४८

श्रीसुदर्शनमहायन्त्रघटितासनादिप्रभाववर्णनं
नामाष्टाचत्वारिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥

इष्टार्थसाधने जपादिव्यतिरिक्तोपायप्रश्नः

नारदः –

कथितं भगवन् सर्वं जपहोमार्चनादिकम् ।
अभिषेको महाशान्तिर्महाशान्तिक्रियाविधिः ॥ ४८-१ ॥

सर्वार्थसाधकत्वेन चक्ररूपस्य शार्ङ्गिणः ।
एतैर्विना किमिष्टार्थसाधनं विद्यते न वा ॥ ४८-२ ॥

तत्रासनादीनामुपायत्वकथनम्

अहिर्बुध्न्यः –

विनैतान्यप्यभीष्टार्थमलभन्त परे नृपाः ।
आसनेनाङ्गुलीयेन दर्पणेन ध्वजेन च ॥ ४८-३ ॥

वितानेन च विस्तीर्णभूतयो देवसन्निभाः ।
मुक्तापीडो विशालश्च सुनन्दश्चित्रशेखरः ॥ ४८-४ ॥

[[४५७]]

कीइर्तिमाली च भूपालाः पालयन्तोऽखिलां भुवम् ।

आसनादिभिर्मुक्तापीडादीनामिष्टसिद्धिः

आसनेनैव वसुधां मुक्तापीडोऽजयत् पुरा ॥ ४८-५ ॥

विशालोऽप्यजयन्मृत्युमङ्गुलीयेन भूपतिः ।
सुनन्दो दर्पणेनैव नागलोकं महीपतिः ॥ ४८-६ ॥

ध्वजेनासुरसङ्ग्राममजयच्चित्रशेखरः ।
कीर्तिमाली वितानेन त्रिदिवं प्राप भूपतिः ॥ ४८-७ ॥

केवलासनादीनामिष्टसाधनत्वकथन्ताप्रश्नः

नारदः –

केवलान्यासनादीनि साधनत्वं कथं ययुः ।
साध्यं प्रति विभो तन्मे कथयेदं महाद्भुतम् ॥ ४८-८ ॥

आसनप्रभाववर्णनाय मुक्तापीडोपाख्यानकथनम्

अहिर्बुध्न्यः –

मुक्तापीडो महातेजा राजा सुश्रवसः सुतः ।
पितर्युपरते पृथ्वीं बुभुजे सागराम्बराम् ॥ ४८-९ ॥

हारापीडस्य विषयासक्ततया राज्ये धर्मविच्युतिः

निजान्तःपुरयोषित्सु विषयासक्तमानसः ।
अनालोचितसप्ताङ्गो राजा राजीवलोचनः ॥ ४८-१० ॥

[[४५८]]

प्रजास्तद्विषये तेन धर्मविच्युतिमाचरन् ।
बलिभिर्दस्युभी राज्यं क्षुभितं च हृतं च तत् ॥ ४८-११ ॥

तस्मै प्रकृतयः सर्वा राज्ञे क्षोभं व्यजिज्ञपन् ।
बुबुधे न स तेनापि मधुमैथुनविह्वलः ॥ ४८-१२ ॥

सपुरोधसाममात्यानां मन्त्रणप्रकारः

ततः पुरोधसा सार्धममात्याः सन्न्यमन्त्रयन् ।
राजा तु विषयासक्तो राज्यं दस्युभिराप्लुतम् ॥ ४८-१३ ॥

इति सञ्चिन्त्य ते सर्वे गुरुं प्रप्य महाद्युतिम् ।
भवत्प्रसादाज्जेष्यामो नान्या काप्यस्ति नो गतिः ॥ ४८-१४ ॥

इत्युक्तस्तैः पुरोधास्तु तथैवेत्याह तान् प्रति ।

पुरोधसा वसिष्ठोपदिष्टोपायानुष्ठानम्

इत्युक्त्वा यन्त्रघटितं विष्टरं रत्नमण्डितम् ॥ ४८-१५ ॥

वसिष्ठोक्तेन मार्गेण चकारास्मै महाद्भुतम् ।
तस्मिन्नारोपयामास राजानमबलारतम् ॥ ४८-१६ ॥

पुरोधसा राजानं प्रति कृत्यविशेषानुशासनम्

वेदशाखाश्चतुर्दिक्षु (१) वाचयेच्च क्रमेण तु ।


१ अत्र पूर्वप्रकान्तश्लोकद्वयानुगुण्यादुत्तरवाक्यानामपि
पुरोधोव्यापारपरत्वं न्याय्यमिति लिट्प्रयोगस्यैवोचिततया
वाचयेदित्यादिलिङ्गादिप्रयोगानुपपत्तिर्यद्यपि स्फुरति, तथापि
वेदशाखाः इत्यारभ्याष्टाचत्वारिंशान्तानां श्लोकानां
पुरोधःकर्तृकानुशासनपरत्वेन नानुपपत्तिः । अत
एवैकोनपञ्चाशश्लोके तेनैवमनुशिष्टोऽयं इति
ग्रन्थस्याप्याञ्जस्यं भवतीति ध्येयम्


[[४५९]]

आशीर्मङ्गलयुक्तानि गीतवादित्रनर्तकान् ॥ ४८-१७ ॥

कलशोदकमक्षय्यममृतं भावयेद् बुधः ।
तन्मध्यादुत्थिते पद्मे सौवर्णे चाष्टपत्रके ॥ ४८-१८ ॥

चतुर्बाहुं त्रिनेत्रं च पद्यहस्तं हिरण्मयम् ।
सर्वाभरणसञ्छन्नं मुक्ताहारविराजितम् ॥ ४८-१९ ॥

किरीटहारकेयूरकटकादिविभूषितम् ।
पीताम्बरधरं सौम्यं प्रसन्नवदनं शुभम् ॥ ४८-२० ॥

कटिसूत्रसमायुक्तं कुण्डलाभ्यां विराजितम् ।
श्रीवत्सवक्षसं श्रीशं श्रीकरं श्रीनिकेतनम् ॥ ४८-२१ ॥

श्रिया जुष्टं सदा सम्यक्ताम्रपद्मनिभेक्षणम् ।
पद्मनाभमुदाराङ्गं भक्तार्तिशमनं हरिम् ॥ ४८-२२ ॥

तस्याङ्के दक्षिणे लक्ष्मीं समासीनां विचिन्तयेत् ।
मन्त्रमूर्त्यात्मको देवो मन्त्रवाच्यस्तु स प्रभुः ॥ ४८-२३ ॥

प्रविशन्तं ततस्तं तु भावयेन्मन्त्ररूपिणम् ।
एवं सञ्चिन्तयन् मन्त्रं जपेत् कलशमामृशन् ॥ ४८-२४ ॥

अष्टोत्तरायुतं जप्त्वा अभिषिञ्चन् स्वकां तनुम् ।
ग्रहाणां नवकानां च सद्यः शान्तिकरो भवेत् ॥ ४८-२५ ॥

[[४६०]]

आयुः श्रियं च यस्येच्छेत् तं च तेनाभिषेचयेत् ।
अर्चयेदृत्विजः सर्वान् पूर्वमेव बुधो नरः ॥ ४८-२६ ॥

ब्राह्मणांस्तर्पयेच्चैव दक्षिणामुत्तमां ददत् ।
एवं स्वस्यापरस्यापि हितं कुर्यात् तथात्मनः ॥ ४८-२७ ॥

दक्षिणा चात्र देया स्यात् सुवर्णं शतमेव वा ।
केशान् धुनेन्न न वपेन्न स्पृशेत् स्नानशाटिकाम् ॥ ४८-२८ ॥

नातिष्ठेत् स्नानसलिलमलङ्कुर्यात् ततो बुधः ।
मङ्गलानि च पश्येत्तु ऋषभं मङ्गलाः स्त्रियः ॥ ४८-२९ ॥

आत्मनो जन्मनक्षत्रे शुक्लवासा भवेत् तथा ।
शुक्रवारेषु कुर्वीत सप्तशः कुर्वतस्तथा ॥ ४८-३० ॥

कामाः सङ्कल्पितास्तस्य ध्रुवं सिध्यन्ति नान्यथा ।
उद्वहन् वारि कुर्वीत श्रीकामः पापनाशनम् ॥ ४८-३१ ॥

तिष्ठन्नञ्जलिभिः प्रातरष्टोत्तरशतं पुनः ।
अभिमन्त्र्य जलं मूर्ध्नि क्षिपेत् पापप्रणाशनम् ॥ ४८-३२ ॥

जुहुयाद्वस्त्रकामस्तु कुसुमैः कुमुदादिभिः ।
यद्वर्णं जुहुयात् पुष्पं तद्वर्णं वस्त्रमाप्नुयात् ॥ ४८-३३ ॥

वृष्टिकामः शुचौ देशे गोमयेनोपलेपिते ।
रक्तद्रव्येण तत्रैव मण्डलं परिकल्पयेत् ॥ ४८-३४ ॥

मण्डलस्य पुरस्तात्तु नवकुम्भं निधापयेत् ।
[[४६१]]

तन्तुना वेष्टितं सम्यक् पूरितं गन्धवारिणा ॥ ४८-३५ ॥

आवाहयेत् ततः सूर्यं कुम्भे शुभ्रे समाहितः ।
तत्रस्थमर्चयेद् विष्णुं पूर्ववत् साधकोत्तमः ॥ ४८-३६ ॥

पायसं जुहुयात् तत्र शतमष्टोत्तरं बुधः ।
ध्यायन्नेकाग्रधीः सिंहं जपेन्मन्त्रं सहस्रशः ॥ ४८-३७ ॥

एवं कुर्वीत सप्ताहं द्वादशाहमथापि वा ।
ततः प्रसन्नो भगवान् महावृष्टिं विमुञ्चति ॥ ४८-३८ ॥

वैतसेनैव होमेन वृष्टिर्भवति सर्वथा ।
अनश्नन्नार्द्रवासस्को वृष्टिकामः सदा जपेत् ॥ ४८-३९ ॥

सप्ताहाज्जायते वृष्टिर्महती दिव्यशासनात् ।
भस्महोमेन वा सम्यग् लवणेनाथवा पुनः ॥ ४८-४० ॥

वृष्टिं निवारयेद् भूयः शान्तिः कार्या मनीषिणा ।
यस्तु मन्त्रं जपेन्नित्यं प्रातः स्नात्वा सहस्रशः ॥ ४८-४१ ॥

श्रीरारोग्यं च तेजश्च वर्धते तस्य सर्वदा ।
सर्वाहःसु जपेद्यस्तु क्षीराहारो जितेन्द्रियः ॥ ४८-४२ ॥

अर्चनं च यथाशक्ति कुर्वन्नियुतमन्वहम् ।
संसिद्धिमतुलां गच्छेदणिमादिगुणैर्युताम् ॥ ४८-४३ ॥

अहोरात्रोषितो यस्तु पञ्चगव्यं पिबेत् ततः ।
नित्यमष्टसहस्रं तु सर्वपापप्रणाशनम् ॥ ४८-४४ ॥

[[४६२]]

पञ्चगव्यं तु सम्पीत्वा जपेत् पञ्च दिनानि वै ।
ब्रह्महत्यादिभिः सद्यो मुच्यते सर्वपातकैः ॥ ४८-४५ ॥

वापयेत् सर्वबीजानि ह्यभिमन्त्र्य सहस्रकम् ।
महती सस्यसम्पत्तिर्जायते नात्र संशयः ॥ ४८-४६ ॥

घृतेन पायसा चापि स्नापयेद् देवमुत्तमम् ।
ततः प्रसन्नो भगवान् ददाति मनसेप्सितम् ॥ ४८-४७ ॥

अश्नीयादन्वहं विद्वानन्नं सप्ताभिमन्त्रितम् ।
परकर्माचरन्नस्मिन्नासीनः कुरु सर्वदा ॥ ४८-४८ ॥

यथोपदिष्टानुष्ठानेन राज्ञो निष्कण्टकभूमिलाभः

तेनैवमनुशिष्टोऽयं मासमात्रमथाकरोत् ।
तेनास्य शत्रवः सर्वे विनष्टा व्याधिभिर्बलैः ॥ ४८-४९ ॥

तेन निष्कण्टका भूमिर्वश्याभूत् तस्य सार्णवा ।

अङ्गुलीयप्रभाववर्णनाय विशालोपाख्यानारम्भः

विशालो नाम राजायं विशालाख्ये पुरे वसन् ॥ ४८-५० ॥

पालयामास धर्मात्मा मेदिनीं साब्धिपत्तनाम् ।

विशालगुणवर्णनम्

सत्यवादी समो बन्धुर्दैष्टिको धर्मवत्सलः ॥ ४८-५१ ॥

वसन् विंशतिमे वर्षे ब्राह्मणानामुपासकः ।

[[४६३]]

प्रजानुरञ्जको धीरो दैवे पित्र्ये च निष्ठितः ॥ ४८-५२ ॥

तज्जनन्याः स्वपुत्रमरणसूचकाकाशवाणीश्रवणाद्विलापः

बाल्ये पित्रा वियुक्तस्य तस्येत्थं वसतो मुने ।
जननी वाचमश्रौषीदाकाशे ह्यशरीरिणीम् ॥ ४८-५३ ॥

आगामिनि चतुर्थेऽह्नि पञ्चत्वं ते गमिष्यति ।
पुत्र इत्यादि सा श्रुत्वा विललापाकुला भृशम् ॥ ४८-५४ ॥

राज्ञा मातुः समाश्वासनपूर्वकं पुरोधसः
पुलहस्याश्रमगमनम्

तच्छ्रुत्वा जननीमार्तामुवाच सुसमाहितः ।
किमर्थं रोदिषीत्येवं पृष्टा निर्बन्धतः सती ॥ ४८-५५ ॥

तत्त्वतो वृत्तमाचख्यौ स तच्छ्रुत्वा महामनाः ।
मा भैषीरिति तामुक्त्वा निर्ययौ पुलहाश्रमम् ॥ ४८-५६ ॥

पुलहं प्रति स्ववृत्तान्तनिवेदनम्

तपस्यन्तं मुनिं दृष्ट्वा प्रणिपत्येदमब्रवीत् ।
अशृणोज्जननी चैवमशरीरां सरस्वतीम् ॥ ४८-५७ ॥

मुनिना तत्प्रतीकारोपायोपदेशनम्

इत्थं तेनैवमुक्तोऽसौ मुनिराह पुरोहितः ।
सौदर्शनमहायन्त्रघटितं चाङ्गुलीयकम् ॥ ४८-५८ ॥

धारयैनमनेनैव मृत्युर्नश्यत्यसंशयम् ।

[[४६४]]

राज्ञा यथोपदिष्टानुष्ठानम्

इति शिष्टोऽङ्गुलीयं स आहूयैनमधारयत् ॥ ४८-५९ ॥

ततश्च राज्ञो यमकिङ्करैः समागमः

विशालेन धृते तस्मिन्नङ्गुलीये सुयन्त्रिते ।
ततः कालेन सन्दिष्टाः किङ्करा भीमदर्शनाः ॥ ४८-६० ॥

प्राणानादातुमाजग्मुस्तस्यान्तिकमवारिताः ।

अङ्गुलीयप्रभावात् किङ्कराणां दूरात् पलायनम्

पार्श्वं न शेकुस्ते गन्तुमङ्गुलीयप्रभावतः ॥ ४८-६१ ॥

संरब्धोर्ध्वकरास्तस्मिन् यावत् पाशान्न चिक्षिपुः ।
तावच्चक्रमहानेमिनिःसृतैर्विविधायुधैः ॥ ४८-६२ ॥

प्रदुद्रुवुस्ते नितरां पीड्यमाना यथागतम् ।

राज्ञोऽपमृत्युजयात् यमादीनां विस्मयः

ततः सहैव कालेन सुरा विस्मयमागमन् ॥ ४८-६३ ॥

सुदर्शनप्रभावेण तीर्णमृत्युरसाविति ।

दर्पणप्रभाववर्णनाय सुनन्दोपाख्यानम्

तथैव दर्पणस्यापि शृणु वीर्यं महामुने ॥ ४८-६४ ॥

सुनीतिरिति राजासीच्छृङ्गाराख्ये पुरे पुरा ।
त्रेतायुगावसानेऽसौ पालयामास मेदिनीम् ॥ ४८-६५ ॥

[[४६५]]

सुमतिनाम्नस्तत्पुत्रस्य नागकन्यया नागलोके नयनम्

लेभे चिरेण तनयमयमिष्ट्वा शतक्रतुम् ।
चकार सुमतिं नाम्ना वर्धमानं दिने दिने ॥ ४८-६६ ॥

जनकस्तं ततः श्रीमान् कालेन प्राप्तयौवनः ।
सोऽभूदनल्पकालेन प्राप्तविद्योऽस्त्रकोविदः ॥ ४८-६७ ॥

एकदा मृगयां कर्तुं बाह्योपवनमभ्यगात् ।
तत्रापश्यन्मनोज्ञाङ्गीं रूपयौवनशालिनीम् ॥ ४८-६८ ॥

अदृष्टपूर्वां तां दृष्ट्वा मुमोह मदनातुरः ।
सुमतिं तं समादाय सा जगाम स्वमालयम् ॥ ४८-६९ ॥

मायया मोहयित्वैनं नागलोकं विवेश सा ।

तस्यानङ्गमञ्जरीं वासुकितनयां परिणीय तत्रैव चिरकालनिवासः

तस्मिन् भोगवतीं रम्यां नागराजपुरीं तदा ॥ ४८-७० ॥

प्रविश्यानङ्गमञ्जर्यै प्रायच्छत् सुमतिं रमा ।
तं दृष्ट्वा परमप्रीता सा वव्रे सुमतिं पतिम् ॥ ४८-७१ ॥

तं लोकं तां पुरीं तां च नागकन्यां मनोहराम् ।
विलोक्य विस्मयं प्राप स तां चानङ्गमञ्जरीम् ॥ ४८-७२ ॥

गान्धर्वेण विवाहेन परिगृह्य तया सह ।
रेमे विस्मृतसर्वस्वपुरीपितृपरिग्रहः ॥ ४८-७३ ॥

[[४६६]]

पुत्रविरहात् खिद्यता राज्ञा चारैः पुत्रान्वेषणम्

एतस्मिन्नन्तरे राजा शुश्रावानागतं सुतम् ।
त्वरया परयाविष्टः सचिवांश्चेदमब्रवीत् ॥ ४८-७४ ॥

कृच्छ्राल्लब्धः प्रियः पुत्रो ममैकोऽद्य प्रवेश्यताम् ।
तेन सार्धं तु भुञ्जीय न भोक्ष्येऽद्येत्यचोदयत् ॥ ४८-७५ ॥

इति तस्य वचः श्रुत्वा निर्ययुः सर्वतो दिशः ।
सचिवैः प्रेषिताश्चारा दूताश्चान्ये जवान्विताः ॥ ४८-७६ ॥

विदिक्षु दिक्षु कोणेषु गिरिष्वप्सु सरित्सु च ।
ग्रामेषु नगरेष्वेते चेरुश्चैत्येषु शाखिषु ॥ ४८-७७ ॥

पत्तनेष्वप्यरण्येषु तीर्थेष्वन्विष्य सर्वतः ।
नापश्यन् सुमतिं सर्वे तथैवोचुर्नृपाय वै ॥ ४८-७८ ॥

अलब्धपुत्रवृत्तान्तेन राज्ञा अनशनव्रतस्वीकरणम्

तच्छ्रुत्वा शोकसन्तप्तो विलप्य बहु भूपतिः ।
अनश्नन्नशयिष्टान्तः शोकेन महतावृतः ॥ ४८-७९ ॥

पुरोधसा कण्वाश्रमगमनपूर्वकं तस्मिन् राजवृत्तस्य निवेदनम्

एवं शोकाभिभूतेऽस्मिन् महाराजे पुरोहितः ।
स्वगुरुं कण्वमासाद्य तमसातीरवासिनम् ॥ ४८-८० ॥

वृत्तं विज्ञापयामास राजपुत्रस्य तादृशम् ।

[[४६७]]

कण्वमुनिना राजकुमारवृत्तान्तस्याविष्करणम्

तच्छ्रुत्वा स मुनिर्युक्तो बभूव कृपया पुनः ॥ ४८-८१ ॥

दृष्ट्वा कुमारवृत्तान्तं योगेनास्मात् समुत्थितः ।
स तस्मै कथयामास तद्वृत्तमखिलं मुनिः ॥ ४८-८२ ॥

आसीद् भोगवती नाम पुरी परमशोभना ।
पाताले नागराजस्य वासुकेरमितद्युतेः ॥ ४८-८३ ॥

अनङ्गमञ्जरी नाम तस्यां तस्याभवत् सुता ।
रूपलावण्यसम्पन्ना कालेन प्राप्तयौवना ॥ ४८-८४ ॥

अस्या यस्मिन् वरे लिप्सा तस्मै दास्यामि तामिति ।
सङ्कल्पं वासुकेर्मत्वा चेष्ट्यश्चेरुरितस्ततः ॥ ४८-८५ ॥

तस्याः सदृशमन्वेष्टुं वरं तं नैव लेभिरे ।
नागलोके तथा भूम्यां व्यचरन् वरवाञ्छया ॥ ४८-८६ ॥

तत्रैनं सुमतिं दृष्ट्वा राजपुत्रं मनोहरम् ।
प्रोचुस्तस्या महाराजतनयो मदनोपमः ॥ ४८-८७ ॥

तवैव सदृशो भूम्यां पुरुहूतसमः श्रिया ।
न च सामादिभिः शक्यः समानेतुमसाविति ॥ ४८-८८ ॥

तदाकर्ण्य तमत्रैव क्षिप्रमानयतेति ताः ।
उक्त्वा तत्सङ्गमौत्सुक्यात् परां चिन्तामुपागता ॥ ४८-८९ ॥

ततः सम्मन्त्र्य ताः सख्यो रमां मायाविशारदाम् ।
[[४६८]]

मायया मोहयित्वैनमिहानय मनोरमम् ॥ ४८-९० ॥

इत्यूचुः सा तथोक्तैनमानयामास मायया ।
सुमतिस्तामथोद्वाह्य रमते तत्र साम्प्रतम् ॥ ४८-९१ ॥

कुमारप्रत्याहरणे सुदर्शनयन्त्रघटितदर्पणस्यैव
साधनत्वोपदेशः

सुदर्शनप्रभावेण विनाहरणकर्मणि ।
नास्त्युपायान्तरं तस्य ततस्तेनाहराम्यहम् ॥ ४८-९२ ॥

सुदर्शनमहायन्त्रं दर्पणीकृत्य हाटकैः ।
पूर्वोक्तवर्त्मना तेन तमानयत मा चिरम् ॥ ४८-९३ ॥

इत्युक्त्वा स पुनश्चक्रे तपः परमदारुणम् ।

यथोपदिष्टानुष्ठानात् राज्ञो नागलोकगमनसिद्धिः

पुरोहितो विनिष्क्रम्य राज्ञे सर्वं न्यवेदयत् ॥ ४८-९४ ॥

राजा च परमप्रीतः कृत्वा यन्त्रितदर्पणम् ।
रथे पुरस्तात् संस्थाप्य बिलद्वारं तदा ययौ ॥ ४८-९५ ॥

तेनाभिगन्तुं शक्तोऽभूत् सुनन्दो दर्पणौजसा ।

अत्यद्भुतनागलोकदर्शनात् राज्ञो विस्मयातिशयः

प्रविश्य लोकं नागानां स्वर्गलोकमिवापरम् ॥ ४८-९६ ॥

विस्मयं परमं प्राप तत्समृद्धिविलोकनात् ।

राज्ञा सदारस्य कुमारस्य स्वपुरीं प्रति प्रत्यानयनम्

तस्मिन् भोगवतीं रम्यां नागराजपुरीमसौ ॥ ४८-९७ ॥

[[४६९]]

प्रविश्याथानयामास पुत्रं परमवत्सलः ।
सदारः पितरं द्रष्टुं शुद्धान्तात् सुमतिस्तदा ॥ ४८-९८ ॥

निर्ययौ वनितालोकसहितो मदनो यथा ।
तं ताभिर्नागकन्याभिः सह स्यन्दनमुत्तमम् ॥ ४८-९९ ॥

आरोप्य स्वपुरीं राजा प्रतस्थे परवीरहा ।

ततः क्रुद्धस्य वासुकेर्युद्धसमुद्योगः

तव जामातरं पुत्रीं स्वावरोधान्महीपतिः ॥ ४८-१०० ॥

कश्चित् स्यन्दनमारोप्य यातीत्याकर्ण्य वासुकिः ।
निर्ययौ परमक्रुद्धः फणिसेनापरीवृतः ॥ ४८-१०१ ॥

स दृष्ट्वा राजशार्दूलं तिष्ठ तिष्ठेति चाब्रवीत् ।
क्व गम्यते समादाय वधूं वरमितस्त्वया ॥ ४८-१०२ ॥

सुदर्शनयन्त्रघटितदर्पणप्रभावात् राज्ञो विजयलाभः

सुनन्दोऽथ समाकर्ण्य निवर्त्य स्यन्दनोत्तमम् ।
वव्रे दर्पणमद्यैव शत्रुसेनां जहीति वै ॥ ४८-१०३ ॥

ततः प्रस्वापनाग्नेये दिव्यास्त्रे निःसृते क्षणात् ।
प्रस्वापनं नागसेनां विवेशानेन सास्वपत् ॥ ४८-१०४ ॥

आग्नेयमस्त्रमारब्ध तां पुरीं दग्धुमोजसा ।

पराजितेन वासुकिना शरणागतिपूर्वकं राजाभ्यर्हणम्

तद् दृष्ट्वा नागराजस्तं शरणं समुपागमत् ॥ ४८-१०५ ॥

[[४७०]]

नाज्ञायि सर्वमस्माभिस्तदेतत् क्षम्यतां विभो ।
अत्याहितमिदं स्त्रीणामिति मत्वा शमं व्रज ॥ ४८-१०६ ॥

गृहाणेमानि रत्नानि महार्हाणि महाद्युते ।
इमां च कन्यामन्याश्च सहस्रं नागयोषितः ॥ ४८-१०७ ॥

आदाय प्रतिसंहृत्य दिव्यास्त्रे गन्तुमर्हसि ।

ततो राज्ञः सपरिकरस्य स्वपुरप्रवेशः

सुनन्दोऽपि तथेत्युक्त्वा संहृत्यास्त्रे समाहितः ॥ ४८-१०८ ॥

ततः स्वपुत्रं रत्नानि महान्ति वरयोषितः ।
आदायामन्त्र्य तं राजा जगाम स्वपुरीं कृती ॥ ४८-१०९ ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
श्रीसुदर्शनमहायन्त्रघटितासनादिप्रभाववर्णनं नाम
अष्टाचत्वारिंशोऽध्यायः ॥ ४८ ॥

आदितः श्लोकाः ३०४५