सुदर्शनहोमाङ्गद्रव्यपरिमाणादिनिरूपणं नाम
षट्चत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
राज्ञो होममण्डपानागमने कर्तव्यक्रमः
नारदः –
विश्वास-प्रस्तुतिः - ४६-१
दैवाद्वा मानुषाद्वापि भूतादिभिरथापि वा ।
दर्पात् प्रतिबलाद्वान्यैरन्तरायैर्महीपतिः ॥ ४६-१ ॥
मूलम् - ४६-१
दैवाद्वा मानुषाद्वापि भूतादिभिरथापि वा ।
दर्पात् प्रतिबलाद्वान्यैरन्तरायैर्महीपतिः ॥ ४६-१ ॥
विश्वास-प्रस्तुतिः - ४६-२
यदि न प्राप्नुयादेव होममण्डपमादितः ।
ततः कथं महीभर्तुर्निवर्त्यन्ते महाग्रहाः ॥ ४६-२ ॥
मूलम् - ४६-२
यदि न प्राप्नुयादेव होममण्डपमादितः ।
ततः कथं महीभर्तुर्निवर्त्यन्ते महाग्रहाः ॥ ४६-२ ॥
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ४६-३
शृणु राजा न चेत् कुर्यात् पुरोधाः कुरुतात् कृती ।
स एव राज्ञः सर्वस्वमदृष्टार्थोपपादने ॥ ४६-३ ॥
मूलम् - ४६-३
शृणु राजा न चेत् कुर्यात् पुरोधाः कुरुतात् कृती ।
स एव राज्ञः सर्वस्वमदृष्टार्थोपपादने ॥ ४६-३ ॥
पुरोहितलक्षणम्
विश्वास-प्रस्तुतिः - ४६-४
धार्मिकः श्रुतिसम्पन्नः सुशीलः सत्यवाक् शुचिः ।
अभिजातोऽनहङ्कारस्तितिक्षुः स्मृतिमान् वशी ॥ ४६-४ ॥
मूलम् - ४६-४
धार्मिकः श्रुतिसम्पन्नः सुशीलः सत्यवाक् शुचिः ।
अभिजातोऽनहङ्कारस्तितिक्षुः स्मृतिमान् वशी ॥ ४६-४ ॥
देशकालविभागज्ञः शास्त्रदृष्टिरतन्द्रितः ।
[[४४१]]
अप्रधृष्योऽप्रमादी च वदान्यो नयकोविदः ॥ ४६-५ ॥
विश्वास-प्रस्तुतिः - ४६-६
उपायोपेयविन्मन्त्री यायजूको ह्यलोलुपः ।
दैववित् प्रियवादी च वैदिकः सत्त्ववान् प्रभुः ॥ ४६-६ ॥
मूलम् - ४६-६
उपायोपेयविन्मन्त्री यायजूको ह्यलोलुपः ।
दैववित् प्रियवादी च वैदिकः सत्त्ववान् प्रभुः ॥ ४६-६ ॥
विश्वास-प्रस्तुतिः - ४६-७
विष्णुभक्तस्तपस्वी च कार्यवित् कर्मठोऽनघः ।
हिताहिताप्तिहानेच्छुर्नृपाणां सर्वसम्मतः ॥ ४६-७ ॥
मूलम् - ४६-७
विष्णुभक्तस्तपस्वी च कार्यवित् कर्मठोऽनघः ।
हिताहिताप्तिहानेच्छुर्नृपाणां सर्वसम्मतः ॥ ४६-७ ॥
पुरोधस एव राज्ञः सर्वकार्यकर्तृत्वम्
विश्वास-प्रस्तुतिः - ४६-८
ईदृशो दुर्लभो राज्ञां गुरुकल्पः पुरोहितः ।
ईदृशो हि क्षमो राज्ञामघौघविनिवारणे ॥ ४६-८ ॥
मूलम् - ४६-८
ईदृशो दुर्लभो राज्ञां गुरुकल्पः पुरोहितः ।
ईदृशो हि क्षमो राज्ञामघौघविनिवारणे ॥ ४६-८ ॥
विश्वास-प्रस्तुतिः - ४६-९
अतः स एव राज्ञां हि रक्षाविधिमथार्हति ।
एवंविधो गुरुर्यस्य स सम्राद् नृपतिर्भवेत् ॥ ४६-९ ॥
मूलम् - ४६-९
अतः स एव राज्ञां हि रक्षाविधिमथार्हति ।
एवंविधो गुरुर्यस्य स सम्राद् नृपतिर्भवेत् ॥ ४६-९ ॥
विश्वास-प्रस्तुतिः - ४६-१०
दीर्घायुर्निःसपत्नः स्यादरोगः परवीरहा ।
अवग्रहाद्या जायन्ते पीडास्तद्विषये न हि ॥ ४६-१० ॥
मूलम् - ४६-१०
दीर्घायुर्निःसपत्नः स्यादरोगः परवीरहा ।
अवग्रहाद्या जायन्ते पीडास्तद्विषये न हि ॥ ४६-१० ॥
तादृशपुरोहिताभावे राज्ञोऽनिष्टकथनम्
विश्वास-प्रस्तुतिः - ४६-११
तं विनान्यो भवेद्राज्ञो गुरुर्वाथ पुरोहितः ।
विपरीतं भवेत् तस्य महीभर्तुर्न संशयः ॥ ४६-११ ॥
मूलम् - ४६-११
तं विनान्यो भवेद्राज्ञो गुरुर्वाथ पुरोहितः ।
विपरीतं भवेत् तस्य महीभर्तुर्न संशयः ॥ ४६-११ ॥
कुम्भादीनां परिमाणादिप्रश्नः
नारदः –
विश्वास-प्रस्तुतिः - ४६-१२
परिमाणं च कुम्भानां स्रुक्स्रुवाणां च लक्षणम् ।
ऋत्विजः कीदृशो ह्यस्य प्रकारश्चाखिलं वद ॥ ४६-१२ ॥
मूलम् - ४६-१२
परिमाणं च कुम्भानां स्रुक्स्रुवाणां च लक्षणम् ।
ऋत्विजः कीदृशो ह्यस्य प्रकारश्चाखिलं वद ॥ ४६-१२ ॥
[[४४२]]
उत्तमपरिमाणम्
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ४६-१३
शुद्धैर्गन्धोदकैर्भारपरिमाणैः सुपूरितान् ।
सौवर्णराजतान् कुम्भान् कारयेदिदमुत्तमम् ॥ ४६-१३ ॥
मूलम् - ४६-१३
शुद्धैर्गन्धोदकैर्भारपरिमाणैः सुपूरितान् ।
सौवर्णराजतान् कुम्भान् कारयेदिदमुत्तमम् ॥ ४६-१३ ॥
मध्यमपरिमाणम्
अर्धभारभृतान् कुम्भान् मध्यमोऽयं विधिः स्मृतः ।
अधमपरिमाणम्
तदर्धेनाधमे पक्षे पूरयेदेष निर्णयः ॥ ४६-१४ ॥
यथाविधि स्रुगादिनिर्माणम्
यथाविधि विधेयौ तु स्रुक्स्रुवौ मुनिसत्तम ।
ऋत्विक्सङ्ख्या
ऋत्विजः सात्त्विकानष्टौ वृणुयाद्वैष्णावांस्ततः ॥ ४६-१५ ॥
अङ्गमन्त्रादिविधिः
विश्वास-प्रस्तुतिः - ४६-१६
अङ्गमन्त्रैश्च गायत्र्या वह्निप्राकारकेण च ।
प्रधानकुण्डयोश्चापि गुरुकल्पौ समाहितौ ॥ ४६-१६ ॥
मूलम् - ४६-१६
अङ्गमन्त्रैश्च गायत्र्या वह्निप्राकारकेण च ।
प्रधानकुण्डयोश्चापि गुरुकल्पौ समाहितौ ॥ ४६-१६ ॥
विश्वास-प्रस्तुतिः - ४६-१७
वृणुयान्मूलमन्त्रेण सर्वे रक्षामनौ रताः ।
शमीसमिद्भिर्दूर्वाभिस्तिलैराम्रदलैस्तथा ॥ ४६-१७ ॥
मूलम् - ४६-१७
वृणुयान्मूलमन्त्रेण सर्वे रक्षामनौ रताः ।
शमीसमिद्भिर्दूर्वाभिस्तिलैराम्रदलैस्तथा ॥ ४६-१७ ॥
चरुणा पायसापूपैः पालाशैर्जुहुयात् क्रमात् ।
[[४४३]]
शुद्धेन सर्पिषा मध्यकुण्डयोर्हावयेद् गुरुः ॥ ४६-१८ ॥
विश्वास-प्रस्तुतिः - ४६-१९
अथवा सर्वकुण्डेषु शुद्धेनाज्येन हावयेत् ।
गुरुणैवाभिनिर्वर्त्ये प्रतीकारविधाविह ॥ ४६-१९ ॥
मूलम् - ४६-१९
अथवा सर्वकुण्डेषु शुद्धेनाज्येन हावयेत् ।
गुरुणैवाभिनिर्वर्त्ये प्रतीकारविधाविह ॥ ४६-१९ ॥
विश्वास-प्रस्तुतिः - ४६-२०
शयनासनयानादौ राज्ञः स्वैरविधावपि ।
पूर्वोक्तेन विधानेन वितानादिकमाचरेत् ॥ ४६-२० ॥
मूलम् - ४६-२०
शयनासनयानादौ राज्ञः स्वैरविधावपि ।
पूर्वोक्तेन विधानेन वितानादिकमाचरेत् ॥ ४६-२० ॥
होमान्ते राज्ञोऽभिषेकः
विश्वास-प्रस्तुतिः - ४६-२१
होमावसानसमये प्रयोगेऽप्यत्र तद्गुरुः ।
तत्र राजानमाहूय पूर्ववन्मन्त्रितासने ॥ ४६-२१ ॥
मूलम् - ४६-२१
होमावसानसमये प्रयोगेऽप्यत्र तद्गुरुः ।
तत्र राजानमाहूय पूर्ववन्मन्त्रितासने ॥ ४६-२१ ॥
स्थापयित्वाभिषेकादिसस्कारं गुरुराचरेत् ।
गुर्वादिप्रीणनम्
ततः स्वस्थमनाः सद्यो विमुक्तग्रहबन्धनः ॥ ४६-२२ ॥
विश्वास-प्रस्तुतिः - ४६-२३
यथार्हं गुरवे दद्यात् स्वचिह्नानि प्रणम्य च ।
भूषणानि महार्हाणि मुक्तामणिमयानि च ॥ ४६-२३ ॥
मूलम् - ४६-२३
यथार्हं गुरवे दद्यात् स्वचिह्नानि प्रणम्य च ।
भूषणानि महार्हाणि मुक्तामणिमयानि च ॥ ४६-२३ ॥
विश्वास-प्रस्तुतिः - ४६-२४
मणिपीठसुवर्णानि रत्नानि विविधानि च ।
भुवश्च भूयसीर्दत्वा ऋत्विजस्तर्पयेत् ततः ॥ ४६-२४ ॥
मूलम् - ४६-२४
मणिपीठसुवर्णानि रत्नानि विविधानि च ।
भुवश्च भूयसीर्दत्वा ऋत्विजस्तर्पयेत् ततः ॥ ४६-२४ ॥
विश्वास-प्रस्तुतिः - ४६-२५
एकैकमृत्विजः सर्वे शतेनार्च्याः सुवर्णकैः ।
प्रत्येकं दशभिर्गोभिर्वासोभिर्विविधैरपि ॥ ४६-२५ ॥
मूलम् - ४६-२५
एकैकमृत्विजः सर्वे शतेनार्च्याः सुवर्णकैः ।
प्रत्येकं दशभिर्गोभिर्वासोभिर्विविधैरपि ॥ ४६-२५ ॥
प्रधानहोमकर्त्रे विशेषतो दक्षिणादानम्
प्रधानहोमकर्त्रे तु देशिकाय विशेषतः ।
[[४४४]]
दद्याद् बहु धनं पूर्णमेकमश्वं सवाहनम् ॥ ४६-२६ ॥
अलङ्कारेण सहितं मण्डपं सपरिच्छदम् ।
ततो ब्राह्मणतर्पणम्
ब्राह्मणानां ततस्तृप्तिं कुर्यात् प्रीतमना नृपः ॥ ४६-२७ ॥
विश्वास-प्रस्तुतिः - ४६-२८
राज्ञा स्वेनाभिनिर्वृत्ते कर्मण्यस्मिन् यथोदिते ।
प्रयोगे देशिकायैव दद्यान्मन्त्रविदे वसु ॥ ४६-२८ ॥
मूलम् - ४६-२८
राज्ञा स्वेनाभिनिर्वृत्ते कर्मण्यस्मिन् यथोदिते ।
प्रयोगे देशिकायैव दद्यान्मन्त्रविदे वसु ॥ ४६-२८ ॥
विश्वास-प्रस्तुतिः - ४६-२९
पुरोधसा कृतं सर्वमेष धर्मः सनातनः ।
राजोदाहरणे तावत् सविशेषमुदीरितम् ॥ ४६-२९ ॥
मूलम् - ४६-२९
पुरोधसा कृतं सर्वमेष धर्मः सनातनः ।
राजोदाहरणे तावत् सविशेषमुदीरितम् ॥ ४६-२९ ॥
अन्येषामपि सर्वेषामेष एव विधिः स्मृतः ।
विश्वास-प्रस्तुतिः - ४६-३०
पूर्णाहुतिं ततः कुर्याद्वैष्णव्यर्चा समाहितः ।
राज्ञोऽभ्युदयमाकाङ्क्षन् देशिको मन्त्रवित्तमः ॥ ४६-३० ॥
मूलम् - ४६-३०
पूर्णाहुतिं ततः कुर्याद्वैष्णव्यर्चा समाहितः ।
राज्ञोऽभ्युदयमाकाङ्क्षन् देशिको मन्त्रवित्तमः ॥ ४६-३० ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
सुदर्शनहोमाङ्गद्रव्यपरिमाणादिनिरूपणं नाम
षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
आदितः श्लोकाः २८६७