५६

नारसिंहानुष्टुभमन्त्रार्थनिरूपणं नाम
षट्पञ्चाशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥

ज्वलदादिपदानां
पद्मनाभाद्येकोनचत्वारिंशदवतारपरत्ववर्णनम्

अहिर्बुध्न्यः–

विश्वास-प्रस्तुतिः - ५६-१

वैभवं देवताचक्रं ज्वलदाद्यर्णवर्णितम् ।
यथा तद्वर्ण्यते तैस्तैस्तथा तदवधारय ॥ ५६-१ ॥

मूलम् - ५६-१

वैभवं देवताचक्रं ज्वलदाद्यर्णवर्णितम् ।
यथा तद्वर्ण्यते तैस्तैस्तथा तदवधारय ॥ ५६-१ ॥

ज्वलत्पदविवक्षितेष्वेकादशस्ववतारेषु (१) जकारस्य
पद्मनाभाख्यप्रथमावतारपरत्वम् (२)

विश्वास-प्रस्तुतिः - ५६-२

अवतारो हि यो विष्णोः पद्मनाभो महोदयः ।
अजितः कुत्रचित् कैश्चित् सोऽजितार्णेन वर्ण्यते ॥ ५६-२ ॥

मूलम् - ५६-२

अवतारो हि यो विष्णोः पद्मनाभो महोदयः ।
अजितः कुत्रचित् कैश्चित् सोऽजितार्णेन वर्ण्यते ॥ ५६-२ ॥

वकारस्य कान्तात्मामृतधारकाख्यविंशावतारपरत्वम्

अमृताधारवर्णेन कान्तात्मामृतधारकः ।


१। अत्रायं तत्तदवतारपरवर्णविभागक्रमः- जकारः, वकारः,
वकारोत्तराकारः, लकारः, पुनर्लकारः, पुनश्च लकारः, नकारः,
तकारः, पुनस्तकारः, पुनश्च तकारः, अम्प्रत्ययः, इत्येवं
ज्वलत्पदावयवैरेकादशभिर्वर्णैः
पद्मनाभाद्येकादशावतारविवक्षेति ।

२। अत्र तत्तदवताराणां तत्तत्सङ्ख्यत्वेन परिगणनं
पञ्चमाध्यायोक्तक्रममनुरुध्येति ज्ञेयम् ।


[[५६२]]

वकारोत्तराकारस्यैकाम्भोनिधिशाय्याख्यचतुर्दशावतार-
परत्वम्

तत्रैवार्णवशायी च वरुणस्थाप्रमेयतः ॥ ५६-३ ॥

लकारस्य शक्त्यात्माख्यचतुर्थावतारपरत्वम्

धरेशेन तु शक्तीशो धरा शक्तिर्हि वैष्णवी ।

तस्यैव सञ्ज्ञान्तरमुखेन
हरिकृष्णाख्यत्रयस्त्रिंशचतुस्त्रिंशावतारद्वयपरत्वम्

विबुधो हरिरुद्दिष्ठः कृष्णस्तु पुरुषेश्वरः ॥ ५६-४ ॥

विश्वास-प्रस्तुतिः - ५६-५

विबुधाख्येन वर्णेन वर्ण्यते पुरुषेश्वरः ।
तावुभौ कथितौ देवौ नरनारायणात्मकौ ॥ ५६-५ ॥

मूलम् - ५६-५

विबुधाख्येन वर्णेन वर्ण्यते पुरुषेश्वरः ।
तावुभौ कथितौ देवौ नरनारायणात्मकौ ॥ ५६-५ ॥

नकारस्य धर्माख्यद्वादशावतारपरत्वम्

विश्वास-प्रस्तुतिः - ५६-६

स्वर्गापवर्गयोः पन्था यो हि धर्मः सनातनः ।
स धरेशोत्तरेणैव पथा देव उदीर्यते ॥ ५६-६ ॥

मूलम् - ५६-६

स्वर्गापवर्गयोः पन्था यो हि धर्मः सनातनः ।
स धरेशोत्तरेणैव पथा देव उदीर्यते ॥ ५६-६ ॥

तकारस्यानन्ताख्यतृतीयावतारपरत्वम्

विश्वास-प्रस्तुतिः - ५६-७

ताललक्ष्मा हि भगवान् योऽनन्तः परिपठ्यते ।
स देवो धरणीधर्ता कथ्यते ताललक्ष्मणा ॥ ५६-७ ॥

मूलम् - ५६-७

ताललक्ष्मा हि भगवान् योऽनन्तः परिपठ्यते ।
स देवो धरणीधर्ता कथ्यते ताललक्ष्मणा ॥ ५६-७ ॥

तस्यैव सञ्ज्ञान्तरमुखेन
कूर्मविद्याधिदेवाख्यपञ्चदशषष्ठावतारद्वयपरत्वम्

विश्वास-प्रस्तुतिः - ५६-८

लोकमालाः स्रजः प्रोक्ताः स्रग्धरः कूर्म उच्यते ।
विराड् विद्योदिता सद्भिर्वैराजश्च तदीश्वरः ॥ ५६-८ ॥

मूलम् - ५६-८

लोकमालाः स्रजः प्रोक्ताः स्रग्धरः कूर्म उच्यते ।
विराड् विद्योदिता सद्भिर्वैराजश्च तदीश्वरः ॥ ५६-८ ॥

[[५६३]]

वैराजस्रग्धराख्येन तौ देवौ परिकीर्तितौ ।

अम्प्रत्ययावयवयोरकारमकारयोः
कालनेमिघ्नाख्यद्वाविंशावतारपरत्वम्

अप्रमेयनिगीर्णेन कालेन पुरुषोत्तमः ॥ ५६-९ ॥

उच्यते कालनेमिघ्नो यः कालः स दुरासदः ।

सर्वतोमुखशब्दविवक्षितेषु (१) दशस्ववतारेषु सकारस्य
पीयुषहरणाख्याष्टादशावतारपरत्वम्

अप्रमेयसमाक्रान्तममृताक्षरमुत्तमम् ॥ ५६-१० ॥

अमृताहरणं वक्ति पुरुषं पुष्करेक्षणम् ।

तस्यैव सञ्ज्ञान्तरमुखेन श्रीपत्याख्यैकोनविंशावतारपरत्वम्

अप्रमेयसमाक्रान्ता सैव तृप्तिः सनातनी ॥ ५६-११ ॥

श्रीपतिं वक्ति देवेशं श्रीः सा तृप्तिरुदीरिता ।

सरेफस्य वकारस्य वराहाख्यषोडशावतारपरत्वम्

अशेषभुवनाधारवराहसमुदायतः ॥ ५६-१२ ॥

अशेषभुवनाधारो वराहः परिगीयते ।


१ अत्रायं वर्णविभागक्रमः- सकारः, पुनःसकारः, सरेफो
वकारः, पुनरकारशिरस्को वकारः, तकारः, ओकारः, पुनरोकारः,
पुनश्च मकारशिरस्क ओकारः, उकारपूर्वको मकारशिरस्कः
खकारः, पुनः खकारः, इत्येवं
सर्वतोमुखशब्दावयवैर्दशभिर्वर्णैः
पीयूषहरणाद्यवतारदशकविवक्षेति ।


[[५६४]]

अकारशिरस्कस्य तस्यैव वकारस्य सञ्ज्ञान्तरमुखेन
पातालशयनाख्यैकोनचत्वारिंशावतारपरत्वम्

अप्रमेयसमाक्रान्ताद्वरुणादेव चाक्षरात् ॥ ५६-१३ ॥

पातालशायी भगवान् देवदेवो निरुच्यते ।

तकारस्य वागीश्वराख्यत्रयोदशावतारपरत्वम्

स्रग्वाक् प्रोक्ता मुनीन्द्रैः सा सृजती दधती जगत् ॥ ५६-१४ ॥

वागीशः स्रग्धरार्णेन (१) द्वितीयेन निरुच्यते ।

ओकारस्य त्रिविक्रमाख्यत्रिंशावतारपरत्वम्

यः स देवो बलेर्नेता पृथिवीं त्रिर्विचक्रमे ॥ ५६-१५ ॥

हरिर्विक्रमिणा तेन वर्णेन परिगीयते ।

तस्यैव सञ्ज्ञान्तरमुखेन विश्वरूपाख्याष्टमावतारपरत्वम्

(२) ओतो देवो हि यो विश्वं रूपेण स्वेन दीव्यता ॥ ५६-१६ ॥

विश्वरूपः स देवोऽसावोतदेवेन वर्ण्यते ।

तस्यैव मकारशिरस्कस्य सञ्ज्ञान्तरमुखेन
बडबावक्त्राख्यैकादशावतारपरत्वम्

ओदनेन समाक्रान्तो मर्दनो वर्ण उत्तरः ॥ ५६-१७ ॥

वक्त्यौर्वं बडबावक्त्रं देवदेवं जलाशनम् ।

तदुपपादनम्

ओदनं जलमुद्दिष्टमोदनस्य प्रसूर्यतः ॥ ५६-१८ ॥


१ अत्र द्वितीयत्वं ज्वलत्पदस्थज्ञकारापेक्षया
२ ओत इति कर्तरि क्तः


[[५६५]]

जलं मृद्गन् स पानेन देव ओदनमर्दनः ।

उकारपूर्वकस्य मकारशिरस्कस्य खकारस्य
वामनदेहाख्यैकोनत्रिंशावतारपरत्वम्

खर्वदेहो हि यो वर्णः सोद्दामोदयमर्दनः ॥ ५६-१९ ॥

वामनं वक्ति सुव्यक्तं याचितारं बलिं भुवम् ।

तदुपपादनम्

उद्दाममुदयं व्याप्तिं स हि मृद्गाति वामनः ॥ ५६-२० ॥

तस्यैव सञ्ज्ञान्तरमुखेन वेदविदाख्यसप्तत्रिंशावतारपरत्वम्

स एव वर्णो वेदात्मा वक्ति वेदविदं हरिम् ।

नृसिंहशब्दविवक्षितेषु (१) नवस्ववतारेषु नकारस्य
नरनारायणाख्यकत्रिंशद्वात्रिंशावतारद्वयपरत्वम्

नरो नारायणश्चैव नरनारायणाक्षरात् ॥ ५६-२१ ॥

ऋकारस्य पारिजातहरणाख्यत्रयोविंशावतारपरत्वम्

विश्वास-प्रस्तुतिः - ५६-२२

सत्या यस्य स सत्योऽसौ पारिजातहरो महान् ।
स सत्यार्णेन कथितः सत्यामङ्कस्थितां वहन् ॥ ५६-२२ ॥

मूलम् - ५६-२२

सत्या यस्य स सत्योऽसौ पारिजातहरो महान् ।
स सत्यार्णेन कथितः सत्यामङ्कस्थितां वहन् ॥ ५६-२२ ॥


१ अत्रायं वर्णविभागक्रमः- नकारः, पुनर्नकारः, ऋकारः,
मकार-नकार-ऋकार-सकार-रूपवर्णचतुष्टयसमुदायः, इकारः,
पुनरिकारः, ङकारः, हकारः, प्रत्ययावयवो मकारः, इत्येवं
नृसिंहशब्दावयवैर्नवभिर्वर्णैर्नरनारायणाद्यवतारनवक-
विवक्षेति ।


[[५६६]]

(१) मकारनकारऋकारसकाररूपवर्णचतुष्टयसमुदा-
यस्य राहुजिदाख्यैकविंशावतारपरत्वम्

विश्वास-प्रस्तुतिः - ५६-२३

खर्वदेहात् परो यो हि मर्दनः सहितः पथा ।
अङ्कुशस्तत्परः सोम इति वर्णचतुष्टयात् ॥ ५६-२३ ॥

मूलम् - ५६-२३

खर्वदेहात् परो यो हि मर्दनः सहितः पथा ।
अङ्कुशस्तत्परः सोम इति वर्णचतुष्टयात् ॥ ५६-२३ ॥

विश्वास-प्रस्तुतिः - ५६-२४

सोमस्य चरतो मार्गाद्योऽङ्कुशो राहुरुच्यते ।
तं मर्दयति यो देवो राहुजित् स निरुच्यते ॥ ५६-२४ ॥

मूलम् - ५६-२४

सोमस्य चरतो मार्गाद्योऽङ्कुशो राहुरुच्यते ।
तं मर्दयति यो देवो राहुजित् स निरुच्यते ॥ ५६-२४ ॥

इकारस्य परशुरामश्रीरामाख्यपञ्चत्रिंशषट्त्रिंशावतारद्वय-
परत्वम्

रामद्वयं समुद्दिष्टं रामवर्णेन नारद ।

(२) ङकारस्य क्रोडात्माख्यदशमावतारपरत्वम्

एकदंष्ट्रेण भगवान् क्रोडात्मा परिगीयते ॥ ५६-२५ ॥

हकारस्य विहङ्गमाख्यनवमावतारपरत्वम्

सूर्येण यः सहायाति हंसरूपी जनार्दनः ।


१ अयं च मकारो मन्त्रपूर्वार्धचरमावयवभूत
आकाङ्क्षासत्तियोग्यताबलादर्थगत्यनुरोधेनात्रानुषक्तः । अत एव
मुले खर्वदेहात् परः इति खकारात् परत्वेन मकारोऽयं विशेष्यते ।

२ इदमत्रावधेयम्-सिंहशब्दस्य हि द्वयी गतिः शब्दानुशासनसिद्धा
। यथा- षिच क्षरणे इति धातोः सिञ्चेः सञ्ज्ञायां हनुमौ कश्च
इत्यौणादिकानुशासनेन कप्रत्यये नुमागमे धातोरन्त्यस्य चकारस्य
हकारादेशे च कृते सिम्ह इति रूपनिष्पत्तिरित्येका ।
पृषोदरादेराकृतिगणत्वात् सिंहशब्दस्य तदन्तःपाठमङ्गीकृत्य हिसि
हिंसायां इति धातोः पचाद्यचि हकारसकारयोः स्थानव्यत्ययेन
सिम्ह इतिरूपसिद्धिरित्यपरा । तामिमां द्वयीमपि
गतिमभ्युपगम्यैतावान् भेदो मन्त्रशास्त्रेषु प्रायः स्वीकृतः, यत्
सिंहशब्दावयवस्य अनुस्वारस्य स्थाने कवर्गपञ्चमोच्चारणम् ।
अतोऽत्र स्वशास्त्रमर्यादामनुरुध्य सिंहशब्दे ङकारस्यैव
बुबोधयिषयैकदंष्ट्रशब्दप्रयोग इति ।


[[५६७]]

विहङ्गमः स देवेशः सूर्यवर्णेन वर्ण्यते ॥ ५६-२६ ॥

प्रत्ययावयवस्य मकारस्य कल्क्याख्याष्टात्रिंशावतारपरत्वम्

विश्वास-प्रस्तुतिः - ५६-२७

यो मर्दयति कल्क्याख्यो दस्युंस्तिष्ययगुगान्तजान् ।
सूर्योपरिस्थितेनैव मर्दनेन स गीयते ॥ ५६-२७ ॥

मूलम् - ५६-२७

यो मर्दयति कल्क्याख्यो दस्युंस्तिष्ययगुगान्तजान् ।
सूर्योपरिस्थितेनैव मर्दनेन स गीयते ॥ ५६-२७ ॥

भीषणशब्दविवक्षितेषु (१) चतुर्ष्ववतारेषु भकारस्य
ध्रुवाख्यद्वितीयावतारपरत्वम्

ध्रुवो देवः समुद्दिष्टो ध्रुवार्णेन महामुने ।

ईकारस्य न्यग्रोधशायिसञ्ज्ञकसप्तविंशावतारपरत्वम्

मायामयं समास्थाय न्यग्रोधदलमुज्ज्वलम् ॥ ५६-२८ ॥

यः शेते कान्तरूपेण स मायावर्णवर्णितः ।

षकारस्य नरसिंहाख्यसप्तदशावतारपरत्वम्

नृसिंहो देवदेवस्तु नृसिंहार्णेन वर्ण्यते ॥ ५६-२९ ॥

णकारस्य मधुसूदनाख्यपञ्चमावतारपरत्वम्

विश्वास-प्रस्तुतिः - ५६-३०

मधुं निहत्य यः पूर्वं प्रधानं मर्दनं विधेः ।
स्वबाहुबलमास्थाय विरिञ्चायाभयं ददौ ॥ ५६-३० ॥

मूलम् - ५६-३०

मधुं निहत्य यः पूर्वं प्रधानं मर्दनं विधेः ।
स्वबाहुबलमास्थाय विरिञ्चायाभयं ददौ ॥ ५६-३० ॥

देवो ह्यभयदार्णेन स उक्तो मधुसूदनः ।


१ अत्रायं वर्णविभागक्रमः- भकारः, ईकारः, षकारः, णकारः,
इत्येवं
भीषणशब्दावयवैश्चतुर्भिर्वर्णैर्ध्रुवाद्यवतारचतुष्कविवक्षेति ।


[[५६८]]

भद्रशब्दविवक्षितेषु (१) त्रिष्ववतारेषु भकारस्य
कपिलाख्यसप्तमावतारपरत्वम्

सिद्धिं ददाति यो दिव्यां प्रसङ्ख्यानमयीं पराम् ॥ ५६-३१ ॥

देवः सिद्धिप्रदार्णेन कपिलः स निगद्यते ।

दकारस्य दत्तात्रेयाख्यषड्विंशावतारपरत्वम्

दत्तात्रेयस्तु भगवान् दत्तात्रेयार्णवर्णितः ॥ ५६-३२ ॥

रेफस्य शान्तात्माख्यपञ्चविंशावतारपरत्वम्

दोषकालानलत्वेन तद्वर्णेन स ईर्यते ।

मृत्युमृत्युशब्दविवक्षितेऽवतारद्वये (२)
प्रथममृत्युशब्दस्यैकशृङ्गतनुसञ्ज्ञकमत्स्यापरपर्या-
याष्टाविंशावतारपरत्वम्

कालः कालः समुद्दिष्टः प्रधानं प्रकृतिः परा ॥ ५६-३३ ॥

विश्वास-प्रस्तुतिः - ५६-३४

ऋतधामा पुमांस्तत्स्थो वैराजश्च चतुर्गतिः ।
भुवनं च दधद् देहे यः शङ्खो मीन ईर्यते ॥ ५६-३४ ॥

मूलम् - ५६-३४

ऋतधामा पुमांस्तत्स्थो वैराजश्च चतुर्गतिः ।
भुवनं च दधद् देहे यः शङ्खो मीन ईर्यते ॥ ५६-३४ ॥

एकशृङ्गतनुर्देवो मृत्युवर्णैः स गद्यते ।

द्वितीयमृत्युशब्दस्य लोकनाथाख्यचतुर्विंशावतारपरत्वम्

प्रधानः सत्यरूपश्च वैराजो राजयञ्जगत् ॥ ५६-३५ ॥

चतुर्गतिर्देवदेवो लोकनाथो महाप्रभुः ।


१ भद्रशब्दे भकारः, दकारः, रेफः, इति त्रिभिर्वर्णैः
कपिलाद्यवतारत्रयविवक्षेति बोध्यम् ।

२ मृत्युशब्दद्वयेनावतारद्वयविवक्षेति स्पष्टमेव । तदेवं
ज्वलत्पदेनैकादशावताराः, सर्वतोमुखशब्देन दश,
नृसिंहशब्देन नव, भीषणशब्देन चत्वारः, भद्रशब्देन त्रयः,
मृत्युमृत्युशब्देन द्वौ, इति ज्वलदादीनां षण्णां
शब्दानामेकोनचत्वारिंशदवतारपरत्वं प्रपञ्चितम् ।


[[५६९]]

मृत्युवर्णसमुद्दिष्टः पूर्वस्माद् भुवनादपि ॥ ५६-३६ ॥

इति वर्णाश्रया रीतिः परा ते सम्प्रदर्शिता ।

अध्यायशेषेण मन्त्रस्य महिमान्तरनिरूपणम्

शृणु मन्त्रस्य माहात्म्यं भूयोऽपि मुनिसत्तम ॥ ५६-३७ ॥

विश्वास-प्रस्तुतिः - ५६-३८

पादशः प्रतिलोमोऽयं वैकुण्ठास्त्रं निगद्यते ।
अक्षरप्रतिलोमोऽयं स्मृतं नारायणास्त्रकम् ॥ ५६-३८ ॥

मूलम् - ५६-३८

पादशः प्रतिलोमोऽयं वैकुण्ठास्त्रं निगद्यते ।
अक्षरप्रतिलोमोऽयं स्मृतं नारायणास्त्रकम् ॥ ५६-३८ ॥

विश्वास-प्रस्तुतिः - ५६-३९

स्वराणां प्रतिलोमो यः संहिताशब्दरूपवान् ।
नारसिंहमहास्त्रं तन्नखक्रकचसञ्ज्ञितम् ॥ ५६-३९ ॥

मूलम् - ५६-३९

स्वराणां प्रतिलोमो यः संहिताशब्दरूपवान् ।
नारसिंहमहास्त्रं तन्नखक्रकचसञ्ज्ञितम् ॥ ५६-३९ ॥

विश्वास-प्रस्तुतिः - ५६-४०

प्रमित्यपेतो वरुणः कालपावकसंस्थितः ।
अप्रमेयः पुनस्तादृक् तृतीयाक्षरमीरितम् ॥ ५६-४० ॥

मूलम् - ५६-४०

प्रमित्यपेतो वरुणः कालपावकसंस्थितः ।
अप्रमेयः पुनस्तादृक् तृतीयाक्षरमीरितम् ॥ ५६-४० ॥

विश्वास-प्रस्तुतिः - ५६-४१

सूक्ष्मस्थः प्रथमः सूक्ष्मः संस्थितः कालपावकः ।
वरुणः सूक्ष्मयोर्द्वन्द्वं सप्तमाक्षरमीरितम् ॥ ५६-४१ ॥

मूलम् - ५६-४१

सूक्ष्मस्थः प्रथमः सूक्ष्मः संस्थितः कालपावकः ।
वरुणः सूक्ष्मयोर्द्वन्द्वं सप्तमाक्षरमीरितम् ॥ ५६-४१ ॥

विश्वास-प्रस्तुतिः - ५६-४२

सूक्ष्मस्थो गोपनः पश्चाद्वरुणो भुवनाश्रयः ।
वरजादार इत्येतन्नारसिंहास्त्रमीरितम् ॥ ५६-४२ ॥

मूलम् - ५६-४२

सूक्ष्मस्थो गोपनः पश्चाद्वरुणो भुवनाश्रयः ।
वरजादार इत्येतन्नारसिंहास्त्रमीरितम् ॥ ५६-४२ ॥

[[५७०]]

विश्वास-प्रस्तुतिः - ५६-४३

नवाक्षरमिदं श्रेष्ठं तत्र यत् प्रतिलोमजम् ।
अस्त्रमक्षरशस्तत्तु नारसिंहं महादिकम् ॥ ५६-४३ ॥

मूलम् - ५६-४३

नवाक्षरमिदं श्रेष्ठं तत्र यत् प्रतिलोमजम् ।
अस्त्रमक्षरशस्तत्तु नारसिंहं महादिकम् ॥ ५६-४३ ॥

विश्वास-प्रस्तुतिः - ५६-४४

तत्र स्वरप्रातिलोम्यादस्त्रं त्वतिमहादिकम् ।
व्यापकः सामृताधारो गोपनो द्व्यक्षरं तु तत् ॥ ५६-४४ ॥

मूलम् - ५६-४४

तत्र स्वरप्रातिलोम्यादस्त्रं त्वतिमहादिकम् ।
व्यापकः सामृताधारो गोपनो द्व्यक्षरं तु तत् ॥ ५६-४४ ॥

तत्र स्वरप्रातिलोम्ये गोपनो गोपनः सताम् ।

विश्वास-प्रस्तुतिः - ५६-४५

सर्वत्र प्रातिलोम्येन यद्यदस्त्रमुदीरितम् ।
तत्र तत्रानुलोम्येन तत्तच्छान्तिरुदीरिता ॥ ५६-४५ ॥

मूलम् - ५६-४५

सर्वत्र प्रातिलोम्येन यद्यदस्त्रमुदीरितम् ।
तत्र तत्रानुलोम्येन तत्तच्छान्तिरुदीरिता ॥ ५६-४५ ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम
षट्पञ्चाशोऽध्यायः ॥ ५६ ॥

आदितः श्लोकाः ३६३१