जितन्ताख्यमन्त्रार्थनिरूपणं नाम त्रिपञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
मन्त्राद्यपादस्य स्थूलार्थनिरूपणे
जिधात्वर्थयोरौज्ज्वल्याविघातयोर्नमनप्रयोजकत्वकथनम्
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ५३-१
औज्ज्वल्यमविघातश्च जयतेरर्थ उच्यते ।
प्रयोजकं तदुभयं नन्तुर्नमनकर्मणि ॥ ५३-१ ॥
मूलम् - ५३-१
औज्ज्वल्यमविघातश्च जयतेरर्थ उच्यते ।
प्रयोजकं तदुभयं नन्तुर्नमनकर्मणि ॥ ५३-१ ॥
तयोर्ज्ञानादिषड्गुणजन्यत्वम्
ज्ञानशक्तिबलाद्यैस्तदुभयं खलु जायते ।
ज्ञानादिगुणपूर्णत्वात् भगवत एव नन्तव्यत्वम्
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः ॥ ५३-२ ॥
भगवानेव विश्वात्मा नन्तव्यः प्रविवक्ष्यते ।
पूण्डरीकाक्षशब्दस्य यथोक्तार्थप्रकाशकत्वोपपादनम्
पुण्डरीकाक्षशब्देन तदिदं प्रतिसूत्र्यते ॥ ५३-३ ॥
प्रयुक्तो रागरोषाभ्यां चक्षुषैव विभाव्यते ।
[[५२९]]
अयं त्ववाप्तकामत्वात् तत्तत्कृत्यविवर्जितः ॥ ५३-४ ॥
प्रसन्नो वैकृतत्यागात् पुण्डरीकाक्ष उच्यते ।
तस्यैव शब्दस्य
हेयप्रतिभटत्वकल्याणगुणाकरत्वरूपोभयलिङ्गपरत्वम्
रागादिदोषनिर्मुक्तिः कल्याणगुणपूरणम् ॥ ५३-५ ॥
पुण्डरीकाक्षशब्देन शब्द्यते पुरुषोत्तमे ।
तस्यैव वासुदेवाख्यप्रथमव्यूहनिरूपकत्वम्
पुण्डरीकाक्षशब्दोऽयमादिव्यूहनिरूपणः ॥ ५३-६ ॥
विश्वास-प्रस्तुतिः - ५३-७
पुण्डरीकाक्षमामन्त्र्य ब्रह्मा तेनैव हेतुना ।
नन्ता स्वं च समालोक्य जितं त इति वक्त्ययम् ॥ ५३-७ ॥
मूलम् - ५३-७
पुण्डरीकाक्षमामन्त्र्य ब्रह्मा तेनैव हेतुना ।
नन्ता स्वं च समालोक्य जितं त इति वक्त्ययम् ॥ ५३-७ ॥
इति संसर्गजः स्थूलः सूक्ष्मं चापि मुने शृणु ।
सूक्ष्मार्थनिरूपणे पुण्डरीकाक्षशब्देन
भगवतोऽकालकाल्यत्वस्याविष्करणम्
पुण्डरीकं तु कालाख्यं पुरं जरयते यतः ॥ ५३-८ ॥
तेनाक्षतो बहिर्भावात् तेनानाकलितो यतः ।
कालत्रैविध्यकथनपूर्वकं तदुपपादनम्
स्थूलः सूक्ष्मः परः कालस्त्रिविधो न परात्मनि ॥ ५३-९ ॥
विश्वास-प्रस्तुतिः - ५३-१०
वासुदेवे परे ब्रह्मण्यवगाहनमर्हति ।
स्थूलो लवादिमान् कालः सूक्ष्मस्तत्त्वनिरूपकः ॥ ५३-१० ॥
मूलम् - ५३-१०
वासुदेवे परे ब्रह्मण्यवगाहनमर्हति ।
स्थूलो लवादिमान् कालः सूक्ष्मस्तत्त्वनिरूपकः ॥ ५३-१० ॥
व्यूहानां चेष्टितव्यापी परः कालो निरूप्यते ।
[[५३०]]
व्यूहत्रयात् परवासुदेवस्य वैलक्षण्याविष्करणम्
व्यूहत्रयस्य भवति कालेन कलनं सदा ॥ ५३-११ ॥
विश्वास-प्रस्तुतिः - ५३-१२
भगवान् वासुदेवस्तु न व्यूहेनापि कालवान् ।
व्यूहत्रयमपेक्ष्यैव कालव्यूहनिरूपणम् ॥ ५३-१२ ॥
मूलम् - ५३-१२
भगवान् वासुदेवस्तु न व्यूहेनापि कालवान् ।
व्यूहत्रयमपेक्ष्यैव कालव्यूहनिरूपणम् ॥ ५३-१२ ॥
कालेनामानतश्चायममितद्युतिरुच्यते ।
पुण्डरीकाक्षशब्दस्य भगवति नित्यविभूतियोगप्रतिपादकत्वम्
पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् ॥ ५३-१३ ॥
तस्मिन्निवसनान्नित्यं पुण्डरीकाक्ष उच्यते ।
तस्यैव स्वमहिमप्रतिष्ठितत्वप्रतिपादकत्वम्
पुण्डरीकं परं धाम स्व एव महिमोज्ज्वलः ॥ ५३-१४ ॥
विश्वास-प्रस्तुतिः - ५३-१५
स्वे महिम्नि स्थितो देवः पुण्डरीकाक्ष उच्यते ।
वासुदेवस्ततः प्रोक्तः पुण्डरीकाक्षसञ्ज्ञया ॥ ५३-१५ ॥
मूलम् - ५३-१५
स्वे महिम्नि स्थितो देवः पुण्डरीकाक्ष उच्यते ।
वासुदेवस्ततः प्रोक्तः पुण्डरीकाक्षसञ्ज्ञया ॥ ५३-१५ ॥
पुण्डरीकाक्षशब्दस्य सूक्ष्मार्थः सोऽयमीरितः ।
परार्थनिरूपणारम्भः
पुण्डरीकाक्ष इत्यस्य परमर्थं निशामय ॥ ५३-१६ ॥
पकारार्थनिरूपणम्
(१) रागादिदोषनिर्मुक्तः पवित्रं परमं हरिः ।
१ अत्रेदं बोध्यम्- पकारः, उकारः, णकारः, डकारः, रीकारः,
ककारः, आकारः, क्षकारः, इत्येवं पुण्डरीकाक्षशब्दस्थान्
वर्णानष्टधा विभज्य तेषामप्रमेयादिभावसंसिद्धः
परसञ्ज्ञोऽर्थो रागादीत्युपक्रम्य सार्धश्लोकचतुष्टयेन क्रमात्
प्रदर्श्यत इति ।
[[५३१]]
उकारार्थनिरूपणम्
नित्योदितस्वरूपत्वादुद्दाम उदयः स्मृतः ॥ ५३-१७ ॥
णकारार्थनिरूपणम्
व्यूहत्रितयपूर्वत्वात् प्रधानः परिपठ्यते ।
डकारार्थनिरूपणम्
शुद्धाशुद्धाध्वसम्प्राप्तेः संस्मृतोऽखण्डविक्रमः ॥ ५३-१८ ॥
ईकारशिरस्करेफार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५३-१९
सङ्कर्षणादिभूम्यन्तमशेषभुवनं यतः ।
बिभर्त्याधारभावेन व्याप्नोत्यन्तश्च तत् स्वयम् ॥ ५३-१९ ॥
मूलम् - ५३-१९
सङ्कर्षणादिभूम्यन्तमशेषभुवनं यतः ।
बिभर्त्याधारभावेन व्याप्नोत्यन्तश्च तत् स्वयम् ॥ ५३-१९ ॥
आकारसहितककारार्थनिरूपणम्
आनन्दो नैरपेक्ष्येण परा च प्रकृतिः स्वयम् ।
क्षकारार्थनिरूपणम्
शुद्धाशुद्धमयस्यास्य चेतनाचेतनात्मनः ॥ ५३-२० ॥
वर्गस्यान्तः परा सीमा वर्गान्तः परिपठ्यते ।
पुण्डरीकाक्षशब्दार्थस्य चिरकालादपि कार्त्स्न्येन वक्तुमशक्यत्वम्
इति वर्णमयी रीतिः पराख्या ते प्रदर्शिता ॥ ५३-२१ ॥
वर्षायुतैरपि व्यक्तं न शक्या वक्तुमञ्जसा ।
[[५३२]]
मन्त्रद्वितीयपादस्थूलार्थनिरूपणम्
विश्वभावनसञ्ज्ञेयं सङ्कर्षश्रीसमीरणी ॥ ५३-२२ ॥
क्रियाकारकसंसर्गजन्यः स्थूलो निरूपितः ।
सूक्ष्मार्थनिरूपणम्
सूक्ष्ममर्थमिदानीं तु गदतो मे निशामय ॥ ५३-२३ ॥
विश्वभावनशब्दस्य सर्वकारणपरत्वम्
विश्वास-प्रस्तुतिः - ५३-२४
चेतनाचेतनाकारं विश्वं प्रद्युम्नपूर्वकम् ।
भावयन्ननिशं देवः कथितो विश्वभावनः ॥ ५३-२४ ॥
मूलम् - ५३-२४
चेतनाचेतनाकारं विश्वं प्रद्युम्नपूर्वकम् ।
भावयन्ननिशं देवः कथितो विश्वभावनः ॥ ५३-२४ ॥
कारणत्वोपयोगिसर्वज्ञत्वपरत्वम्
विश्वास-प्रस्तुतिः - ५३-२५
विश्वं भावयति व्यक्तं जानात्येव यथार्थतः ।
विश्वभावन उद्दिष्टः सर्वज्ञः शब्दवित्तमैः ॥ ५३-२५ ॥
मूलम् - ५३-२५
विश्वं भावयति व्यक्तं जानात्येव यथार्थतः ।
विश्वभावन उद्दिष्टः सर्वज्ञः शब्दवित्तमैः ॥ ५३-२५ ॥
सङ्कर्षणाख्यद्वितीयव्यूहपरत्वम्
विश्वास-प्रस्तुतिः - ५३-२६
अनिशं बिभ्रतं प्राप्य विश्वं भवति वै ततः ।
विश्वभावन उद्दिष्टो बलदेवो महाबलः ॥ ५३-२६ ॥
मूलम् - ५३-२६
अनिशं बिभ्रतं प्राप्य विश्वं भवति वै ततः ।
विश्वभावन उद्दिष्टो बलदेवो महाबलः ॥ ५३-२६ ॥
सर्वशेषिपरत्वम्
विश्वास-प्रस्तुतिः - ५३-२७
अनाथमभवद्विश्वं नाथो भावयति स्वयम् ।
तस्मिन्नुदितमात्रे वै विश्वं यद्भवति स्वयम् ॥ ५३-२७ ॥
मूलम् - ५३-२७
अनाथमभवद्विश्वं नाथो भावयति स्वयम् ।
तस्मिन्नुदितमात्रे वै विश्वं यद्भवति स्वयम् ॥ ५३-२७ ॥
विश्वभावन उद्दिष्टो नाथत्वेन निरीक्षणात् ।
सर्वाधारपरत्वम्
विशालोऽयं यदाधारो विश्वस्य भवने स्वयम् ॥ ५३-२८ ॥
[[५३३]]
विश्वास-प्रस्तुतिः - ५३-२९
तिलकालकवद्विश्वं यस्मात् तत्रावतिष्ठते ।
विशालाधाररूपेण विशालाक्षो भवेत् स्वयम् ॥ ५३-२९ ॥
मूलम् - ५३-२९
तिलकालकवद्विश्वं यस्मात् तत्रावतिष्ठते ।
विशालाधाररूपेण विशालाक्षो भवेत् स्वयम् ॥ ५३-२९ ॥
विश्वास-प्रस्तुतिः - ५३-३०
विश्वं तद्भावयन् विश्वं विश्वभावन ईर्यते ।
इति ते लेशतः प्रोक्तः सूक्ष्मोऽर्थो विश्वभावने ॥ ५३-३० ॥
मूलम् - ५३-३०
विश्वं तद्भावयन् विश्वं विश्वभावन ईर्यते ।
इति ते लेशतः प्रोक्तः सूक्ष्मोऽर्थो विश्वभावने ॥ ५३-३० ॥
परार्थनिरूपणारम्भः
परमर्थमिदानीं त्वं गदतो मे निशामय ।
इकारशिरस्कवकारार्थनिरूपणम्
(१) अमृताधारतस्त्विद्धो वासुदेवादिभूमिकः ॥ ५३-३१ ॥
शकारार्थनिरूपणम्
सम्यग्ज्ञानोपदेशेन शङ्करः सर्वदेहिनाम् ।
द्वितीयवकारार्थनिरूपणम्
अह्नां वरमहो यस्माद्वराहः परिपठ्यते ॥ ५३-३२ ॥
अहः सङ्कर्षणः प्रोक्तो वासुदेवस्य तत्त्वतः ।
आकारसहितभकारार्थनिरूपणम्
सिद्धिदः सर्वभूतानां देवानामादिरेव च ॥ ५३-३३ ॥
१ इयमत्र योजना- इकारशिरस्कः प्रथमवकारः, शकारः,
द्वितीयवकारः, भकारः, आकारः, तृतीयवकारः, नकारः, इत्येवं
विश्वभावनशब्दस्थान् वर्णान् सप्तधा विभज्य
तेषामप्रमेयादिभावसंसिद्धः परसञ्ज्ञोऽर्थः अमृताधारत
इत्यादिना सार्धश्लोकपञ्चकेन क्रमात् प्रदर्श्यत इति ।
[[५३४]]
भकारविवक्षितसिद्धिप्रदत्वोपपादनम्
विश्वास-प्रस्तुतिः - ५३-३४
तत्तत्सच्छास्त्रसम्भूतशुक्लकर्मोपजोषणः ।
सिद्धिं ददाति जीवानामतः सिद्धिद उच्यते ॥ ५३-३४ ॥
मूलम् - ५३-३४
तत्तत्सच्छास्त्रसम्भूतशुक्लकर्मोपजोषणः ।
सिद्धिं ददाति जीवानामतः सिद्धिद उच्यते ॥ ५३-३४ ॥
आकारविवक्षितयोरादित्वदेवत्वयोरुपपादनम्
विश्वास-प्रस्तुतिः - ५३-३५
आदिभूतः स देवानां सव्यूहविभवात्मनाम् ।
आदिश्च दीव्यति व्यक्तमादिदेवः स उच्यते ॥ ५३-३५ ॥
मूलम् - ५३-३५
आदिभूतः स देवानां सव्यूहविभवात्मनाम् ।
आदिश्च दीव्यति व्यक्तमादिदेवः स उच्यते ॥ ५३-३५ ॥
तृतीयवकारनकारार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५३-३६
आवृणोति तमः सर्वं विवृणोति तदक्षरम् ।
वरुणः सोऽप्रमेयस्थः स च पन्थाः स्मृतो बुधैः ॥ ५३-३६ ॥
मूलम् - ५३-३६
आवृणोति तमः सर्वं विवृणोति तदक्षरम् ।
वरुणः सोऽप्रमेयस्थः स च पन्थाः स्मृतो बुधैः ॥ ५३-३६ ॥
विश्वभावन इत्येवमर्थो वर्णमयः परः ।
मन्त्रतृतीयपादस्थूलार्थस्य पूर्वनिरूपितत्वसूचनम्
हृषीकेशपदार्थं तु ब्रुवतो मे निशामय ॥ ५३-३७ ॥
क्रियाकारकसंसर्गजन्योऽर्थः पूर्वमीरितः ।
सूक्ष्मार्थनिरूपणम्
यः प्रातिपादिकार्थस्तं सूक्ष्ममद्य निशामय ॥ ५३-३८ ॥
हृषीकेशपदस्य सप्तधा अर्थवर्णने प्रथमं
ज्ञानोत्तेजकत्वपरत्वकथनम्
प्रद्योतयति विद्यायास्तमो हत्वा मधुं रिपुम् ।
[[५३५]]
भगवद्भावितं रूपं सत्सत्त्वप्रतिपादकम् ॥ ५३-३९ ॥
हृषीकेशत्वमीशस्य तदेव गदितं बुधैः ।
ज्ञाननिर्मलीकरणद्वारा हर्षहेतुत्वपरत्वेन
प्रद्युम्नाख्यव्यूहपरत्वम्
हर्षयत्यमलीकृत्य विद्यामीश इतीदृशम् ॥ ५३-४० ॥
हृषीकेशत्वमेतद्धि प्रद्युम्नत्वमुदीर्यते ।
ज्ञानेन्द्रियनियामकपरत्वम्
ज्ञानेन्द्रियं हृषीकं स्यात् तस्य सोऽन्तर्नियामकः ॥ ५३-४१ ॥
हृषीकेशत्वमेतद्धि प्रद्युम्नस्य निगद्यते ।
जगन्मयपरत्वम्
हृषीका विषयाः प्रोक्ताः प्रकृतिप्राकृतात्मकाः ॥ ५३-४२ ॥
विश्वास-प्रस्तुतिः - ५३-४३
हर्षयन्ति हि ते जीवांस्तेषामीशो जगद्गुरुः ।
जगन्मयत्वमेतद्धि तन्मयत्वसमीरणात् ॥ ५३-४३ ॥
मूलम् - ५३-४३
हर्षयन्ति हि ते जीवांस्तेषामीशो जगद्गुरुः ।
जगन्मयत्वमेतद्धि तन्मयत्वसमीरणात् ॥ ५३-४३ ॥
सृष्ट्यादिरूपक्रीडाहेतुकहर्षाश्रयदेवपरत्वम्
विश्वास-प्रस्तुतिः - ५३-४४
क्रीडया हृष्यति व्यक्तमीशस्तत्सृष्टिरूपया ।
हृषीकेशत्वमीशस्य देवत्वं चास्य तत् स्फुटम् ॥ ५३-४४ ॥
मूलम् - ५३-४४
क्रीडया हृष्यति व्यक्तमीशस्तत्सृष्टिरूपया ।
हृषीकेशत्वमीशस्य देवत्वं चास्य तत् स्फुटम् ॥ ५३-४४ ॥
ऐश्वर्यवीर्यरूपगुणाश्रयपरत्वम्
विश्वास-प्रस्तुतिः - ५३-४५
अविकारितया हृष्टो हृषीको वीर्यरूपया ।
ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि ॥ ५३-४५ ॥
मूलम् - ५३-४५
अविकारितया हृष्टो हृषीको वीर्यरूपया ।
ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि ॥ ५३-४५ ॥
[[५३६]]
ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते ।
जगच्छब्दविवक्षितसर्वचेतनशेषित्वपरत्वम्
हृषी ज्ञानं समुद्दिष्टं हृषीकाश्चेतनात्मकाः ॥ ५३-४६ ॥
विश्वास-प्रस्तुतिः - ५३-४७
जङ्गमत्वाज्जगद्रूपास्तदीशो जगतां पतिः ।
इति सूक्ष्मोऽयमुद्दिष्टः स प्रातिपादिकाश्रयः ॥ ५३-४७ ॥
मूलम् - ५३-४७
जङ्गमत्वाज्जगद्रूपास्तदीशो जगतां पतिः ।
इति सूक्ष्मोऽयमुद्दिष्टः स प्रातिपादिकाश्रयः ॥ ५३-४७ ॥
परार्थनिरूपणारम्भः
वर्णाश्रयमिदानीं मे परमर्थं निशामय ।
हकारार्थनिरूपणम्
(१) प्राणयत्यखिलं जीवं शुक्लधर्मात्मभावतः ॥ ५३-४८ ॥
ऋकारार्थनिरूपणम्
सत्यश्च नामतः सच्च त्यच्च यस्माद्भवत्ययम् ।
ईकारशिरस्कषकारार्थनिरूपणम्
माययाश्चर्ययोगेन भास्करं भरते दिवि ॥ ५३-४९ ॥
एकारशिरस्कककारार्थनिरूपणम्
करालां जगतो योनिं घोररूपां तमोमयीम् ।
१ अत्रेयं योजना- हकारः, ऋकारः, ईकारशिरस्कः षकारः,
एकारशिरस्कः ककारः, शकारः, इत्येवं हृषीकेशपदस्थान् वर्णान्
पञ्चधा विभज्य तेषामप्रमेयादिभावसंसिद्धः
परसञ्ज्ञोऽर्थः प्राणयतीत्यादिना सार्धश्लोकद्वयेन क्रमात्
प्रदर्श्यत इति ।
[[५३७]]
शकारार्थनिरूपणम्
शमयत्यप्रमेयस्थ इति वर्णाश्रया स्थितिः ॥ ५३-५० ॥
अर्थोऽयं त्रिविधः प्रोक्तो हृषीकेशे महामुने ।
मन्त्रचतुर्थपादस्य स्थूलार्थनिरूपणम्
अर्थं शृणु त्वं त्रिविधं महापुरुषपूर्वजे ॥ ५३-५१ ॥
विश्वास-प्रस्तुतिः - ५३-५२
जितं च इति वाकृष्य आहार्योऽत्र जयेति वा ।
जितं तेऽथ नमस्तेऽस्तु पदमेतदिहोभयम् ॥ ५३-५२ ॥
मूलम् - ५३-५२
जितं च इति वाकृष्य आहार्योऽत्र जयेति वा ।
जितं तेऽथ नमस्तेऽस्तु पदमेतदिहोभयम् ॥ ५३-५२ ॥
विश्वास-प्रस्तुतिः - ५३-५३
अञ्जसा जगतोऽध्यक्षे चेतनाचेतनात्मनः ।
जयः प्रणामरूपोऽर्थो ह्यनिरुद्धेऽभिधीयते ॥ ५३-५३ ॥
मूलम् - ५३-५३
अञ्जसा जगतोऽध्यक्षे चेतनाचेतनात्मनः ।
जयः प्रणामरूपोऽर्थो ह्यनिरुद्धेऽभिधीयते ॥ ५३-५३ ॥
विश्वास-प्रस्तुतिः - ५३-५४
जितं त इति शब्दोऽयमतिस्वामित्वसूचकः ।
सन्निकृष्टो नमस्कारः सर्वोत्कृष्टे कथं भवेत् ॥ ५३-५४ ॥
मूलम् - ५३-५४
जितं त इति शब्दोऽयमतिस्वामित्वसूचकः ।
सन्निकृष्टो नमस्कारः सर्वोत्कृष्टे कथं भवेत् ॥ ५३-५४ ॥
विश्वास-प्रस्तुतिः - ५३-५५
अत्युच्चो येन रूपेण सन्निकर्षमुपैति सः ।
तद् द्वितीयतृतीयौ द्वाविति तत्र नमस्क्रिया ॥ ५३-५५ ॥
मूलम् - ५३-५५
अत्युच्चो येन रूपेण सन्निकर्षमुपैति सः ।
तद् द्वितीयतृतीयौ द्वाविति तत्र नमस्क्रिया ॥ ५३-५५ ॥
विश्वास-प्रस्तुतिः - ५३-५६
भावद्वयेन भगवाननिरुद्धो जगद्धितः ।
इति द्योतयितुं तत्र वाच्ये जयनमस्क्रिये ॥ ५३-५६ ॥
मूलम् - ५३-५६
भावद्वयेन भगवाननिरुद्धो जगद्धितः ।
इति द्योतयितुं तत्र वाच्ये जयनमस्क्रिये ॥ ५३-५६ ॥
क्रियाकारकजन्योऽर्थ इति स्थूलो निरूपितः ।
सूक्ष्मार्थनिरूपणम्
यः प्रातिपदिकस्थोऽर्थस्तं त्वं सूक्ष्मं निशामय ॥ ५३-५७ ॥
[[५३८]]
मकारार्थनिरूपणम्
मिमीते विविधं वस्तु क्षेत्रक्षेत्रज्ञतन्मयम् ।
हाकारार्थनिरूपणम्
जिहीते तदशेषं च प्रविशत्यन्तरात्मना ॥ ५३-५८ ॥
महेतिसमुदायार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५३-५९
प्राणयत्यथ तत् सर्वं तत्र तत्र महीयते ।
महद्भ्यश्च महानित्थं महानिति निरुच्यते ॥ ५३-५९ ॥
मूलम् - ५३-५९
प्राणयत्यथ तत् सर्वं तत्र तत्र महीयते ।
महद्भ्यश्च महानित्थं महानिति निरुच्यते ॥ ५३-५९ ॥
पुकारार्थनिरूपणम्
पुष्यति स्थितिमाव्यक्ति पुनः पुनरुदेति च ।
रुशब्दार्थनिरूपणम्
रौति शास्त्रं च नानार्थं रूयते तत्तदात्मना ॥ ५३-६० ॥
राति पूजामथादत्ते राति चाराधितः फलम् ।
षकारार्थनिरूपणम्
(१) अन्तं करोति पापानां नाना सभज्यते जनैः ॥ ५३-६१ ॥
पुरुषपदसमुदितार्थनिरूपणम्
पुरमोषति कर्मान्ते पुरुभिः सेव्यते तथा ।
१ “षोऽन्तकर्मणि” “षण सम्भक्तौ” इति धातुद्वयमत्र बोध्यम्।
[[५३९]]
पुरि शेते पुरं सौति सत्त्वे पुरुणि सीदति ॥ ५३-६२ ॥
रेफशिरस्कपूकारार्थनिरूपणम्
पारयत्यखिलं विश्वं वारयत्यखिलं तमः ।
वकारजकारार्थनिरूपणम्
वनते चाश्रितान् सर्वाञ्जयत्यपि तमोमयम् ॥ ५३-६३ ॥
अजति क्षिपति स्पष्टं द्विषतः क्रूरयोनिषु ।
पूर्वजशब्दसमुदितार्थनिरूपणम्
पूर्व एव पुराणः संस्तत्तद्योनिषु जायते ॥ ५३-६४ ॥
विश्वास-प्रस्तुतिः - ५३-६५
पूर्वजः सर्वदेवानां पूर्वोऽजो यस्य देहजः ।
अजो हि पुत्रः पूर्वोऽस्य ब्रह्मा प्रथमकल्पितः ॥ ५३-६५ ॥
मूलम् - ५३-६५
पूर्वजः सर्वदेवानां पूर्वोऽजो यस्य देहजः ।
अजो हि पुत्रः पूर्वोऽस्य ब्रह्मा प्रथमकल्पितः ॥ ५३-६५ ॥
विश्वास-प्रस्तुतिः - ५३-६६
पूर्वा जीवाः समाख्याताः पुरस्ते (१) वन्वते यतः ।
स्वेन रूपेण पूर्वांस्तान् प्रादुर्भावयति स्वयम् ॥ ५३-६६ ॥
मूलम् - ५३-६६
पूर्वा जीवाः समाख्याताः पुरस्ते (१) वन्वते यतः ।
स्वेन रूपेण पूर्वांस्तान् प्रादुर्भावयति स्वयम् ॥ ५३-६६ ॥
महापुरुषपदसमुदितार्थनिरूपणम्
महत्त्वमनपेक्षत्वं सर्वभावक्रियाविधौ ।
(२) पुरुषैरविभागो यो महापुरुषतास्य सा ॥ ५३-६७ ॥
एतदेव च तेजस्तत् सैषा शक्तिरुदीरिता ।
१ “वनु याचनेऽ इति धातोः रूपमिदम्
२ पुरुषैरविभागे या।
[[५४०]]
एतदेवानिरुद्धत्वं भगवत्त्वमपीदृशम् ॥ ५३-६८ ॥
विश्वास-प्रस्तुतिः - ५३-६९
स्थित्युत्पत्तिलयत्राणहेतुत्वं चैतदीदृशम् ।
इति ते लेशतः प्रोक्तः सूक्ष्मः प्रतिपदाश्रयः ॥ ५३-६९ ॥
मूलम् - ५३-६९
स्थित्युत्पत्तिलयत्राणहेतुत्वं चैतदीदृशम् ।
इति ते लेशतः प्रोक्तः सूक्ष्मः प्रतिपदाश्रयः ॥ ५३-६९ ॥
परार्थनिरूपणारम्भः
वर्णाश्रयमिदानीं मे परमर्थं निशामय ।
मकारार्थनिरूपणम्
मर्दनः सर्वदुष्टानामप्रमेयपराक्रमः ॥ ५३-७० ॥
हाकारार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५३-७१
अरिभ्यश्च हितो नित्यं गोपनः सर्वदेहिनाम् ।
व्यक्तः क्रियावतां पन्थास्त्रयीकर्मसमुद्भवः ॥ ५३-७१ ॥
मूलम् - ५३-७१
अरिभ्यश्च हितो नित्यं गोपनः सर्वदेहिनाम् ।
व्यक्तः क्रियावतां पन्थास्त्रयीकर्मसमुद्भवः ॥ ५३-७१ ॥
उकारशिरस्कपकारार्थनिरूपणम्
पद्मनाभोऽम्बुशायी सन्नुद्दामभुवनोदयः ।
तादृशरेफार्थनिरूपणम्
अशेषभुवनाधारस्तत्तत्कार्योदयस्थितिः ॥ ५३-७२ ॥
षकारपकारार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५३-७३
श्वेतद्वीपे नृसिंहः सन्नग्निरूपो हविर्भुजाम् ।
भास्करः सर्वदेवानां पवित्रं परमं सताम् ॥ ५३-७३ ॥
मूलम् - ५३-७३
श्वेतद्वीपे नृसिंहः सन्नग्निरूपो हविर्भुजाम् ।
भास्करः सर्वदेवानां पवित्रं परमं सताम् ॥ ५३-७३ ॥
ऊकारार्थनिरूपणम्
नानाविधानां प्रज्ञानामाधारः कार्यसाधने ।
द्वितीयरेफार्थनिरूपणम्
बलवान् सर्वलोकेशः कल्पान्ते कालपावकः ॥ ५३-७४ ॥
वकारजकारार्थनिरूपणम्
विश्वास-प्रस्तुतिः - ५३-७५
वराहो वसुधोद्धारे जन्महन्ता स्मृतः सताम् ।
अजितो देवदैत्याद्यैर्महापुरुषपूर्वजः ॥ ५३-७५ ॥
मूलम् - ५३-७५
वराहो वसुधोद्धारे जन्महन्ता स्मृतः सताम् ।
अजितो देवदैत्याद्यैर्महापुरुषपूर्वजः ॥ ५३-७५ ॥
इति वर्णाश्रया रीतिर्महापुरुषपूर्वजे ।
प्रकृतमहामन्त्रतात्पर्यसूचनम्
विश्वास-प्रस्तुतिः - ५३-७६
नानाविधमहार्थोऽयं जितन्ताख्यो महामनुः ।
चक्ररूपं चित्ररूपं वक्ति देवं सनातनम् ॥ ५३-७६ ॥
मूलम् - ५३-७६
नानाविधमहार्थोऽयं जितन्ताख्यो महामनुः ।
चक्ररूपं चित्ररूपं वक्ति देवं सनातनम् ॥ ५३-७६ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
जितन्ताख्यमन्त्रार्थनिरूपणं नाम त्रिपञ्चाशोऽध्यायः ॥ ५३ ॥
आदितः श्लोकाः ३४७८