४३

जलन्धरवधोपायचिन्तनं नाम त्रिचत्वारिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥

कृत्स्नस्य जगच्चक्रमयत्वकथन्ताप्रश्नः

नारदः –

पृच्छामि त्वां पुनरिदं शम्स मे सकलेश्वर ।
प्रोक्तमेतत् पुरा सर्वं जगच्चक्रमयं त्वया ॥ ४३-१ ॥

तत् कथं स्पष्टमाचक्ष्व कदा देवेन दर्शितम् ।
वेत्ता त्वमेव नान्योऽस्ति त्वदृते भुवनत्रये ॥ ४३-२ ॥

अध्यायद्वयेन तदुत्तरकथनायाख्यायिकाकथने प्रथमं
देवादीनां धर्ममार्गप्रवर्तकत्वनिरूपणम्

अहिर्बुध्न्यः –

सुराश्च मुनयः सर्वे मनुस्तत्सूनवस्तथा ।
राजानः सर्ववर्णाश्च धर्ममार्गप्रवर्तकाः ॥ ४३-३ ॥

दानवादीनां धर्मविघातकत्वम्

[[४१४]]

तथैव दानवाः सर्वे भूतवेतालराक्षसाः ।
क्रूरा नराश्च पशवो भीमरूपाश्च दस्यवः ॥ ४३-४ ॥

तथैव चासुरीं प्राप्ता योनिमन्ये जना मुने ।
एते सर्वे सदा धर्मविध्वंसं कुर्वते भृशम् ॥ ४३-५ ॥

पापिनां विनाशोपायचिन्तयाहिर्बुध्न्यस्य मेरुशिखरगमनम्

अतस्ते पापकर्माणः केन नश्येयुरित्यहम् ।
परां चिन्तामुपारूढो मेरुकूटमुपागतः ॥ ४३-६ ॥

तत्र समाधिमास्थितस्य तस्य तेजोविशेषदर्शनम्

तस्मिन् समाधिमास्थाय समासीनस्य मे क्षणात् ।
आविर्बभूव दुर्दर्शं महः परमभास्वरम् ॥ ४३-७ ॥

भीतिवशात् आथर्वणमन्त्रोच्चारणपूर्वकं पुनस्तद्दर्शनम्

ततस्तद्दर्शनान्मन्त्रमाथर्वणमुदैरयम् ।
तमुच्चरन् महामन्त्रमद्राक्षं तन्महः पुनः ॥ ४३-८ ॥

तेजोमध्ये सुदर्शनपुरुषसाक्षात्कारपूर्वकं प्रश्नः

तस्मिन् विदीप्ते महसि पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं सहस्रादित्यसन्निभम् ॥ ४३-९ ॥

सहस्रारसमायुक्तचक्रमध्यस्थितं परम् ।
ज्वालामालासुदुर्दर्शं सुदर्शनमनाकुलम् ॥ ४३-१० ॥

[[४१५]]

दृष्ट्वा कस्त्वं कुतः कस्येत्यपृच्छमकुतोभयम् ।

प्रीतेन भगवता स्वस्वरूपख्यापनम्

ततः प्रीतः स भगवानवदत् तेजसां निधिः ॥ ४३-११ ॥

अहं सुदर्शनो नाम्ना ख्यातोऽद्य प्रभृतीश्वर ।
दुरालोको महालोको यत् तवाहं सुदर्शनः ॥ ४३-१२ ॥

वैकुण्ठात् स्वागमनस्याहिर्बुध्न्यानुजिघृक्षाहेतुकत्वादिकथनम्

वैकुण्ठधामनिलयस्त्वां द्रष्टुं समुपागतः ।
त्रिभावभावनायुक्तैरदृष्टचरमद्भुतम् ॥ ४३-१३ ॥

नित्यमन्तर्हितं गुह्यं सर्वलोकनमस्कृतम् ।
प्रमथ्य मतिमन्थानादुद्धृतं वेदसागरात् ॥ ४३-१४ ॥

पीयूषमिव दुग्धाब्धेर्यत् त्वया परमेश्वर ।
अतो मन्त्रतनुः प्राप्तो भवन्तं किं करोमि ते ॥ ४३-१५ ॥

अन्तरं नैव पश्यामि तव दामोदरस्य च ।
अतो यथात्र वर्तेय तथैव त्वयि शङ्कर ॥ ४३-१६ ॥

ततोऽहिर्बुध्न्येन भगवति स्वाभिप्रेतनिवेदनम्

इत्युक्त्वा विरते तस्मिन् सहस्रादित्यसन्निभे ।
ततोऽहं विस्मितोऽवोचं तमप्रतिमतेजसम् ॥ ४३-१७ ॥

भूयांसो भुवने पापा धर्मव्यासेधकारिणः ।
तेषां निग्रहमाकाङ्क्षन्नुपायैर्नाशयाम्यहम् ॥ ४३-१८ ॥

[[४१६]]

इति चिन्तापरे योगमास्थिते मयि मन्त्रराट् ।
त्वं चाविरासीस्तत्कार्यं निर्वृत्तमिति मे मतिः ॥ ४३-१९ ॥

दैत्यादिविनाशनप्रार्थना

अतस्तैः पीड्यमानेषु साधुषु स्मृतिमात्रतः ।
आगन्तव्यं प्रयत्नेन साध्यं साधय च प्रभो ॥ ४३-२० ॥

भगवता तथेत्युक्ते स्वस्य कैलासगमनम्

तथेत्युक्त्वा गतः सोऽहमपि कैलासमन्वगाम् ।

अत्रान्तरे जलन्धरवधार्थमिन्द्रस्य मन्त्रालोचना

ततो जलन्धराख्येन दानवेन निपीडितः ॥ ४३-२१ ॥

वासवो मन्त्रयाञ्चक्रे सह सर्वैर्मरुद्गणैः ।
शस्त्रैरस्त्रैरजय्यत्वं दानवस्य दुरात्मनः ॥ ४३-२२ ॥

निरीक्ष्य केन तं पापं नाशयामीत्यचोदयत् ।

तत्र वायुना स्वाभिप्रायविनिवेदनम्

ततो वायुः समुत्थाय पुरन्दरमथाब्रवीत् ॥ ४३-२३ ॥

सत्यमस्त्रैस्तथा शस्त्रैरजय्योऽयं महासुरः ।
धात्रा दत्तवरो दृप्तो बलवीर्यसमन्वितः ॥ ४३-२४ ॥

दिधक्षति जगत् सर्वं धूमकेतुरिवोत्थितः ।
सर्वलोकेश्वरे श्रीमत्यप्रमेये महाद्युतौ ॥ ४३-२५ ॥

देवदेवे महादेवे शङ्करे भूतभावने ।
तस्मिन्नत्याहितं तेन नृशंसेन सुरारिणा ॥ ४३-२६ ॥

[[४१७]]

तस्मिन् परमसङ्क्रुद्धो वर्तते तेन शङ्करः ।
अतस्तमभिगच्छामो वधार्थं दुष्टचारिणः ॥ ४३-२७ ॥

बृहस्पतिमुखेनैव तं देवं प्रार्थयामहे ।
स एव तत्र वक्तव्यं जानाति भगवानिति ॥ ४३-२८ ॥

वायुवचनमङ्गीकृत्य शङ्करं गन्तुं शक्रेण बृहस्पतिप्रचोदनम्

विरते पवने तस्मिन् बाढमित्याह वासवः ।
बृहस्पतिमथासीनं ज्वलितानलसन्निभम् ॥ ४३-२९ ॥

अभ्यगच्छन्महातेजा भगवान् पाकशासनः ।
जलन्धरवधार्थं त्वमभिगच्छ पिनाकिनम् ॥ ४३-३० ॥

स तस्मिन् परमक्रुद्धो निहनिष्यत्यसंशयम् ।
सुरकार्येषु सर्वेषु भवानेव परायणम् ॥ ४३-३१ ॥

अतोऽभिगम्यतां देवः कैलासे चन्द्रशेखरः ।

इन्द्रवचनात् बृहस्पतेः कैलासगमनम्

इत्युक्तवचने तस्मिन् पुरुहूते सुरेश्वरे ॥ ४३-३२ ॥

तथेति तत् प्रतिश्रुत्य वाक्पतिः शक्रपूजितः ।
कैलासशिखरं प्रायात् प्रहृष्टेनान्तरात्मना ॥ ४३-३३ ॥

तत्र शङ्करदर्शनम्

तत्रासीनं सुरैः सार्धमास्थाने सुमनोहरे ।

[[४१८]]

मामप्सरःप्रयुक्ते तु नृत्ये विस्मितमानसम् ॥ ४३-३४ ॥

सोऽपश्यदाराद्भगवानुद्यद्भास्करसन्निभः ।
प्रणिपत्य समुत्थाय मामस्तौषीत् स वाक्पतिः ॥ ४३-३५ ॥

जलन्धरवधार्थं बृहस्पतिना शङ्करस्तुतिः

प्रसीद देवदेवेश प्रसीद जगतः पते ।
प्रसीद सर्वगीर्वाणपालनान्तकर प्रभो ॥ ४३-३६ ॥

प्रसीद भगवन् देव प्रसीद सुरवन्दित ।
प्रसीद विश्वविज्ञानवारिधे परमेश्वर ॥ ४३-३७ ॥

नमस्ते व्योमनिलय नमस्ते नागभूषण ।
नमः परमकल्याण नमस्त्रिपुरदारण ॥ ४३-३८ ॥

त्वं धाता त्वं वषट्कारस्त्वं हविस्त्वं हुताशनः ।
सदसत्त्वं त्वम्ॐकारस्त्वमिन्द्रस्त्वं यमस्तथा ॥ ४३-३९ ॥

त्वं पाशपाणिस्त्वं सोमो निर्-ऋतिस्त्वं मरुत् तथा ।
त्वमादित्यो वसुश्च त्वं त्वं विश्वं विश्वतोमुख ॥ ४३-४० ॥

त्वमव्यक्तं महांश्च त्वं त्वमहङ्कार एव च ।
भूतानि त्वं सुसूक्ष्माणि विद्याविद्ये तथा भवान् ॥ ४३-४१ ॥

किमत्र बहुनोक्तेन चराचरमिदं जगत् ।
त्वमेव भूतनाथेश सर्वकारणकारण ॥ ४३-४२ ॥

[[४१९]]

क्षितिसलिलसमीरव्योमतेजःसहस्र-
द्युतिशशियजमानैः पूर्णदेहाय तुभ्यम् ।
परममुनिमनोभिर्मृग्यमाणाय नित्यं
भवभयविनिहन्त्रे विश्वमूर्ते नमस्ते ॥ ४३-४३ ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
जलन्धरवधोपायचिन्तनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥

आदितः श्लोकाः २७१६