नारसिंहानुष्टुभमन्त्रार्थनिरूपणं नाम
चतुष्पञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
सप्तभिः श्लोकैर्मन्त्रमाहात्म्यनिरूपणम्
अहिर्बुध्न्यः –
इति ते लेशतः प्रोक्तो जितन्ताख्यो महामनुः ।
नारसिंहमिदानीं मे तत्त्वतः शृणु नारद ॥ ५४-१ ॥
मन्त्रस्यास्यैहिकामुष्मिकनानाविधफलसाधनता
सर्वाश्चर्यकरः सोऽयं नारसिंहो महामनुः ।
दिव्यान्तरिक्षभौमानां भोगानामुपपादकः ॥ ५४-२ ॥
आध्यात्मिकादिरूपाणां त्रिविधानां तथापदाम् ।
निवारणस्तथा रक्षोदैत्यदानवमर्दनः ॥ ५४-३ ॥
सङ्ख्ययोगपाञ्चरात्रवेदान्तपाशुपतैरप्यस्यावश्योपजीव्यत्वम्
साङ्ख्यानां परमं ज्ञानमिदमेव महामुने ।
इयं सोपानभूमिः सा योगिनां नियतात्मनाम् ॥ ५४-४ ॥
[[५४३]]
तदेतदयनं ह्येकं सात्त्वतानां महात्मनाम् ।
एतत् त्रय्यन्तसर्वस्वमेतत् पाशुपतं मतम् ॥ ५४-५ ॥
सर्वचेतनहितकामनया कल्पादौ सङ्कर्षणेनास्य प्रकाशितत्वम्
सङ्कर्षणो जगत्यस्मिन् सृष्टे नानाविधे पुरा ।
हिताय सर्वजीवानां ज्ञानमेतत् परं जगौ ॥ ५४-६ ॥
ब्रह्मरुद्रादीनामपि महता श्रमेण सङ्कर्षणादेतन्मन्त्रप्राप्तिः
तप्त्वा घोरं तपो ब्रह्मा तस्मादधिजगौ पुरा ।
अधीतवानहं तस्मान्मत्तो दिव्या महर्षयः ॥ ५४-७ ॥
स्थूलार्थनिरूपणे शेषत्वज्ञानपूर्वकमात्मात्मीययोर्भगवति
समर्पणनिरुपणम्
नमनं नतिरित्युक्तं नीचीभावश्च स स्मृतः ।
परं प्रत्यात्मनो नीचीभावः शेषत्वमेव हि ॥ ५४-८ ॥
आत्मानं शेषतां नीत्वा नमामीतिपदेन तु ।
आत्मीयमर्थं तत् तस्मै निवेदयति मन्त्रवित् ॥ ५४-९ ॥
मान्त्रवर्णिकैरुग्रादिपदैः रौद्रादिरसप्रतिपादनम्
क्रोधातिशयतो रौद्रो रस उग्र उदीरितः ।
उत्साहातिशयोत्थायी वीरो वीरपदोदितः ॥ ५४-१० ॥
चतुर्भिरद्भुतैः शब्दैर्महाविष्ण्वादिपूर्वकैः ।
भयातिशयहेतुत्वाद् भीषणेन भयानकः ॥ ५४-११ ॥
[[५४४]]
रसं वदति शृङ्गारं मन्त्रभद्रपदं मुने ।
मृत्युमृत्युपदं चापि वदत्यद्भुतभीषणौ ॥ ५४-१२ ॥
अहम्पदस्य भगवच्छेषत्वेन रूपेणात्मस्वरूपनिष्कर्षकत्वम्
अहमित्यात्मनिष्कर्षो नन्तुर्भागवतात्मना ।
उग्रादिपदाभिहितानां रौद्रादिरसानां विषयव्यवस्थाप्रदर्शनम्
उग्रः शत्रुधिया देवो वीरो देवगणेक्षया ॥ ५४-१३ ॥
महाविष्णुर्ज्वलंश्चैव सर्वतोमुख इत्यपि ।
नृसिम्ह इति चाश्चर्यो योगसिद्धजनेक्षया ॥ ५४-१४ ॥
भीषणो देव उद्दिष्टः क्षुद्ररक्षोगणेक्षया ।
आनन्दवलितापाङ्ग्या लक्ष्म्या भद्रो निरीक्षितः ॥ ५४-१५ ॥
ऋषीणां मृत्युमृत्युः स भीषणाश्चर्ययोगतः ।
क्रियाकारकसंसर्गजन्योऽर्थः स्थूल ईदृशः ॥ ५४-१६ ॥
सूक्ष्मार्थनिरूपणम्
सूक्ष्ममर्थं निबोधेमं यः प्रातिपदिकाश्रयः ।
उग्रशब्दार्थनिरूपणम्
उद्गिरत्यखिलं विश्वमुद्गीर्णं ग्रसति स्वयम् ॥ ५४-१७ ॥
वीरशब्दार्थनिरूपणम्
वीरयत्यखिलं भावं विविधं रमयत्यपि ।
महच्छब्देन त्रिविधपरिच्छेदशून्यत्वस्य बोधनम्
[[५४५]]
कालदेशाद्यवच्छेदविरहात् स महान् स्मृतः ॥ ५४-१८ ॥
पुनर्महच्छब्दस्य नवधा निर्वचनप्रदर्शनम्
(१) महीयतेर्मेहतेर्वा मुह्यतेरथवा मिहेः ।
मनुतेः सजहातेर्वा मां जिहीतेऽथवा महान् ॥ ५४-१९ ॥
मात्यस्मिन्नथ वा विश्वं न जहात्यपि वै जगत् ।
यथाक्रमं तेषामुपपादनम्
महीयते परे व्योम्नि महानिति निरुच्यते ॥ ५४-२० ॥
मेहतिर्दानकर्मायं महान् मेहत्यभीप्सितम् ।
मोहयत्यात्मचेष्टाभिरिति देवो महान् स्मृतः ॥ ५४-२१ ॥
स्वं मेहत्यप्सु वै वीर्यमण्डत्वेनेति वै महान् ।
मनुते नित्ययोगेन स्वेन ज्ञानात्मना महान् ॥ ५४-२२ ॥
जहाति विविधान् भावान् षड् भावा इति यान् विदुः ।
मेति लक्ष्मीर्मता देवी तां जिहीतेऽभिगच्छति ॥ ५४-२३ ॥
दिव्यं नित्यपरिष्वक्तं मिथुनं तन्महानतः ।
१ अत्रैते सप्त धातवो विवक्षिता बोध्याः- मह पूजायाम् भ्वादि मिह
सेचने भ्वादिः; मुह वैचित्त्ये दिवादिः; मनु अवबोधने तनादिः; ओहाक्
त्यागे जुहोत्यादिः; ओहाङ् गतौ जुहोत्यादिः; मा मने अददिः; इति । अत्र मिह
सेचने इत्यत्र सेचनं मिश्रीकरणम् । तेन मेहतिर्दानकर्मायं इति
ग्रन्थोपपत्तिः । यद्यपि नवविधनिर्वचनोपयोगितया नव
धातवोऽपेक्षिताः, तथापि मिहधातोर्हाङधातोश्च तात्पर्यभेदेन
वारद्वयमावृत्तत्वान्नवसङ्ख्यापूरणं बोध्यम् ।
[[५४६]]
मात्यस्मिन्निखिलेनेदं कुण्डे बदरवज्जगत् ॥ ५४-२४ ॥
न जहाति बहिर्भूतस्तच्च देहे महानतः ।
विष्णुशब्दार्थनिरूपणम्
(१) विविनक्ति जगत्यस्मिन् सच्चासच्च विचेष्टते ॥ ५४-२५ ॥
(२) वेवेष्टि निखिलान् भोगान् यच्छति प्राणिनां स्वयम् ।
आयत्तैः सकलैर्जीवैः प्रणौत्यन्तः स्वरात्मना ॥ ५४-२६ ॥
इति शब्दार्थतत्त्वज्ञा विष्णुं देवं प्रचक्षते ।
महाविष्णुपदसम्पिण्डितार्थनिरूपणम्
महान् विशति संसारे जायमानो यतो महान् ॥ ५४-२७ ॥
महाविष्णुमतो धीरा देवमेनं प्रचक्षते ।
ज्वलच्छब्दार्थनिरूपणम्
हृदये योगिनां नित्यं सूरीणां परमे पदे ॥ ५४-२८ ॥
वितानेषु च विप्राणां यतो ज्वलति वै स्वयम् ।
सूर्याचन्द्रमसौ वह्निरिति तेजस्त्रयं परम् ॥ ५४-२९ ॥
आविश्य ज्वलयत्यन्तरवतीर्णो ज्वलत्यपि ।
ज्ञानात्मना स्वरूपेण ज्वलत्येको जगद् ग्रसन् ॥ ५४-३० ॥
इति ज्वलन्तमाहुस्तं सर्वतो (३) हरिमेधसम् ।
१ विचिर् पृथग्भावे इति धातुः
२ विषॢ व्याप्तौ इति धातुः
३ आश्रितदुरितानि हरन्ती मेधा सङ्कल्पो यस्य स हरिमेधाः;
स्वप्राप्तिप्रतिबन्धकस्वाश्रितदुरितविनाशविषयकामोघसङ्कल्प-
विशिष्ट इत्यर्थः ।
[[५४७]]
सर्वतोमुखशब्दार्थनिरूपणम्
मुखं शक्तिः समुद्दिष्टा सर्वतो यस्य सा स्थिता ॥ ५४-३१ ॥
सर्वतोमुखमाहुस्तं सर्वशक्तिं सनातनम् ।
नृसिंहशब्दाथनिरूपणम्
नराणां बन्धनं हन्ति हिनस्तीति नृसिंहता ॥ ५४-३२ ॥
भीषणशब्दार्थनिरूपणम्
भियं सनोति दुष्टानां भीषणस्तेन शब्द्यते ।
भद्रशब्दार्थनिरूपणम्
भां ददाति रवौ भद्रां भावं द्रावयते सताम् ॥ ५४-३३ ॥
भवं द्रावयते घोरं संसारं तापसन्ततम् ।
मृत्युमृत्युशब्दार्थनिरूपणम्
मृत्युरज्ञानमुद्दिष्टं मृत्युः प्राणापहारकः ॥ ५४-३४ ॥
मृत्युः संसार उद्दिष्टस्तेषां मृत्युर्यतो हरिः ।
प्रथममृत्युशब्दस्याज्ञानादित्रयपरत्वे निर्वचनप्रदर्शनम्
मतिं त्यजत्यनेनेति मृत्युरज्ञानमुच्यते ॥ ५४-३५ ॥
मृतिं तनोति जन्तूनामिति मृत्युरिति स्थितिः ।
मृतिसन्तानरूपत्वान्मृत्युः संसार उच्यते ॥ ५४-३६ ॥
द्वितीयमृत्युशब्दस्य
प्रथममृत्युशब्दोदिताज्ञानादित्रयनाशकत्वपरत्वम्
[[५४८]]
नाशकत्वमिहोद्दिष्टं मितमुत्तरमृत्युना ।
अहंशब्दस्य चतुर्धार्थवर्णनम्
अं जिहीते हरिं याति स्वरूपेणेह तादृशः ॥ ५४-३७ ॥
पूर्णानन्दस्वरूपो हि चेतनो निखिलो यतः ।
अहीनश्चाप्ययं सर्वैर्ज्ञानशक्त्यादिभिः स्वतः ॥ ५४-३८ ॥
अह्ना वाप्यमितोऽयं स्यात् कालातीतो यतोऽखिलः ।
अह्नि वा माति जीवोऽयमहमर्थः स उच्यते ॥ ५४-३९ ॥
अहः सङ्कर्षणो ज्ञेयस्तस्मिञ्जीवोऽखिलः स्थितः ।
साङ्ख्यमार्गेण मन्त्रार्थं
प्रदर्शयितुमुग्रभीषणशब्दतात्पर्यार्थनिरूपणम्
उग्रभीषणशब्दाभ्यां प्रोच्यतेऽव्यक्तरूपता ॥ ५४-४० ॥
उग्रमत्यन्तघोरं यद्भीषणं भयदायि च ।
अव्यक्तं तत् परिज्ञेयं भगवद्रूपमेव हि ॥ ५४-४१ ॥
ज्वलच्छब्दतात्पर्यार्थनिरूपणम्
ज्वलन्तमिति शब्देन प्रोच्यते जीवरूपता ।
चैतन्यं ज्वलनं प्रोक्तं तत्कर्ता चेतनो ज्वलन् ॥ ५४-४२ ॥
ज्वलन्नित्युच्यते सोऽयमसमाप्तविदिक्रियः ।
सर्वतः प्रकृतिं दृष्ट्वा दोषांश्चैव तदुद्भवान् ॥ ५४-४३ ॥
विरक्तः सर्वथा तत्र यदा वेत्ति परं हरिम् ।
तदा समाप्यते तस्य वेत्तुः सर्वा विदिक्रिया ॥ ५४-४४ ॥
[[५४९]]
अतः प्रकृतिनिर्मग्नो बुध्यमानो य ईर्यते ।
संसारी स ज्वलन् सोऽपि भगवानिति भण्यते ॥ ५४-४५ ॥
वीरशब्दतात्पर्यार्थनिरूपणम्
विविधं प्रेरयत्येतच्चेतनाचेतनं जगत् ।
यः कालो भगवद्रूपं वीरशब्देन स स्मृतः ॥ ५४-४६ ॥
महाविष्णुशब्दतात्पर्यार्थनिरूपणम्
तत्तत्त्वत्रितयव्याप्तिर्विष्णुशब्देन भण्यते ।
व्याप्तौ तत्राप्यलिप्तत्वं तस्माच्चाधिकता च या ॥ ५४-४७ ॥
महा महत्त्वं पूज्यत्वं महच्छब्देन वर्ण्यते ।
सर्वतोमुखशब्दतात्पर्यार्थनिरूपणम्
सर्वतोमुखशब्देन प्रोच्यते सर्वशक्तिता ॥ ५४-४८ ॥
सर्वज्ञता च देवस्य सर्वकर्तृत्वमेव च ।
भद्रशब्दतात्पर्यार्थनिरूपणम्
भद्रशब्देन देवस्य नित्यनिर्दोषतोच्यते ॥ ५४-४९ ॥
नृसिंहशब्दतात्पर्यार्थनिरूपणम्
तथा नृसिंहशब्देन पुरुषोत्तमतोच्यते ।
मृत्युमृत्युशब्दतात्पर्यार्थनिरूपणम्
[[५५०]]
मोक्षप्रदत्वमेतस्य मृत्युमृत्युसमीरणात् ॥ ५४-५० ॥
अहंशब्दतात्पर्यार्थनिरूपणम्
प्रसङ्ख्यानेन या सिद्धा सिद्धिः कालेन भूयसा ।
प्रकृत्युत्तरता साक्षात् साहंशब्देन वर्ण्यते ॥ ५४-५१ ॥
हिनस्ति गच्छतीत्यादिः प्राकृती याखिला क्रिया ।
तत्कर्तृवाची हंशब्दस्तदन्योऽहम्पदोदितः ॥ ५४-५२ ॥
निरुपाध्यवमर्शोऽयं देहप्राणात्यये स्थितः ।
अहमित्यास्पदं याति स जीवो निरुपस्कृतः ॥ ५४-५३ ॥
नमामिशब्दतात्पर्यार्थनिरूपणम्
प्रसङ्ख्यायेत्थमात्मानं प्रह्वीभवति यत् स्वयम् ।
नद्या इवाम्बुधौ देवे प्रह्वीभावो निमग्नता ॥ ५४-५४ ॥
इति ते साङ्ख्यमार्गस्थो मान्त्रोऽर्थः सूक्ष्म ईरितः ।
तत्प्रसङ्ख्यानतत्त्वज्ञा विशन्ति प्रुषोत्तमम् ।
योगमार्गस्थितं तस्य मत्तो रूपं निशामय ॥ ५४-५५ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम
चतुष्पञ्चाशोऽध्यायः ॥ ५४ ॥
आदितः श्लोकाः ३५३३