सुदर्शनमहायन्त्रघटितध्वजप्रभावनिरूपणं नाम
एकोनपञ्चाशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
सुदर्शनयन्त्रघटितध्वजप्रभावनिरूपणप्रतिज्ञा
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ४९-१
सुदर्शनमहायन्त्रघटितस्य ध्वजस्य तु ।
प्रभावः श्रूयतां सम्यग् याथातथ्येन नारद ॥ ४९-१ ॥
मूलम् - ४९-१
सुदर्शनमहायन्त्रघटितस्य ध्वजस्य तु ।
प्रभावः श्रूयतां सम्यग् याथातथ्येन नारद ॥ ४९-१ ॥
चित्रशेखराधिष्ठितभद्रवाटीनगरवर्णनम्
विश्वास-प्रस्तुतिः - ४९-२
सरस्वत्यास्तटे रम्ये भद्रवाटीति विश्रुता ।
परःसहस्रैः प्रासादैर्जातरूपमयैश्चिता ॥ ४९-२ ॥
मूलम् - ४९-२
सरस्वत्यास्तटे रम्ये भद्रवाटीति विश्रुता ।
परःसहस्रैः प्रासादैर्जातरूपमयैश्चिता ॥ ४९-२ ॥
विश्वास-प्रस्तुतिः - ४९-३
पुरी विविधकामाढ्या हेमसालसमन्विता ।
समृद्ध्या त्रिदिवप्रख्या बभूव भुवि दुर्लभा ॥ ४९-३ ॥
मूलम् - ४९-३
पुरी विविधकामाढ्या हेमसालसमन्विता ।
समृद्ध्या त्रिदिवप्रख्या बभूव भुवि दुर्लभा ॥ ४९-३ ॥
विश्वास-प्रस्तुतिः - ४९-४
तामध्यास्ते महावीर्यो राजोपरिचरात्मजः ।
पालयन्नैकवर्षाणि चित्रशेखरसञ्ज्ञितः ॥ ४९-४ ॥
मूलम् - ४९-४
तामध्यास्ते महावीर्यो राजोपरिचरात्मजः ।
पालयन्नैकवर्षाणि चित्रशेखरसञ्ज्ञितः ॥ ४९-४ ॥
[[४७२]]
तत्पित्रोपरिचरेण कदाचिद् द्वन्द्वयुद्धे
शङ्कुकर्णाख्यासुरहननम्
विश्वास-प्रस्तुतिः - ४९-५
पितर्यस्य पुरा दिव्यमिन्द्रदत्तं क्रमागतम् ।
रथमारुह्य देवानां कार्यार्थं याति खे बली ॥ ४९-५ ॥
मूलम् - ४९-५
पितर्यस्य पुरा दिव्यमिन्द्रदत्तं क्रमागतम् ।
रथमारुह्य देवानां कार्यार्थं याति खे बली ॥ ४९-५ ॥
विश्वास-प्रस्तुतिः - ४९-६
शङ्कुकर्ण इति ख्यातो दानवो भीमलोचनः ।
जिघृक्षुस्तद्रथं मार्गे तस्य कूबरमग्रहीत् ॥ ४९-६ ॥
मूलम् - ४९-६
शङ्कुकर्ण इति ख्यातो दानवो भीमलोचनः ।
जिघृक्षुस्तद्रथं मार्गे तस्य कूबरमग्रहीत् ॥ ४९-६ ॥
विश्वास-प्रस्तुतिः - ४९-७
उवाच च मया सार्धं युध्यस्व यदि वा रथम् ।
जहि वेत्युक्तवत्यस्मिन् स तथेत्यग्रहीद् धनुः ॥ ४९-७ ॥
मूलम् - ४९-७
उवाच च मया सार्धं युध्यस्व यदि वा रथम् ।
जहि वेत्युक्तवत्यस्मिन् स तथेत्यग्रहीद् धनुः ॥ ४९-७ ॥
विश्वास-प्रस्तुतिः - ४९-८
ततस्तेन महायुद्धे दिनमेकं प्रवर्तिते ।
अथास्त्रजालमुत्सृज्य द्वन्द्वयुद्धे हतोऽसुरः ॥ ४९-८ ॥
मूलम् - ४९-८
ततस्तेन महायुद्धे दिनमेकं प्रवर्तिते ।
अथास्त्रजालमुत्सृज्य द्वन्द्वयुद्धे हतोऽसुरः ॥ ४९-८ ॥
अमर्षणनाम्ना शङ्कुकर्णसुतेन चित्रशेखरपीडनम्
विश्वास-प्रस्तुतिः - ४९-९
जित्वा तमसुरं राज्ञि कालेनास्तं गते मुने ।
तत्पुत्त्रं शङ्कुकर्णस्य सुतः परमरोषणः ॥ ४९-९ ॥
मूलम् - ४९-९
जित्वा तमसुरं राज्ञि कालेनास्तं गते मुने ।
तत्पुत्त्रं शङ्कुकर्णस्य सुतः परमरोषणः ॥ ४९-९ ॥
विश्वास-प्रस्तुतिः - ४९-१०
अमर्षण इति ख्यातो मायावी चित्रशेखरम् ।
जिघांसुस्तद्बलं राज्ञः पुरं चापीडयत् सदा ॥ ४९-१० ॥
मूलम् - ४९-१०
अमर्षण इति ख्यातो मायावी चित्रशेखरम् ।
जिघांसुस्तद्बलं राज्ञः पुरं चापीडयत् सदा ॥ ४९-१० ॥
विश्वास-प्रस्तुतिः - ४९-११
एकदामर्षणः क्रुद्धो भद्रवाटीमुपागमत् ।
पितृहन्तृसुतं योद्धुं ससैन्यं चित्रशेखरम् ॥ ४९-११ ॥
मूलम् - ४९-११
एकदामर्षणः क्रुद्धो भद्रवाटीमुपागमत् ।
पितृहन्तृसुतं योद्धुं ससैन्यं चित्रशेखरम् ॥ ४९-११ ॥
विश्वास-प्रस्तुतिः - ४९-१२
निहत्य चैनमादास्ये सर्वं तत्स्यन्दनोत्तमम् ।
इत्युक्त्वा नगरीं रम्यां रुरोध बलदर्पितः ॥ ४९-१२ ॥
मूलम् - ४९-१२
निहत्य चैनमादास्ये सर्वं तत्स्यन्दनोत्तमम् ।
इत्युक्त्वा नगरीं रम्यां रुरोध बलदर्पितः ॥ ४९-१२ ॥
[[४७३]]
चित्रशेखरस्य तेन सह घोरयुद्धम्
विश्वास-प्रस्तुतिः - ४९-१३
निर्ययौ महतीं सेनां सन्नह्य नृपतिः पुरात् ।
तत्र युद्धं समभवद्राज्ञस्तेन दुरात्मना ॥ ४९-१३ ॥
मूलम् - ४९-१३
निर्ययौ महतीं सेनां सन्नह्य नृपतिः पुरात् ।
तत्र युद्धं समभवद्राज्ञस्तेन दुरात्मना ॥ ४९-१३ ॥
विश्वास-प्रस्तुतिः - ४९-१४
सरणैश्चाभिसरणैः कचाकचि भयावहम् ।
गजाश्वरथपादातं प्रभग्नरथमाकुलम् ॥ ४९-१४ ॥
मूलम् - ४९-१४
सरणैश्चाभिसरणैः कचाकचि भयावहम् ।
गजाश्वरथपादातं प्रभग्नरथमाकुलम् ॥ ४९-१४ ॥
विश्वास-प्रस्तुतिः - ४९-१५
प्रवृत्तासृक्सरित्सार्थं कृत्तच्छत्रध्वजाचितम् ।
नृत्यत्कबन्धमुत्कृत्तदष्टाधरशिरश्चितम् ॥ ४९-१५ ॥
मूलम् - ४९-१५
प्रवृत्तासृक्सरित्सार्थं कृत्तच्छत्रध्वजाचितम् ।
नृत्यत्कबन्धमुत्कृत्तदष्टाधरशिरश्चितम् ॥ ४९-१५ ॥
दिनत्रयं युध्यमानस्यापि विजयालाभः
विश्वास-प्रस्तुतिः - ४९-१६
एवं दिनत्रयं युद्धं प्रवृत्तं रोमहर्षणम् ।
न लेभे विजयं तस्मिन्नाहवे चित्रशेखरः ॥ ४९-१६ ॥
मूलम् - ४९-१६
एवं दिनत्रयं युद्धं प्रवृत्तं रोमहर्षणम् ।
न लेभे विजयं तस्मिन्नाहवे चित्रशेखरः ॥ ४९-१६ ॥
श्रान्तसेनयोर्द्वयोरपि युद्धात् प्रतिनिवृत्तिः
विश्वास-प्रस्तुतिः - ४९-१७
श्रमान्निववृते सेनाद्वयी तस्माद् द्वयोरपि ।
तावुभौ जग्मतुः स्वं स्वं पुरं विश्रान्तवाहनौ ॥ ४९-१७ ॥
मूलम् - ४९-१७
श्रमान्निववृते सेनाद्वयी तस्माद् द्वयोरपि ।
तावुभौ जग्मतुः स्वं स्वं पुरं विश्रान्तवाहनौ ॥ ४९-१७ ॥
एवं सप्तदशवारं युध्यमानस्यापि विजयासिद्धिः
विश्वास-प्रस्तुतिः - ४९-१८
वारान् सप्तदशैतेन युयुधे चित्रशेखरः ।
एवमेव जयं प्राप न क्वचित् पृथिवीपतिः ॥ ४९-१८ ॥
मूलम् - ४९-१८
वारान् सप्तदशैतेन युयुधे चित्रशेखरः ।
एवमेव जयं प्राप न क्वचित् पृथिवीपतिः ॥ ४९-१८ ॥
खिन्नस्य राज्ञः चिन्ताप्रकारः
अथ दुर्जयमालोच्य महासुरममर्षणम् ।
[[४७४]]
केनोपायेन जेतव्य इति चिन्तापरोऽभवत् ॥ ४९-१९ ॥
विश्वास-प्रस्तुतिः - ४९-२०
महादेवप्रसादेन विना नैव जयो मम ।
अतस्तं तपसा देवं तोष्यामीति मनो दधे ॥ ४९-२० ॥
मूलम् - ४९-२०
महादेवप्रसादेन विना नैव जयो मम ।
अतस्तं तपसा देवं तोष्यामीति मनो दधे ॥ ४९-२० ॥
कृतनिश्चयस्य कैलासगमनम्
विश्वास-प्रस्तुतिः - ४९-२१
कृती निश्चित्य मनसा राज्यं सन्न्यस्य मन्त्रिषु ।
जगाम तपसे राजा रथमारुह्य कामगम् ॥ ४९-२१ ॥
मूलम् - ४९-२१
कृती निश्चित्य मनसा राज्यं सन्न्यस्य मन्त्रिषु ।
जगाम तपसे राजा रथमारुह्य कामगम् ॥ ४९-२१ ॥
कैलासशिखरं रम्यं नभसा वसुधाधिपः ।
गगने गच्छतोऽस्य मन्दरोपरि स्यन्दनगतिप्रतिरोधः
तेनैव गच्छतस्तस्य स्यन्दनं मन्दरोपरि ॥ ४९-२२ ॥
अतिष्ठत् प्रेर्यमाणेषु वराश्वेष्वपि नारद ।
तत्कारणजिज्ञासया चरतस्तत्र कुबेरदर्शनम्
रथः कस्मादकस्मान्मे विष्टब्धः इति विस्मितः ॥ ४९-२३ ॥
विश्वास-प्रस्तुतिः - ४९-२४
रथादवातरच्छृङ्गे तस्य रम्ये महीपतिः ।
अवतीर्य रथात् तस्माच्चचार गिरिमूर्धनि ॥ ४९-२४ ॥
मूलम् - ४९-२४
रथादवातरच्छृङ्गे तस्य रम्ये महीपतिः ।
अवतीर्य रथात् तस्माच्चचार गिरिमूर्धनि ॥ ४९-२४ ॥
विश्वास-प्रस्तुतिः - ४९-२५
तत्रापश्यत् सरस्तीरे तरुणं दिव्यलक्षणम् ।
उपास्य पश्चिमां सन्ध्यामवस्थितमनाकुलम् ॥ ४९-२५ ॥
मूलम् - ४९-२५
तत्रापश्यत् सरस्तीरे तरुणं दिव्यलक्षणम् ।
उपास्य पश्चिमां सन्ध्यामवस्थितमनाकुलम् ॥ ४९-२५ ॥
तरुणादित्यसङ्काशं ज्वलन्तं प्रभया स्वया ।
[[४७५]]
तेन समं संलापः
तं प्रणम्य महाबाहुः कृताञ्जलिरभाषत ॥ ४९-२६ ॥
विश्वास-प्रस्तुतिः - ४९-२७
कस्त्वं पुराणपुरुषो यदि वा कमलोद्भवः ।
उमेश्वरो दिशेशानां यदि वान्यतमो भवान् ॥ ४९-२७ ॥
मूलम् - ४९-२७
कस्त्वं पुराणपुरुषो यदि वा कमलोद्भवः ।
उमेश्वरो दिशेशानां यदि वान्यतमो भवान् ॥ ४९-२७ ॥
विश्वास-प्रस्तुतिः - ४९-२८
इत्युक्तस्तेन भगवान् प्राह गम्भीरया गिरा ।
किन्नामकोऽसि कथय किमागमनकारणम् ॥ ४९-२८ ॥
मूलम् - ४९-२८
इत्युक्तस्तेन भगवान् प्राह गम्भीरया गिरा ।
किन्नामकोऽसि कथय किमागमनकारणम् ॥ ४९-२८ ॥
एकाकिना त्वया देशः कथं प्राप्तोऽयमित्यपि ।
राज्ञा कुबेरे स्ववृत्तान्तस्य निवेदनम्
अथ न्यवेदयत् सर्वं राजोपरिचरात्मजः ॥ ४९-२९ ॥
विश्वास-प्रस्तुतिः - ४९-३०
चित्रशेखरनामानमात्मानमवनीपतिम् ।
महासुरप्रवृत्तिं च स्वस्य तेन च पीडनम् ॥ ४९-३० ॥
मूलम् - ४९-३०
चित्रशेखरनामानमात्मानमवनीपतिम् ।
महासुरप्रवृत्तिं च स्वस्य तेन च पीडनम् ॥ ४९-३० ॥
विश्वास-प्रस्तुतिः - ४९-३१
तज्जयायेशतुष्ट्यर्थं तपश्चरणकारणात् ।
स्यन्दनेनाभिगमनं निरोधं तत्र तस्य तु ॥ ४९-३१ ॥
मूलम् - ४९-३१
तज्जयायेशतुष्ट्यर्थं तपश्चरणकारणात् ।
स्यन्दनेनाभिगमनं निरोधं तत्र तस्य तु ॥ ४९-३१ ॥
कुबेरवचनात् तत्र गिरौ लक्ष्मीनिवासपरिज्ञानम्
विश्वास-प्रस्तुतिः - ४९-३२
इत्युक्तस्तेन सोऽप्याह विद्धि मां गुह्यकेश्वरम् ।
अत्रैवास्ते महालक्ष्मीः सर्वकारणकारणम् ॥ ४९-३२ ॥
मूलम् - ४९-३२
इत्युक्तस्तेन सोऽप्याह विद्धि मां गुह्यकेश्वरम् ।
अत्रैवास्ते महालक्ष्मीः सर्वकारणकारणम् ॥ ४९-३२ ॥
विश्वास-प्रस्तुतिः - ४९-३३
तत्सेवार्थमिह प्राप्तः सा हि सर्वगतिः परा ।
तदाज्ञयैव चरतश्चन्द्रसूर्यौ विहायसि ॥ ४९-३३ ॥
मूलम् - ४९-३३
तत्सेवार्थमिह प्राप्तः सा हि सर्वगतिः परा ।
तदाज्ञयैव चरतश्चन्द्रसूर्यौ विहायसि ॥ ४९-३३ ॥
तत्प्रभावेण ते भग्नं गमनं स्यन्दनस्य तु ।
[[४७६]]
लक्ष्मीप्रसादनोपदेशपूर्वकं कुबेरान्तर्धानम्
तां दृष्ट्वा साधयाभीष्टमित्युक्त्वान्तरधीयत ॥ ४९-३४ ॥
राजसाहाय्यार्थं कुबेरप्रहितपुरुषसमागमः
विश्वास-प्रस्तुतिः - ४९-३५
तस्य साहाय्यकामोऽन्यस्तन्निदेशादुपागमत् ।
प्रणम्य भूपतिं प्राह गुह्यकोऽहं तदाज्ञया ॥ ४९-३५ ॥
मूलम् - ४९-३५
तस्य साहाय्यकामोऽन्यस्तन्निदेशादुपागमत् ।
प्रणम्य भूपतिं प्राह गुह्यकोऽहं तदाज्ञया ॥ ४९-३५ ॥
विश्वास-प्रस्तुतिः - ४९-३६
साहाय्यकामस्ते प्राप्तो वासावोऽत्रैव शर्वरीम् ।
प्रत्यूषेऽपेक्षितं यत् स्यात् तत् करिष्यामि नान्यथा ॥ ४९-३६ ॥
मूलम् - ४९-३६
साहाय्यकामस्ते प्राप्तो वासावोऽत्रैव शर्वरीम् ।
प्रत्यूषेऽपेक्षितं यत् स्यात् तत् करिष्यामि नान्यथा ॥ ४९-३६ ॥
तद्वचनात् तत्रैव स्थाने तद्रात्रियापनम्
विश्वास-प्रस्तुतिः - ४९-३७
परस्परप्रणयिनौ तां रात्रिं तत्र चोष्य तु ।
देव्याः सदसि गन्धर्वगीतवादित्रनिःस्वनम् ॥ ४९-३७ ॥
मूलम् - ४९-३७
परस्परप्रणयिनौ तां रात्रिं तत्र चोष्य तु ।
देव्याः सदसि गन्धर्वगीतवादित्रनिःस्वनम् ॥ ४९-३७ ॥
शृण्वन्तौ तत्कथाभिश्च निन्यतुस्तां सरस्तठे ।
प्रभाते राज्ञा लक्ष्मीनिवासस्थानजिज्ञासया गुह्यकं प्रति प्रश्नः
प्रत्यूषसमये सन्ध्यामुपास्य प्रथमां नृपः ॥ ४९-३८ ॥
विश्वास-प्रस्तुतिः - ४९-३९
गुह्यकं प्राह शैलेऽस्मिन् देवी सा कुत्र वर्तते ।
केनाध्वना वा तद्धाम याम तद्दर्शनं कदा ॥ ४९-३९ ॥
मूलम् - ४९-३९
गुह्यकं प्राह शैलेऽस्मिन् देवी सा कुत्र वर्तते ।
केनाध्वना वा तद्धाम याम तद्दर्शनं कदा ॥ ४९-३९ ॥
गुह्यकस्य प्रतिवचनम्
गुह्यकः प्रत्युवाचेदं क्रोशे तन्मन्दिरं परम् ।
[[४७७]]
यतो गीतमृदङ्गानां निस्वनः श्रूयते महान् ॥ ४९-४० ॥
विश्वास-प्रस्तुतिः - ४९-४१
कञ्चित् कालमुपास्यैनां धनदो यास्यति क्षणात् ।
तस्मिन् गते प्रविश्यैनां नमस्यसि सनातनीम् ॥ ४९-४१ ॥
मूलम् - ४९-४१
कञ्चित् कालमुपास्यैनां धनदो यास्यति क्षणात् ।
तस्मिन् गते प्रविश्यैनां नमस्यसि सनातनीम् ॥ ४९-४१ ॥
ततो गुह्यकेन सह लक्ष्मीमन्दिरगमनम्
विश्वास-प्रस्तुतिः - ४९-४२
प्रस्थापयामास ततो याममात्रं प्रतीक्ष्य तम् ।
राजापि स्वरथं तत्र संस्थाप्यैनमथान्वगात् ॥ ४९-४२ ॥
मूलम् - ४९-४२
प्रस्थापयामास ततो याममात्रं प्रतीक्ष्य तम् ।
राजापि स्वरथं तत्र संस्थाप्यैनमथान्वगात् ॥ ४९-४२ ॥
गुहाद्वारदेशे गुह्यकस्यावस्थानम्
विश्वास-प्रस्तुतिः - ४९-४३
ततो महागुहापार्श्वे मन्दिरं समदृश्यत ।
तद्गुहाद्वारि सोऽतिष्ठत् पालयन् बिलगह्वरम् ॥ ४९-४३ ॥
मूलम् - ४९-४३
ततो महागुहापार्श्वे मन्दिरं समदृश्यत ।
तद्गुहाद्वारि सोऽतिष्ठत् पालयन् बिलगह्वरम् ॥ ४९-४३ ॥
राज्ञो मन्दिरान्तःस्थरत्नमण्डपे प्रवेशः
विश्वास-प्रस्तुतिः - ४९-४४
अतीत्य च ततः कक्ष्याश्चतस्रो मणिगोचराः ।
ततो रत्नमयं दिव्यं विवेशास्थानमण्डपम् ॥ ४९-४४ ॥
मूलम् - ४९-४४
अतीत्य च ततः कक्ष्याश्चतस्रो मणिगोचराः ।
ततो रत्नमयं दिव्यं विवेशास्थानमण्डपम् ॥ ४९-४४ ॥
मण्डपवर्णनम्
विश्वास-प्रस्तुतिः - ४९-४५
मणिस्थूणासहस्राढ्यं मण्डपं समदृश्यत ।
परःशतमहारत्नपर्यङ्कसमलङ्कृतम् ॥ ४९-४५ ॥
मूलम् - ४९-४५
मणिस्थूणासहस्राढ्यं मण्डपं समदृश्यत ।
परःशतमहारत्नपर्यङ्कसमलङ्कृतम् ॥ ४९-४५ ॥
विश्वास-प्रस्तुतिः - ४९-४६
रत्नमङ्गलदीपैश्च मण्डितं तुङ्गतोरणम् ।
अनेककल्पकाकीर्णं मणिपीठपरिष्कृतम् ॥ ४९-४६ ॥
मूलम् - ४९-४६
रत्नमङ्गलदीपैश्च मण्डितं तुङ्गतोरणम् ।
अनेककल्पकाकीर्णं मणिपीठपरिष्कृतम् ॥ ४९-४६ ॥
मन्दारकुसुमामोदैर्मृगनाभिमदैरपि ।
[[४७८]]
कस्तूरिकोत्थसौरभ्यैर्वासितान्तरमूर्जितम् ॥ ४९-४७ ॥
विश्वास-प्रस्तुतिः - ४९-४८
अत्यादित्यप्रभं पुण्यं मुक्तादामविभूषितम् ।
हेमपङ्कजमालाढ्यं पताकाध्वजशोभितम् ॥ ४९-४८ ॥
मूलम् - ४९-४८
अत्यादित्यप्रभं पुण्यं मुक्तादामविभूषितम् ।
हेमपङ्कजमालाढ्यं पताकाध्वजशोभितम् ॥ ४९-४८ ॥
विश्वास-प्रस्तुतिः - ४९-४९
धूपैः कालागरूद्भूतैः समन्तादधिवासितम् ।
कर्पूरमिश्रकालेयक्षोदपङ्कपरिष्कृतम् ॥ ४९-४९ ॥
मूलम् - ४९-४९
धूपैः कालागरूद्भूतैः समन्तादधिवासितम् ।
कर्पूरमिश्रकालेयक्षोदपङ्कपरिष्कृतम् ॥ ४९-४९ ॥
विश्वास-प्रस्तुतिः - ४९-५०
इतस्ततश्चरन्तीनां शक्तीनां भूषणारवैः ।
झणज्झणितमञ्जीरनिनदैर्नादितान्तरम् ॥ ४९-५० ॥
मूलम् - ४९-५०
इतस्ततश्चरन्तीनां शक्तीनां भूषणारवैः ।
झणज्झणितमञ्जीरनिनदैर्नादितान्तरम् ॥ ४९-५० ॥
मण्डपमध्यस्थरन्तपर्यङ्के अब्जासनस्थमहालक्ष्मीदर्शनम्
विश्वास-प्रस्तुतिः - ४९-५१
तन्मध्ये रत्नपर्यङ्के संस्कृताब्जासनाश्रिताम् ।
महालक्ष्मीं महानन्दां संश्रितां सर्वशक्तिभिः ॥ ४९-५१ ॥
मूलम् - ४९-५१
तन्मध्ये रत्नपर्यङ्के संस्कृताब्जासनाश्रिताम् ।
महालक्ष्मीं महानन्दां संश्रितां सर्वशक्तिभिः ॥ ४९-५१ ॥
विश्वास-प्रस्तुतिः - ४९-५२
सर्वाभरणसंयुक्तां सर्वालङ्कारशोभिताम् ।
लावण्यामृतकल्पाङ्गीं शशिबिम्बनिभाननाम् ॥ ४९-५२ ॥
मूलम् - ४९-५२
सर्वाभरणसंयुक्तां सर्वालङ्कारशोभिताम् ।
लावण्यामृतकल्पाङ्गीं शशिबिम्बनिभाननाम् ॥ ४९-५२ ॥
विश्वास-प्रस्तुतिः - ४९-५३
संवीतदिव्यकौशेयां दिव्यचन्दनमालिकाम् ।
विलोक्य प्रणतो भूत्वा विस्मयस्तिमितोऽभवत् ॥ ४९-५३ ॥
मूलम् - ४९-५३
संवीतदिव्यकौशेयां दिव्यचन्दनमालिकाम् ।
विलोक्य प्रणतो भूत्वा विस्मयस्तिमितोऽभवत् ॥ ४९-५३ ॥
तत्पादोदकप्राशनपरिपूतेन राज्ञा तत्स्तुतिकरणम्
विश्वास-प्रस्तुतिः - ४९-५४
तत्पादाम्बु समादाय रतिरेनमपाययत् ।
सोऽथ तुष्टाव सुप्रीतस्तां देवीं शुभलोचनाम् ॥ ४९-५४ ॥
मूलम् - ४९-५४
तत्पादाम्बु समादाय रतिरेनमपाययत् ।
सोऽथ तुष्टाव सुप्रीतस्तां देवीं शुभलोचनाम् ॥ ४९-५४ ॥
[[४७९]]
तत्र लक्ष्म्याः उभयविभूत्यैश्वर्यप्रतिपादनम्
महालक्ष्मि भद्रे परव्योमवासि-
न्यनन्ते सुषुम्नाह्वये सूरिजुष्टे ।
जये सूरितुष्टे शरण्ये सुकीर्ते
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ ४९-५५ ॥
सति स्वस्ति ते गौरि गायत्रि गार्गि
ध्रुवे कामधेनो सुराधीशवन्द्ये ।
सुनीते सुपूर्णेन्दुशीते कुमारि
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ ४९-५६ ॥
सदा सिद्धगन्धर्वयक्षेशविद्या-
धरैः स्तूयमाने रमे रामरामे ।
प्रशस्ते समस्तामरीसेव्यमाने
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ ४९-५७ ॥
लक्ष्म्या एव निर्व्याजपुरुषकारत्वसमर्थनम्
दुरितौघनिवारणप्रवीणे
विमले भासुरभागधेयलभ्ये ।
प्रणवप्रतिपाद्यवस्तुरूप-
स्फुरणाख्ये हरिवल्लभे नमस्ते ॥ ४९-५८ ॥
[[४८०]]
सिद्धे साध्ये मन्त्रमूर्ते वरेण्ये
गुप्ते तृप्ते नित्यमुद्गीथविद्ये ।
व्यक्ते विद्वद्भाविते भावनाख्ये
भद्रे भद्रं देहि मे संश्रिताय ॥ ४९-५९ ॥
सर्वाधारे सद्गतेऽध्यात्मविद्ये
भाविन्यार्द्रे निर्वृतेऽध्यात्मवल्लि ।
विश्वाध्यक्षे मङ्गलावासभूमे
भद्रे भद्रं देहि मे संश्रिताय ॥ ४९-६० ॥
लक्ष्म्याः पारमार्थिकमङ्गलगुणाकरतया श्रुतिशिरोभूषणत्वम्
अमोघसेवे निजसद्गुणौघे
विदीपितानुश्रवमूर्धभागे ।
अहेतुमीमांस्यमहानुभावे
विलोकने मां विषयीकुरुष्व ॥ ४९-६१ ॥
उमाशचीप्रभृतीनां महालक्ष्मीविभूतित्वम्
उमाशचीकीर्तिसरस्वतीधी-
स्वाहादिनानाविधशक्तिभेदे ।
अशेषलोकाभरणस्वरूपे
विलोकने मां विषयीकुरुष्व ॥ ४९-६२ ॥
[[४८१]]
स्तुतिप्रीतया लक्ष्म्या राजाभीष्टस्य प्रश्नः
विश्वास-प्रस्तुतिः - ४९-६३
इति स्तुतिं निशम्यैषा प्रसन्ना प्राह पार्थिवम् ।
प्रार्थितं ते ददाम्यद्य किं तत् कथय भूपते ॥ ४९-६३ ॥
मूलम् - ४९-६३
इति स्तुतिं निशम्यैषा प्रसन्ना प्राह पार्थिवम् ।
प्रार्थितं ते ददाम्यद्य किं तत् कथय भूपते ॥ ४९-६३ ॥
राज्ञा स्ववृत्तान्तस्य निवेदनम् । लक्ष्म्या
सुदर्शनयन्त्रघटितध्वजस्यार्पणम्
विश्वास-प्रस्तुतिः - ४९-६४
राजा च स्वान्वयं स्वं च महासुरनिपीडितम् ।
आचख्यौ सर्वमेवास्यै मा भैषीरिति साब्रवीत् ॥ ४९-६४ ॥
मूलम् - ४९-६४
राजा च स्वान्वयं स्वं च महासुरनिपीडितम् ।
आचख्यौ सर्वमेवास्यै मा भैषीरिति साब्रवीत् ॥ ४९-६४ ॥
विश्वास-प्रस्तुतिः - ४९-६५
अहमाधारभूतापि शक्तीनां जगतस्तथा ।
सुदर्शनप्रभावेण करोम्याश्रितरक्षणम् ॥ ४९-६५ ॥
मूलम् - ४९-६५
अहमाधारभूतापि शक्तीनां जगतस्तथा ।
सुदर्शनप्रभावेण करोम्याश्रितरक्षणम् ॥ ४९-६५ ॥
अनेन जहि ते शत्रुमिति ध्वजमथार्पयत् ।
लक्ष्मीदत्तध्वजमहिम्ना शत्रुजयपूर्वकं राज्ञो
निष्कण्टकराज्यलाभः
यन्त्रितं तं ध्वजं लब्ध्वा जगाम स्वपुरं नृपः ॥ ४९-६६ ॥
विश्वास-प्रस्तुतिः - ४९-६७
जिगाय तेन महतीमासुरीं स वरूथिनीम् ।
तं च हत्वा सुखं राज्यमकरोच्चित्रशेखरः ॥ ४९-६७ ॥
मूलम् - ४९-६७
जिगाय तेन महतीमासुरीं स वरूथिनीम् ।
तं च हत्वा सुखं राज्यमकरोच्चित्रशेखरः ॥ ४९-६७ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
सुदर्शनमहायन्त्रघटितध्वजप्रभावनिरूपणं नाम
एकोनपञ्चाशोऽध्यायः ॥ ४९ ॥
आदितः श्लोकाः ३११२