कीर्तिमाल्युपाख्यानवर्णनं नाम पञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
वक्ष्यमाणार्थसूचनम्
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ५०-१
इदं तु शृणु देवर्षे कीर्तिमाली वितानतः ।
अजयत् त्रिदिवं पूर्वं येनैव विधिना बली ॥ ५०-१ ॥
मूलम् - ५०-१
इदं तु शृणु देवर्षे कीर्तिमाली वितानतः ।
अजयत् त्रिदिवं पूर्वं येनैव विधिना बली ॥ ५०-१ ॥
भद्रशृङ्गनाम्ना राज्ञा भूमण्डलस्य परिपालनम्
विश्वास-प्रस्तुतिः - ५०-२
भद्रशृङ्ग इति ख्यातो राजा परमधार्मिकः ।
आसीदुदारचरितो विशालाख्ये पुरे पुरा ॥ ५०-२ ॥
मूलम् - ५०-२
भद्रशृङ्ग इति ख्यातो राजा परमधार्मिकः ।
आसीदुदारचरितो विशालाख्ये पुरे पुरा ॥ ५०-२ ॥
विश्वास-प्रस्तुतिः - ५०-३
तस्य स्वपुरवत् पृथ्वीं सप्तद्वीपवतीमपि ।
शासतः शक्रकल्पस्य शरदामयुतं गतम् ॥ ५०-३ ॥
मूलम् - ५०-३
तस्य स्वपुरवत् पृथ्वीं सप्तद्वीपवतीमपि ।
शासतः शक्रकल्पस्य शरदामयुतं गतम् ॥ ५०-३ ॥
तत्पुत्रस्य कीर्तिमालिनो गुणवर्णनम्
विश्वास-प्रस्तुतिः - ५०-४
तस्य दीर्घायुषः पुत्रः कीर्तिमाली मदोद्धतः ।
शूरः कमलपत्राक्षः कन्दर्प इव रूपवान् ॥ ५०-४ ॥
मूलम् - ५०-४
तस्य दीर्घायुषः पुत्रः कीर्तिमाली मदोद्धतः ।
शूरः कमलपत्राक्षः कन्दर्प इव रूपवान् ॥ ५०-४ ॥
[[४८३]]
विश्वास-प्रस्तुतिः - ५०-५
बलवानप्रतिद्वन्द्वः सर्वशास्त्रविशारदः ।
विनयज्ञो महोदारः प्रतापी सत्यसङ्गरः ॥ ५०-५ ॥
मूलम् - ५०-५
बलवानप्रतिद्वन्द्वः सर्वशास्त्रविशारदः ।
विनयज्ञो महोदारः प्रतापी सत्यसङ्गरः ॥ ५०-५ ॥
विश्वास-प्रस्तुतिः - ५०-६
समरेष्वपरावर्ती गम्भीरो धनदर्पितः ।
मेघगम्भीरनिर्ह्रादी जिगीषुः शत्रुतापनः ॥ ५०-६ ॥
मूलम् - ५०-६
समरेष्वपरावर्ती गम्भीरो धनदर्पितः ।
मेघगम्भीरनिर्ह्रादी जिगीषुः शत्रुतापनः ॥ ५०-६ ॥
मत्तद्विप इव स्वैरं चचार जगतीमिमाम् ।
पितुरनन्तरं तेनापि धर्मतो राज्यस्य पालनम्
तस्यैवं वर्तमानस्य पिता मृत्युमुपागतः ॥ ५०-७ ॥
विश्वास-प्रस्तुतिः - ५०-८
पितर्युपरते श्रीमाञ्छशास पितृवद् भुवम् ।
जगत्याः सर्ववृत्तान्तं चारैः कैश्चिद्विवेद सः ॥ ५०-८ ॥
मूलम् - ५०-८
पितर्युपरते श्रीमाञ्छशास पितृवद् भुवम् ।
जगत्याः सर्ववृत्तान्तं चारैः कैश्चिद्विवेद सः ॥ ५०-८ ॥
स्वपुरे स्वयमङ्गेषु चरितं वेद सप्तसु ।
कदाचित् निशीथे गूढं सञ्चरतस्तस्य पुराद् बहिर्विप्रदर्शनम्
एकाकी चैकदा धन्वी नृपः स्वैरकथा नृणाम् ॥ ५०-९ ॥
विश्वास-प्रस्तुतिः - ५०-१०
श्रोतुं निशीथे निर्गत्य सर्वतो व्यचरत् पुरम् ।
आपणेषु च रथ्यासु चत्वरेषु गृहेषु च ॥ ५०-१० ॥
मूलम् - ५०-१०
श्रोतुं निशीथे निर्गत्य सर्वतो व्यचरत् पुरम् ।
आपणेषु च रथ्यासु चत्वरेषु गृहेषु च ॥ ५०-१० ॥
विश्वास-प्रस्तुतिः - ५०-११
सर्वद्वारेषु वप्रेषु सरसीषु वनेषु च ।
उपकार्यासु चैत्येषु देवतायतनेषु च ॥ ५०-११ ॥
मूलम् - ५०-११
सर्वद्वारेषु वप्रेषु सरसीषु वनेषु च ।
उपकार्यासु चैत्येषु देवतायतनेषु च ॥ ५०-११ ॥
विश्वास-प्रस्तुतिः - ५०-१२
शस्त्रशालासु तीर्थेषु वनेषूद्यानभूमिषु ।
सञ्चरन् विप्रमासीनं शमीमूले पुराद् बहिः ॥ ५०-१२ ॥
मूलम् - ५०-१२
शस्त्रशालासु तीर्थेषु वनेषूद्यानभूमिषु ।
सञ्चरन् विप्रमासीनं शमीमूले पुराद् बहिः ॥ ५०-१२ ॥
[[४८४]]
विश्वास-प्रस्तुतिः - ५०-१३
ददर्श राजा निर्भीको ज्वलन्तमिव पावकम् ।
प्रसाधिततनुं शान्तं साक्षात्कृतसुदर्शनम् ॥ ५०-१३ ॥
मूलम् - ५०-१३
ददर्श राजा निर्भीको ज्वलन्तमिव पावकम् ।
प्रसाधिततनुं शान्तं साक्षात्कृतसुदर्शनम् ॥ ५०-१३ ॥
विश्वास-प्रस्तुतिः - ५०-१४
सम्प्राप्तसर्वकामं तं योगारूढमकल्मषम् ।
प्रश्रयावनतो भूत्वा पप्रच्छेदं महीपतिः ॥ ५०-१४ ॥
मूलम् - ५०-१४
सम्प्राप्तसर्वकामं तं योगारूढमकल्मषम् ।
प्रश्रयावनतो भूत्वा पप्रच्छेदं महीपतिः ॥ ५०-१४ ॥
तद्वृत्तान्तजिज्ञासोः राज्ञस्तं प्रति प्रश्नः
विश्वास-प्रस्तुतिः - ५०-१५
कस्त्वं किमर्थमधुना वृक्षमूलमुपाश्रितः ।
कस्मादुपागतः सर्वमाचक्ष्वानघ पृच्छते ॥ ५०-१५ ॥
मूलम् - ५०-१५
कस्त्वं किमर्थमधुना वृक्षमूलमुपाश्रितः ।
कस्मादुपागतः सर्वमाचक्ष्वानघ पृच्छते ॥ ५०-१५ ॥
योगारूढस्य तस्य राजप्रश्नमजानतो मौनीभावः
विश्वास-प्रस्तुतिः - ५०-१६
एवमुक्तोऽपि योगस्थो न वेदैतदुदीरितम् ।
तथा पुनः पुनश्चोक्तो राजानं नाभ्यभाषत ॥ ५०-१६ ॥
मूलम् - ५०-१६
एवमुक्तोऽपि योगस्थो न वेदैतदुदीरितम् ।
तथा पुनः पुनश्चोक्तो राजानं नाभ्यभाषत ॥ ५०-१६ ॥
बलाद् ग्रहीतुमुद्युक्तस्य राज्ञो विप्रप्रभावात् स्तम्भीभावः
विश्वास-प्रस्तुतिः - ५०-१७
बलाद् ग्रहीतुमारेभे ब्राह्मणं कुपितो नृपः ।
ततस्तस्य प्रभावेण स्तब्धचेष्टोऽभवत् तदा ॥ ५०-१७ ॥
मूलम् - ५०-१७
बलाद् ग्रहीतुमारेभे ब्राह्मणं कुपितो नृपः ।
ततस्तस्य प्रभावेण स्तब्धचेष्टोऽभवत् तदा ॥ ५०-१७ ॥
विस्मितेन राज्ञा स्तुतिभिर्विप्रस्य प्रसादनम्
विश्वास-प्रस्तुतिः - ५०-१८
स्तब्धमात्मानमालक्ष्य विस्मयं परमं ययौ ।
स्तुतिभिस्तोषयामास तं प्रणम्य ततस्ततः ॥ ५०-१८ ॥
मूलम् - ५०-१८
स्तब्धमात्मानमालक्ष्य विस्मयं परमं ययौ ।
स्तुतिभिस्तोषयामास तं प्रणम्य ततस्ततः ॥ ५०-१८ ॥
[[४८५]]
प्रसन्नेन विप्रेण स्ववृत्तान्तस्याविष्करणम्
विश्वास-प्रस्तुतिः - ५०-१९
तुष्टः स योगादुत्थाय जगादेदं वचो नृपम् ।
सालग्राम इति ख्यातं विष्णुस्थानमनुत्तमम् ॥ ५०-१९ ॥
मूलम् - ५०-१९
तुष्टः स योगादुत्थाय जगादेदं वचो नृपम् ।
सालग्राम इति ख्यातं विष्णुस्थानमनुत्तमम् ॥ ५०-१९ ॥
विश्वास-प्रस्तुतिः - ५०-२०
नित्यं सन्निहितस्तत्र चक्ररूपी जगत्पतिः ।
तत्र चक्राङ्कितं सर्वं स्थावरं जङ्गमं च यत् ॥ ५०-२० ॥
मूलम् - ५०-२०
नित्यं सन्निहितस्तत्र चक्ररूपी जगत्पतिः ।
तत्र चक्राङ्कितं सर्वं स्थावरं जङ्गमं च यत् ॥ ५०-२० ॥
विश्वास-प्रस्तुतिः - ५०-२१
तत्र प्रवेशमात्रेण जन्तवो वीतकल्मषाः ।
तत्र त्यक्तशरीरास्तु यान्ति निर्वाणमुत्तमम् ॥ ५०-२१ ॥
मूलम् - ५०-२१
तत्र प्रवेशमात्रेण जन्तवो वीतकल्मषाः ।
तत्र त्यक्तशरीरास्तु यान्ति निर्वाणमुत्तमम् ॥ ५०-२१ ॥
विश्वास-प्रस्तुतिः - ५०-२२
तस्मिन् देशे समुत्पन्नो ब्राह्मणः शिष्टसम्मतः ।
सुदर्शनप्रभावेण साधिताखिलसाधनः ॥ ५०-२२ ॥
मूलम् - ५०-२२
तस्मिन् देशे समुत्पन्नो ब्राह्मणः शिष्टसम्मतः ।
सुदर्शनप्रभावेण साधिताखिलसाधनः ॥ ५०-२२ ॥
विश्वास-प्रस्तुतिः - ५०-२३
गम्यते पौष्करं तीर्थं मयाद्य जगतीपते ।
निशि मार्गवशात् प्राप्तः पुरमेतत् तवर्द्धिमत् ॥ ५०-२३ ॥
मूलम् - ५०-२३
गम्यते पौष्करं तीर्थं मयाद्य जगतीपते ।
निशि मार्गवशात् प्राप्तः पुरमेतत् तवर्द्धिमत् ॥ ५०-२३ ॥
पिहितद्वारमालक्ष्य शमीमूलमिह श्रितः ।
विदितवृत्तान्तेन राज्ञा स्वपुरं प्रति ब्राह्मणस्यानयनम्
एवमुक्तस्ततो राजा सत्कृत्यैनमनिन्दितम् ॥ ५०-२४ ॥
विश्वास-प्रस्तुतिः - ५०-२५
प्रावेशयत् पुरीं रम्यां तत्राप्यायतनं हरेः ।
तत्रोषितस्तु तां रात्रिं सर्वसत्कारपूर्वकम् ॥ ५०-२५ ॥
मूलम् - ५०-२५
प्रावेशयत् पुरीं रम्यां तत्राप्यायतनं हरेः ।
तत्रोषितस्तु तां रात्रिं सर्वसत्कारपूर्वकम् ॥ ५०-२५ ॥
अपरेद्युर्द्विजो गन्तुमारेभे पुष्करं प्रति ।
हितमुपदेष्टुं राजप्रार्थना
राजा तु कृतपूर्वाह्णकर्माणं तमभाषत ॥ ५०-२६ ॥
[[४८६]]
विश्वास-प्रस्तुतिः - ५०-२७
साधूनां दर्शनं पुण्यं समस्ताभीष्टसाधनम् ।
इति श्रुतमतो भाषे भगवन् किं हितं मम ॥ ५०-२७ ॥
मूलम् - ५०-२७
साधूनां दर्शनं पुण्यं समस्ताभीष्टसाधनम् ।
इति श्रुतमतो भाषे भगवन् किं हितं मम ॥ ५०-२७ ॥
विश्वास-प्रस्तुतिः - ५०-२८
यथेह विन्देय सुखं परत्राप्यसपत्नकम् ।
तथा प्रसादं कुरु मे करुणार्द्रमना ह्यसि ॥ ५०-२८ ॥
मूलम् - ५०-२८
यथेह विन्देय सुखं परत्राप्यसपत्नकम् ।
तथा प्रसादं कुरु मे करुणार्द्रमना ह्यसि ॥ ५०-२८ ॥
तेन राज्ञे साङ्गसौदर्शनमहामन्त्रस्योपदेशः
विश्वास-प्रस्तुतिः - ५०-२९
ततः प्रसन्नो राजानमुपसन्नं (१) मुने द्विजः ।
सौदर्शनं महामन्त्रं षड्वर्णं सर्वसाधकम् ॥ ५०-२९ ॥
मूलम् - ५०-२९
ततः प्रसन्नो राजानमुपसन्नं (१) मुने द्विजः ।
सौदर्शनं महामन्त्रं षड्वर्णं सर्वसाधकम् ॥ ५०-२९ ॥
विश्वास-प्रस्तुतिः - ५०-३०
सत्कारपूर्वकं तस्मै नृपायोपादिशत् तदा ।
साङ्गमन्त्रं तथा ध्यानं साधनं यन्त्रमेव च ॥ ५०-३० ॥
मूलम् - ५०-३०
सत्कारपूर्वकं तस्मै नृपायोपादिशत् तदा ।
साङ्गमन्त्रं तथा ध्यानं साधनं यन्त्रमेव च ॥ ५०-३० ॥
विश्वास-प्रस्तुतिः - ५०-३१
अस्त्रमन्त्रांस्तथा सर्वान् प्रवर्तकनिवर्तकान् ।
परिच्छदानि पञ्चाशद्यन्त्रितानि महामुने ॥ ५०-३१ ॥
मूलम् - ५०-३१
अस्त्रमन्त्रांस्तथा सर्वान् प्रवर्तकनिवर्तकान् ।
परिच्छदानि पञ्चाशद्यन्त्रितानि महामुने ॥ ५०-३१ ॥
सर्वं तस्मै प्रदायासौ गन्तुं समुपचक्रमे ।
राज्ञा गुरवे दक्षिणयाः प्रदानम्
राजा च परमप्रीतो द्रव्यजातमुपानयत् ॥ ५०-३२ ॥
गवां सहस्रं कोटिं च सुवर्णानां तथा मुने ।
१ अत्र अभिलक्ष्येति पदमध्याहृत्य वाक्यं योजनीयम् । उपसन्नपदं च
तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय
इत्यादिश्रुतिप्रतिपादितानामवश्यम्भाविनां
शिष्यगुणान्तराणामुपलक्षकम् । तथाच स द्विजः
प्रश्रयमृदुवचनादिभिर्लिङ्गै राजानं प्रशान्तचित्तत्वादिगुणयुक्तं
ब्रह्मविद्योपदेशयोग्यमभिलक्ष्य साङ्गं सौदर्शनमहामन्त्रं
तस्मै उपादिशदिति सम्बन्धः
[[४८७]]
रत्नपूर्णानि हैमानि पात्राण्यन्यानि सप्त च ॥ ५०-३३ ॥
विश्वास-प्रस्तुतिः - ५०-३४
तथा भूयांसि वासांसि महार्हाणि च भूपतिः ।
ग्रामानष्टौ च गुरवे प्रादात् परमधार्मिकः ॥ ५०-३४ ॥
मूलम् - ५०-३४
तथा भूयांसि वासांसि महार्हाणि च भूपतिः ।
ग्रामानष्टौ च गुरवे प्रादात् परमधार्मिकः ॥ ५०-३४ ॥
गुरुणा तदग्रहणपूर्वकं स्वाभिमतदेशस्य गमनम्
विश्वास-प्रस्तुतिः - ५०-३५
न चैच्छद् ब्राह्मणस्तत्र दक्षिणाः समुपाहृताः ।
किं कार्यमेभिर्नृपते सर्वं सङ्कल्पिते भवेत् ॥ ५०-३५ ॥
मूलम् - ५०-३५
न चैच्छद् ब्राह्मणस्तत्र दक्षिणाः समुपाहृताः ।
किं कार्यमेभिर्नृपते सर्वं सङ्कल्पिते भवेत् ॥ ५०-३५ ॥
विश्वास-प्रस्तुतिः - ५०-३६
यथेष्टं विनियुङ्क्ष्वैतदित्युक्तः प्राह भूपतिः ।
अवश्यं गृह्यतामेतन्न चेन्नैवास्मि साधकः ॥ ५०-३६ ॥
मूलम् - ५०-३६
यथेष्टं विनियुङ्क्ष्वैतदित्युक्तः प्राह भूपतिः ।
अवश्यं गृह्यतामेतन्न चेन्नैवास्मि साधकः ॥ ५०-३६ ॥
विश्वास-प्रस्तुतिः - ५०-३७
त्यज्यतां वा यथेष्टं भो मद्दत्तं दत्तमेव हि ।
इत्युक्तो ब्राह्मणोऽप्याह राजानममितौजसम् ॥ ५०-३७ ॥
मूलम् - ५०-३७
त्यज्यतां वा यथेष्टं भो मद्दत्तं दत्तमेव हि ।
इत्युक्तो ब्राह्मणोऽप्याह राजानममितौजसम् ॥ ५०-३७ ॥
विश्वास-प्रस्तुतिः - ५०-३८
मदर्थमर्थजातं तद् ब्राह्मणेभ्यः प्रदीयताम् ।
इत्युक्त्वा प्रययौ विप्रो भूपतिश्चैनमन्वयात् ॥ ५०-३८ ॥
मूलम् - ५०-३८
मदर्थमर्थजातं तद् ब्राह्मणेभ्यः प्रदीयताम् ।
इत्युक्त्वा प्रययौ विप्रो भूपतिश्चैनमन्वयात् ॥ ५०-३८ ॥
निवर्तितः स गुरुणा ब्राह्मणेभ्यो धनं ददौ ।
राज्ञा धर्मतो राज्यस्य प्रशासनम्
तस्मिन् गते महाराजो विप्रसात्कृत्य तद्धनम् ॥ ५०-३९ ॥
विश्वास-प्रस्तुतिः - ५०-४०
अन्वशात् पृथिवीमेतां त्रिदिवं मघवानिव ।
नक्तन्दिवं विभज्यैव धर्ममोक्षाविरोधिनौ ॥ ५०-४० ॥
मूलम् - ५०-४०
अन्वशात् पृथिवीमेतां त्रिदिवं मघवानिव ।
नक्तन्दिवं विभज्यैव धर्ममोक्षाविरोधिनौ ॥ ५०-४० ॥
विश्वास-प्रस्तुतिः - ५०-४१
अर्थकामौ यथाकालमसेवत महीपतिः ।
राजधर्मेषु चान्येषु नात्यवर्तिष्ट किञ्चन ॥ ५०-४१ ॥
मूलम् - ५०-४१
अर्थकामौ यथाकालमसेवत महीपतिः ।
राजधर्मेषु चान्येषु नात्यवर्तिष्ट किञ्चन ॥ ५०-४१ ॥
[[४८८]]
विश्वास-प्रस्तुतिः - ५०-४२
एवं च मानवं मार्गमनुतिष्ठन् महीपतिः ।
धर्म्येण पालनेनैव प्रजा रञ्जयति स्म सः ॥ ५०-४२ ॥
मूलम् - ५०-४२
एवं च मानवं मार्गमनुतिष्ठन् महीपतिः ।
धर्म्येण पालनेनैव प्रजा रञ्जयति स्म सः ॥ ५०-४२ ॥
वश्यावश्यपरराष्ट्रादिबुभुत्सया कदाचिदमात्यान् प्रति राज्ञः
प्रश्नः
विश्वास-प्रस्तुतिः - ५०-४३
एकदा मन्त्रिणः सर्वानाहूयास्थानमण्डपे ।
पप्रच्छ पृथिवीपालः के च वश्या उतेतरे ॥ ५०-४३ ॥
मूलम् - ५०-४३
एकदा मन्त्रिणः सर्वानाहूयास्थानमण्डपे ।
पप्रच्छ पृथिवीपालः के च वश्या उतेतरे ॥ ५०-४३ ॥
विश्वास-प्रस्तुतिः - ५०-४४
देशेषु भूमिपालेषु प्रकृतिष्वथवा मम ।
ब्रूत सर्वं हि जानन्ति भवन्तश्चारचक्षुषः ॥ ५०-४४ ॥
मूलम् - ५०-४४
देशेषु भूमिपालेषु प्रकृतिष्वथवा मम ।
ब्रूत सर्वं हि जानन्ति भवन्तश्चारचक्षुषः ॥ ५०-४४ ॥
मन्त्रिणां प्रतिवचनम्
विश्वास-प्रस्तुतिः - ५०-४५
इति प्रतिसमादिष्टास्ते सर्वे मन्त्रिणोऽवदन् ।
देव त्वयि महीमेतां शासत्येव परन्तपे ॥ ५०-४५ ॥
मूलम् - ५०-४५
इति प्रतिसमादिष्टास्ते सर्वे मन्त्रिणोऽवदन् ।
देव त्वयि महीमेतां शासत्येव परन्तपे ॥ ५०-४५ ॥
प्रतिपक्षाः प्रलीयन्ते तपत्यर्के यथा तमः ।
कृत्स्नस्यापि भूमण्डलस्य वश्यत्वप्रतिपादनम्
साधुना पृथिवी वश्या सशैलाम्बुधिपत्तना ॥ ५०-४६ ॥
विश्वास-प्रस्तुतिः - ५०-४७
दिवीव देव राजानः सर्वे द्वारि निवारिताः ।
तव प्रकृतिवर्गेषु का कथा जगतीपते ॥ ५०-४७ ॥
मूलम् - ५०-४७
दिवीव देव राजानः सर्वे द्वारि निवारिताः ।
तव प्रकृतिवर्गेषु का कथा जगतीपते ॥ ५०-४७ ॥
देवादीनां वश्यत्वाभावप्रतिपादनम्
विश्वास-प्रस्तुतिः - ५०-४८
न च देवा न गन्धर्वा नासुरा न च पन्नगाः ।
यथा वयं ते सेवन्ते भवन्तं परमेश्वरम् ॥ ५०-४८ ॥
मूलम् - ५०-४८
न च देवा न गन्धर्वा नासुरा न च पन्नगाः ।
यथा वयं ते सेवन्ते भवन्तं परमेश्वरम् ॥ ५०-४८ ॥
देवः प्रमाणमिति ते विज्ञाप्यार्थमुपारमन् ।
[[४८९]]
पुनरमात्यान् प्रति राज्ञो देवादिविजयोपायप्रश्नः
कीर्तिमाली च तच्छ्रुत्वा देवादीनां जिगीषया ॥ ५०-४९ ॥
विश्वास-प्रस्तुतिः - ५०-५०
व्यजृम्भत तदा सर्वान् मन्त्रिणश्चाब्रवीदिदम् ।
कथमेतान् विजेष्यामो बलिनो वीर्यशालिनः ॥ ५०-५० ॥
मूलम् - ५०-५०
व्यजृम्भत तदा सर्वान् मन्त्रिणश्चाब्रवीदिदम् ।
कथमेतान् विजेष्यामो बलिनो वीर्यशालिनः ॥ ५०-५० ॥
विश्वास-प्रस्तुतिः - ५०-५१
विचित्रयोधिनो दृप्ता मायाबलसमन्विताः ।
अनुकूला विशिष्टाश्च लोकान्तरमुपाश्रिताः ॥ ५०-५१ ॥
मूलम् - ५०-५१
विचित्रयोधिनो दृप्ता मायाबलसमन्विताः ।
अनुकूला विशिष्टाश्च लोकान्तरमुपाश्रिताः ॥ ५०-५१ ॥
यथा भवन्ति ते वश्यास्तथा वदत मा चिरम् ।
अमात्यानां प्रतिवचनम्
इत्युक्तास्ते महाराजमूचुः सम्मन्त्र्य मन्त्रिणः ॥ ५०-५२ ॥
एतानद्यैव यास्यामो विजेष्यामश्च संयुगे ।
स्वपक्षे बलसमृद्धिनिरूपणपूर्वकमभिषेणनोद्योगजननम्
अस्मद्वरूथिनी सर्वा चतुरङ्गबलान्विता ॥ ५०-५३ ॥
विश्वास-प्रस्तुतिः - ५०-५४
मेरुमन्दरसङ्काशा गजाः परमदुर्जयाः ।
एकैकमेव पर्याप्तं शत्रुशैन्यप्रमर्दने ॥ ५०-५४ ॥
मूलम् - ५०-५४
मेरुमन्दरसङ्काशा गजाः परमदुर्जयाः ।
एकैकमेव पर्याप्तं शत्रुशैन्यप्रमर्दने ॥ ५०-५४ ॥
विश्वास-प्रस्तुतिः - ५०-५५
एवंविधानां नागानां नियुतानि दशाभवन् ।
मत्तानां तुरगाणां च पञ्च कोट्यः परन्तप ॥ ५०-५५ ॥
मूलम् - ५०-५५
एवंविधानां नागानां नियुतानि दशाभवन् ।
मत्तानां तुरगाणां च पञ्च कोट्यः परन्तप ॥ ५०-५५ ॥
विश्वास-प्रस्तुतिः - ५०-५६
तिस्रः कोट्यश्च सम्पूर्णाः स्यन्दनानां तथाभवन् ।
बद्धापदानमानानां शूराणामनिवर्तिनाम् ॥ ५०-५६ ॥
मूलम् - ५०-५६
तिस्रः कोट्यश्च सम्पूर्णाः स्यन्दनानां तथाभवन् ।
बद्धापदानमानानां शूराणामनिवर्तिनाम् ॥ ५०-५६ ॥
[[४९०]]
विश्वास-प्रस्तुतिः - ५०-५७
चतुर्विधपदातीनामक्षौहिण्यश्चतुर्दश ।
निशितास्त्राणि नः सङ्ख्ये यान्यसङ्ख्यानि भूपते ॥ ५०-५७ ॥
मूलम् - ५०-५७
चतुर्विधपदातीनामक्षौहिण्यश्चतुर्दश ।
निशितास्त्राणि नः सङ्ख्ये यान्यसङ्ख्यानि भूपते ॥ ५०-५७ ॥
विश्वास-प्रस्तुतिः - ५०-५८
एकतः सर्वमेतच्च एकतः केवलो बली ।
अतिरिक्तो भवान् वीर्यादिति मन्यामहे वयम् ॥ ५०-५८ ॥
मूलम् - ५०-५८
एकतः सर्वमेतच्च एकतः केवलो बली ।
अतिरिक्तो भवान् वीर्यादिति मन्यामहे वयम् ॥ ५०-५८ ॥
विश्वास-प्रस्तुतिः - ५०-५९
किञ्च दिव्यानि चास्त्राणि लब्धवानसि भूसुरात् ।
एभिः परिवृतस्यैवं कस्तिष्ठेत् सम्मुखे तव ॥ ५०-५९ ॥
मूलम् - ५०-५९
किञ्च दिव्यानि चास्त्राणि लब्धवानसि भूसुरात् ।
एभिः परिवृतस्यैवं कस्तिष्ठेत् सम्मुखे तव ॥ ५०-५९ ॥
विश्वास-प्रस्तुतिः - ५०-६०
संवर्तवर्तिनः शम्भोर्भूतानीव दिधक्षतः ।
यत्र यत्र जिगीषा ते वर्तते तत्र मा चिरम् ॥ ५०-६० ॥
मूलम् - ५०-६०
संवर्तवर्तिनः शम्भोर्भूतानीव दिधक्षतः ।
यत्र यत्र जिगीषा ते वर्तते तत्र मा चिरम् ॥ ५०-६० ॥
नियुङ्क्ष्वास्मान् महाबाहो जयं विद्धि करे स्थितम् ।
मन्त्रिवचनात् प्रथमं राज्ञो नागलोकाभिषेणनम्
इत्युक्तः परमप्रीतः कीर्तिमाली महाबलः ॥ ५०-६१ ॥
विश्वास-प्रस्तुतिः - ५०-६२
सर्वानमात्यानाहूय तत्तत्सेना मयाहृता ।
नागलोकं प्रयात्वद्य युध्यतामद्य पन्नगैः ॥ ५०-६२ ॥
मूलम् - ५०-६२
सर्वानमात्यानाहूय तत्तत्सेना मयाहृता ।
नागलोकं प्रयात्वद्य युध्यतामद्य पन्नगैः ॥ ५०-६२ ॥
विश्वास-प्रस्तुतिः - ५०-६३
अहं चाद्यैव यास्यामि समूलबलवाहनः ।
इत्युक्त्वा तैः परिवृतो जगाम स महीपतिः ॥ ५०-६३ ॥
मूलम् - ५०-६३
अहं चाद्यैव यास्यामि समूलबलवाहनः ।
इत्युक्त्वा तैः परिवृतो जगाम स महीपतिः ॥ ५०-६३ ॥
गरुडास्त्रप्रभावेण तत्र राज्ञो विजयप्राप्तिः
विश्वास-प्रस्तुतिः - ५०-६४
तत्र तैः पन्नगैर्युद्धमभवद्रोमहर्षणम् ।
ततोऽचिरेण कालेन दिव्यास्त्रेण गरुत्मतः ॥ ५०-६४ ॥
मूलम् - ५०-६४
तत्र तैः पन्नगैर्युद्धमभवद्रोमहर्षणम् ।
ततोऽचिरेण कालेन दिव्यास्त्रेण गरुत्मतः ॥ ५०-६४ ॥
विश्वास-प्रस्तुतिः - ५०-६५
विजयं प्राप्तवांस्तत्र तेभ्यो रत्नादिकं करम् ।
गृहीत्वा दैत्यनाशाय मनश्चक्रे महामनाः ॥ ५०-६५ ॥
मूलम् - ५०-६५
विजयं प्राप्तवांस्तत्र तेभ्यो रत्नादिकं करम् ।
गृहीत्वा दैत्यनाशाय मनश्चक्रे महामनाः ॥ ५०-६५ ॥
[[४९१]]
तथा दैत्यविजयः
विश्वास-प्रस्तुतिः - ५०-६६
तैर्युद्धमभवत् तीव्रं चिरकालं महामुने ।
नाशयित्वा तु तत्सैन्यं विजयं परमं ययौ ॥ ५०-६६ ॥
मूलम् - ५०-६६
तैर्युद्धमभवत् तीव्रं चिरकालं महामुने ।
नाशयित्वा तु तत्सैन्यं विजयं परमं ययौ ॥ ५०-६६ ॥
यक्षगन्धर्वादिजयपूर्वकं राज्ञः स्वनगरगमनम्
विश्वास-प्रस्तुतिः - ५०-६७
ततश्च यक्षगन्धर्वान् सिद्धविद्याधरानपि ।
निर्जित्य समरे सर्वान् किङ्करानकरोद् बली ॥ ५०-६७ ॥
मूलम् - ५०-६७
ततश्च यक्षगन्धर्वान् सिद्धविद्याधरानपि ।
निर्जित्य समरे सर्वान् किङ्करानकरोद् बली ॥ ५०-६७ ॥
एतान् विजित्य समरे स्वपुरं पुनराययौ ।
तत्र स्वपरिवारेषु देवानामदर्शनादिन्द्रं प्रति सन्देशप्रेषणम्
आस्थानसद्मन्यासीनो राजभिः परिवारितः ॥ ५०-६८ ॥
विश्वास-प्रस्तुतिः - ५०-६९
तथा गन्धर्वयक्षैश्च दानवैः पन्नगेश्वरैः ।
चक्रवर्ती निजास्थाने नामरान् ददृशे तदा ॥ ५०-६९ ॥
मूलम् - ५०-६९
तथा गन्धर्वयक्षैश्च दानवैः पन्नगेश्वरैः ।
चक्रवर्ती निजास्थाने नामरान् ददृशे तदा ॥ ५०-६९ ॥
विश्वास-प्रस्तुतिः - ५०-७०
ततो मनोजवं नाम गन्धर्वमिदमूचिवान् ।
अद्य त्रिदिवमभ्येत्य वचनान्मम वासवम् ॥ ५०-७० ॥
मूलम् - ५०-७०
ततो मनोजवं नाम गन्धर्वमिदमूचिवान् ।
अद्य त्रिदिवमभ्येत्य वचनान्मम वासवम् ॥ ५०-७० ॥
विश्वास-प्रस्तुतिः - ५०-७१
ब्रूया ऐरावतं नागं कुलिशं कल्पकं तथा ।
अष्टौ चाप्सरसः क्षिप्रं मदर्थं विसृजेति वै ॥ ५०-७१ ॥
मूलम् - ५०-७१
ब्रूया ऐरावतं नागं कुलिशं कल्पकं तथा ।
अष्टौ चाप्सरसः क्षिप्रं मदर्थं विसृजेति वै ॥ ५०-७१ ॥
राजसन्देशात् मनोजवनाम्नो दूतस्यामरावतीगमनम्
विश्वास-प्रस्तुतिः - ५०-७२
मनोजवस्तथेत्युक्त्वा शिरसा चक्रवर्तिनः ।
मालामिवाज्ञां सङ्गृह्य प्रययावमरावतीम् ॥ ५०-७२ ॥
मूलम् - ५०-७२
मनोजवस्तथेत्युक्त्वा शिरसा चक्रवर्तिनः ।
मालामिवाज्ञां सङ्गृह्य प्रययावमरावतीम् ॥ ५०-७२ ॥
तत्रास्थानमण्डपे वासवदर्शनम्
प्रविश्य तत् पुरं रम्यमुपमानं परं पुराम् ।
[[४९२]]
वासवं वसुभी रुद्रैरादित्यैश्च समावृतम् ॥ ५०-७३ ॥
विश्वास-प्रस्तुतिः - ५०-७४
आस्थामण्डपासीनमप्सरोगणसेवितम् ।
विश्वावसुमुखैः सिद्धैः स्तूयमानं शचीपतिम् ॥ ५०-७४ ॥
मूलम् - ५०-७४
आस्थामण्डपासीनमप्सरोगणसेवितम् ।
विश्वावसुमुखैः सिद्धैः स्तूयमानं शचीपतिम् ॥ ५०-७४ ॥
विश्वास-प्रस्तुतिः - ५०-७५
ददर्श स तदा देवं नाट्यदर्शनलालसम् ।
दृष्ट्वा प्रणम्य तुष्टाव विरते नृत्यकर्मणि ॥ ५०-७५ ॥
मूलम् - ५०-७५
ददर्श स तदा देवं नाट्यदर्शनलालसम् ।
दृष्ट्वा प्रणम्य तुष्टाव विरते नृत्यकर्मणि ॥ ५०-७५ ॥
वासवेन दूतस्याभिनन्दनम्
दृष्ट्वा प्रीतः सुरपतिर्मनोजवमवैक्षत ।
दूतेनेन्द्राय राजसन्देशस्य निवेदनम्
विमलीकृतमात्मानं मन्यमानः स वीक्षितैः ॥ ५०-७६ ॥
विश्वास-प्रस्तुतिः - ५०-७७
व्यजिज्ञपद्यथावृत्तं वृत्रहन्त्रेऽविलम्बितम् ।
देव भूमण्डले कश्चित् कीर्तिमालीति विश्रुतः ॥ ५०-७७ ॥
मूलम् - ५०-७७
व्यजिज्ञपद्यथावृत्तं वृत्रहन्त्रेऽविलम्बितम् ।
देव भूमण्डले कश्चित् कीर्तिमालीति विश्रुतः ॥ ५०-७७ ॥
चक्रवर्ती सुरपते देवायैतन्न्यवेदयत् ।
दूतेन राजोक्तसन्देशस्यानुवादः
विनिर्जिता मया लोकाः सर्वे त्रिदिवमन्तरा ॥ ५०-७८ ॥
विश्वास-प्रस्तुतिः - ५०-७९
भवन्तं द्रष्टुमिच्छामि साम्प्रतं त्रिदिवेश्वर ।
आरोहणार्थं नागेन्द्रमैरावतमवारितम् ॥ ५०-७९ ॥
मूलम् - ५०-७९
भवन्तं द्रष्टुमिच्छामि साम्प्रतं त्रिदिवेश्वर ।
आरोहणार्थं नागेन्द्रमैरावतमवारितम् ॥ ५०-७९ ॥
विश्वास-प्रस्तुतिः - ५०-८०
कल्पकं कुलिशं चाष्टौ योषितो विसृजेह नः ।
इत्थमाज्ञापितं तेन महाराजेन गोपते ॥ ५०-८० ॥
मूलम् - ५०-८०
कल्पकं कुलिशं चाष्टौ योषितो विसृजेह नः ।
इत्थमाज्ञापितं तेन महाराजेन गोपते ॥ ५०-८० ॥
देवः प्रमाणमत्रेति विरराम मनोजवः ।
[[४९३]]
सन्देशश्रवणात् कुपितस्येन्द्रस्य तत्प्रतिक्रियाचरणम्
ततो विहस्य मघवानास्थाने देवसेविते ॥ ५०-८१ ॥
विश्वास-प्रस्तुतिः - ५०-८२
प्राह गम्भीरया वाचा विज्ञायैतां विडम्बनाम् ।
वज्रमैरावतं नागं प्रेषयाम्यद्य ते उभे ॥ ५०-८२ ॥
मूलम् - ५०-८२
प्राह गम्भीरया वाचा विज्ञायैतां विडम्बनाम् ।
वज्रमैरावतं नागं प्रेषयाम्यद्य ते उभे ॥ ५०-८२ ॥
विश्वास-प्रस्तुतिः - ५०-८३
आगत्य स्वयमन्यांस्तु समाहृत्य प्रयात्वसौ ।
इत्युक्त्वा प्रेषयामास वज्रमैरावतं गजम् ॥ ५०-८३ ॥
मूलम् - ५०-८३
आगत्य स्वयमन्यांस्तु समाहृत्य प्रयात्वसौ ।
इत्युक्त्वा प्रेषयामास वज्रमैरावतं गजम् ॥ ५०-८३ ॥
सवज्रेणैरावतेन राजसैन्यस्य विनाशनम्
विश्वास-प्रस्तुतिः - ५०-८४
निष्क्रम्योभौ विविशतुः कीर्तिमालिमहापुरीम् ।
प्रविश्यैरावतो नागो वज्रमादाय वाहिनीम् ॥ ५०-८४ ॥
मूलम् - ५०-८४
निष्क्रम्योभौ विविशतुः कीर्तिमालिमहापुरीम् ।
प्रविश्यैरावतो नागो वज्रमादाय वाहिनीम् ॥ ५०-८४ ॥
अदृष्टेनैव रूपेण जघानैनां महामुने ।
भीतैर्जानपदैः राज्ञे तद्वृत्तान्तस्य निवेदनम्
हन्यमानेषु सैन्येषु गजवाजिभटात्मसु ॥ ५०-८५ ॥
विश्वास-प्रस्तुतिः - ५०-८६
सर्वे जानपदा भीता भूपायैन्न्यवेदयन् ।
देव सामोद्भवा नागा निहता भुवि शेरते ॥ ५०-८६ ॥
मूलम् - ५०-८६
सर्वे जानपदा भीता भूपायैन्न्यवेदयन् ।
देव सामोद्भवा नागा निहता भुवि शेरते ॥ ५०-८६ ॥
विश्वास-प्रस्तुतिः - ५०-८७
तथा हयोत्तमाः शूरा भटाः परमशोभनाः ।
अकस्मादेव दृश्यन्ते निहता जगतीपते ॥ ५०-८७ ॥
मूलम् - ५०-८७
तथा हयोत्तमाः शूरा भटाः परमशोभनाः ।
अकस्मादेव दृश्यन्ते निहता जगतीपते ॥ ५०-८७ ॥
सैन्यविनाशश्रवणात् दुःखितेन राज्ञा पुरोधसं प्रति प्रश्नः
विश्वास-प्रस्तुतिः - ५०-८८
एतच्छ्रुत्वा महाराजः शोकेन महता वृतः ।
पुरोधसं समाहूय वचनं चेदमब्रवीत् ॥ ५०-८८ ॥
मूलम् - ५०-८८
एतच्छ्रुत्वा महाराजः शोकेन महता वृतः ।
पुरोधसं समाहूय वचनं चेदमब्रवीत् ॥ ५०-८८ ॥
वारणा वाजिनो योधा हन्यन्ते कारणादृते ।
[[४९४]]
न रोगो दृश्यते चैषु न तापः कालकल्पितः ॥ ५०-८९ ॥
विश्वास-प्रस्तुतिः - ५०-९०
नाभिचारः परकृतो दृश्यते सुनिरूपितः ।
किमेतच्चिन्त्यतां ब्रह्मन् भ्रमतीव च मे मनः ॥ ५०-९० ॥
मूलम् - ५०-९०
नाभिचारः परकृतो दृश्यते सुनिरूपितः ।
किमेतच्चिन्त्यतां ब्रह्मन् भ्रमतीव च मे मनः ॥ ५०-९० ॥
पुरोधसा देवकोपस्यैव तत्कारणत्वेन निवेदनम्
विश्वास-प्रस्तुतिः - ५०-९१
इत्युदीरितमाकर्ण्य पुरोधाश्चाप्यचिन्तयत् ।
चिन्तयित्वा जगादैतद् देवकोपादुपागतम् ॥ ५०-९१ ॥
मूलम् - ५०-९१
इत्युदीरितमाकर्ण्य पुरोधाश्चाप्यचिन्तयत् ।
चिन्तयित्वा जगादैतद् देवकोपादुपागतम् ॥ ५०-९१ ॥
इति शङ्के न शोकस्य वशमागाः परन्तप ।
अत्रान्तरे मनोजवसमागमः
इति चिन्तयतोरेव तयोरागान्मनोजवः ॥ ५०-९२ ॥
प्रणतः प्राञ्जलिस्तथौ महाराजस्य पार्श्वतः ।
मनोजवं प्रति राज्ञः प्रश्नः
मनोजव किमानीतमुक्तरत्नचतुष्टयम् ॥ ५०-९३ ॥
किमाह वासवः सर्वं कथयाद्याविलम्बितम् ।
मनोजवेन राज्ञे निवेदनम्
इत्युक्तस्तेन सकलं पृष्टमस्मै न्यवेदयत् ॥ ५०-९४ ॥
विश्वास-प्रस्तुतिः - ५०-९५
राजवाक्यस्य कथनमतो मघवतः स्मयः ।
वज्रैरावतयोस्तेन प्रेषणं तद्वचस्ततः ॥ ५०-९५ ॥
मूलम् - ५०-९५
राजवाक्यस्य कथनमतो मघवतः स्मयः ।
वज्रैरावतयोस्तेन प्रेषणं तद्वचस्ततः ॥ ५०-९५ ॥
[[४९५]]
स्वसैन्यविनाशमैरावतकृतं ज्ञातवता राज्ञा
वारणास्त्रेणैरावतस्य
विश्वास-प्रस्तुतिः - ५०-९६
एवं तेनेरितो राजा निश्चित्यैरावतक्रियाम् ।
पुरोधसा प्रतीकारं तस्य सम्मन्त्र्य तत्क्षणात् ॥ ५०-९६ ॥
मूलम् - ५०-९६
एवं तेनेरितो राजा निश्चित्यैरावतक्रियाम् ।
पुरोधसा प्रतीकारं तस्य सम्मन्त्र्य तत्क्षणात् ॥ ५०-९६ ॥
विश्वास-प्रस्तुतिः - ५०-९७
व्यसृजद्वारणाख्यास्त्रं दिव्यं वारणवारणम् ।
तदस्त्रं तु गजं प्राप्तं निश्चेष्टः सोऽभवत् तदा ॥ ५०-९७ ॥
मूलम् - ५०-९७
व्यसृजद्वारणाख्यास्त्रं दिव्यं वारणवारणम् ।
तदस्त्रं तु गजं प्राप्तं निश्चेष्टः सोऽभवत् तदा ॥ ५०-९७ ॥
तच्छ्रुतवता वासवेन युद्धार्थं देवसैन्यस्य प्रेषणम्
विश्वास-प्रस्तुतिः - ५०-९८
स्तब्धमैरावतं वज्रं तेनास्त्रेण महात्मना ।
व्यजिज्ञपुर्मघवते सुराश्चैरावतानुगाः ॥ ५०-९८ ॥
मूलम् - ५०-९८
स्तब्धमैरावतं वज्रं तेनास्त्रेण महात्मना ।
व्यजिज्ञपुर्मघवते सुराश्चैरावतानुगाः ॥ ५०-९८ ॥
विश्वास-प्रस्तुतिः - ५०-९९
तच्छ्रुत्वा परमक्रुद्धो मघवान् समनह्यत ।
सन्नद्धमिन्द्रमालक्ष्य सुराश्चुक्षुभिरे तदा ॥ ५०-९९ ॥
मूलम् - ५०-९९
तच्छ्रुत्वा परमक्रुद्धो मघवान् समनह्यत ।
सन्नद्धमिन्द्रमालक्ष्य सुराश्चुक्षुभिरे तदा ॥ ५०-९९ ॥
विश्वास-प्रस्तुतिः - ५०-१००
प्रेषितास्तेन ते सर्वे सैनिकास्तत्पुरं ययुः ।
प्रलयोज्जृम्भिताम्भोधिकल्पं सैन्यं शतक्रतोः ॥ ५०-१०० ॥
मूलम् - ५०-१००
प्रेषितास्तेन ते सर्वे सैनिकास्तत्पुरं ययुः ।
प्रलयोज्जृम्भिताम्भोधिकल्पं सैन्यं शतक्रतोः ॥ ५०-१०० ॥
ततो देवमानुषसेनयोर्घोरयुद्धप्रवृत्तिः
विश्वास-प्रस्तुतिः - ५०-१०१
विलोक्य त्वरितो राजा ससैन्यो निर्ययौ पुरात् ।
ततः प्रववृते युद्धं देवमानुषसेनयोः ॥ ५०-१०१ ॥
मूलम् - ५०-१०१
विलोक्य त्वरितो राजा ससैन्यो निर्ययौ पुरात् ।
ततः प्रववृते युद्धं देवमानुषसेनयोः ॥ ५०-१०१ ॥
प्रवृत्तयुद्धवर्णनम्
विश्वास-प्रस्तुतिः - ५०-१०२
अदृष्टचरमाश्चर्यं हाहाकारि भयावहम् ।
दिव्यदुन्दुभिनिर्घोषैः शङ्खभेरीरवैरपि ॥ ५०-१०२ ॥
मूलम् - ५०-१०२
अदृष्टचरमाश्चर्यं हाहाकारि भयावहम् ।
दिव्यदुन्दुभिनिर्घोषैः शङ्खभेरीरवैरपि ॥ ५०-१०२ ॥
विश्वास-प्रस्तुतिः - ५०-१०३
क्ष्वेलितैस्तलशब्दैश्च विहायः समपूर्यत ।
नागा युयुधिरे नागैः पत्तिभिः पत्तयस्तथा ॥ ५०-१०३ ॥
मूलम् - ५०-१०३
क्ष्वेलितैस्तलशब्दैश्च विहायः समपूर्यत ।
नागा युयुधिरे नागैः पत्तिभिः पत्तयस्तथा ॥ ५०-१०३ ॥
[[४९६]]
विश्वास-प्रस्तुतिः - ५०-१०४
स्यन्दनैः स्यन्दनाश्चाश्वैरश्वाश्चैव परस्परम् ।
नाराचैः परिघैः शूलैः पट्टसैर्मुद्गरैरपि ॥ ५०-१०४ ॥
मूलम् - ५०-१०४
स्यन्दनैः स्यन्दनाश्चाश्वैरश्वाश्चैव परस्परम् ।
नाराचैः परिघैः शूलैः पट्टसैर्मुद्गरैरपि ॥ ५०-१०४ ॥
विश्वास-प्रस्तुतिः - ५०-१०५
कार्मुकैः शक्तिभिः खड्गैः प्रासैः कुन्तैः परश्वधैः ।
एवं नानाविधैः शस्त्रैर्निजघ्नुस्ते परस्परम् ॥ ५०-१०५ ॥
मूलम् - ५०-१०५
कार्मुकैः शक्तिभिः खड्गैः प्रासैः कुन्तैः परश्वधैः ।
एवं नानाविधैः शस्त्रैर्निजघ्नुस्ते परस्परम् ॥ ५०-१०५ ॥
विश्वास-प्रस्तुतिः - ५०-१०६
केचिन्निकृत्तशिरसः केचिच्छिन्नोरसः परैः ।
केचिदुत्कृत्तशस्त्रास्तु विद्धवक्षांसि कानि च ॥ ५०-१०६ ॥
मूलम् - ५०-१०६
केचिन्निकृत्तशिरसः केचिच्छिन्नोरसः परैः ।
केचिदुत्कृत्तशस्त्रास्तु विद्धवक्षांसि कानि च ॥ ५०-१०६ ॥
विश्वास-प्रस्तुतिः - ५०-१०७
छिन्नहस्ता गजाः केचित् खड्गनिर्भिन्नमस्तकाः ।
भल्लैर्निर्भिन्नहृदया दृश्यन्ते तुरगास्तथा ॥ ५०-१०७ ॥
मूलम् - ५०-१०७
छिन्नहस्ता गजाः केचित् खड्गनिर्भिन्नमस्तकाः ।
भल्लैर्निर्भिन्नहृदया दृश्यन्ते तुरगास्तथा ॥ ५०-१०७ ॥
विश्वास-प्रस्तुतिः - ५०-१०८
प्रवृत्ता रक्तसरितो हस्तिस्यन्दनवाजिनाम् (१) ।
निपतच्छस्त्रसम्भिन्ना दृश्यन्ते रणभूमयः ॥ ५०-१०८ ॥
मूलम् - ५०-१०८
प्रवृत्ता रक्तसरितो हस्तिस्यन्दनवाजिनाम् (१) ।
निपतच्छस्त्रसम्भिन्ना दृश्यन्ते रणभूमयः ॥ ५०-१०८ ॥
तत्र जिगीषुणेन्द्रेण स्वसेनाधिपतीनां प्रचोदनम्
विश्वास-प्रस्तुतिः - ५०-१०९
एवं प्रवृत्ते सङ्ग्रामे जयार्थी पाकशासनाः ।
देवसेनापतीन् सर्वांश्चोदयामास सत्वरः ॥ ५०-१०९ ॥
मूलम् - ५०-१०९
एवं प्रवृत्ते सङ्ग्रामे जयार्थी पाकशासनाः ।
देवसेनापतीन् सर्वांश्चोदयामास सत्वरः ॥ ५०-१०९ ॥
देवसेनापतीनां तात्कालिकजयप्राप्तिः
विश्वास-प्रस्तुतिः - ५०-११०
तेन प्रवर्तिता देवा विद्राव्य नृपतेर्बलम् ।
विजयं लेभिरे सद्यस्ततः क्रुद्धोऽभवन्नृपः ॥ ५०-११० ॥
मूलम् - ५०-११०
तेन प्रवर्तिता देवा विद्राव्य नृपतेर्बलम् ।
विजयं लेभिरे सद्यस्ततः क्रुद्धोऽभवन्नृपः ॥ ५०-११० ॥
१ स्यन्दनानां वाजिनः स्यन्दनवाजिन इति प्रथमं षष्ठीतत्पुरुषः ।
ततो हस्तिनश्च स्यन्दनवाजिनश्चेति द्विपदघटितो द्वन्द्वः । न तु
हस्तिनश्च स्यन्दनाश्च वाजिनश्चेति त्रिपदघटितः अचेतनानां
स्यन्दनानां रक्तसंरित्सम्बन्धित्वायोगेन स्यन्दनपदस्य
द्वन्द्वघटकत्वासम्भवात्
[[४९७]]
राज्ञा दिव्यास्त्रस्य विमोचनम्
विश्वास-प्रस्तुतिः - ५०-१११
विनष्टे स्वबले सोऽथ दिव्यास्त्राणि मुमोच ह ।
आग्नेयादीनि चास्त्राणि प्रवृत्तानि महामुने ॥ ५०-१११ ॥
मूलम् - ५०-१११
विनष्टे स्वबले सोऽथ दिव्यास्त्राणि मुमोच ह ।
आग्नेयादीनि चास्त्राणि प्रवृत्तानि महामुने ॥ ५०-१११ ॥
तेषामपीन्द्रेण निवारणान्निर्विण्णेन राज्ञा
सुदर्शनयन्त्रघटितवितानसमाश्रयणम्
विश्वास-प्रस्तुतिः - ५०-११२
निवृत्य बलभित् क्रुद्धः प्रत्यस्त्रैस्तान्यवारयत् ।
ततो निर्वेदमापन्नः कीर्तिमाली द्विजोत्तमात् ॥ ५०-११२ ॥
मूलम् - ५०-११२
निवृत्य बलभित् क्रुद्धः प्रत्यस्त्रैस्तान्यवारयत् ।
ततो निर्वेदमापन्नः कीर्तिमाली द्विजोत्तमात् ॥ ५०-११२ ॥
विश्वास-प्रस्तुतिः - ५०-११३
लब्धं विमानं सस्मार तत्तथाकारयत् ततः ।
सुदर्शनमहायन्त्रयन्त्रितं सवितानकम् ॥ ५०-११३ ॥
मूलम् - ५०-११३
लब्धं विमानं सस्मार तत्तथाकारयत् ततः ।
सुदर्शनमहायन्त्रयन्त्रितं सवितानकम् ॥ ५०-११३ ॥
कृत्वा निषेदिवांस्तस्य छायायां स महीपतिः ।
राजप्रयुक्तेन वैष्णवचक्रेण देवसैन्यस्य प्रतिहतिः
प्राहिणोद्विष्णुचक्रं तु महास्त्रप्रभवं परम् ॥ ५०-११४ ॥
विश्वास-प्रस्तुतिः - ५०-११५
तेजसा विश्वमापूर्य विरराज विहायसि ।
तस्यैव तेजसा सर्वे सुराः प्रतिहता रणे ॥ ५०-११५ ॥
मूलम् - ५०-११५
तेजसा विश्वमापूर्य विरराज विहायसि ।
तस्यैव तेजसा सर्वे सुराः प्रतिहता रणे ॥ ५०-११५ ॥
विनिघ्नाश्चेष्टितुं नैव शेकुर्देवगणा मुने ।
वासवप्रयुक्तानां दिव्यास्त्राणामपि तस्मिन् विष्णुचक्रे विलयः
ततः क्रुद्धः स मघवान् दिव्यास्त्राणि व्यसर्जयत् ॥ ५०-११६ ॥
विश्वास-प्रस्तुतिः - ५०-११७
तानि सर्वाणि निर्गत्य विष्णुचक्रे निलिल्यिरे ।
सर्वास्त्रप्रकृतौ तस्मिञ्छलभा इव पावके ॥ ५०-११७ ॥
मूलम् - ५०-११७
तानि सर्वाणि निर्गत्य विष्णुचक्रे निलिल्यिरे ।
सर्वास्त्रप्रकृतौ तस्मिञ्छलभा इव पावके ॥ ५०-११७ ॥
[[४९८]]
विश्वास-प्रस्तुतिः - ५०-११८
ततश्चिक्षेप शस्त्राणि सर्वाण्यपि पुनः पुनः ।
तानि तत्रैव लीनानि सरितः सागरे यथा ॥ ५०-११८ ॥
मूलम् - ५०-११८
ततश्चिक्षेप शस्त्राणि सर्वाण्यपि पुनः पुनः ।
तानि तत्रैव लीनानि सरितः सागरे यथा ॥ ५०-११८ ॥
अन्ततो वज्रस्याप्यकिञ्चित्करत्वम्
विश्वास-प्रस्तुतिः - ५०-११९
ततश्च परमक्रुद्धो वज्रं सुरसुपूजितम् ।
चिक्षेप तच्च तत्रैव तथैवान्तरधीयत ॥ ५०-११९ ॥
मूलम् - ५०-११९
ततश्च परमक्रुद्धो वज्रं सुरसुपूजितम् ।
चिक्षेप तच्च तत्रैव तथैवान्तरधीयत ॥ ५०-११९ ॥
स्वपराजयात् विस्मितस्य शक्रस्य राज्ञा सह संलापः
विश्वास-प्रस्तुतिः - ५०-१२०
तद् दृष्ट्वा विस्मितः शक्रो राजपार्श्वमुपाययौ ।
कीर्तिमाली च देवेन्द्रं विमानस्थं पुरः स्थितम् ॥ ५०-१२० ॥
मूलम् - ५०-१२०
तद् दृष्ट्वा विस्मितः शक्रो राजपार्श्वमुपाययौ ।
कीर्तिमाली च देवेन्द्रं विमानस्थं पुरः स्थितम् ॥ ५०-१२० ॥
विश्वास-प्रस्तुतिः - ५०-१२१
उत्थाय प्रणतो भूत्वा तुष्टाव शुभया गिरा ।
ततस्तुष्टः शचीनाथो राजानमिदमब्रवीत् ॥ ५०-१२१ ॥
मूलम् - ५०-१२१
उत्थाय प्रणतो भूत्वा तुष्टाव शुभया गिरा ।
ततस्तुष्टः शचीनाथो राजानमिदमब्रवीत् ॥ ५०-१२१ ॥
विश्वास-प्रस्तुतिः - ५०-१२२
पुरा विमुक्तान्यस्त्राणि विफलानि तवाभवन् ।
अधुना विपरीतानि दृश्यन्ते कारणं वद ॥ ५०-१२२ ॥
मूलम् - ५०-१२२
पुरा विमुक्तान्यस्त्राणि विफलानि तवाभवन् ।
अधुना विपरीतानि दृश्यन्ते कारणं वद ॥ ५०-१२२ ॥
राज्ञा सुदर्शनयन्त्रघटितवितानप्रभावात् स्वस्याजय्यत्वस्य
ख्यापनम्
विश्वास-प्रस्तुतिः - ५०-१२३
सुदर्शनमहायन्त्रयन्त्रितस्य प्रभावतः ।
वितानस्य हरे प्राप्तमजय्यत्वमवेहि नः ॥ ५०-१२३ ॥
मूलम् - ५०-१२३
सुदर्शनमहायन्त्रयन्त्रितस्य प्रभावतः ।
वितानस्य हरे प्राप्तमजय्यत्वमवेहि नः ॥ ५०-१२३ ॥
राजशक्रयोः सख्यकरणपूर्वकं स्वस्वस्थानगमनम्
विश्वास-प्रस्तुतिः - ५०-१२४
अतः परं महाराज सख्यं भवतु चावयोः ।
यन्मे तत् तव यत् ते स्यात् तन्मम स्यादिति ब्रुवन् ॥ ५०-१२४ ॥
मूलम् - ५०-१२४
अतः परं महाराज सख्यं भवतु चावयोः ।
यन्मे तत् तव यत् ते स्यात् तन्मम स्यादिति ब्रुवन् ॥ ५०-१२४ ॥
[[४९९]]
विश्वास-प्रस्तुतिः - ५०-१२५
स ययौ त्रिदिवं देवः सबलायुधवाहनः ।
कीर्तिमाली च सन्तुष्टो विजयी स्वपुरं ययौ ॥ ५०-१२५ ॥
मूलम् - ५०-१२५
स ययौ त्रिदिवं देवः सबलायुधवाहनः ।
कीर्तिमाली च सन्तुष्टो विजयी स्वपुरं ययौ ॥ ५०-१२५ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
कीर्तिमाल्युपाख्यानवर्णनं नाम पञ्चाशोऽध्यायः ॥ ५० ॥
आदितः श्लोकाः ३२३७