४४

सुदर्शनस्वरूपप्रदर्शनं नाम चतुश्चत्वारिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥

स्तुतिप्रीतेन शङ्करेणागमनकारणप्रश्नः

अहिर्बुध्न्यः-

विश्वास-प्रस्तुतिः - ४४-१

इति स्तुवन्तं कुशलमाभाष्येदमवादिषम् ।
किमागमनकार्यं ते वद वाचस्पते इति ॥ ४४-१ ॥

मूलम् - ४४-१

इति स्तुवन्तं कुशलमाभाष्येदमवादिषम् ।
किमागमनकार्यं ते वद वाचस्पते इति ॥ ४४-१ ॥

बृहस्पतिना शङ्कराय सुरकार्यनिवेदनम्

विश्वास-प्रस्तुतिः - ४४-२

इत्युक्तः सकलं प्राह समागमनकारणम् ।
शम्भो कृपानिधे देव श्रूयतामिदमादरात् ॥ ४४-२ ॥

मूलम् - ४४-२

इत्युक्तः सकलं प्राह समागमनकारणम् ।
शम्भो कृपानिधे देव श्रूयतामिदमादरात् ॥ ४४-२ ॥

विश्वास-प्रस्तुतिः - ४४-३

सर्वलोकेषु सर्वेश तव सानुग्रहं मनः ।
अतस्त्रिदशकार्यार्थं त्वामहं शरणं गतः ॥ ४४-३ ॥

मूलम् - ४४-३

सर्वलोकेषु सर्वेश तव सानुग्रहं मनः ।
अतस्त्रिदशकार्यार्थं त्वामहं शरणं गतः ॥ ४४-३ ॥

विश्वास-प्रस्तुतिः - ४४-४

जलन्धर इति ख्यातो दानवो दुष्टचेष्टितः ।
अनिशं बाधते देवान् ब्रह्मदत्तवरो बली ॥ ४४-४ ॥

मूलम् - ४४-४

जलन्धर इति ख्यातो दानवो दुष्टचेष्टितः ।
अनिशं बाधते देवान् ब्रह्मदत्तवरो बली ॥ ४४-४ ॥

विश्वास-प्रस्तुतिः - ४४-५

अशक्तास्तद्वधे सर्वे सुराः सुरपतिस्तथा ।
मन्त्रयाञ्चक्रिरे सर्वे सम्भूयैतन्मरुद्गणाः ॥ ४४-५ ॥

मूलम् - ४४-५

अशक्तास्तद्वधे सर्वे सुराः सुरपतिस्तथा ।
मन्त्रयाञ्चक्रिरे सर्वे सम्भूयैतन्मरुद्गणाः ॥ ४४-५ ॥

वरेण महता दृप्तो दुर्वारो रणमूर्धनि ।
[[४२१]]

महासुरो महादेवादृते नासौ विनश्यति ॥ ४४-६ ॥

विश्वास-प्रस्तुतिः - ४४-७

एवं सम्मन्त्र्य शक्रो मामवादीत् समरुद्गणः ।
महासुरवधोपायं भगवन्तं त्रिलोचनम् ॥ ४४-७ ॥

मूलम् - ४४-७

एवं सम्मन्त्र्य शक्रो मामवादीत् समरुद्गणः ।
महासुरवधोपायं भगवन्तं त्रिलोचनम् ॥ ४४-७ ॥

विश्वास-प्रस्तुतिः - ४४-८

अन्तरेण न पश्यामि तं गच्छ शरणं शिवम् ।
सुरकार्यार्थमेतत् त्वं प्रार्थयेथाः पिनाकिनम् ॥ ४४-८ ॥

मूलम् - ४४-८

अन्तरेण न पश्यामि तं गच्छ शरणं शिवम् ।
सुरकार्यार्थमेतत् त्वं प्रार्थयेथाः पिनाकिनम् ॥ ४४-८ ॥

विश्वास-प्रस्तुतिः - ४४-९

इत्युक्तः पुरुहूतेन त्वत्सकाशमिहागतः ।
तद्यथैते सुराः सर्वे सुखिनो निरुपद्रवाः ॥ ४४-९ ॥

मूलम् - ४४-९

इत्युक्तः पुरुहूतेन त्वत्सकाशमिहागतः ।
तद्यथैते सुराः सर्वे सुखिनो निरुपद्रवाः ॥ ४४-९ ॥

भवेयुः पार्वतीनाथ तथैवाशु विधीयताम् ।

शङ्करेण जलन्धरवधप्रतिज्ञा

इत्युक्तोऽहं तदा तेन चिन्तारूढोऽभवं मुने ॥ ४४-१० ॥

विश्वास-प्रस्तुतिः - ४४-११

तदेतदभिवीक्ष्याहमवोचं वचसां पतिम् ।
जलन्धरमहं क्रूरं हनिष्ये पापकारिणम् ॥ ४४-११ ॥

मूलम् - ४४-११

तदेतदभिवीक्ष्याहमवोचं वचसां पतिम् ।
जलन्धरमहं क्रूरं हनिष्ये पापकारिणम् ॥ ४४-११ ॥

स्वस्य दैत्यनिग्रहसामर्थ्ये सुदर्शनप्रसादस्य हेतुत्वख्यापनम्

विश्वास-प्रस्तुतिः - ४४-१२

समाधिस्थस्य मे दृष्टः सुदर्शनवपुर्धरः ।
मन्त्रो मन्त्रविदां श्रेष्ठ सर्वमन्त्रसमुद्भवः ॥ ४४-१२ ॥

मूलम् - ४४-१२

समाधिस्थस्य मे दृष्टः सुदर्शनवपुर्धरः ।
मन्त्रो मन्त्रविदां श्रेष्ठ सर्वमन्त्रसमुद्भवः ॥ ४४-१२ ॥

विश्वास-प्रस्तुतिः - ४४-१३

सर्वार्थसाधको नित्यः सर्वदुष्टभयङ्करः ।
सर्वत्राणप्रवीणोऽयं चतुर्वर्गफलप्रदः ॥ ४४-१३ ॥

मूलम् - ४४-१३

सर्वार्थसाधको नित्यः सर्वदुष्टभयङ्करः ।
सर्वत्राणप्रवीणोऽयं चतुर्वर्गफलप्रदः ॥ ४४-१३ ॥

स्वविद्यारक्षणरतः परविद्यानिवारणः ।
[[४२२]]

आथर्वणोऽपि षट्कार्णः षट्कर्णश्रुत्यगोचरः ॥ ४४-१४ ॥

विश्वास-प्रस्तुतिः - ४४-१५

अदृश्यं महसः पुञ्जं दुर्निरीक्षं तदा मया ।
मन्त्रमुच्चरता तस्मिंश्चक्रवर्ति सुदर्शनम् ॥ ४४-१५ ॥

मूलम् - ४४-१५

अदृश्यं महसः पुञ्जं दुर्निरीक्षं तदा मया ।
मन्त्रमुच्चरता तस्मिंश्चक्रवर्ति सुदर्शनम् ॥ ४४-१५ ॥

विश्वास-प्रस्तुतिः - ४४-१६

दृष्टं तेनैवमुक्तं च प्रीतोऽहं मनुदर्शनात् ।
परमव्योमनिलयो भगवन्नित्यकिङ्करः ॥ ४४-१६ ॥

मूलम् - ४४-१६

दृष्टं तेनैवमुक्तं च प्रीतोऽहं मनुदर्शनात् ।
परमव्योमनिलयो भगवन्नित्यकिङ्करः ॥ ४४-१६ ॥

विश्वास-प्रस्तुतिः - ४४-१७

कार्यं तवांशेनागत्य करिष्ये मन्त्रतः स्मृतः ।
इत्युक्त्वासौ गतो देवः सुदर्शनवपुर्धरः ॥ ४४-१७ ॥

मूलम् - ४४-१७

कार्यं तवांशेनागत्य करिष्ये मन्त्रतः स्मृतः ।
इत्युक्त्वासौ गतो देवः सुदर्शनवपुर्धरः ॥ ४४-१७ ॥

तेनैव तं दुरात्मानमपनेष्यामि मा चिरम् ।

सौदर्शनविद्याग्रहणाय शङ्करं प्रति बृहस्पतेः प्रार्थना

इत्युक्तः परमप्रीतो बृहस्पतिरपि त्वरन् ॥ ४४-१८ ॥

विश्वास-प्रस्तुतिः - ४४-१९

प्रणम्य च पुनः प्राह यदि सानुग्रहो मयि ।
सौदर्शनीमिमां विद्यां देहि मे भगवन्निति ॥ ४४-१९ ॥

मूलम् - ४४-१९

प्रणम्य च पुनः प्राह यदि सानुग्रहो मयि ।
सौदर्शनीमिमां विद्यां देहि मे भगवन्निति ॥ ४४-१९ ॥

शङ्करेण तस्मै तदुपदेशः

ततोऽहं महते तस्मै विद्यां प्रादां महात्मने ।

लब्धविद्येन बृहस्पतिना हिमवत्तटे तत्पुरश्चरणम्

तां लब्ध्वा परमप्रीतो जगाम हिमवद्गिरिम् ॥ ४४-२० ॥

तस्मिञ्जजाप भगवान् मन्त्रमेतमनुत्तमम् ।

बृहस्पतिना सुदर्शनसाक्षात्कारः

ततोऽस्य सन्निधिं चक्रे परमाश्चर्यरूपधृत् ॥ ४४-२१ ॥

[[४२३]]

चक्रवर्ती स भगवान् सौम्यरूपः सुदर्शनः ।

विस्मितेन बृहस्पतिना तस्य द्विभुजत्वकारणप्रश्नः

तं दृष्ट्वा दीप्तवपुषं प्रसन्नं कुङ्कुमप्रभम् ॥ ४४-२२ ॥

विश्वास-प्रस्तुतिः - ४४-२३

द्विभुजं सर्वभूतानामनुग्रहकरं परम् ।
शङ्खचक्रधरं देवं दिव्यमाल्यविभूषितम् ॥ ४४-२३ ॥

मूलम् - ४४-२३

द्विभुजं सर्वभूतानामनुग्रहकरं परम् ।
शङ्खचक्रधरं देवं दिव्यमाल्यविभूषितम् ॥ ४४-२३ ॥

विश्वास-प्रस्तुतिः - ४४-२४

पीतकौशेयवसनं नेत्रद्वयविराजितम् ।
आधारं सर्वशक्तीनामस्त्राणां च परन्तपम् ॥ ४४-२४ ॥

मूलम् - ४४-२४

पीतकौशेयवसनं नेत्रद्वयविराजितम् ।
आधारं सर्वशक्तीनामस्त्राणां च परन्तपम् ॥ ४४-२४ ॥

विश्वास-प्रस्तुतिः - ४४-२५

तं दृष्ट्वा विस्मयाविष्टः पप्रच्छ प्रणिपत्य सः ।
किमिदं भगव।ल्लोके प्रथितोऽष्टभुजो भवान् ॥ ४४-२५ ॥

मूलम् - ४४-२५

तं दृष्ट्वा विस्मयाविष्टः पप्रच्छ प्रणिपत्य सः ।
किमिदं भगव।ल्लोके प्रथितोऽष्टभुजो भवान् ॥ ४४-२५ ॥

मनुष्यरूपसंस्थानः प्रादुरासीः पुरो मम ।

सुदर्शनेन प्रतिवचनम्

श्रूयतामित्युपामन्त्र्य प्रत्युवाच सुदर्शनः ॥ ४४-२६ ॥

अनन्तेषु सौदर्शनव्यूहेषु चतुर्णां प्राधान्यम्

विश्वास-प्रस्तुतिः - ४४-२७

व्यूहाः सहस्रशः सन्ति मम कॢप्ता यथेच्छया ।
तेषां प्रधानतो व्यूहाश्चत्वारो मम वाक्पते ॥ ४४-२७ ॥

मूलम् - ४४-२७

व्यूहाः सहस्रशः सन्ति मम कॢप्ता यथेच्छया ।
तेषां प्रधानतो व्यूहाश्चत्वारो मम वाक्पते ॥ ४४-२७ ॥

तेषां परिगणनम्

विश्वास-प्रस्तुतिः - ४४-२८

द्विभुजं प्रथमं विद्धि ततोऽष्टभुजमेव माम् ।
ततः षोडशहस्तं तु मां द्विषष्टिभुजं ततः ॥ ४४-२८ ॥

मूलम् - ४४-२८

द्विभुजं प्रथमं विद्धि ततोऽष्टभुजमेव माम् ।
ततः षोडशहस्तं तु मां द्विषष्टिभुजं ततः ॥ ४४-२८ ॥

व्यूहान्तराणामुपासकानुग्रहार्थत्वम्

व्यूहान्तराण्यनेकानि तान्युपासककामतः ।

[[४२४]]

व्यूहचतुष्टयस्य स्वाभाविकत्वं नित्यत्वं सात्त्विकत्वं च

स्वाभाविकमिदं रूपं नित्यमत्यन्तसात्त्विकम् ॥ ४४-२९ ॥

अपक्षयविनाशादिरहितं परमं मम ।

अन्येषामुपासकानुग्रहार्थत्वनिगमनम्

अन्यान्यनुग्रहार्थानि मच्चित्तानामिति स्थितिः ॥ ४४-३० ॥

स्वस्यात्यद्भुतरूपान्तरास्तित्वप्रतिपादनम्

विश्वास-प्रस्तुतिः - ४४-३१

अन्यद्विश्वमयं रूपमदृष्टं देवदानवैः ।
अमीमांस्यममर्यादमचक्षुर्गोचरं स्वतः ॥ ४४-३१ ॥

मूलम् - ४४-३१

अन्यद्विश्वमयं रूपमदृष्टं देवदानवैः ।
अमीमांस्यममर्यादमचक्षुर्गोचरं स्वतः ॥ ४४-३१ ॥

यथा देवो हृषीकेशस्तथाहमपि वाक्यते ।

बृहस्पतिना तद्रूपदर्शनप्रार्थना

इत्युक्तवन्तं तं देवं सुदर्शनवपुर्धरम् ॥ ४४-३२ ॥

विश्वास-प्रस्तुतिः - ४४-३३

प्रणिपत्याब्रवीदेनं वाक्पतिर्वदतां वरः ।
यत्ते विश्वमयं रूपमचाक्षुषमसीमकम् ॥ ४४-३३ ॥

मूलम् - ४४-३३

प्रणिपत्याब्रवीदेनं वाक्पतिर्वदतां वरः ।
यत्ते विश्वमयं रूपमचाक्षुषमसीमकम् ॥ ४४-३३ ॥

योगदृष्ट्या प्रपश्यामि तन्मे दर्शय साम्प्रतम् ।

भगवता जगच्चक्रात्मकस्वस्वरूपप्रदर्शनम्

भगवानपि विश्वात्मा स्वकीयं रूपमूर्जितम् ॥ ४४-३४ ॥

विश्वास-प्रस्तुतिः - ४४-३५

दर्शयामास गुरवे योगारूढाय नारद ।
स विस्मितमना देवं वीक्षाञ्चक्रे पुरः स्थितम् ॥ ४४-३५ ॥

मूलम् - ४४-३५

दर्शयामास गुरवे योगारूढाय नारद ।
स विस्मितमना देवं वीक्षाञ्चक्रे पुरः स्थितम् ॥ ४४-३५ ॥

तद्रूपवर्णनम्

[[४२५]]

विश्वोदराक्रान्तसुभीमदेह-
मपूर्वरूपं करणातिदूरम् ।
समुद्यदुर्जत्करशृङ्गसङ्गि-
परःसहस्राद्भुतचक्रमालम् ॥ ४४-३६ ॥

पदावलम्बिस्फुरदण्डमाला-
विराजमानं स्थितमात्मभूम्नि ।
युगान्तकालज्वलितार्कजाल-
रुचिप्रभोत्तुङ्गकिरीटशोभम् ॥ ४४-३७ ॥

महार्णवावर्तविघूर्णमान-
पिशङ्गनेत्रं सुरसङ्घजुष्टम् ।
विशुद्धदंष्ट्रान्तरलग्नलोकं
जगद् ग्रसन्तं भ्रुकुटीकरालम् ॥ ४४-३८ ॥

शशाङ्कतारागणकीर्णविष्णु-
पदाभहाराङ्कितवक्षसं तम् ।
समुद्यदुज्जृम्भितदीप्तिमाल-
महास्त्रजालं धृतसर्वशस्त्रम् ॥ ४४-३९ ॥

[[४२६]]

तेजोमयं दीप्तिकणायमान-
युगान्तकालार्कशशाङ्कवह्निम् ।
स्वदेहसम्पूर्णदेगन्तराल-
मलक्षितव्योममहीतलं च ॥ ४४-४० ॥

अदृष्टपूर्वरूपदर्शनात् बृहस्पतेर्मोहाधिगमः

झणज्झणत्कारितनूपुरादि-
विभूषणारावविकीर्णविश्वम् ।
अदृष्टपूर्वं परमप्रमेयं
निरीक्ष्य चामूमुहदादिदेवम् ।

लब्धसञ्ज्ञेन तेन सुदर्शनस्तुतिः

ततः स सञ्ज्ञां प्रतिलभ्य कृच्छ्रात्
तुष्टाव देवं धिषणो माहात्मा ॥ ४४-४१ ॥

नमो नमस्ते भगवन्नजय्य
सुदर्शन ज्ञानमयस्वरूप ।
सदा स्फुटाशेषसमस्तशक्ते
धृताखिलस्थावरजङ्गमाय ॥ ४४-४२ ॥

[[४२७]]

अवार्यवीर्याय च भूरिधाम्ने
समस्तकल्याणगुणार्णवाय ।
विशुद्धतेजोमयमूर्तये ते
नमो नमश्चक्रवपुर्धराय ॥ ४४-४३ ॥

नमो जयायातुलविक्रमाय
समाश्रितत्राणसुदीक्षिताय ।
सहस्रचक्राय सहस्रनाम्ने
नमः सहस्रारवपुर्धराय ॥ ४४-४४ ॥

जगज्जनिस्थितिहरणैकहेतवे
भवार्णवोत्तरणसुनाविकाय ते ।
मरुद्गणप्रतिभटदैत्यदानव-
प्रमाथिने निभृतसुतेजसे नमः ॥ ४४-४५ ॥

मधुरिपुमनसो यथा यथा
प्रथमत एव मनीषितं विभो ।
तव पदसरसीरुहं यतो
जगति करोति मनीषितं तथा ॥ ४४-४६ ॥

स्मृतिध्वस्ताशेषाश्रितजनमहापापनिचय-
प्रवाहागाधाब्धिप्लवचरणपङ्केरुहयुग ।
त्वदीयार्चिर्वारान्निधिकणकृतात्माङ्गदिनकृ-
च्छशाङ्कस्वाहेशस्तुतपरमधाम्ने नम इदम् ॥ ४४-४७ ॥

[[४२८]]

जगत्कालसंवर्तचक्रात्मने ते
चतुर्वक्त्रमुख्यामरेड्याय नित्यम् ।
नमो नित्यगोविन्दसेवारसाप्ता-
तुलानन्दसन्दोहपूर्णात्मने स्तात् ॥ ४४-४८ ॥

सकलसुरास्त्रमुख्यसततस्मृतनैकजनि-
प्रभृतिमहापदाननिकरश्रुतिहृष्टमनः ।
सकलसुरासुरेशमणिमौलिमरीचिघटा-
घटितपदारविन्दयुगलाय नमो भवते ॥ ४४-४९ ॥

विश्वास-प्रस्तुतिः - ४४-५०

कलामुहूर्तनाडिकाद्युपाधिकालहीन ते ।
नमः क्षयर्द्धिजन्मनाशवर्जितात्ममूर्तये ॥ ४४-५० ॥

मूलम् - ४४-५०

कलामुहूर्तनाडिकाद्युपाधिकालहीन ते ।
नमः क्षयर्द्धिजन्मनाशवर्जितात्ममूर्तये ॥ ४४-५० ॥

वन्दे वरेण्यमपि वाङ्मनसाति भूमि-
मस्पृष्टहेयगुणमाश्रितवत्सलं त्वाम् ।
अक्षीणपुण्यजनलम्भ्यमशेषवन्द्यं
विद्यामयं परमभौतिकदिव्यदेहम् ॥ ४४-५१ ॥

तद्रूपोपसंहरणप्रार्थना

त्वां तत्त्वतो न विदूरीश जगत्यमुष्मिन्
मर्त्येषु नैव विबुधेषु न चापरेषु ।
वेदाः परं विदुरतोऽप्युपसंहराद्य
रूपं भयावहमदृष्टचरं प्रसीद ॥ ४४-५२ ॥

सुदर्शनेनाष्टभुजेन भूत्वा स्वस्वरूपस्यातिगुह्यत्वकथनम्

इत्युक्तस्तेन गुरुणा भगवांश्चक्ररूपधृत् ।

[[४२९]]

आविर्बभूव तस्याग्रे तदा ह्यष्टभुजः प्रभुः ॥ ४४-५३ ॥

विश्वास-प्रस्तुतिः - ४४-५४

प्रसन्नवदनः श्रीमान् व्याजहार गुरुं तदा ।
तदेतद् दर्शितं रूपमदृष्टं देवदानवैः ॥ ४४-५४ ॥

मूलम् - ४४-५४

प्रसन्नवदनः श्रीमान् व्याजहार गुरुं तदा ।
तदेतद् दर्शितं रूपमदृष्टं देवदानवैः ॥ ४४-५४ ॥

सत्यं मां न परो वेत्ति विना देवं जनार्दनम् ।

सुदर्शनस्य भगवत्क्रियाशक्तिस्वरूपत्वनिरूपणम्

गुह्यमेतत् क्रियाशक्तिरहं देवस्य शार्ङ्गिणः ॥ ४४-५५ ॥

विश्वास-प्रस्तुतिः - ४४-५६

अतस्तत्कार्यमखिलं मयैव क्रियते मुने ।
जगज्जन्मादि सकलमित्युक्त्वान्तरधीयत ॥ ४४-५६ ॥

मूलम् - ४४-५६

अतस्तत्कार्यमखिलं मयैव क्रियते मुने ।
जगज्जन्मादि सकलमित्युक्त्वान्तरधीयत ॥ ४४-५६ ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
सुदर्शनस्वरूपप्रदर्शनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥

आदितः श्लोकाः २७७२