४७

महाशान्तिविधानं नाम सप्तचत्वारिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥

ऐहिकामुष्मिकसर्वफलसाधकैकोपायप्रश्नः

नारदः –

भगवन् पञ्चमन्त्राङ्ग पशुपाशहर प्रभो ।
स्वतः साक्षात्कृताशेषविशेष व्योममन्दिर ॥ ४७-१ ॥

ऐहिकामुष्मिकं शश्वन्मन्त्रेणानेन लभ्यते ।
उभयेऽपि तथा दोषा नाश्यन्ते नात्र संशयः ॥ ४७-२ ॥

इत्युक्तं तेन पृच्छामि येनैकेनैव कर्मणा ।
उभयी सिद्धिरुभयानिष्टनाशो भवेत् तथा ॥ ४७-३ ॥

ईदृशं कर्म चेदस्ति तन्मे कथय शङ्कर ।
ईदृग्ग्रहस्य त्वत्तोऽन्यो न कश्चिद् वक्तुमर्हति ॥ ४७-४ ॥

तदुत्तरकथनारम्भः

अहिर्बुध्न्यः –

तदेतत् कथयिष्यामि सर्वशान्तिकरं परम् ।

वक्ष्यमाणे कर्मविशेषे राज्ञामधिकारः

महाराजैर्महाभागैः प्रयोज्यं व्यस्तजातिभिः ॥ ४७-५ ॥

[[४४६]]

तस्य निखिलदुःखनिवर्तनपूर्वकमीप्सितफलसाधनत्वम्

आध्यात्मिकादिदुःखानां त्रयाणामपि नाशनम् ।
आधीनां चाप्यशेषाणां नाशनं शुभलक्षणम् ॥ ४७-६ ॥

सर्वारिनाशनं शान्तं महाविजयकारणम् ।
रक्षोहणं पुष्टिकरं सर्ववश्यकरं मुने ॥ ४७-७ ॥

परमायुःप्रदं पुण्यं पूर्वैर्नृपतिभिः कृतम् ।

अम्बरीषप्रभृतीनामेतदनुष्ठानात् यथोक्तफललाभः

अम्बरीषः शुकोऽलर्को मान्धाता च पुरूरवाः ॥ ४७-८ ॥

राजोपरिचरो धुन्धुः शिबिश्च श्रुतकीर्तनः ।
कृत्वैतच्चक्रवर्तित्वं पुरा प्रापुरमी नृपाः ॥ ४७-९ ॥

निरामया निःसपत्ना विस्तीर्णामलकीर्तयः ।

तत्र राज्ञामधिकारनिगमनम्

अतो मानुषमानन्दं काङ्क्षन्तो भुवि भूभुजः ॥ ४७-१० ॥

कुर्युरेतन्महाशान्तिलक्षणं कर्म सादरम् ।

देशविशेषविधिः

पुराद् बहिर्महानद्यास्तटे देवालयेऽथवा ॥ ४७-११ ॥

असम्बाधे शिवे देशे विविक्ते सजलाशये ।
पूर्वोक्तलक्षणयुतान्मण्डपादधिकं मुने ॥ ४७-१२ ॥

कुर्यादायामविस्तारौ तथा राजासनान्वितम् ।
[[४४७]]

तत्तत्समन्ततः कुर्यादेवंलक्षणमुत्तमम् ॥ ४७-१३ ॥

मण्डपनिर्माणक्रमः

बहुस्तम्भसमाकीर्णं मणिकाञ्चनमण्डितम् ।
तुङ्गतोरणसंयुक्तं दीपिकाशतशोभितम् ॥ ४७-१४ ॥

किङ्किणीजालसंयुक्तं पताकाभिरलङ्कृतम् ।
सवितानं ससोपानं सर्वालङ्कारसंयुतम् ॥ ४७-१५ ॥

चन्दनागुरुकर्पूरधूपमालाधिवासितम् ।
तुङ्गसालसमायुक्तं होमशालाभिवेष्टितम् ॥ ४७-१६ ॥

कुण्डकल्पनाक्रमः

एवं मनोज्ञ कृत्वैतत् तत्र कुण्डानि कल्पयेत् ।
प्राग्भागे मण्डपस्यास्य चतुर्दिक्षु प्रकल्पयेत् ॥ ४७-१७ ॥

चतुर्व्यूहाभियोगार्थं चतुरश्राणि कारयेत् ।
प्राच्याद्यान्यथ कुण्डानि केशवादीनथो यजेत् ॥ ४७-१८ ॥

चतुर्णां केशवादीनां विकोणेषु प्रकल्पयेत् ।
कुण्डानि शेषमूर्तीनां तच्छिद्रेषु यथाक्रमम् ॥ ४७-१९ ॥

त्र्यश्रं षडश्रमर्धेन्दुं योनिं पद्माकृतिं क्रमात् ।
वृत्तं पद्माभमष्टाश्रं वज्राकृति धनुःप्रभम् ॥ ४७-२० ॥

शूलाभं शूर्पकल्पं च कुण्डान्येतानि कारयेत् ।

[[४४८]]

मध्ये देवं प्रतिष्ठाप्य यन्त्ररूपधरं प्रभुम् ॥ ४७-२१ ॥

विमानलक्षणोपेतं कुण्डं कुर्यात् तदग्रतः ।

अस्त्रकुण्डकल्पना

समन्ताद्धोमशालायामस्त्रकुण्डान्यनुक्रमात् ॥ ४७-२२ ॥

शतं तथाधिकं कुर्याच्चत्वारिंशदतन्द्रितः ।
यथार्हमस्त्रलिङ्गानि मण्डितान्यथ कारयेत् ॥ ४७-२३ ॥

ऋत्विग्वरणम्

अन्तर्मण्डपकुण्डेषु ऋत्विजः षोडश क्रमात् ।
ऋग्भिः पुरुषसूक्ताभिर्वृणुयाद्वैष्णवान् सतः ॥ ४७-२४ ॥

अस्त्रकुण्डेषु ऋत्विगन्तरवरणम्

ततः स्वनामभिश्चान्ते वृणुयाद्वेदपारगान् ।
बाह्यास्त्रकुण्डशालायां ब्रह्मास्त्रप्रमुखेष्वपि ॥ ४७-२५ ॥

ऋत्विजो वृणुयात् सर्वान् कुशलान् शान्तिकर्मणि ।
ब्रह्मजज्ञानमित्यादि-ऋग्भिः पञ्चाशतं क्रमात् ॥ ४७-२६ ॥

स्वनामभिश्च विदुषो ब्रह्मास्त्रादिकृतादिकान् ।
त्रिशतं वृणुयाद् ब्रह्मसूक्तैः सद्भिरनुक्रमात् ॥ ४७-२७ ॥

तत्रैवाथ भवा मित्र इति पञ्चभिरन्वितः ।
[[४४९]]

परो मात्रादिभिर्-ऋग्भिस्त्रयोदशभिरेव च ॥ ४७-२८ ॥

विष्णुसूक्तगताभिश्च अस्य वामेति पञ्चभिः ।
अतो देवेति षड्भिश्च दशभिश्चक्षुरित्यपि ॥ ४७-२९ ॥

षड्भिः प्रति व एनेति वृणुयात् स्वस्वनामभिः ।
सौवर्णान् राजतान् वाथ कुर्याद्धोमपरिच्छदान् ॥ ४७-३० ॥

कुम्भस्थापनम्

पूर्वभागेषु कुण्डानां स्थापयेत् तोयपूरितान् ।
सौवर्णान् राजतान् कुम्भान् यद्वा ताम्रमयानिह ॥ ४७-३१ ॥

कुम्भान् पूर्ववदेकैकं कलमान् भारसम्मितान् ।

होमार्थमृत्विगन्तरवरणविधिः

वृणुयादृत्विजः शिष्टान् यज्वनो होमकर्मसु ॥ ४७-३२ ॥

प्रवर्तयेत् स्वैः स्वैस्तु मन्त्रैर्मन्त्रविदुत्तमः ।

मध्यमकुण्डे आचार्यकर्तृकहोमविधिः

देशिको मध्यमे कुण्डे सामध्वनिसमन्वितम् ॥ ४७-३३ ॥

हुनेद्वादित्रसंयुक्तं पुण्याहनिनदैर्युतम् ।

होमसङ्ख्याविधिः

प्रत्येकं कोटिहोमेन शान्तिकर्म समारभेत् ॥ ४७-३४ ॥

[[४५०]]

तत्तत्कुम्भेषु तत्तद्देवताभ्यर्चनविधि।ः

तत्तद्देवान् समाहूय कुम्भेषु च पृथक् पृथक् ।
स्वैः स्वैरभ्यर्चयेन्मन्त्रैर्धूपदीपादिभिस्तथा ॥ ४७-३५ ॥

होमान्ते कुम्भोदकेन राज्ञोऽभिषेकः

होमकर्मणि निर्वृत्ते तत्तत्कुम्भोदकैस्ततः ।
यन्त्रपीठे समारोप्य राजानमभिषेचयेत् ॥ ४७-३६ ॥

अस्त्रकुण्डेषु होमविधिः

अस्त्रमन्त्रेषु येष्वेव नियुक्ता ये द्विजातयः ।
तत्तत्कुण्डेषु तैर्मन्त्रैर्जुहुयुः शान्तमानसाः ॥ ४७-३७ ॥

उत्तममध्यमाधमभेदेन होमसङ्ख्याविकल्पः

प्रत्येकं कोटिहोमस्तु मुख्यस्तस्यार्धमध्यमः ।
अधमं नियुतं ज्ञेयं यावदेतत् समाप्यते ॥ ४७-३८ ॥

कालेन तावता कार्यमप्रमत्तैरतन्द्रितैः ।

नारायणीयाद्यस्त्रवर्गे होमसाधनद्रव्यविधिः

नारायणीयं ब्राह्मं च विमलं क्रौञ्चमेव च ॥ ४७-३९ ॥

धर्मपाशं च लक्षाक्षं संवर्तं सत्यमुत्तमम् ।
दुन्दुनाभं च शीतेषुं विष्णुचक्रं च मानवम् ॥ ४७-४० ॥

ऐन्द्रं ज्यौतिषमित्येतमस्त्रवर्गं घृतैर्हुनेत् ।

[[४५१]]

कालचक्रादिवर्गे चरुविधिः

कालचक्रं धर्मचक्रं वज्रास्त्रं च गदाह्वयम् ॥ ४७-४१ ॥

ब्राह्मं शिरस्तथैषीकं त्रिशूलमशनिद्वयम् ।
कालपाशं च पैनाकं पाशं वारुणमेव च ॥ ४७-४२ ॥

आग्नेयं दयितं चापि तथा पाशुपतं परम् ।
एष वर्गस्तु होतव्यश्चरुणैव यथाविधि ॥ ४७-४३ ॥

कङ्कालादिवर्गे दधिविधिः

कङ्कालं मुसलं चापि वायव्यमथ कङ्कणी ।
असिरत्नं च कापालं शक्तिर्वैद्याधरं तथा ॥ ४७-४४ ॥

प्रस्वापनप्रशमने दर्पणं शोषणं तथा ।
सन्तापनं च गान्धर्वं पैशाचं च विलापनम् ॥ ४७-४५ ॥

एतानि दध्ना होतव्यान्यस्त्राणि परमास्तिकैः ।

मदनादिवर्गे पयोविधिः

मदनं तामसं चैव कन्दर्पदयितं परम् ॥ ४७-४६ ॥

सौमनं मुसलं चैव संवर्तं घोरमेव च ।
मायाधरं च सोमास्त्रं वारुणं त्वाष्ट्रमेव च ॥ ४७-४७ ॥

प्रस्वापनं भगास्त्रं च रौद्रसृष्टं पराङ्मुखम् ।
पयसामूनि जुहुयुस्तदस्त्रध्यानतत्पराः ॥ ४७-४८ ॥

[[४५२]]

रभसादिवर्गे पायसविधिः

रभसं सत्यकीर्तिं च प्रतिहारतरं तथा ।
अवाङ्मुखं च विषमं दृढनाभं सुनाभकम् ॥ ४७-४९ ॥

दशाक्षं शतवक्त्रं च शतशीर्षं शतोदरम् ।
पद्मनाभं महानाभं नैराश्यक्रथने अपि ॥ ४७-५० ॥

वर्गोऽयं पायसेनैव होतव्यः शुद्धमानसैः ।

योगन्धरादिवर्गे तिलविधिः

योगन्धरं विनिद्रं च नैद्रं सौमनसं तथा ॥ ४७-५१ ॥

धृतिमाली प्रमथनं विधूतं वृत्तिमानपि ।
महार्चिर्माली मकरं रुचिरं करवीरकम् ॥ ४७-५२ ॥

अमीषां च कृते कार्यस्तिलैर्होमो यथाविधि ।

धनादिवर्गे मधुविधिः

धनधान्ये कामरूपं मोहः कामरुचिस्तथा ॥ ४७-५३ ॥

वरणावरणे चैव परमास्त्रे उभे अपि ।
जृम्भकं सर्वनाभं च भृशाश्वतनयो महान् ॥ ४७-५४ ॥

सन्दानं परशुं चैव प्रीणीयान्मधुना भृशम् ।

अन्येष्वस्त्रेषु शालितण्डुलविधिः

अपराण्यप्यनुक्तानि जुहुयाच्छालितण्डुलैः ॥ ४७-५५ ॥

[[४५३]]

होमान्ते मन्त्रविशेषेण सुदर्शनतर्पणविधिः

हुत्वा यथोक्तं स्वैर्मन्त्रैः सर्वास्त्रप्रभवं विभुम् ।
सुदर्शनाकृतिं विष्णुं सर्वयन्त्रमयं विभुम् ॥ ४७-५६ ॥

ऋग्भिर्यन्त्रनियुक्ताभिः शान्तिकर्म समारभेत् ।

नारायणीयादितर्पणे मन्त्रविशेषविधिः

नारायणीयमुख्यास्त्रजातं प्रत्येकमादरात् ॥ ४७-५७ ॥

शान्तिं कुर्यात् परो मात्रेत्येतत्सूक्तेन सादरम् ।

कालचक्रादिवर्गे मन्त्रविशेषविधिः

कालचक्रादिवर्गस्थं प्रत्येकं जातवेदसम् ॥ ४७-५८ ॥

प्रीणीयाच्चैव कङ्कालमुख्यवर्गस्य शान्तये ।
दिवस्परीति सूक्तेन जुहुयाज्ज्वलितेऽनले ॥ ४७-५९ ॥

मदनादिवर्गे मन्त्रविशेषविधिः

मदनाद्यस्त्रवर्गस्य शान्तिं कुर्यात् समाहितः ।
अतो देवेति सूक्तेन तथा विष्णोर्नुकं त्विति ॥ ४७-६० ॥

रभसादिवर्गे मन्त्रविशेषविधिः

रभसाद्यस्त्रजातानि भवा मित्रेति पञ्चभिः ।
प्रत्येकं शमयेदृग्भिरिति वैदिकशासनम् ॥ ४७-६१ ॥

[[५५४]]

योगन्धरादिवर्गे मन्त्रविशेषविधिः

योगन्धरादेरस्त्रस्य शान्तिः कार्या समाहितैः ।
सूक्तेनानेन चैकैकमतो देवा अवन्त्विति ॥ ४७-६२ ॥

धनादिवर्गे मन्त्रविशेषविधिः

धनधान्यादिवर्गस्थं मन्त्रजातं विचक्षणः ।
जुषस्व नेति सूक्तेन शमयेत् परमेण तत् ॥ ४७-६३ ॥

अन्येष्वस्त्रेषु मन्त्रविशेषविधिः

अस्त्राण्यन्यान्यनुक्तानि विष्णुसूक्तेन तर्पयेत् ।
सूक्तैरेतैर्महायन्त्रविनियुक्तैश्च पावनैः ॥ ४७-६४ ॥

सर्वयन्त्रमयं देवं स्तुतिहोमैः समर्चयेत् ।

तर्पणान्ते सहस्रब्राह्मणभोजनविधिः

ततो देवान् समभ्यर्च्य ब्राह्मणांस्तदनन्तरम् ॥ ४७-६५ ॥

सहस्रं भोजयेच्छुद्धैरोदनैः पायसैरपि ।

ततोऽस्त्रमन्त्रजलैः राज्ञोऽभिषेकविधिः

ततो राजासनारूढं राजानं शान्तमानसम् ॥ ४७-६६ ॥

ऋत्विग्भिराहृतैः सर्वैरस्त्रमन्त्रजलैः शुभैः ।
गुरुस्तन्मूलमन्त्रेण मन्त्रितैरभिषेचयेत् ॥ ४७-६७ ॥

[[४५५]]

रुग्णस्य तु राज्ञः प्रोक्षणविधिः

प्रोक्षयेदामयाविष्टो यदि राजा भवेन्मुने ।

मण्डपान्तःस्थकुम्भतोयाभिषेचनावश्यकता

अवश्यं मण्डपान्तःस्थकुम्भतोयाभिषेचनम् ।
कुर्यान्निरामयोऽनाधिर्विजयी भवति क्षणात् ॥ ४७-६८ ॥

यथोक्तमहाशान्तिफलकीर्तनम्

आरोग्यमायुर्विजयो विभूति-
र्वशित्वमास्तिक्यममर्त्यता च ।
सर्वार्थसिद्धिर्वसुधाधिपत्यं
भवन्ति निःसंशयमेव राज्ञः ॥ ४७-६९ ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
महाशान्तिविधानं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥

आदितः श्लोकाः २९३६