कुशध्वजोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
अध्यात्मविद्यादिविषयकः प्रश्नः
नारदः –
विश्वास-प्रस्तुतिः - ४५-१
भगवन्निदमाख्यातं पुरस्तात् परमेश्वर ।
अध्यात्मविद्याविद्या च परविद्या स्वरूपतः ॥ ४५-१ ॥
मूलम् - ४५-१
भगवन्निदमाख्यातं पुरस्तात् परमेश्वर ।
अध्यात्मविद्याविद्या च परविद्या स्वरूपतः ॥ ४५-१ ॥
विश्वास-प्रस्तुतिः - ४५-२
ताभिः किं साध्यते देव ताभिः किं वा निवर्त्यते ।
त्वमेवैतद्विजानासि तन्ममाचक्ष्व विस्तरात् ॥ ४५-२ ॥
मूलम् - ४५-२
ताभिः किं साध्यते देव ताभिः किं वा निवर्त्यते ।
त्वमेवैतद्विजानासि तन्ममाचक्ष्व विस्तरात् ॥ ४५-२ ॥
अविद्याकार्यनिरूपणम्
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ४५-३
परमं गुह्यमेतत् ते कथयामि यथा शृणु ।
अविद्यया परं रूपं जीवात्मपरमात्मनोः ॥ ४५-३ ॥
मूलम् - ४५-३
परमं गुह्यमेतत् ते कथयामि यथा शृणु ।
अविद्यया परं रूपं जीवात्मपरमात्मनोः ॥ ४५-३ ॥
सञ्छाद्यते तयोस्तत्त्ववेदनं तु निवर्त्यते ।
अध्यात्मज्ञानकार्यनिरूपणम्
अध्यात्मयोगाधिगमात् परं ज्ञानं प्रजायते ॥ ४५-४ ॥
[[४३१]]
निवर्त्यते तथानादिः संसारो बन्धनात्मकः ।
परविद्याकार्यनिरूपणम्
परस्वरूपविज्ञानादपुनर्भवलक्षणा ॥ ४५-५ ॥
विश्वास-प्रस्तुतिः - ४५-६
साध्यते परमा मुक्तिः सदानन्दफलानघ ।
अनादिकालसिद्धानि प्राक्तनान्यमुना मुने ॥ ४५-६ ॥
मूलम् - ४५-६
साध्यते परमा मुक्तिः सदानन्दफलानघ ।
अनादिकालसिद्धानि प्राक्तनान्यमुना मुने ॥ ४५-६ ॥
भविष्याणि च कर्माणि निरस्यन्ते सवासनम् ।
प्रारब्धकर्मणां भोगैकनाश्यत्वम्
न विनश्यति भोगेन विना प्रारब्धकर्म यत् ॥ ४५-७ ॥
एतत् सर्वं समासेन भवतः कथितं मया ।
प्रारब्धकर्मविनाशककर्मविशेषसदसद्भावप्रश्नः
नारदः –
प्रारब्धकर्म भगवन् नाश्यते केन कर्मणा ॥ ४५-८ ॥
न विनश्यति वा किंस्विदेतत् केनापि कर्मणा ।
तत्प्रतिविवक्षया कुशध्वजेतिहासोदाहरणम्
अहिर्बुध्न्यः –
त्रेतायुगे पुरावृत्तमितिहासमिमं शृणु ॥ ४५-९ ॥
विश्वास-प्रस्तुतिः - ४५-१०
आसीत् कुशध्वजो नाम जनकेषु महीपतिः ।
ब्रह्मवित् परमोदारः प्रजापालनतत्परः ॥ ४५-१० ॥
मूलम् - ४५-१०
आसीत् कुशध्वजो नाम जनकेषु महीपतिः ।
ब्रह्मवित् परमोदारः प्रजापालनतत्परः ॥ ४५-१० ॥
[[४३२]]
कुशध्वजस्य महामोहेन भृशं पीडा
विश्वास-प्रस्तुतिः - ४५-११
तस्य भूमण्डलं सर्वं शासतः पृथिवीपतेः ।
एकदा तु महामोहः प्रादुरासाङ्गतापनः ॥ ४५-११ ॥
मूलम् - ४५-११
तस्य भूमण्डलं सर्वं शासतः पृथिवीपतेः ।
एकदा तु महामोहः प्रादुरासाङ्गतापनः ॥ ४५-११ ॥
विश्वास-प्रस्तुतिः - ४५-१२
कल्पान्तरं भृशं तेन पीडितोऽपि महीपतिः ।
यास्यतीति स्वयं नैनं व्यजीगणदमित्रहा ॥ ४५-१२ ॥
मूलम् - ४५-१२
कल्पान्तरं भृशं तेन पीडितोऽपि महीपतिः ।
यास्यतीति स्वयं नैनं व्यजीगणदमित्रहा ॥ ४५-१२ ॥
उदासीनस्यापि तस्य मुहुर्मुहुः पीडातिशयः
पुनश्च पीडितस्तेन वारं वारं विशां पतिः ।
नितरां पीडितस्य तस्य चिन्ताप्रकारः
अचिन्तयत् तदा चेत्थमयमाकस्मिको बली ॥ ४५-१३ ॥
विश्वास-प्रस्तुतिः - ४५-१४
मुहुरध्यात्मनिरतं बाधते मामनाथवत् ।
न शाम्यति स्वयं केन कारणेनैतदागतम् ॥ ४५-१४ ॥
मूलम् - ४५-१४
मुहुरध्यात्मनिरतं बाधते मामनाथवत् ।
न शाम्यति स्वयं केन कारणेनैतदागतम् ॥ ४५-१४ ॥
तस्य स्वकुलगुरुयाज्ञवल्क्याभिगमनम्
विश्वास-प्रस्तुतिः - ४५-१५
इति चिन्तापरो राजा जगाम गुरुमन्दिरम् ।
ब्रह्मघोषयुतं पुण्यं हविर्धूमाधिवासितम् ॥ ४५-१५ ॥
मूलम् - ४५-१५
इति चिन्तापरो राजा जगाम गुरुमन्दिरम् ।
ब्रह्मघोषयुतं पुण्यं हविर्धूमाधिवासितम् ॥ ४५-१५ ॥
विश्वास-प्रस्तुतिः - ४५-१६
प्रविश्यान्तः समासीनमग्न्यगारे तपोनिधिम् ।
ब्रह्मविद्भिः परिवृतं विवस्वन्तमिवापरम् ॥ ४५-१६ ॥
मूलम् - ४५-१६
प्रविश्यान्तः समासीनमग्न्यगारे तपोनिधिम् ।
ब्रह्मविद्भिः परिवृतं विवस्वन्तमिवापरम् ॥ ४५-१६ ॥
याज्ञवल्क्यं कुलगुरुं ददर्श विनयान्वितः ।
कुशध्वजेन स्ववृत्तान्तनिवेदनम्
तं प्रणम्य महात्मानमिदं वचनमब्रवीत् ॥ ४५-१७ ॥
[[४३३]]
विश्वास-प्रस्तुतिः - ४५-१८
त्वत्त एव मया विद्या परा प्राप्ता तथापरा ।
परविद्यानलेनैव दग्धं कर्माखिलं मम ॥ ४५-१८ ॥
मूलम् - ४५-१८
त्वत्त एव मया विद्या परा प्राप्ता तथापरा ।
परविद्यानलेनैव दग्धं कर्माखिलं मम ॥ ४५-१८ ॥
विश्वास-प्रस्तुतिः - ४५-१९
पूर्वापरं विना कर्म प्रारब्धमिति च श्रुतम् ।
राज्यलाभः फलं प्राप्तं प्रारब्धस्य तु कर्मणः ॥ ४५-१९ ॥
मूलम् - ४५-१९
पूर्वापरं विना कर्म प्रारब्धमिति च श्रुतम् ।
राज्यलाभः फलं प्राप्तं प्रारब्धस्य तु कर्मणः ॥ ४५-१९ ॥
विश्वास-प्रस्तुतिः - ४५-२०
इति मे वर्तमानस्य दुःसहः स्मृतिभञ्जनः ।
प्रावर्तत महामोहो मद्गात्रपरितापनः ॥ ४५-२० ॥
मूलम् - ४५-२०
इति मे वर्तमानस्य दुःसहः स्मृतिभञ्जनः ।
प्रावर्तत महामोहो मद्गात्रपरितापनः ॥ ४५-२० ॥
केनैतदागतं कष्टं केन वा शम्स शाम्यति ।
याज्ञवल्क्यस्य प्रतिवचनम्
तेनैवमुक्तो भगवान् व्याजहार कुशध्वजम् ॥ ४५-२१ ॥
शरीरसृष्टेः फलभोगार्थत्वम्
सुखदुःखोपभोगाय देहिनां देहकल्पनम् ।
ब्रह्मविच्छरीरस्यापि तथात्वम्
अपि ब्रह्मविदां देहस्तथैवेत्यवधारय ॥ ४५-२२ ॥
विश्वास-प्रस्तुतिः - ४५-२३
तत् तवापि शरीरेण भोक्तव्यं कर्मणः फलम् ।
क्रियन्ते यानि कर्माणि शरीरेण तवापि तु ॥ ४५-२३ ॥
मूलम् - ४५-२३
तत् तवापि शरीरेण भोक्तव्यं कर्मणः फलम् ।
क्रियन्ते यानि कर्माणि शरीरेण तवापि तु ॥ ४५-२३ ॥
तेषां फलानि भुज्यन्ते केवलं न कदाचन ।
महामोहस्य पापफलत्वम्
अतः पापफलं विद्धि प्राप्तमेतन्महीपते ॥ ४५-२४ ॥
[[४३४]]
तत्कारणभूतपापनिरूपणप्रतिज्ञा
विश्वास-प्रस्तुतिः - ४५-२५
शृणु येनागतो मोहस्तत्त्वतः कथयाम्यहम् ।
उन्मादश्च महोन्मादश्चित्ताक्षेपश्च मूर्छना ॥ ४५-२५ ॥
मूलम् - ४५-२५
शृणु येनागतो मोहस्तत्त्वतः कथयाम्यहम् ।
उन्मादश्च महोन्मादश्चित्ताक्षेपश्च मूर्छना ॥ ४५-२५ ॥
विश्वास-प्रस्तुतिः - ४५-२६
सञ्ज्ञान्तकारी विक्षोभः प्रलापी स्मृतिभञ्जकः ।
अष्टौ दोषा महापापैर्जायन्ते प्राणिहिंसकाः ॥ ४५-२६ ॥
मूलम् - ४५-२६
सञ्ज्ञान्तकारी विक्षोभः प्रलापी स्मृतिभञ्जकः ।
अष्टौ दोषा महापापैर्जायन्ते प्राणिहिंसकाः ॥ ४५-२६ ॥
राज्ञामुन्मादादिदोषोत्पत्तिकारणनिरूपणम्
विश्वास-प्रस्तुतिः - ४५-२७
ब्रह्मघ्नादण्डनविधेरसत्ये सत्यतामतेः ।
स्वाराध्यदेवताबिम्बोपेक्षणान्नृपतेर्वधात् ॥ ४५-२७ ॥
मूलम् - ४५-२७
ब्रह्मघ्नादण्डनविधेरसत्ये सत्यतामतेः ।
स्वाराध्यदेवताबिम्बोपेक्षणान्नृपतेर्वधात् ॥ ४५-२७ ॥
विश्वास-प्रस्तुतिः - ४५-२८
ब्रह्मदेयापहारेण ब्राह्मणातङ्कनिर्मितेः ।
मर्यादाभङ्गकरणादगम्यागमनादपि ॥ ४५-२८ ॥
मूलम् - ४५-२८
ब्रह्मदेयापहारेण ब्राह्मणातङ्कनिर्मितेः ।
मर्यादाभङ्गकरणादगम्यागमनादपि ॥ ४५-२८ ॥
एतैर्नृपाणां जायन्ते दोषास्ते कारणैर्नृप ।
युद्धादन्यत्र राजवधात् कुशध्वजस्य महामोहप्राप्तिकथनम्
अयुद्धे न्यवधीः पूर्वं महाराजं सुधार्मिकम् ॥ ४५-२९ ॥
विश्वास-प्रस्तुतिः - ४५-३०
एतद्देहोपभोग्येन पापेनानेन भूपते ।
प्राप्तेयं मूर्छना पापा भवन्तं भयदायिनी ॥ ४५-३० ॥
मूलम् - ४५-३०
एतद्देहोपभोग्येन पापेनानेन भूपते ।
प्राप्तेयं मूर्छना पापा भवन्तं भयदायिनी ॥ ४५-३० ॥
सुदर्शनमहिम्नाष्टानामपि दोषाणां निश्चयेन नाश्यत्वम्
विश्वास-प्रस्तुतिः - ४५-३१
सौदर्शनप्रभावेण दोषाश्चाष्टविधा अमी ।
विनश्यन्ति न सन्देहस्तेन तच्च प्रणश्यति ॥ ४५-३१ ॥
मूलम् - ४५-३१
सौदर्शनप्रभावेण दोषाश्चाष्टविधा अमी ।
विनश्यन्ति न सन्देहस्तेन तच्च प्रणश्यति ॥ ४५-३१ ॥
[[४३५]]
सुदर्शनप्रसादसम्पादनयत्नोपदेशः
अतस्तत्साधने यत्नं कुरुष्वाङ्ग विचारयन् ।
प्रथमं मण्डपादिनिर्माणम्
प्रथमं मण्डपं तुङ्गं सर्वमङ्गलसंयुतम् ॥ ४५-३२ ॥
विश्वास-प्रस्तुतिः - ४५-३३
बहुस्तम्भसमाकीर्णं तुङ्गतोरणमण्डितम् ।
शुक्लक्षौमवितानाढ्यं किङ्किणीजालभूषितम् ॥ ४५-३३ ॥
मूलम् - ४५-३३
बहुस्तम्भसमाकीर्णं तुङ्गतोरणमण्डितम् ।
शुक्लक्षौमवितानाढ्यं किङ्किणीजालभूषितम् ॥ ४५-३३ ॥
विश्वास-प्रस्तुतिः - ४५-३४
बहुध्वजसमाकीर्णं पताकाभिरलङ्कृतम् ।
मुक्तादामसमाकीर्णं बहुमाल्यपरिष्कृतम् ॥ ४५-३४ ॥
मूलम् - ४५-३४
बहुध्वजसमाकीर्णं पताकाभिरलङ्कृतम् ।
मुक्तादामसमाकीर्णं बहुमाल्यपरिष्कृतम् ॥ ४५-३४ ॥
विश्वास-प्रस्तुतिः - ४५-३५
क्षौमाभिवेष्टितस्तम्भं दीपिकासमलङ्कृतम् ।
षट्त्रिंशत्पदविस्तारं चतुःपञ्चाशता पदैः ॥ ४५-३५ ॥
मूलम् - ४५-३५
क्षौमाभिवेष्टितस्तम्भं दीपिकासमलङ्कृतम् ।
षट्त्रिंशत्पदविस्तारं चतुःपञ्चाशता पदैः ॥ ४५-३५ ॥
विश्वास-प्रस्तुतिः - ४५-३६
आयामैः सम्मितं रम्यं मङ्गलाष्टकसंयुतम् ।
चन्दनागरुधूपेन वासितं विश्वतः शिवम् ॥ ४५-३६ ॥
मूलम् - ४५-३६
आयामैः सम्मितं रम्यं मङ्गलाष्टकसंयुतम् ।
चन्दनागरुधूपेन वासितं विश्वतः शिवम् ॥ ४५-३६ ॥
सरस्वतीतीरे मण्डपनिर्माणविधिः
विश्वास-प्रस्तुतिः - ४५-३७
एवमेव सरस्वत्यास्तटे शुद्धे पुराद् बहिः ।
शीघ्रं कारय कल्याण मा भैषीर्मा विचारणा ॥ ४५-३७ ॥
मूलम् - ४५-३७
एवमेव सरस्वत्यास्तटे शुद्धे पुराद् बहिः ।
शीघ्रं कारय कल्याण मा भैषीर्मा विचारणा ॥ ४५-३७ ॥
तत्र स्वागमनप्रतिज्ञा
तत्रैव चागमिष्यामि करिष्ये कर्म शान्तिकम् ।
यथोपदेशं राज्ञोऽनुष्ठानम्
एवमुक्तवति प्राज्ञे गुरौ राजा विनिर्ययौ ॥ ४५-३८ ॥
[[४३६]]
विश्वास-प्रस्तुतिः - ४५-३९
ततः स परमप्रीतः समाहूय च किङ्करान् ।
यथोक्तलक्षणं तत्र मण्डपं समकारयत् ॥ ४५-३९ ॥
मूलम् - ४५-३९
ततः स परमप्रीतः समाहूय च किङ्करान् ।
यथोक्तलक्षणं तत्र मण्डपं समकारयत् ॥ ४५-३९ ॥
याज्ञवल्क्यस्य तन्मण्डपगमनम्
विश्वास-प्रस्तुतिः - ४५-४०
स्वप्रभावेण तद्दोषं शक्तः शमयितुं मुनिः ।
तथापि राजधर्मोऽयमिति बुद्ध्या विचिन्त्य सः ॥ ४५-४० ॥
मूलम् - ४५-४०
स्वप्रभावेण तद्दोषं शक्तः शमयितुं मुनिः ।
तथापि राजधर्मोऽयमिति बुद्ध्या विचिन्त्य सः ॥ ४५-४० ॥
जगाम मण्डपं तत्र शुक्लपक्षे शुभे दिने ।
मण्डपस्य पश्चिमभागे राजासनकल्पनम्
शिल्पिनः स समाहूय राजासनमकल्पयत् ॥ ४५-४१ ॥
अस्य पश्चिमदिग्भागे तृतीये समलङ्कृते ।
प्राग्भागद्वयमध्ये होमकुण्डकल्पनम्
प्राग्भागद्वयमध्येऽस्य होमकुण्डान्यकारयत् ॥ ४५-४२ ॥
विश्वास-प्रस्तुतिः - ४५-४३
विमानलक्षणोपेतवेदिकास्थलमूर्धसु ।
चक्राकृतीनि कुण्डानि कल्पयामास सादरम् ॥ ४५-४३ ॥
मूलम् - ४५-४३
विमानलक्षणोपेतवेदिकास्थलमूर्धसु ।
चक्राकृतीनि कुण्डानि कल्पयामास सादरम् ॥ ४५-४३ ॥
मध्ये अष्टदिक्षु च कुण्डकल्पना
विश्वास-प्रस्तुतिः - ४५-४४
तादृशं कुण्डयुग्मं तु मध्ये कृत्वा ततो बहिः ।
अष्टासु दिक्षु कुण्डानि तथैव समकारयत् ॥ ४५-४४ ॥
मूलम् - ४५-४४
तादृशं कुण्डयुग्मं तु मध्ये कृत्वा ततो बहिः ।
अष्टासु दिक्षु कुण्डानि तथैव समकारयत् ॥ ४५-४४ ॥
प्रतिकुण्डमेकैकस्य, मध्ये द्वयोश्च कुम्भयोः स्थापनम्
विश्वास-प्रस्तुतिः - ४५-४५
प्रतिकुण्डं परिस्तीर्य कलमान् भारसम्मितान् ।
स्थापयामास कुण्डानां पूर्वपार्श्वेषु सर्वतः ॥ ४५-४५ ॥
मूलम् - ४५-४५
प्रतिकुण्डं परिस्तीर्य कलमान् भारसम्मितान् ।
स्थापयामास कुण्डानां पूर्वपार्श्वेषु सर्वतः ॥ ४५-४५ ॥
[[४३७]]
विश्वास-प्रस्तुतिः - ४५-४६
कुम्भानि राजतान्यष्टौ सौवर्णे मध्यमे उभे ।
गन्धतोयेन पूर्णानि नवरत्नयुतानि च ॥ ४५-४६ ॥
मूलम् - ४५-४६
कुम्भानि राजतान्यष्टौ सौवर्णे मध्यमे उभे ।
गन्धतोयेन पूर्णानि नवरत्नयुतानि च ॥ ४५-४६ ॥
याज्ञवल्क्येन स्वयं कुम्भार्चनम्
विश्वास-प्रस्तुतिः - ४५-४७
ततः स्वयं मुनिः सार्धं शतानन्देन धीमता ।
क्षौमैस्तन्तुभिरावेष्ट्य गन्धपुष्पैस्तथाक्षतैः ॥ ४५-४७ ॥
मूलम् - ४५-४७
ततः स्वयं मुनिः सार्धं शतानन्देन धीमता ।
क्षौमैस्तन्तुभिरावेष्ट्य गन्धपुष्पैस्तथाक्षतैः ॥ ४५-४७ ॥
विश्वास-प्रस्तुतिः - ४५-४८
अलङ्कृत्य च कुम्भेषु देवमावाह्य सादरम् ।
अर्चयामास मन्त्रेण धूपदीपप्रसूनकैः ॥ ४५-४८ ॥
मूलम् - ४५-४८
अलङ्कृत्य च कुम्भेषु देवमावाह्य सादरम् ।
अर्चयामास मन्त्रेण धूपदीपप्रसूनकैः ॥ ४५-४८ ॥
यन्त्रप्रतिष्ठाविलेखनादि
विश्वास-प्रस्तुतिः - ४५-४९
महायन्त्रं प्रतिष्ठाप्य मध्येकुम्भद्वयं गुरुः ।
देवं विना महायन्त्रं सर्वमन्त्रसमन्वितम् ॥ ४५-४९ ॥
मूलम् - ४५-४९
महायन्त्रं प्रतिष्ठाप्य मध्येकुम्भद्वयं गुरुः ।
देवं विना महायन्त्रं सर्वमन्त्रसमन्वितम् ॥ ४५-४९ ॥
विश्वास-प्रस्तुतिः - ४५-५०
पटे विलिख्य पूर्वोक्तं सर्वदिव्यास्त्रसंयुतम् ।
राजासने विकीर्यैतत् ततस्तत् सोत्तरच्छदम् ॥ ४५-५० ॥
मूलम् - ४५-५०
पटे विलिख्य पूर्वोक्तं सर्वदिव्यास्त्रसंयुतम् ।
राजासने विकीर्यैतत् ततस्तत् सोत्तरच्छदम् ॥ ४५-५० ॥
विश्वास-प्रस्तुतिः - ४५-५१
आरोपयामास तदा राजानममितौजसम् ।
स यन्त्रपटसंयुक्तं वितानं तस्य चाकरोत् ॥ ४५-५१ ॥
मूलम् - ४५-५१
आरोपयामास तदा राजानममितौजसम् ।
स यन्त्रपटसंयुक्तं वितानं तस्य चाकरोत् ॥ ४५-५१ ॥
विश्वास-प्रस्तुतिः - ४५-५२
निर्माय च सुवर्णेन मणिजालपरिष्कृतम् ।
यथोक्तलक्षणं यन्त्रं दर्पणे च न्यवेशयत् ॥ ४५-५२ ॥
मूलम् - ४५-५२
निर्माय च सुवर्णेन मणिजालपरिष्कृतम् ।
यथोक्तलक्षणं यन्त्रं दर्पणे च न्यवेशयत् ॥ ४५-५२ ॥
विश्वास-प्रस्तुतिः - ४५-५३
तथैव गोरोचनया भूर्जपत्रे सुसंस्कृते ।
सुवर्णसूच्या संलिख्य यन्त्रं दिव्यास्त्रवर्जितम् ॥ ४५-५३ ॥
मूलम् - ४५-५३
तथैव गोरोचनया भूर्जपत्रे सुसंस्कृते ।
सुवर्णसूच्या संलिख्य यन्त्रं दिव्यास्त्रवर्जितम् ॥ ४५-५३ ॥
[[४३८]]
विश्वास-प्रस्तुतिः - ४५-५४
शिरस्यधारयद्राज्ञो यन्त्रमेतत् सुमन्त्रितम् ।
सौदर्शनेन तिलकं भस्मना चाप्यकारयत् ॥ ४५-५४ ॥
मूलम् - ४५-५४
शिरस्यधारयद्राज्ञो यन्त्रमेतत् सुमन्त्रितम् ।
सौदर्शनेन तिलकं भस्मना चाप्यकारयत् ॥ ४५-५४ ॥
विश्वास-प्रस्तुतिः - ४५-५५
ततश्चाष्टौ समाहूय ऋत्विजो मन्त्रनिष्ठितान् ।
संयतान् वैष्णवान् विप्रान् दिशाकुण्डेष्वयोजयत् ॥ ४५-५५ ॥
मूलम् - ४५-५५
ततश्चाष्टौ समाहूय ऋत्विजो मन्त्रनिष्ठितान् ।
संयतान् वैष्णवान् विप्रान् दिशाकुण्डेष्वयोजयत् ॥ ४५-५५ ॥
विश्वास-प्रस्तुतिः - ४५-५६
ततो यवनिकां कृत्वा मण्डपस्य समन्ततः ।
अलङ्कृतेषु कुण्डेषु सौवर्णैश्च परिच्छदैः ॥ ४५-५६ ॥
मूलम् - ४५-५६
ततो यवनिकां कृत्वा मण्डपस्य समन्ततः ।
अलङ्कृतेषु कुण्डेषु सौवर्णैश्च परिच्छदैः ॥ ४५-५६ ॥
विश्वास-प्रस्तुतिः - ४५-५७
विधाय विहितं पूर्वमृत्विग्भिः सहितो गुरुः ।
शतानन्देन सहितो जुहाव ज्वलितेषु सः ॥ ४५-५७ ॥
मूलम् - ४५-५७
विधाय विहितं पूर्वमृत्विग्भिः सहितो गुरुः ।
शतानन्देन सहितो जुहाव ज्वलितेषु सः ॥ ४५-५७ ॥
विश्वास-प्रस्तुतिः - ४५-५८
नृत्तवादित्रसंयुक्तं ब्रह्मघोषसमायुतम् ।
पुण्याहं पूर्वमकरोद्धोमकर्म समाहितः ॥ ४५-५८ ॥
मूलम् - ४५-५८
नृत्तवादित्रसंयुक्तं ब्रह्मघोषसमायुतम् ।
पुण्याहं पूर्वमकरोद्धोमकर्म समाहितः ॥ ४५-५८ ॥
विश्वास-प्रस्तुतिः - ४५-५९
प्रधानकर्मणो युक्तौ शतानन्दो गुरुस्तथा ।
दिशाहोमेषु संयुक्ता ऋत्विजः सर्व एव ते ॥ ४५-५९ ॥
मूलम् - ४५-५९
प्रधानकर्मणो युक्तौ शतानन्दो गुरुस्तथा ।
दिशाहोमेषु संयुक्ता ऋत्विजः सर्व एव ते ॥ ४५-५९ ॥
विश्वास-प्रस्तुतिः - ४५-६०
आज्यैर्विशुद्धैर्नियुतं होमान् सङ्कल्प्य सादरम् ।
अकरोदयुतं नित्यमेवं दशदिनं कृतम् ॥ ४५-६० ॥
मूलम् - ४५-६०
आज्यैर्विशुद्धैर्नियुतं होमान् सङ्कल्प्य सादरम् ।
अकरोदयुतं नित्यमेवं दशदिनं कृतम् ॥ ४५-६० ॥
विश्वास-प्रस्तुतिः - ४५-६१
गुरुणानुदिनं स्नातो मन्त्रितैः कुम्भवारिभिः ।
मुक्तग्रहो विशुद्धात्मा विज्वरः प्रीतमानसः ॥ ४५-६१ ॥
मूलम् - ४५-६१
गुरुणानुदिनं स्नातो मन्त्रितैः कुम्भवारिभिः ।
मुक्तग्रहो विशुद्धात्मा विज्वरः प्रीतमानसः ॥ ४५-६१ ॥
विश्वास-प्रस्तुतिः - ४५-६२
पूर्णे दशदिने राजा रत्नैर्बहुसुवर्णकैः ।
आराधयामास गुरुं मण्डपं सपरिच्छदम् ॥ ४५-६२ ॥
मूलम् - ४५-६२
पूर्णे दशदिने राजा रत्नैर्बहुसुवर्णकैः ।
आराधयामास गुरुं मण्डपं सपरिच्छदम् ॥ ४५-६२ ॥
विश्वास-प्रस्तुतिः - ४५-६३
निवेद्य गुरवे सर्वानृत्विजः समतर्पयत् ।
धनैश्च बहुभिर्धान्यैः प्रतिष्ठाभिः समाहितः ॥ ४५-६३ ॥
मूलम् - ४५-६३
निवेद्य गुरवे सर्वानृत्विजः समतर्पयत् ।
धनैश्च बहुभिर्धान्यैः प्रतिष्ठाभिः समाहितः ॥ ४५-६३ ॥
[[४३९]]
विश्वास-प्रस्तुतिः - ४५-६४
प्रशशास महीमेनां दिवि देवेन्द्रवत् सुधीः ।
अन्येषामपि भूतानामयमेव विधिः स्मृतः ॥ ४५-६४ ॥
मूलम् - ४५-६४
प्रशशास महीमेनां दिवि देवेन्द्रवत् सुधीः ।
अन्येषामपि भूतानामयमेव विधिः स्मृतः ॥ ४५-६४ ॥
पञ्चाशन्नियुतैर्होमैर्द्वापरे स विधीयते ।
विश्वास-प्रस्तुतिः - ४५-६५
कलौ च कोटिहोमेन विधिरेष महीक्षिताम् ।
प्रारब्धमेवं भोक्तव्यं कर्म ब्रह्मविदामपि ॥ ४५-६५ ॥
मूलम् - ४५-६५
कलौ च कोटिहोमेन विधिरेष महीक्षिताम् ।
प्रारब्धमेवं भोक्तव्यं कर्म ब्रह्मविदामपि ॥ ४५-६५ ॥
इति श्रीपञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
कुशध्वजोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥
आदितः श्लोकाः २८३७