५५

नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम
पञ्चपञ्चाशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥

योगमतानुसारेण मन्त्रार्थनिरूपणप्रतिज्ञा

अहिर्बुध्न्यः –

विश्वास-प्रस्तुतिः - ५५-१

निर्ब्रुवन्ति यथा योगा मन्त्रमेतं विचक्षणाः ।
तथा वाच्यस्तव मुने तन्मे निगदतः शृणु ॥ ५५-१ ॥

मूलम् - ५५-१

निर्ब्रुवन्ति यथा योगा मन्त्रमेतं विचक्षणाः ।
तथा वाच्यस्तव मुने तन्मे निगदतः शृणु ॥ ५५-१ ॥

उग्रशब्दार्थनिरूपणम्

उद्गतः क्रुध इत्येवमुग्रः करणरोधनात् ।

वीरशब्दार्थनिरूपणम्

विवृता येन विजिता ईरा देहस्थवायवः ॥ ५५-२ ॥

स वीर उदितो योगैस्तन्त्रविज्ञानपारगैः ।

ज्वलच्छब्दार्थनिरूपणम्

जितेन्द्रियो जितश्वासो योऽन्तर्ज्वलति सर्वतः ॥ ५५-३ ॥

५५२) अनिन्द्रियव्यवच्छेदात् सर्वतः प्रसृतो ज्वलन् ।

सर्वतोमुखशब्दार्थनिरूपणम्

सर्वतोमुख उद्दिष्टः सर्वज्ञानमयो हरिः ॥ ५५-४ ॥

भीषणशब्दार्थनिरूपणम्

विश्वास-प्रस्तुतिः - ५५-५

भा सम्यग्ज्ञानमुद्दिष्टं तस्याः प्रेरणमीषणम् ।
भेषणो भीषणः प्रोक्तो भगवान् विश्वभावनः ॥ ५५-५ ॥

मूलम् - ५५-५

भा सम्यग्ज्ञानमुद्दिष्टं तस्याः प्रेरणमीषणम् ।
भेषणो भीषणः प्रोक्तो भगवान् विश्वभावनः ॥ ५५-५ ॥

महाविष्णुनृसिंहभद्रमृत्युमृत्युशब्दार्थस्य पूर्वोक्तत्वसूचनम्

महाविष्णुनृसिंहौ च मृत्युमृत्युश्च पूर्ववत् ।

सम्पिण्डितवाक्यार्थनिरूपणम्

जितेन्द्रियसमीराद्यं जीवरूपं व्यवस्थितम् ॥ ५५-६ ॥

विश्वास-प्रस्तुतिः - ५५-७

व्यापिनं महनीयं च धियां सम्यक् प्रचोदकम् ।
संसारमोचकं चैव यं विदुः पुरुषोत्तमम् ॥ ५५-७ ॥

मूलम् - ५५-७

व्यापिनं महनीयं च धियां सम्यक् प्रचोदकम् ।
संसारमोचकं चैव यं विदुः पुरुषोत्तमम् ॥ ५५-७ ॥

नमामि तमहं देवमिति योगानुशासनम् ।

पाशुपतमतानुसारेण मन्त्रार्थनिरूपणे उग्रशब्दार्थनिरूपणम्

उग्रव्रतसमाराध्य उग्रशब्देन वर्ण्यते ॥ ५५-८ ॥

वीरशब्दार्थनिरूपणम्

तत्पारयितृवन्द्यत्वं वीरशब्देन वर्ण्यते ।

सर्वतोमुखशब्दार्थनिरूपणम्

[[५५३]]

मलत्रयप्रागभावः सर्वतोमुखशब्दितः ॥ ५५-९ ॥

ज्वलच्छब्दार्थनिरूपणम्

सविद्घनत्वमाद्यस्य ज्वलच्छब्देन वर्ण्यते ।

भीषणशब्दार्थनिरूपणम्

अर्थपञ्चकरूपस्तु पाशो भीशब्ददर्शितः ॥ ५५-१० ॥

विश्वास-प्रस्तुतिः - ५५-११

भियं स्यति द्यति स्पष्टं पाशं छिन्त्ते पशोरिति ।
पशुपाशच्छिदं वक्ति शब्दो भीषण इत्ययम् ॥ ५५-११ ॥

मूलम् - ५५-११

भियं स्यति द्यति स्पष्टं पाशं छिन्त्ते पशोरिति ।
पशुपाशच्छिदं वक्ति शब्दो भीषण इत्ययम् ॥ ५५-११ ॥

मृत्युमृत्युशब्दार्थनिरूपणम्

शिवङ्करत्वमीशस्य मृत्युमृत्युपदोदितम् ।

पदान्तरार्थस्य पूर्वप्रदर्शितत्वसूचनम्

महाविष्णुर्नृसिंहश्च पूर्वमेव प्रदर्शितौ ॥ ५५-१२ ॥

सम्पिण्डितवाक्यार्थनिरूपणम्

विश्वास-प्रस्तुतिः - ५५-१३

उग्रव्रतप्रियं नित्यमुग्रव्रतपरार्चितम् ।
मलत्रयापरामृष्टं चिद्घनं पाशभेदिनम् ॥ ५५-१३ ॥

मूलम् - ५५-१३

उग्रव्रतप्रियं नित्यमुग्रव्रतपरार्चितम् ।
मलत्रयापरामृष्टं चिद्घनं पाशभेदिनम् ॥ ५५-१३ ॥

विश्वास-प्रस्तुतिः - ५५-१४

शिवं वदन्ति यं विष्णुं महान्तं पुरुषोत्तमम् ।
नमाम्यहं तमित्येवमर्थः पाशुपते स्मृतः ॥ ५५-१४ ॥

मूलम् - ५५-१४

शिवं वदन्ति यं विष्णुं महान्तं पुरुषोत्तमम् ।
नमाम्यहं तमित्येवमर्थः पाशुपते स्मृतः ॥ ५५-१४ ॥

[[५५४]]

त्रय्यन्तमतानुसार्यर्थस्य पूर्वनिरूपितत्वसूचनम्

त्रय्यन्तपदवीवेद्यः पूर्वमेव (१) निरूपितः ।

सात्त्वतमतेन मन्त्रार्थनिरूपणम्

अर्थं सात्त्वतसंवेद्यमप्रमत्तोऽवधारय ॥ ५५-१५ ॥

उग्रशब्दस्य सङ्कर्षणाख्यव्यूहपरत्वम्

विश्वास-प्रस्तुतिः - ५५-१६

उद्गिरत्यमलं शास्त्रमुद्गीर्य रमयत्यपि ।
गिरत्यन्ते च तच्छास्त्रमुग्रः सङ्कर्षणः स्मृतः ॥ ५५-१६ ॥

मूलम् - ५५-१६

उद्गिरत्यमलं शास्त्रमुद्गीर्य रमयत्यपि ।
गिरत्यन्ते च तच्छास्त्रमुग्रः सङ्कर्षणः स्मृतः ॥ ५५-१६ ॥

वीरशब्दस्य प्रद्युम्नाख्यव्यूहपरत्वम्

विश्वास-प्रस्तुतिः - ५५-१७

विना कृत्वा प्रेरयति रजसा तमसा त्रयीम् ।
वीरां करोति तां विद्यां वैद्यमानवसर्गयोः ॥ ५५-१७ ॥

मूलम् - ५५-१७

विना कृत्वा प्रेरयति रजसा तमसा त्रयीम् ।
वीरां करोति तां विद्यां वैद्यमानवसर्गयोः ॥ ५५-१७ ॥

विश्वास-प्रस्तुतिः - ५५-१८

वीरयत्यपि चात्मानं तमोमधुनिघातने ।
व्यापारयति शास्त्रार्थानुष्ठाने कर्म निर्मलम् ॥ ५५-१८ ॥

मूलम् - ५५-१८

वीरयत्यपि चात्मानं तमोमधुनिघातने ।
व्यापारयति शास्त्रार्थानुष्ठाने कर्म निर्मलम् ॥ ५५-१८ ॥

अतो वीरं वदन्त्याद्यं प्रद्युम्नं पुरुषोत्तमम् ।

महाविष्णुशब्दस्यानिरुद्धाख्यव्यूहपरत्वम्

महान् भवति चेष्टाभिरनिरुद्धश्च सर्वतः ॥ ५५-१९ ॥

विश्वास-प्रस्तुतिः - ५५-२०

एकत्रिचतुरीहाभिस्ते पूर्वे मितवृत्तयः ।
कार्यस्य च मितत्वेन तेषां शक्तिर्निरोधिता ॥ ५५-२० ॥

मूलम् - ५५-२०

एकत्रिचतुरीहाभिस्ते पूर्वे मितवृत्तयः ।
कार्यस्य च मितत्वेन तेषां शक्तिर्निरोधिता ॥ ५५-२० ॥


१ पूर्वाध्याये सप्तदशश्लोकमारभ्य
चत्वारिंशश्लोकपूर्वार्धान्तैः सार्धत्रयोविंशत्या श्लोकैर्निरूपित
इति बोध्यम् ।


[[५५५]]

विश्वास-प्रस्तुतिः - ५५-२१

आम्नायन्तेऽनिरुद्धे तु चेष्टाः सङ्ख्यानवर्जिताः ।
कार्याण्यपरिमेयानि सृष्टिस्थित्यादिकानि तु ॥ ५५-२१ ॥

मूलम् - ५५-२१

आम्नायन्तेऽनिरुद्धे तु चेष्टाः सङ्ख्यानवर्जिताः ।
कार्याण्यपरिमेयानि सृष्टिस्थित्यादिकानि तु ॥ ५५-२१ ॥

विश्वास-प्रस्तुतिः - ५५-२२

शक्तिस्तद्विषया या तु या व्याप्तिर्विष्णुता च सा ।
सा चानिरुद्धता तस्य तुर्यव्यूहस्य शार्ङ्गिणः ॥ ५५-२२ ॥

मूलम् - ५५-२२

शक्तिस्तद्विषया या तु या व्याप्तिर्विष्णुता च सा ।
सा चानिरुद्धता तस्य तुर्यव्यूहस्य शार्ङ्गिणः ॥ ५५-२२ ॥

महाविष्णुस्ततः प्रोक्तः सोऽनिरुद्धो विचक्षणैः ।

ज्वलच्छब्दस्य रामकृष्णादिविभवपरत्वम्

विकासो ज्वलनं प्रोक्तं तस्य ब्रह्माण्डमध्यतः ॥ ५५-२३ ॥

यद्वदन्त्यवतारं तु वैभवं हरिमेधसः ।

सर्वतोमुखशब्देनावताराणां
सौलभ्यकाष्ठाभूमिभूतनानायोनित्वस्य बोधनम्

सर्वतोमुखशब्देन नानायोनिनिवेशनम् ॥ ५५-२४ ॥

भद्रशब्दस्यावतारदशायामपि हेयसम्बन्धराहित्यपरत्वम्

भद्रत्वं तत्र तस्यापि ह्यजहत्स्वस्वभावता ।

भीषणशब्दस्य मोक्षप्रदत्वपरत्वम्

भियः संसारबन्धस्य (१) सानं भीषणता मता ॥ ५५-२५ ॥

सा सप्रकारविज्ञानमात्रलभ्योपदिश्यते ।


१ षोऽन्तकर्मणि इति धातुः


[[५५६]]

मृत्युमृत्युशब्देन भद्रशब्दोदितस्य हेयप्रतिभटत्वस्य
बोधनम्

हेयप्रत्यर्थिता या सा ब्रह्मणः सार्वकालिकी ॥ ५५-२६ ॥

स्वाभाविकी च सा प्रोक्ता मृत्युमृत्युपदेन तु ।

नृसिंहशब्दस्य द्विविधव्याप्तिपरत्वम्

नॄनात्मनोऽनुबध्यान्तर्हित्वैनान् परितोऽपि च ॥ ५५-२७ ॥

विश्वास-प्रस्तुतिः - ५५-२८

या स्थितिस्तस्य देवस्य पुरुषोत्तमताह्वया ।
सोक्ता नृसिंहशब्देन सैषा वाक्यार्थ उच्यते ॥ ५५-२८ ॥

मूलम् - ५५-२८

या स्थितिस्तस्य देवस्य पुरुषोत्तमताह्वया ।
सोक्ता नृसिंहशब्देन सैषा वाक्यार्थ उच्यते ॥ ५५-२८ ॥

विश्वास-प्रस्तुतिः - ५५-२९

सङ्कर्षणादिरूपेण व्यूह्यात्मानं त्रिधा स्थितः ।
तत्तदाश्रितकार्याय यो विभुः सर्वतोमुखः ॥ ५५-२९ ॥

मूलम् - ५५-२९

सङ्कर्षणादिरूपेण व्यूह्यात्मानं त्रिधा स्थितः ।
तत्तदाश्रितकार्याय यो विभुः सर्वतोमुखः ॥ ५५-२९ ॥

विश्वास-प्रस्तुतिः - ५५-३०

नानाविभवरूपेण ज्वलत्यन्तर्भवोदरे ।
एवं ज्वलन् भवत्येव भद्रो भद्रतरस्तथा ॥ ५५-३० ॥

मूलम् - ५५-३०

नानाविभवरूपेण ज्वलत्यन्तर्भवोदरे ।
एवं ज्वलन् भवत्येव भद्रो भद्रतरस्तथा ॥ ५५-३० ॥

विश्वास-प्रस्तुतिः - ५५-३१

एवं विज्ञातमात्रो यो भीषणो बन्धनाशकृत् ।
मृत्योर्हेयस्वरूपस्य मृत्युः प्रतिभटो यतः ॥ ५५-३१ ॥

मूलम् - ५५-३१

एवं विज्ञातमात्रो यो भीषणो बन्धनाशकृत् ।
मृत्योर्हेयस्वरूपस्य मृत्युः प्रतिभटो यतः ॥ ५५-३१ ॥

विश्वास-प्रस्तुतिः - ५५-३२

तमहं व्यूहविभवविज्ञानसुलभं नृणाम् ।
अन्तर्बहिरिदं व्याप्य तिष्ठन्तं पुरुषोत्तमम् ॥ ५५-३२ ॥

मूलम् - ५५-३२

तमहं व्यूहविभवविज्ञानसुलभं नृणाम् ।
अन्तर्बहिरिदं व्याप्य तिष्ठन्तं पुरुषोत्तमम् ॥ ५५-३२ ॥

विश्वास-प्रस्तुतिः - ५५-३३

नृसिंहं करणैः सर्वैरात्मत्वेनानुसन्दधे ।
इति सात्त्वतसिद्धार्थो लेशतस्ते निदर्शितः ॥ ५५-३३ ॥

मूलम् - ५५-३३

नृसिंहं करणैः सर्वैरात्मत्वेनानुसन्दधे ।
इति सात्त्वतसिद्धार्थो लेशतस्ते निदर्शितः ॥ ५५-३३ ॥

[[५५७]]

सूक्ष्मो नानाविधोऽर्थो यः (१) परमद्य निशामय ।

परार्थवर्णने प्रथममुग्रपदस्य
सङ्कर्षणाख्यव्यूहपरत्वकथनम्

अशेषभुवनाधारः संसारगदनाशनः ॥ ५५-३४ ॥

विश्वास-प्रस्तुतिः - ५५-३५

उद्दाम उदयो विष्णोः सङ्कर्षणसमाह्वयः ।
उग्रवर्णैः समुद्दिष्ठो वैष्णवः प्रथमोदयः ॥ ५५-३५ ॥

मूलम् - ५५-३५

उद्दाम उदयो विष्णोः सङ्कर्षणसमाह्वयः ।
उग्रवर्णैः समुद्दिष्ठो वैष्णवः प्रथमोदयः ॥ ५५-३५ ॥

तदुपपादनम्

विश्वास-प्रस्तुतिः - ५५-३६

तिलकालकवद्यस्मात् तत्र विश्वं प्रकाशते ।
दिव्यशास्त्रोपदेशेन गदं ध्वंसयते यतः ॥ ५५-३६ ॥

मूलम् - ५५-३६

तिलकालकवद्यस्मात् तत्र विश्वं प्रकाशते ।
दिव्यशास्त्रोपदेशेन गदं ध्वंसयते यतः ॥ ५५-३६ ॥

उद्दामः सोऽप्रतिहतो विष्णोरुदय उज्ज्वलः


१ इदमत्र रहस्यम्- नारसिंहानुष्टुभमन्त्रस्य परार्थवर्णनं
नाम मन्त्रवर्णानामप्रमेयादिभावसंसिद्धव्यूहविभवपरत्व-
प्रदर्शनम् । तथा हि- आनुष्टुभे ह्येकादश पदानि । तत्र प्रथमान्तं
कर्तृकारकबोधकं चरमं पदम् । उत्तमपुरुषैकवचनान्तं
नमनक्रियावाचि दशमम् । अवशिष्टानि नव द्वितीयैकवचनान्तानि
पदानि नमिकर्मीभूतवस्तुविशेषबोधनानि । तत्राद्यं पदत्रयं
क्रमात् सङ्कर्षणप्रद्युम्नानिरुद्धाख्यव्यूहत्रयपरम् ।
ज्वलदादिपदषट्कं तु पञ्चमाध्यायावसानप्रतिपादितस्य
पद्मनाभादेः पातालशयनान्तस्य विभवानामेकोनचत्वारिंशतो
यथासम्भवं प्रतिपादकम् । तत्र परमद्य निशामय
इत्यादिनाध्यायशेषेण सङ्कर्षणादिव्यूहपरत्वमुग्रवीरमहा-
विष्णुशब्दानां प्रदर्श्यते । बहुवक्तव्यत्वात् पृथगध्यायारम्भेण
ज्वलदादिपदानां पद्मनाभादिपरत्वमुत्तराध्याये प्रदर्शयिष्यत
इति । तत्र अशेषभुवनाधारः इत्यादेः सार्धश्लोकत्रयस्यायमाशयः-
उग्रपदस्थैरुकारगकाररेफैर्व्युत्क्रमेण गुणत्रयं विवक्षितम् ।
रेफेणाशेषभुवनाधारत्वम्, गकारेण संसारगदनाशकत्वम्,
उकारेणोद्दामत्वविशेषितमुदयरूपत्वम् । रेफादिभिः
स्वपर्यायभूताशेषभुवनाधारादिशब्दान्तराण्युपस्थाप्य
तन्मुखेन यथोक्तगुणोपस्थापनसम्भवात् ।
अशेषभुवनाधारादिशब्दानां रेफादिपर्यायत्वं च प्रपञ्चितं
सप्तदशे । उदये उद्दामत्वं चाप्रतिहतत्वम् । तथा
चाशेषभुवनाधारत्वादिगुणविभूषितोऽप्रतिहतो विष्णोः
प्रधमोदयः सङ्कर्षण एव भवतीति स एवोग्रपदावयवैर्वर्णैः
समुद्दिष्ट इति । अनयैव दिशा वीरादिपदेष्वप्यर्थगतिरभ्यूह्या ।


[[५५८]]

अत उग्रपदोद्दिष्टो देवः सङ्कर्षणः प्रभुः ॥ ५५-३७ ॥

वीरपदेन प्रद्युम्नव्यूहस्य प्रतिपादनम्

विश्वास-प्रस्तुतिः - ५५-३८

अमृताधाररूपश्च मायावांश्च ततोऽनलः ।
प्रद्युम्नो वीरशब्देन गदितः पुष्करेक्षणः ॥ ५५-३८ ॥

मूलम् - ५५-३८

अमृताधाररूपश्च मायावांश्च ततोऽनलः ।
प्रद्युम्नो वीरशब्देन गदितः पुष्करेक्षणः ॥ ५५-३८ ॥

तदुपपादनम्

अमृतं भगवद्धर्मस्तस्याधारः समाश्रयः ।

सम्पिण्डितवाक्यार्थनिरूपणम्

सद्धर्मस्य ह्यधिष्टाता प्रद्युम्नो धर्मसंश्रयः ॥ ५५-३९ ॥

विश्वास-प्रस्तुतिः - ५५-४०

माया ज्ञानं यतो विद्यां सम्बोधयति मायया ।
दहत्यनलवच्चैव विद्यादोषं तमोमयम् ॥ ५५-४० ॥

मूलम् - ५५-४०

माया ज्ञानं यतो विद्यां सम्बोधयति मायया ।
दहत्यनलवच्चैव विद्यादोषं तमोमयम् ॥ ५५-४० ॥

वीरवर्णैरतो देवः प्रद्युम्नः परिकीर्त्यते ।

महाविष्णुशब्देनानिरुद्धव्यूहस्य सङ्कीर्तनम्

कालः प्रधानमाधारस्तयोः प्राणः सदाभवत् ॥ ५५-४१ ॥

विश्वास-प्रस्तुतिः - ५५-४२

गोपनश्च तयोर्नित्यं वृण्वानः सकला गतीः ।
एधयन् मानवं गर्भं तत्तत्संवत्सरैः क्रमात् ॥ ५५-४२ ॥

मूलम् - ५५-४२

गोपनश्च तयोर्नित्यं वृण्वानः सकला गतीः ।
एधयन् मानवं गर्भं तत्तत्संवत्सरैः क्रमात् ॥ ५५-४२ ॥

विश्वास-प्रस्तुतिः - ५५-४३

अग्निरूपो जगत्यस्मिन् भास्करश्च स्वयं भवन् ।
भुवनाभयदश्चैव वैकुण्ठोऽविहतं जगत् ॥ ५५-४३ ॥

मूलम् - ५५-४३

अग्निरूपो जगत्यस्मिन् भास्करश्च स्वयं भवन् ।
भुवनाभयदश्चैव वैकुण्ठोऽविहतं जगत् ॥ ५५-४३ ॥

[[५५९]]

शासिता स्वयमध्यक्षो महाविष्णुर्विवर्णितः ।

तदुपपादनम्

पुष्करं कालरूपेण धत्ते नाभिसमुद्भवम् ॥ ५५-४४ ॥

विश्वास-प्रस्तुतिः - ५५-४५

अन्तःस्थपुरुषं चैव प्रधानं तद्गतं दधत् ।
कालप्रधानशब्दाभ्यामभेदेनाभिधीयते ॥ ५५-४५ ॥

मूलम् - ५५-४५

अन्तःस्थपुरुषं चैव प्रधानं तद्गतं दधत् ।
कालप्रधानशब्दाभ्यामभेदेनाभिधीयते ॥ ५५-४५ ॥

विश्वास-प्रस्तुतिः - ५५-४६

प्राणयन् कालतः साङ्ख्यकालजीवत्रयीत्रयम् ।
प्राणवर्णेन निर्दिष्ठो गोपनो गोपनाख्यया ॥ ५५-४६ ॥

मूलम् - ५५-४६

प्राणयन् कालतः साङ्ख्यकालजीवत्रयीत्रयम् ।
प्राणवर्णेन निर्दिष्ठो गोपनो गोपनाख्यया ॥ ५५-४६ ॥

विश्वास-प्रस्तुतिः - ५५-४७

कार्याणि गतयः प्रोक्तास्ताश्च वृण्वंश्चिकीर्षया ।
उक्तो वरुणवर्णेन सा हि तस्यानिरुद्धता ॥ ५५-४७ ॥

मूलम् - ५५-४७

कार्याणि गतयः प्रोक्तास्ताश्च वृण्वंश्चिकीर्षया ।
उक्तो वरुणवर्णेन सा हि तस्यानिरुद्धता ॥ ५५-४७ ॥

विश्वास-प्रस्तुतिः - ५५-४८

गर्भं काल्स्थविद्यायां जीवमन्वष्टकात्मकम् ।
पुष्णन्नब्दसहस्रेण देव इद्धार्णवर्णितः ॥ ५५-४८ ॥

मूलम् - ५५-४८

गर्भं काल्स्थविद्यायां जीवमन्वष्टकात्मकम् ।
पुष्णन्नब्दसहस्रेण देव इद्धार्णवर्णितः ॥ ५५-४८ ॥

विश्वास-प्रस्तुतिः - ५५-४९

अग्निसूर्यादिके चैव देवसर्गे हि वैद्यके ।
तत्तद्देवप्रवेशेन तत्तन्नाम दधत् स्वयम् ॥ ५५-४९ ॥

मूलम् - ५५-४९

अग्निसूर्यादिके चैव देवसर्गे हि वैद्यके ।
तत्तद्देवप्रवेशेन तत्तन्नाम दधत् स्वयम् ॥ ५५-४९ ॥

विश्वास-प्रस्तुतिः - ५५-५०

अन्गिभास्करवर्णेन स्वयं देव उदीर्यते ।
कालाद्यवनिपर्यन्तं चेतनाचेतनात्मकम् ॥ ५५-५० ॥

मूलम् - ५५-५०

अन्गिभास्करवर्णेन स्वयं देव उदीर्यते ।
कालाद्यवनिपर्यन्तं चेतनाचेतनात्मकम् ॥ ५५-५० ॥

विश्वास-प्रस्तुतिः - ५५-५१

भुवनार्णोदितं यत् तद् भुवनाङ्गविचित्रितम् ।
तस्य दुष्टनिबर्हेण यो ददात्यभयं सदा ॥ ५५-५१ ॥

मूलम् - ५५-५१

भुवनार्णोदितं यत् तद् भुवनाङ्गविचित्रितम् ।
तस्य दुष्टनिबर्हेण यो ददात्यभयं सदा ॥ ५५-५१ ॥

विश्वास-प्रस्तुतिः - ५५-५२

यश्चाविहत एवासीत् तत्तत्कार्यसमुद्यमे ।
अनुप्रविश्य भूतानि योऽध्यक्षः सन्नियच्छति ॥ ५५-५२ ॥

मूलम् - ५५-५२

यश्चाविहत एवासीत् तत्तत्कार्यसमुद्यमे ।
अनुप्रविश्य भूतानि योऽध्यक्षः सन्नियच्छति ॥ ५५-५२ ॥

[[५६०]]

एषोऽभयदवैकुण्ठशास्तृवर्णेन वर्ण्यते ।

विश्वास-प्रस्तुतिः - ५५-५३

इति व्यूहाः समुद्दिष्टा उग्रादित्रितयेन तु ।
ज्वलदादिनिरूप्योऽर्थो ह्यतः परमुदीर्यते ॥ ५५-५३ ॥

मूलम् - ५५-५३

इति व्यूहाः समुद्दिष्टा उग्रादित्रितयेन तु ।
ज्वलदादिनिरूप्योऽर्थो ह्यतः परमुदीर्यते ॥ ५५-५३ ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम
पञ्चपञ्चाशोऽध्यायः ॥ ५५ ॥

आदितः श्लोकाः ३५८६