशब्दस्योपास्यत्वपरत्वम्
विश्वास-प्रस्तुतिः - ५७-८
वरैर्नेयं वरेण्यं तु वराः ख्यातार ईरिताः ।
वरणीयं वरेण्यं वा वरं नयति तत्परम् ॥ ५७-८ ॥
मूलम् - ५७-८
वरैर्नेयं वरेण्यं तु वराः ख्यातार ईरिताः ।
वरणीयं वरेण्यं वा वरं नयति तत्परम् ॥ ५७-८ ॥
भर्गःशब्दस्य तच्छब्दविवक्षितसुदर्शनगुणविशेषपरत्वम्
विश्वास-प्रस्तुतिः - ५७-९
भर्गस्तेजः समाख्यातं प्रभावः कर्तृरूपता ।
भरतीदं जगत् कृत्स्नं सम्भरत्यपि चेश्वरान् ॥ ५७-९ ॥
मूलम् - ५७-९
भर्गस्तेजः समाख्यातं प्रभावः कर्तृरूपता ।
भरतीदं जगत् कृत्स्नं सम्भरत्यपि चेश्वरान् ॥ ५७-९ ॥
विश्वास-प्रस्तुतिः - ५७-१०
रमयत्यपि तत् सर्वं राति चार्थमभीप्सितम् ।
गमयत्यपि तन्नाशं स्यति बन्धमशेषतः ॥ ५७-१० ॥
मूलम् - ५७-१०
रमयत्यपि तत् सर्वं राति चार्थमभीप्सितम् ।
गमयत्यपि तन्नाशं स्यति बन्धमशेषतः ॥ ५७-१० ॥
विश्वास-प्रस्तुतिः - ५७-११
भर्जयत्यखिलं कष्टं भ्रस्जतेऽनेहसं तथा ।
अतो भर्गः परं विष्णोः सङ्कल्पं विदुरद्भुतम् ॥ ५७-११ ॥
मूलम् - ५७-११
भर्जयत्यखिलं कष्टं भ्रस्जतेऽनेहसं तथा ।
अतो भर्गः परं विष्णोः सङ्कल्पं विदुरद्भुतम् ॥ ५७-११ ॥
[[५७३]]
देवशब्दस्य द्योतनत्वादिगुणविशिष्टपरमात्मपरत्वम्
विश्वास-प्रस्तुतिः - ५७-१२
द्योतनः सर्वभावानां द्योतमानः स्वयं सदा ।
अज्ञानमखिलं चान्यच्छोधयत्यखिलं जगत् ॥ ५७-१२ ॥
मूलम् - ५७-१२
द्योतनः सर्वभावानां द्योतमानः स्वयं सदा ।
अज्ञानमखिलं चान्यच्छोधयत्यखिलं जगत् ॥ ५७-१२ ॥
विश्वास-प्रस्तुतिः - ५७-१३
अतः सकलमेवेदं तत्रौतं मणिसूत्रवत् ।
इत ईरण ईड्यश्च वनितः सकलं वियत् ॥ ५७-१३ ॥
मूलम् - ५७-१३
अतः सकलमेवेदं तत्रौतं मणिसूत्रवत् ।
इत ईरण ईड्यश्च वनितः सकलं वियत् ॥ ५७-१३ ॥
देव इत्युदितो विष्णु परमात्मा सनातनः ।
धीमहीत्यस्योपासनात्मकज्ञानविशेषपरत्वम्
धीमहीत्यत्र धीर्ज्ञानं मननं भावनं तथा ॥ ५७-१४ ॥
तृतीयपादार्थनिरूपणपूर्वकं गायत्त्र्याः
सम्पिण्डितवाक्यार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५७-१५
धियो धीपूर्विकाश्चेष्टाः प्रेरणं तु प्रचोदनम् ।
यः सर्वशक्तिः सविता देवं संविन्मयश्च यः ॥ ५७-१५ ॥
मूलम् - ५७-१५
धियो धीपूर्विकाश्चेष्टाः प्रेरणं तु प्रचोदनम् ।
यः सर्वशक्तिः सविता देवं संविन्मयश्च यः ॥ ५७-१५ ॥
विश्वास-प्रस्तुतिः - ५७-१६
यश्च सर्वविदीशानो धियस्तास्ताः प्रचोदयात् ।
सृष्टिस्थितिलयत्राणक्रियाकारणमव्ययम् ॥ ५७-१६ ॥
मूलम् - ५७-१६
यश्च सर्वविदीशानो धियस्तास्ताः प्रचोदयात् ।
सृष्टिस्थितिलयत्राणक्रियाकारणमव्ययम् ॥ ५७-१६ ॥
विश्वास-प्रस्तुतिः - ५७-१७
तस्य देवस्य सङ्कल्पं भर्गः सञ्ज्ञमुपास्महे ।
गायन्तं त्रायमाणाया गायत्त्र्या अर्थ ईदृशः ॥ ५७-१७ ॥
मूलम् - ५७-१७
तस्य देवस्य सङ्कल्पं भर्गः सञ्ज्ञमुपास्महे ।
गायन्तं त्रायमाणाया गायत्त्र्या अर्थ ईदृशः ॥ ५७-१७ ॥
सङ्क्षेपतो गायत्त्रीमहिमवर्णनम्
विश्वास-प्रस्तुतिः - ५७-१८
सन्ध्ययोरुभयोर्युक्तो ब्राह्मण्यं लभते परम् ।
बहिः सहस्रमभ्यस्ता मासमात्रेण साधिनः ॥ ५७-१८ ॥
मूलम् - ५७-१८
सन्ध्ययोरुभयोर्युक्तो ब्राह्मण्यं लभते परम् ।
बहिः सहस्रमभ्यस्ता मासमात्रेण साधिनः ॥ ५७-१८ ॥
[[५७४]]
विश्वास-प्रस्तुतिः - ५७-१९
त्रायते महतः पापात् सर्वस्मादपि चाहंसः ।
ॐकारपूरिकास्तिस्रो महाव्याहृतयोऽव्ययाः ॥ ५७-१९ ॥
मूलम् - ५७-१९
त्रायते महतः पापात् सर्वस्मादपि चाहंसः ।
ॐकारपूरिकास्तिस्रो महाव्याहृतयोऽव्ययाः ॥ ५७-१९ ॥
त्रिपदा चेयमित्येतत् त्रितयं पावनं परम् ।
व्याहृतित्रयस्वरूपनिरूपणपूर्वकं सग्रहेण तदर्थप्रकाशनम्
या सत्ता सर्वभूतानां विष्णुशक्तिः परावरा ॥ ५७-२० ॥
विश्वास-प्रस्तुतिः - ५७-२१
सा भूरिति समाख्याता भवतीदं जगत् स्वयम् ।
भूत्वशक्तिं समास्थाय यावतीदं जगत् स्वयम् ॥ ५७-२१ ॥
मूलम् - ५७-२१
सा भूरिति समाख्याता भवतीदं जगत् स्वयम् ।
भूत्वशक्तिं समास्थाय यावतीदं जगत् स्वयम् ॥ ५७-२१ ॥
विश्वास-प्रस्तुतिः - ५७-२२
सा भुवः कथिता सद्भिरवन्ती भावितं जगत् ।
वसीयो भोगमोक्षाख्यं सूते या सततं सताम् ॥ ५७-२२ ॥
मूलम् - ५७-२२
सा भुवः कथिता सद्भिरवन्ती भावितं जगत् ।
वसीयो भोगमोक्षाख्यं सूते या सततं सताम् ॥ ५७-२२ ॥
सा स्रुवः कथिता सद्भिर्व्याहृतिर्वाङ्मयी ततः ।
गायत्त्रीमन्त्रनिगूढानां ब्रह्मशिरःप्रभृतीनामस्त्राणां
दिङ्मात्रपरदर्शनम्
पादशो ब्रह्मदण्डास्त्रं प्रतिलोमस्तदित्यृ च ॥ ५७-२३ ॥
विश्वास-प्रस्तुतिः - ५७-२४
अस्त्रं ब्रह्मशिरो नाम पदशः परिगीयते ।
वर्णशो ब्राह्ममस्त्रं स्यात् तत्स्वरप्रतिलोमजम् ॥ ५७-२४ ॥
मूलम् - ५७-२४
अस्त्रं ब्रह्मशिरो नाम पदशः परिगीयते ।
वर्णशो ब्राह्ममस्त्रं स्यात् तत्स्वरप्रतिलोमजम् ॥ ५७-२४ ॥
विश्वास-प्रस्तुतिः - ५७-२५
सुब्रह्मास्त्रमिति प्रोक्तं सर्वास्त्रविनिर्बर्हणम् ।
आनन्दो वरुणस्तद्वान्वरुणः सचतुर्गतिः ॥ ५७-२५ ॥
मूलम् - ५७-२५
सुब्रह्मास्त्रमिति प्रोक्तं सर्वास्त्रविनिर्बर्हणम् ।
आनन्दो वरुणस्तद्वान्वरुणः सचतुर्गतिः ॥ ५७-२५ ॥
विश्वास-प्रस्तुतिः - ५७-२६
साप्रमेयस्तृतीयः स्याच्छङ्खस्थो व्यापकस्तथा ।
सानन्दो वरुणश्चैव साप्रमेयश्चतुर्गतिः ॥ ५७-२६ ॥
मूलम् - ५७-२६
साप्रमेयस्तृतीयः स्याच्छङ्खस्थो व्यापकस्तथा ।
सानन्दो वरुणश्चैव साप्रमेयश्चतुर्गतिः ॥ ५७-२६ ॥
शाङ्खद्वयं सदा देवमस्त्रं सप्ताक्षरं परम् ।
[[५७५]]
अतिब्राह्मं समुद्दिष्टमस्य स्वरविलोमजम् ॥ ५७-२७ ॥
विश्वास-प्रस्तुतिः - ५७-२८
आनन्दः केवलस्तत्तु दिव्यमेकाक्षरं स्मृतम् ।
तदित्यृचोऽस्याः सावित्र्या इयती दर्शिता भिदा ॥ ५७-२८ ॥
मूलम् - ५७-२८
आनन्दः केवलस्तत्तु दिव्यमेकाक्षरं स्मृतम् ।
तदित्यृचोऽस्याः सावित्र्या इयती दर्शिता भिदा ॥ ५७-२८ ॥
जातवेदसे इति त्रिष्टुभोऽर्थनिरूपणे जातवेदःशब्दस्य सोमशब्दस्य
चार्थवर्णनम्
विश्वास-प्रस्तुतिः - ५७-२९
जातवेदस इत्यस्यास्त्रिष्टुभोऽर्थं निशामय ।
जातजातं हि यो वेत्ति भूते भूतेऽखिलं सदा ॥ ५७-२९ ॥
मूलम् - ५७-२९
जातवेदस इत्यस्यास्त्रिष्टुभोऽर्थं निशामय ।
जातजातं हि यो वेत्ति भूते भूतेऽखिलं सदा ॥ ५७-२९ ॥
विश्वास-प्रस्तुतिः - ५७-३०
जातं स्वभावसंसिद्धं विज्ञानं तस्य सर्वदा ।
वेदः सत्ता महाशक्तिरानन्दस्पन्दलक्षणा ॥ ५७-३० ॥
मूलम् - ५७-३०
जातं स्वभावसंसिद्धं विज्ञानं तस्य सर्वदा ।
वेदः सत्ता महाशक्तिरानन्दस्पन्दलक्षणा ॥ ५७-३० ॥
विश्वास-प्रस्तुतिः - ५७-३१
प्रादुर्भूता सदा यस्य सा देवी जगतां गतिः ।
वेदो विचारणं प्रोक्तं विचारो विविधा क्रिया ॥ ५७-३१ ॥
मूलम् - ५७-३१
प्रादुर्भूता सदा यस्य सा देवी जगतां गतिः ।
वेदो विचारणं प्रोक्तं विचारो विविधा क्रिया ॥ ५७-३१ ॥
विश्वास-प्रस्तुतिः - ५७-३२
प्रादुर्भूता क्रिया यस्य विष्णोः सा सर्वकर्तृता ।
सर्वज्ञः सर्वशक्तिश्च सर्वकृत् पुरुषोत्तमः ॥ ५७-३२ ॥
मूलम् - ५७-३२
प्रादुर्भूता क्रिया यस्य विष्णोः सा सर्वकर्तृता ।
सर्वज्ञः सर्वशक्तिश्च सर्वकृत् पुरुषोत्तमः ॥ ५७-३२ ॥
विश्वास-प्रस्तुतिः - ५७-३३
जातवेदाः समुद्दिष्ट आत्मा सोमः समीरितः ।
स ह्यविद्यावशात् सर्वयोनिस्थः सूयते सदा ॥ ५७-३३ ॥
मूलम् - ५७-३३
जातवेदाः समुद्दिष्ट आत्मा सोमः समीरितः ।
स ह्यविद्यावशात् सर्वयोनिस्थः सूयते सदा ॥ ५७-३३ ॥
सुनवामेति पदस्य बद्धात्मनि भगवच्छेषत्वयोग्यतापादनपरत्वम्
योग्यतापादनं तस्य प्रोच्यतेऽत्र सुनोतिना ।
योग्यतापादनस्य प्रकृत्यात्मविवेकरूपतां वक्तुं विवक्षितार्थस्य
सोमपदगम्ये दृष्टान्ते शिक्षणम्
पृथक्कारो हि सोमस्य स्वरसस्य सुनोतिजः ॥ ५७-३४ ॥
[[५७६]]
विश्वास-प्रस्तुतिः - ५७-३५
रसीभूतेन सोमेन यागः कर्तुं स शक्यते ।
उपमागर्भ एवायं वाक्यार्थः पूर्वपादजः ॥ ५७-३५ ॥
मूलम् - ५७-३५
रसीभूतेन सोमेन यागः कर्तुं स शक्यते ।
उपमागर्भ एवायं वाक्यार्थः पूर्वपादजः ॥ ५७-३५ ॥
दृष्टान्ते शिक्षितस्यार्थस्य दार्ष्टान्तिके उपपादनम्
विश्वास-प्रस्तुतिः - ५७-३६
सोमं यथाभिषुण्वन्ति ह्यध्वरे जातवेदसे ।
दित्समानस्तथात्मानमृषिः स्वं परमात्मने ॥ ५७-३६ ॥
मूलम् - ५७-३६
सोमं यथाभिषुण्वन्ति ह्यध्वरे जातवेदसे ।
दित्समानस्तथात्मानमृषिः स्वं परमात्मने ॥ ५७-३६ ॥
विश्वास-प्रस्तुतिः - ५७-३७
देहेन्द्रियमनःप्राणधीगुणेभ्यः स्वरूपतः ।
विविनक्ति प्रसङ्ख्यानैः साम्यवैषम्यहेतुजैः ॥ ५७-३७ ॥
मूलम् - ५७-३७
देहेन्द्रियमनःप्राणधीगुणेभ्यः स्वरूपतः ।
विविनक्ति प्रसङ्ख्यानैः साम्यवैषम्यहेतुजैः ॥ ५७-३७ ॥
यथोक्तात्महविर्याजिनः स्वेन रूपेणाभिनिष्पत्तिरूपो
गुणाष्टकाविर्भावः फलम्
विश्वास-प्रस्तुतिः - ५७-३८
एवं विविच्य दत्त्वास्मै स्मात्मानं जातवेदसे ।
तत्स्थः स तन्मना भूत्वा स्वेनाथो संविवित्सते ॥ ५७-३८ ॥
मूलम् - ५७-३८
एवं विविच्य दत्त्वास्मै स्मात्मानं जातवेदसे ।
तत्स्थः स तन्मना भूत्वा स्वेनाथो संविवित्सते ॥ ५७-३८ ॥
भङ्ग्यन्तरेण नमःशब्दार्थस्यैवात्र प्रथमपादे
विवक्षितत्वसूचनम्
नमःशब्दार्थ एवायं प्रकारान्तरदर्शितः ।
द्वितीयपादेन परमपुरुषस्य स्वप्राप्तिप्रतिबन्धकप्रकृतिसम्बन्ध-
रूपबन्धनिवर्तकत्वप्रदर्शनम्
अर्थं द्वितीयपादस्य प्रोच्यमानं निबोध मे ॥ ५७-३९ ॥
विश्वास-प्रस्तुतिः - ५७-४०
अरातीयान् स तु प्रोक्तो यो ह्यरातिवदाचरेत् ।
स च बन्धः समाख्यातो मिथ्याज्ञाननिबन्धनः ॥ ५७-४० ॥
मूलम् - ५७-४०
अरातीयान् स तु प्रोक्तो यो ह्यरातिवदाचरेत् ।
स च बन्धः समाख्यातो मिथ्याज्ञाननिबन्धनः ॥ ५७-४० ॥
तस्य वेदः स्मृता सत्ता गुणसक्तिरनादिका ।
[[५७७]]
स्वीकर्तुं स सुतं सोमं जातवेदाः सनातनः ॥ ५७-४१ ॥
तत्प्रतिद्वन्द्विनीं बन्धसत्तां विदहतु स्वयम् ।
उत्तरार्धे सदृष्टान्तं पूर्वोक्तार्थोपपादनम्
बद्ध्वा स नितरां सत्तां गुणसङ्गस्वरूपिणीम् ॥ ५७-४२ ॥
हेयतत्त्वानि दुर्गाणि पारयत्यखिलानि नः ।
उत्तरार्थगतस्याग्निशब्दस्य परमपुरुषपरत्वसमर्थनम्
जातवेदाः स चात्रापि ह्यग्नि शब्देन वर्ण्यते ॥ ५७-४३ ॥
विश्वास-प्रस्तुतिः - ५७-४४
अङ्गीकारं समीपं स्वमागतं निखिलं जगत् ।
नयत्यात्मानमित्येवमग्निशब्दो निरुच्यते ॥ ५७-४४ ॥
मूलम् - ५७-४४
अङ्गीकारं समीपं स्वमागतं निखिलं जगत् ।
नयत्यात्मानमित्येवमग्निशब्दो निरुच्यते ॥ ५७-४४ ॥
विश्वास-प्रस्तुतिः - ५७-४५
स्वात्मोपसर्पिणं जीवं नेताग्निः स्वं परं पदम् ।
जातवेदाः स दुर्गाणि पारयत्यखिलानि नः ॥ ५७-४५ ॥
मूलम् - ५७-४५
स्वात्मोपसर्पिणं जीवं नेताग्निः स्वं परं पदम् ।
जातवेदाः स दुर्गाणि पारयत्यखिलानि नः ॥ ५७-४५ ॥
दृष्टान्तपरस्य चतुर्थपादस्य वाक्यार्थवर्णनम्
विश्वास-प्रस्तुतिः - ५७-४६
अत्र नावेति दृष्टान्तः सिन्धुर्नाम महोदधिः ।
तं यथा नाविको नावा नौस्थितं पारयेन्नरम् ॥ ५७-४६ ॥
मूलम् - ५७-४६
अत्र नावेति दृष्टान्तः सिन्धुर्नाम महोदधिः ।
तं यथा नाविको नावा नौस्थितं पारयेन्नरम् ॥ ५७-४६ ॥
विश्वास-प्रस्तुतिः - ५७-४७
दुरितादिपदद्वन्द्वात् पारणे दुरितात्ययः ।
दुरितं गदितं दौःस्थ्यं वातवर्षादिसम्भवम् ॥ ५७-४७ ॥
मूलम् - ५७-४७
दुरितादिपदद्वन्द्वात् पारणे दुरितात्ययः ।
दुरितं गदितं दौःस्थ्यं वातवर्षादिसम्भवम् ॥ ५७-४७ ॥
विश्वास-प्रस्तुतिः - ५७-४८
अतीत्यतीत्य दुरिता दिरितानीति वर्णयते ।
दुरितं वातवर्षाद्यं परिहृत्य यथाखिलम् ॥ ५७-४८ ॥
मूलम् - ५७-४८
अतीत्यतीत्य दुरिता दिरितानीति वर्णयते ।
दुरितं वातवर्षाद्यं परिहृत्य यथाखिलम् ॥ ५७-४८ ॥
नाविकः पारयेन्नावा सागरं नौस्थितं नरम् ।
[[५७८]]
तस्यार्थस्य दार्ष्टान्तिके उपपादनम्
एवं स भगवानग्निर्जातवेदा हरिः स्वयम् ॥ ५७-४९ ॥
विश्वास-प्रस्तुतिः - ५७-५०
दुरितं क्लेशसङ्घातमपवर्गविघातकम् ।
सर्वं परिहरन् दुर्गं पारयेत् तत्त्वपद्धतिम् ॥ ५७-५० ॥
मूलम् - ५७-५०
दुरितं क्लेशसङ्घातमपवर्गविघातकम् ।
सर्वं परिहरन् दुर्गं पारयेत् तत्त्वपद्धतिम् ॥ ५७-५० ॥
विश्वास-प्रस्तुतिः - ५७-५१
अत्र नावेति दृष्टान्तादुपायस्थानमेव तु ।
नरेण कृत्यमन्यत्तु नाविकस्येव तद्धरेः ॥ ५७-५१ ॥
मूलम् - ५७-५१
अत्र नावेति दृष्टान्तादुपायस्थानमेव तु ।
नरेण कृत्यमन्यत्तु नाविकस्येव तद्धरेः ॥ ५७-५१ ॥
अस्मिन् मन्त्रे निगूढानां पावकाद्यस्त्राणां सङ्क्षेपतः
स्वरूपसूचनम्
विश्वास-प्रस्तुतिः - ५७-५२
पादशः प्रतिलोमः स पावकास्त्रं निगद्यते ।
पादशो जातवेदःस्थमाग्नेयं वर्णशस्तु तत् ॥ ५७-५२ ॥
मूलम् - ५७-५२
पादशः प्रतिलोमः स पावकास्त्रं निगद्यते ।
पादशो जातवेदःस्थमाग्नेयं वर्णशस्तु तत् ॥ ५७-५२ ॥
विश्वास-प्रस्तुतिः - ५७-५३
स्वरशः प्रतिलोमोऽयमत्याग्नेयं निगद्यते ।
चतुर्गतिः साप्रमेयः सोदयोऽथ चतुर्गतिः ॥ ५७-५३ ॥
मूलम् - ५७-५३
स्वरशः प्रतिलोमोऽयमत्याग्नेयं निगद्यते ।
चतुर्गतिः साप्रमेयः सोदयोऽथ चतुर्गतिः ॥ ५७-५३ ॥
[[५७९]]
विश्वास-प्रस्तुतिः - ५७-५४
सूक्ष्मद्वयं साप्रमेयं साप्रमेयश्चतुर्गतिः ।
चतुर्गतिः साप्रमेयो वराहः शङ्ख एव च ॥ ५७-५४ ॥
मूलम् - ५७-५४
सूक्ष्मद्वयं साप्रमेयं साप्रमेयश्चतुर्गतिः ।
चतुर्गतिः साप्रमेयो वराहः शङ्ख एव च ॥ ५७-५४ ॥
विश्वास-प्रस्तुतिः - ५७-५५
अप्रमेयश्च पिण्डस्थं त्रमेकीकृतं स्मरेत् ।
चतुर्गतिः साप्रमेयः सादिदेवश्चतुर्गतिः ॥ ५७-५५ ॥
मूलम् - ५७-५५
अप्रमेयश्च पिण्डस्थं त्रमेकीकृतं स्मरेत् ।
चतुर्गतिः साप्रमेयः सादिदेवश्चतुर्गतिः ॥ ५७-५५ ॥
विश्वास-प्रस्तुतिः - ५७-५६
उत्तरार्थविलोमोऽयमथ पूर्वार्धजं शृणु ।
आनन्दः केवलः सूक्ष्मद्वययुक् चाप्रमेयतः ॥ ५७-५६ ॥
मूलम् - ५७-५६
उत्तरार्थविलोमोऽयमथ पूर्वार्धजं शृणु ।
आनन्दः केवलः सूक्ष्मद्वययुक् चाप्रमेयतः ॥ ५७-५६ ॥
विश्वास-प्रस्तुतिः - ५७-५७
चतुर्गतिः साप्रमेयो वराहः शङ्ख एव च ।
अप्रमेयश्च पिण्डस्थं त्रमेकीकृतं स्मरेत् ॥ ५७-५७ ॥
मूलम् - ५७-५७
चतुर्गतिः साप्रमेयो वराहः शङ्ख एव च ।
अप्रमेयश्च पिण्डस्थं त्रमेकीकृतं स्मरेत् ॥ ५७-५७ ॥
विश्वास-प्रस्तुतिः - ५७-५८
चतुर्गतिः सादिदेवः सानन्दो वरुणस्तथा ।
चतुर्गतिः सादिदेव इति पूर्वार्धजा स्थितिः ॥ ५७-५८ ॥
मूलम् - ५७-५८
चतुर्गतिः सादिदेवः सानन्दो वरुणस्तथा ।
चतुर्गतिः सादिदेव इति पूर्वार्धजा स्थितिः ॥ ५७-५८ ॥
विश्वास-प्रस्तुतिः - ५७-५९
हनद्वयं वर्म सास्त्रमग्निजाया तथान्ततः ।
स्वरशः प्रतिलोमोऽयं स्मृतं पञ्चदशाक्षरम् ॥ ५७-५९ ॥
मूलम् - ५७-५९
हनद्वयं वर्म सास्त्रमग्निजाया तथान्ततः ।
स्वरशः प्रतिलोमोऽयं स्मृतं पञ्चदशाक्षरम् ॥ ५७-५९ ॥
विश्वास-प्रस्तुतिः - ५७-६०
हनाद्यष्टाक्षरं चान्ते यः स्वरः प्रतिलोमजः ।
त्र्यक्षरः स तु विज्ञेयो द्विवर्णश्चोर्ध्वभाग्भवेत् ॥ ५७-६० ॥
मूलम् - ५७-६०
हनाद्यष्टाक्षरं चान्ते यः स्वरः प्रतिलोमजः ।
त्र्यक्षरः स तु विज्ञेयो द्विवर्णश्चोर्ध्वभाग्भवेत् ॥ ५७-६० ॥
विश्वास-प्रस्तुतिः - ५७-६१
एकार्णश्चैव पूर्वार्धे तयो रूपे पुनः शृणु ।
अप्रमेयोऽथ सानन्दो वरुणो द्व्यक्षरो मनुः ॥ ५७-६१ ॥
मूलम् - ५७-६१
एकार्णश्चैव पूर्वार्धे तयो रूपे पुनः शृणु ।
अप्रमेयोऽथ सानन्दो वरुणो द्व्यक्षरो मनुः ॥ ५७-६१ ॥
विश्वास-प्रस्तुतिः - ५७-६२
आनन्द एकः पूर्वार्धे संहत्या यत् त्रिवर्णकम् ।
तस्यापि प्रतिलोमोऽयमानन्दः केवलः स्मृतः ॥ ५७-६२ ॥
मूलम् - ५७-६२
आनन्द एकः पूर्वार्धे संहत्या यत् त्रिवर्णकम् ।
तस्यापि प्रतिलोमोऽयमानन्दः केवलः स्मृतः ॥ ५७-६२ ॥
प्रतिलोमाविमौ सर्वशान्तिस्वस्त्ययनात्मकौ ।
[[५८०]]
इत्येषा त्रिष्टुभो रीतिर्लेशतस्ते निदर्शिता ॥ ५७-६३ ॥
त्रियम्बकम् इत्यनुष्टुभोऽर्थवर्णने त्रियम्बकशब्दस्य
ज्ञानशक्तिक्रियान्वितपरमपुरुषपरत्वकथनम्
विश्वास-प्रस्तुतिः - ५७-६४
अधुनानुष्टुभो रीतिं शृणु त्वं पावनीं पराम् ।
इच्छा ज्ञप्तिः क्रिया चेति तिस्रो लोकस्य मातरः ॥ ५७-६४ ॥
मूलम् - ५७-६४
अधुनानुष्टुभो रीतिं शृणु त्वं पावनीं पराम् ।
इच्छा ज्ञप्तिः क्रिया चेति तिस्रो लोकस्य मातरः ॥ ५७-६४ ॥
विश्वास-प्रस्तुतिः - ५७-६५
तिस्रस्तु यस्य विद्यन्ते जगद्भाविन्य ऊर्जिताः ।
त्र्यम्बकः स तु विज्ञेयो ज्ञानशक्तिक्रियान्वितः ॥ ५७-६५ ॥
मूलम् - ५७-६५
तिस्रस्तु यस्य विद्यन्ते जगद्भाविन्य ऊर्जिताः ।
त्र्यम्बकः स तु विज्ञेयो ज्ञानशक्तिक्रियान्वितः ॥ ५७-६५ ॥
यजामहे इति पदार्थनिरूपणम्
यजतिर्द्रव्यसन्त्यागः काञ्चिदुद्दिश्य देवताम् ।
सुगन्धिशब्दार्थनिरूपणम्
शोभनो यस्य गन्धोऽस्ति स सुगन्धिरितीर्यते ॥ ५७-६६ ॥
विश्वास-प्रस्तुतिः - ५७-६७
शोभनं सूचयन् सर्वः सुगन्धिरिति शब्द्यते ।
यः यष्टु सर्वतत्त्वानि गन्धयत्यात्मतेजसा ॥ ५७-६७ ॥
मूलम् - ५७-६७
शोभनं सूचयन् सर्वः सुगन्धिरिति शब्द्यते ।
यः यष्टु सर्वतत्त्वानि गन्धयत्यात्मतेजसा ॥ ५७-६७ ॥
विश्वास-प्रस्तुतिः - ५७-६८
गन्धयत्यनुवेधेन स्वस्वरूपीकरोति यः ।
गन्धादीनि पृथिव्यादिभूतान्येवाखिलानि च ॥ ५७-६८ ॥
मूलम् - ५७-६८
गन्धयत्यनुवेधेन स्वस्वरूपीकरोति यः ।
गन्धादीनि पृथिव्यादिभूतान्येवाखिलानि च ॥ ५७-६८ ॥
विश्वास-प्रस्तुतिः - ५७-६९
शोभनं यस्य तिष्ठन्ति वशे देवस्य शासितुः ।
स सुगन्धिः समाख्यातो ज्ञानात्मा सर्वविद्वशी ॥ ५७-६९ ॥
मूलम् - ५७-६९
शोभनं यस्य तिष्ठन्ति वशे देवस्य शासितुः ।
स सुगन्धिः समाख्यातो ज्ञानात्मा सर्वविद्वशी ॥ ५७-६९ ॥
पुष्टिवर्धनशब्दार्थनिरूपणम्
पुष्टिर्भूतिः समाख्याता या सा सदसदात्मिका ।
[[५८१]]
शक्तिर्विष्णुमयी विष्णोः स तां वर्धयति स्वयम् ॥ ५७-७० ॥
विश्वास-प्रस्तुतिः - ५७-७१
सङ्कल्पेन समुद्भाव्य वितत्य विविधात्मना ।
सन्धार्य सन्नियम्याथ प्रतिसंहरते च ताम् ॥ ५७-७१ ॥
मूलम् - ५७-७१
सङ्कल्पेन समुद्भाव्य वितत्य विविधात्मना ।
सन्धार्य सन्नियम्याथ प्रतिसंहरते च ताम् ॥ ५७-७१ ॥
ततोऽसौ भगवान् विष्णुः कथ्यते पुष्टिवर्धनः ।
वाक्यार्थवर्णनमुखेन पूर्वार्धस्य भगवति
स्यात्महविःसमर्पणपरत्वप्रदर्शनम्
इच्छाज्ञानक्रियाकारं शोभनाख्यं जगत्प्रियम् ॥ ५७-७२ ॥
विश्वास-प्रस्तुतिः - ५७-७३
स्वाकारज्ञापितैश्वर्यं शुद्धं संविन्मयं परम् ।
ईशानं सर्वलोकानां पुरुषं पुष्करेक्षणम् ॥ ५७-७३ ॥
मूलम् - ५७-७३
स्वाकारज्ञापितैश्वर्यं शुद्धं संविन्मयं परम् ।
ईशानं सर्वलोकानां पुरुषं पुष्करेक्षणम् ॥ ५७-७३ ॥
विश्वास-प्रस्तुतिः - ५७-७४
देवतां स्वां समुद्दिश्य स्वात्माख्यद्रव्यमुत्तमम् ।
यजाम इति मन्त्रस्य पूर्वभागार्थ ईदृशः ॥ ५७-७४ ॥
मूलम् - ५७-७४
देवतां स्वां समुद्दिश्य स्वात्माख्यद्रव्यमुत्तमम् ।
यजाम इति मन्त्रस्य पूर्वभागार्थ ईदृशः ॥ ५७-७४ ॥
उत्तरार्धस्य वाक्यार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५७-७५
निरुक्तो मृत्युशब्दोऽत्र मृत्युमृत्युनिरूपणे ।
स्वात्मस्वात्मीयसन्न्यासी देवेऽद्य परमात्मनि ॥ ५७-७५ ॥
मूलम् - ५७-७५
निरुक्तो मृत्युशब्दोऽत्र मृत्युमृत्युनिरूपणे ।
स्वात्मस्वात्मीयसन्न्यासी देवेऽद्य परमात्मनि ॥ ५७-७५ ॥
विश्वास-प्रस्तुतिः - ५७-७६
मृत्योर्मुच्येय संसारान्नानादुःखमहोदधेः ।
उर्वारुकं यथा पक्वमक्लेशेन स्वबन्धनात् ॥ ५७-७६ ॥
मूलम् - ५७-७६
मृत्योर्मुच्येय संसारान्नानादुःखमहोदधेः ।
उर्वारुकं यथा पक्वमक्लेशेन स्वबन्धनात् ॥ ५७-७६ ॥
विश्वास-प्रस्तुतिः - ५७-७७
मुच्यते मृत्युतस्तद्वदहं मुच्येय बन्धनात् ।
सन्न्यासे स्थैर्यमाशास्ते कृतेऽस्मिन् मामृतादिति ॥ ५७-७७ ॥
मूलम् - ५७-७७
मुच्यते मृत्युतस्तद्वदहं मुच्येय बन्धनात् ।
सन्न्यासे स्थैर्यमाशास्ते कृतेऽस्मिन् मामृतादिति ॥ ५७-७७ ॥
विश्वास-प्रस्तुतिः - ५७-७८
अमृताद् ब्रह्मणस्तस्माद्यस्मै मां दत्तवानहम् ।
जातुचिन्मा स्व मुच्येय क्षेमी भावो भवेन्मम ॥ ५७-७८ ॥
मूलम् - ५७-७८
अमृताद् ब्रह्मणस्तस्माद्यस्मै मां दत्तवानहम् ।
जातुचिन्मा स्व मुच्येय क्षेमी भावो भवेन्मम ॥ ५७-७८ ॥
[[५८२]]
प्रपत्तुर्ब्रह्मसाधर्म्यापत्तिलक्षणस्य फलस्य तात्पर्यगत्या
मन्त्रे विवक्षितत्वप्रदर्शनम्
विश्वास-प्रस्तुतिः - ५७-७९
इत्यर्थोऽनुष्टुभः प्रोक्तो ब्रह्मभावमयः शुभः ।
ज्योतिस्त्रयं निरुक्तं तु तदिदं छन्दसां त्रयम् ॥ ५७-७९ ॥
मूलम् - ५७-७९
इत्यर्थोऽनुष्टुभः प्रोक्तो ब्रह्मभावमयः शुभः ।
ज्योतिस्त्रयं निरुक्तं तु तदिदं छन्दसां त्रयम् ॥ ५७-७९ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
ज्योतिश्चक्रमन्त्रार्थनिरूपणं नाम सप्तपञ्चाशोऽध्यायः ॥ ५७ ॥
आदितः श्लोकाः ३७१०