काशीराजश्रुतकीर्त्युपाख्यानवर्णनं नाम
द्विचत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
अङ्गमन्त्राणामुत्पत्तिदेवताप्रयोजनशक्तिध्येयप्रश्नाः
नारदः –
विश्वास-प्रस्तुतिः - ४२-१
भगवन् सर्वधर्मज्ञ सर्वभूतनमस्कृत ।
श्रोतव्यं यद्यदस्माभिः श्रुतं तत् तदशेषतः ॥ ४२-१ ॥
मूलम् - ४२-१
भगवन् सर्वधर्मज्ञ सर्वभूतनमस्कृत ।
श्रोतव्यं यद्यदस्माभिः श्रुतं तत् तदशेषतः ॥ ४२-१ ॥
विश्वास-प्रस्तुतिः - ४२-२
इदं त्विदानीं पृच्छामि शम्स मे मनसि स्थितम् ।
कुतोऽमुष्याङ्गमन्त्राणामुत्पत्तिः का च देवता ॥ ४२-२ ॥
मूलम् - ४२-२
इदं त्विदानीं पृच्छामि शम्स मे मनसि स्थितम् ।
कुतोऽमुष्याङ्गमन्त्राणामुत्पत्तिः का च देवता ॥ ४२-२ ॥
किमर्थं कीदृशी शक्तिः किं ध्येयं ब्रूहि तत्त्वतः ।
पृष्टस्यार्थस्य गुह्यत्वख्यापनमुखेनोत्तरकथनारम्भः
अहिर्बुध्न्यः –
श्रूयतामवधानेन तदेतद् गुह्यमुत्तमम् ॥ ४२-३ ॥
उत्पत्तिप्रश्नस्योत्तरम्
विश्वास-प्रस्तुतिः - ४२-४
आथर्वणान्मया वेदान्महामन्त्रपरिष्कृतात् ।
समुद्धृतः षडर्णोऽयं कौस्तुभः सागरादिव ॥ ४२-४ ॥
मूलम् - ४२-४
आथर्वणान्मया वेदान्महामन्त्रपरिष्कृतात् ।
समुद्धृतः षडर्णोऽयं कौस्तुभः सागरादिव ॥ ४२-४ ॥
[[४०१]]
तथा तस्मादिमे मन्त्राः प्रोद्धृताः सकला मुने ।
देवताप्रश्नस्योत्तरम्
स्वयमेवाङ्गमन्त्राणामपि देवः सुदर्शनः ॥ ४२-५ ॥
प्रयोजनशक्तिप्रश्नयोरुत्तरम्
विश्वास-प्रस्तुतिः - ४२-६
सुदर्शनमहामन्त्रनिष्ठस्याङ्गावनं परम् ।
कार्यमेषां षडर्णेन तथामी समशक्तयः ॥ ४२-६ ॥
मूलम् - ४२-६
सुदर्शनमहामन्त्रनिष्ठस्याङ्गावनं परम् ।
कार्यमेषां षडर्णेन तथामी समशक्तयः ॥ ४२-६ ॥
ध्येयप्रश्नस्योत्तरम्
विश्वास-प्रस्तुतिः - ४२-७
एषामष्टभुजो देवः पूर्वोक्तेनैव वर्त्मना ।
ध्येयः सर्वं समाख्यातं किमन्यच्छ्रोतुमिच्छसि ॥ ४२-७ ॥
मूलम् - ४२-७
एषामष्टभुजो देवः पूर्वोक्तेनैव वर्त्मना ।
ध्येयः सर्वं समाख्यातं किमन्यच्छ्रोतुमिच्छसि ॥ ४२-७ ॥
निवर्तकास्त्रप्रयोगावसरप्रश्नः
नारदः –
विश्वास-प्रस्तुतिः - ४२-८
भगवन् परमोदार नित्यतृप्त दयानिधे ।
नित्यज्ञानक्रियैश्वर्यविश्वविज्ञानवारिधे ॥ ४२-८ ॥
मूलम् - ४२-८
भगवन् परमोदार नित्यतृप्त दयानिधे ।
नित्यज्ञानक्रियैश्वर्यविश्वविज्ञानवारिधे ॥ ४२-८ ॥
विश्वास-प्रस्तुतिः - ४२-९
सुदर्शनमहायन्त्रमन्त्रशक्तिक्रियादिषु ।
यद् वक्तव्यं विशेषेण तदुक्तं भवता विभो ॥ ४२-९ ॥
मूलम् - ४२-९
सुदर्शनमहायन्त्रमन्त्रशक्तिक्रियादिषु ।
यद् वक्तव्यं विशेषेण तदुक्तं भवता विभो ॥ ४२-९ ॥
विश्वास-प्रस्तुतिः - ४२-१०
प्रवर्तकानामस्त्राणामुत्पत्तिः कथिता पुरा ।
स्वरूपशक्ती च तथा प्रयोगश्च महाद्युते ॥ ४२-१० ॥
मूलम् - ४२-१०
प्रवर्तकानामस्त्राणामुत्पत्तिः कथिता पुरा ।
स्वरूपशक्ती च तथा प्रयोगश्च महाद्युते ॥ ४२-१० ॥
विश्वास-प्रस्तुतिः - ४२-११
निवर्तकानां तु पुनः कदा क्व विषये गुरो ।
प्रयोगः परमं मेऽत्र संशयं छेत्तुमर्हसि ॥ ४२-११ ॥
मूलम् - ४२-११
निवर्तकानां तु पुनः कदा क्व विषये गुरो ।
प्रयोगः परमं मेऽत्र संशयं छेत्तुमर्हसि ॥ ४२-११ ॥
[[४०२]]
तदुत्तरकथनप्रतिज्ञा
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ४२-१२
श्रूयतामवधानेन प्रयोगावसरं मु ।
निवर्तकानामस्त्राणां सम्यक् कथयतो मम ॥ ४२-१२ ॥
मूलम् - ४२-१२
श्रूयतामवधानेन प्रयोगावसरं मु ।
निवर्तकानामस्त्राणां सम्यक् कथयतो मम ॥ ४२-१२ ॥
तत्प्रयोगावसरकथनम्
विश्वास-प्रस्तुतिः - ४२-१३
परप्रयुक्तैर्दिव्यास्त्रैरभिचारैश्च तत्कृतैः ।
महत्यभिभवे प्राप्ते तं विद्यात् तपसां निधे ॥ ४२-१३ ॥
मूलम् - ४२-१३
परप्रयुक्तैर्दिव्यास्त्रैरभिचारैश्च तत्कृतैः ।
महत्यभिभवे प्राप्ते तं विद्यात् तपसां निधे ॥ ४२-१३ ॥
पराभिचाराभिभवज्ञानोपायप्रश्नः
नारदः –
विश्वास-प्रस्तुतिः - ४२-१४
पराभिचाराभिभवः कैर्लिङ्गैरवगभ्यते ।
राज्ञां च मन्त्रिणां चैव तथान्येषां नृणामपि ॥ ४२-१४ ॥
मूलम् - ४२-१४
पराभिचाराभिभवः कैर्लिङ्गैरवगभ्यते ।
राज्ञां च मन्त्रिणां चैव तथान्येषां नृणामपि ॥ ४२-१४ ॥
तज्ज्ञानोपायलिङ्गनिरूपणम्
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ४२-१५
लक्ष्यते लक्षणैरेतैर्नृपाणामाभिचारिकी ।
विकृतिः प्रस्तुताकाले दारुणा सर्वगोचरा ॥ ४२-१५ ॥
मूलम् - ४२-१५
लक्ष्यते लक्षणैरेतैर्नृपाणामाभिचारिकी ।
विकृतिः प्रस्तुताकाले दारुणा सर्वगोचरा ॥ ४२-१५ ॥
विश्वास-प्रस्तुतिः - ४२-१६
अकाण्ड एव नश्यन्ति वाजिवारणमन्त्रिणः ।
तीव्रामयपरीताङ्गः पीड्यते नृपतिः स्वयम् ॥ ४२-१६ ॥
मूलम् - ४२-१६
अकाण्ड एव नश्यन्ति वाजिवारणमन्त्रिणः ।
तीव्रामयपरीताङ्गः पीड्यते नृपतिः स्वयम् ॥ ४२-१६ ॥
विश्वास-प्रस्तुतिः - ४२-१७
पतन्त्यशनयस्तस्य विषये घोरदर्शनाः ।
अल्पसस्या वसुमती विनश्यन्ति गवां गणाः ॥ ४२-१७ ॥
मूलम् - ४२-१७
पतन्त्यशनयस्तस्य विषये घोरदर्शनाः ।
अल्पसस्या वसुमती विनश्यन्ति गवां गणाः ॥ ४२-१७ ॥
[[४०३]]
विश्वास-प्रस्तुतिः - ४२-१८
भवन्ति तस्य विषये पुनः पुनरवग्रहाः ।
तीव्रामयगृहीताश्च महिष्यस्तस्य भूपतेः ॥ ४२-१८ ॥
मूलम् - ४२-१८
भवन्ति तस्य विषये पुनः पुनरवग्रहाः ।
तीव्रामयगृहीताश्च महिष्यस्तस्य भूपतेः ॥ ४२-१८ ॥
विश्वास-प्रस्तुतिः - ४२-१९
प्रभवन्त्यहिवल्मीकाः प्रासादे द्वारि मण्डपे ।
निपतन्ति महोल्काश्च भृशं भीमस्वनान्विताः ॥ ४२-१९ ॥
मूलम् - ४२-१९
प्रभवन्त्यहिवल्मीकाः प्रासादे द्वारि मण्डपे ।
निपतन्ति महोल्काश्च भृशं भीमस्वनान्विताः ॥ ४२-१९ ॥
विश्वास-प्रस्तुतिः - ४२-२०
मन्त्रिणश्च विरुध्यन्ते मत्सरेण परस्परम् ।
रजन्यां राजते भीममैन्द्रं धनुरनभ्रजम् ॥ ४२-२० ॥
मूलम् - ४२-२०
मन्त्रिणश्च विरुध्यन्ते मत्सरेण परस्परम् ।
रजन्यां राजते भीममैन्द्रं धनुरनभ्रजम् ॥ ४२-२० ॥
विश्वास-प्रस्तुतिः - ४२-२१
इतस्ततो वह्निभयं नगरे जायते भृशम् ।
प्रविश्य गर्भभवनं क्रोष्टारश्चानिवारिताः ॥ ४२-२१ ॥
मूलम् - ४२-२१
इतस्ततो वह्निभयं नगरे जायते भृशम् ।
प्रविश्य गर्भभवनं क्रोष्टारश्चानिवारिताः ॥ ४२-२१ ॥
विश्वास-प्रस्तुतिः - ४२-२२
क्रोशन्ति सन्ध्ययोर्भीमा दीप्तायां दिशि विस्वरम् ।
रुन्धन्ति नगरं राज्ञः शत्रवो बलदर्पिताः ॥ ४२-२२ ॥
मूलम् - ४२-२२
क्रोशन्ति सन्ध्ययोर्भीमा दीप्तायां दिशि विस्वरम् ।
रुन्धन्ति नगरं राज्ञः शत्रवो बलदर्पिताः ॥ ४२-२२ ॥
विश्वास-प्रस्तुतिः - ४२-२३
कृत्याकृत्यं न जानाति स्वयं स्तैमित्यमास्थितः ।
स्वप्नेऽपि पश्यत्यात्मानं मुण्डितं नीलवाससम् ॥ ४२-२३ ॥
मूलम् - ४२-२३
कृत्याकृत्यं न जानाति स्वयं स्तैमित्यमास्थितः ।
स्वप्नेऽपि पश्यत्यात्मानं मुण्डितं नीलवाससम् ॥ ४२-२३ ॥
विश्वास-प्रस्तुतिः - ४२-२४
तथेन गर्दभयुजा व्रजन्तं दक्षिणां दिशम् ।
इत्यादिलिङ्गैर्जानीयादभिचारं सपत्नजम् ॥ ४२-२४ ॥
मूलम् - ४२-२४
तथेन गर्दभयुजा व्रजन्तं दक्षिणां दिशम् ।
इत्यादिलिङ्गैर्जानीयादभिचारं सपत्नजम् ॥ ४२-२४ ॥
विश्वास-प्रस्तुतिः - ४२-२५
पराभिचारजा कृत्या राजानं प्रविशेद्यदि ।
तां दृष्ट्वा क्षिप्रमेवासौ विनश्यति न संशयः ॥ ४२-२५ ॥
मूलम् - ४२-२५
पराभिचारजा कृत्या राजानं प्रविशेद्यदि ।
तां दृष्ट्वा क्षिप्रमेवासौ विनश्यति न संशयः ॥ ४२-२५ ॥
विश्वास-प्रस्तुतिः - ४२-२६
पुत्रांश्च मन्त्रिणश्चापि महिषीं नगरं तथा ।
ज्वालामालाविला कृत्या सर्वं नाशयति क्षणात् ॥ ४२-२६ ॥
मूलम् - ४२-२६
पुत्रांश्च मन्त्रिणश्चापि महिषीं नगरं तथा ।
ज्वालामालाविला कृत्या सर्वं नाशयति क्षणात् ॥ ४२-२६ ॥
पराभिचारनिवर्तनाय निवर्तकास्त्रधारिसुदर्शनप्रीणनम्
एवं पराभिचारेण पीडिते नृपतौ स्वयम् ।
[[४०४]]
निवर्तकास्त्रसहितं भगवन्तं महाद्युतिम् ॥ ४२-२७ ॥
विश्वास-प्रस्तुतिः - ४२-२८
चक्रस्वरूपिणं देवं भक्त्या सन्तोषयेत् ततः ।
रजतेन सुवर्णेन शिलया ताम्रकेण वा ॥ ४२-२८ ॥
मूलम् - ४२-२८
चक्रस्वरूपिणं देवं भक्त्या सन्तोषयेत् ततः ।
रजतेन सुवर्णेन शिलया ताम्रकेण वा ॥ ४२-२८ ॥
विश्वास-प्रस्तुतिः - ४२-२९
सुदर्शनार्चां निर्माय पूजयेत् सनिवर्तकम् ।
समालिख्य पटे वापि ध्यायेत् त्रैलोक्यपूजितम् ॥ ४२-२९ ॥
मूलम् - ४२-२९
सुदर्शनार्चां निर्माय पूजयेत् सनिवर्तकम् ।
समालिख्य पटे वापि ध्यायेत् त्रैलोक्यपूजितम् ॥ ४२-२९ ॥
विश्वास-प्रस्तुतिः - ४२-३०
एवं निर्माणतो ध्यानात् पूजया वन्दनेन वा ।
प्रतिष्ठया वा स्तोत्रेण देवं सम्प्रीणयेन्नृपः ॥ ४२-३० ॥
मूलम् - ४२-३०
एवं निर्माणतो ध्यानात् पूजया वन्दनेन वा ।
प्रतिष्ठया वा स्तोत्रेण देवं सम्प्रीणयेन्नृपः ॥ ४२-३० ॥
एवमन्ये तथा कुर्युरमात्या वा नरा मुने ।
प्रीतेन सुदर्शनेन पराभिचारनिर्दहनम्
ततः प्रीतः स भगवाननादिनिधनो विभुः ॥ ४२-३१ ॥
विश्वास-प्रस्तुतिः - ४२-३२
अभिचारान् परकृतानाश्रितानुग्रहेण तु ।
भस्मीकरोति स्मृत्यैव तत्प्रयुक्तान्यपि क्षणात् ॥ ४२-३२ ॥
मूलम् - ४२-३२
अभिचारान् परकृतानाश्रितानुग्रहेण तु ।
भस्मीकरोति स्मृत्यैव तत्प्रयुक्तान्यपि क्षणात् ॥ ४२-३२ ॥
दिव्यास्त्राण्युपसंहारैरस्त्रैर्वारयतीश्वरः ।
परप्रयुक्तकृत्यायास्तत्प्रयोक्तुश्च विनाशनम्
परप्रयुक्तां कृत्यां तु सम्प्राप्तामतिभीषणाम् ॥ ४२-३३ ॥
विश्वास-प्रस्तुतिः - ४२-३४
स्वयं निर्गत्य देवोऽसौ चक्ररूपी जगत्पतिः ।
भस्मसात् कुरुते तं च प्रयोक्तारं ततः परम् ॥ ४२-३४ ॥
मूलम् - ४२-३४
स्वयं निर्गत्य देवोऽसौ चक्ररूपी जगत्पतिः ।
भस्मसात् कुरुते तं च प्रयोक्तारं ततः परम् ॥ ४२-३४ ॥
काशीराजेतिहासोदाहरणम्
विश्वास-प्रस्तुतिः - ४२-३५
तथैव काशीराजाख्यो वाराणस्यां वसन्नृपः ।
विश्वेश्वरं महादेवमर्चयित्वा समाहितः ॥ ४२-३५ ॥
मूलम् - ४२-३५
तथैव काशीराजाख्यो वाराणस्यां वसन्नृपः ।
विश्वेश्वरं महादेवमर्चयित्वा समाहितः ॥ ४२-३५ ॥
[[४०५]]
विश्वास-प्रस्तुतिः - ४२-३६
कृष्णोद्देशेन कृत्यां वै जनयामास मोहितः ।
सा समुत्पादिता कृत्या विकटा भीमदर्शना ॥ ४२-३६ ॥
मूलम् - ४२-३६
कृष्णोद्देशेन कृत्यां वै जनयामास मोहितः ।
सा समुत्पादिता कृत्या विकटा भीमदर्शना ॥ ४२-३६ ॥
विश्वास-प्रस्तुतिः - ४२-३७
द्वारकां समनुप्राप्य कृष्णाभ्यासं ययौ तदा ।
तामापतन्तीं सम्प्रेक्ष्य ज्वालामालाविलाननाम् ॥ ४२-३७ ॥
मूलम् - ४२-३७
द्वारकां समनुप्राप्य कृष्णाभ्यासं ययौ तदा ।
तामापतन्तीं सम्प्रेक्ष्य ज्वालामालाविलाननाम् ॥ ४२-३७ ॥
विश्वास-प्रस्तुतिः - ४२-३८
प्रेषयामास भगवान् सुदर्शनमनुत्तमम् ।
सा तमापतितं दृष्ट्वा सहस्रादित्यसन्निभम् ॥ ४२-३८ ॥
मूलम् - ४२-३८
प्रेषयामास भगवान् सुदर्शनमनुत्तमम् ।
सा तमापतितं दृष्ट्वा सहस्रादित्यसन्निभम् ॥ ४२-३८ ॥
विश्वास-प्रस्तुतिः - ४२-३९
यथागतं प्रदुद्राव प्रयोक्तारं भयातुरा ।
स तां निहत्य तं चापि काशीराजं पुरीं तथा ॥ ४२-३९ ॥
मूलम् - ४२-३९
यथागतं प्रदुद्राव प्रयोक्तारं भयातुरा ।
स तां निहत्य तं चापि काशीराजं पुरीं तथा ॥ ४२-३९ ॥
आजगाम पुनश्चक्रं विष्णुपार्श्वं महाद्युति ।
श्रुतकीर्त्युपाख्यानोदाहरणम्
एवमन्यत् पुरावृत्तमितिहासं शृणुष्व मे ॥ ४२-४० ॥
राज्ञा श्रुतकीर्तिना धर्मेण सप्तद्वीपमहीपरिपालनम्
विश्वास-प्रस्तुतिः - ४२-४१
सौराष्ट्राधिपती राजा श्रुतकीर्तिरिति श्रुतः ।
निवसन् भद्रशालायां नगर्यामरिमर्दनः ॥ ४२-४१ ॥
मूलम् - ४२-४१
सौराष्ट्राधिपती राजा श्रुतकीर्तिरिति श्रुतः ।
निवसन् भद्रशालायां नगर्यामरिमर्दनः ॥ ४२-४१ ॥
विश्वास-प्रस्तुतिः - ४२-४२
गजाश्वरथसम्पन्नो बलवान् वासवोपमः ।
सुदर्शनमहामन्त्रनिष्ठः परमधार्मिकः ॥ ४२-४२ ॥
मूलम् - ४२-४२
गजाश्वरथसम्पन्नो बलवान् वासवोपमः ।
सुदर्शनमहामन्त्रनिष्ठः परमधार्मिकः ॥ ४२-४२ ॥
विश्वास-प्रस्तुतिः - ४२-४३
सुदर्शने परां भक्तिमुद्वहन्नर्चनापरः ।
बुभुजे तत्प्रसादेन सप्तद्वीपवतीं महीम् ॥ ४२-४३ ॥
मूलम् - ४२-४३
सुदर्शने परां भक्तिमुद्वहन्नर्चनापरः ।
बुभुजे तत्प्रसादेन सप्तद्वीपवतीं महीम् ॥ ४२-४३ ॥
[[४०६]]
लोकान्तरं जिगीषोस्तस्य सुदर्शनार्चनपूर्वकं
स्वस्तिकाख्यगन्धर्वनगरगमनम्
विश्वास-प्रस्तुतिः - ४२-४४
जेतुं लोकान्तरं चक्रे श्रुतकीर्तिर्मनस्तदा ।
चतुरङ्गबलैर्युक्तः समभ्यर्च्य सुदर्शनम् ॥ ४२-४४ ॥
मूलम् - ४२-४४
जेतुं लोकान्तरं चक्रे श्रुतकीर्तिर्मनस्तदा ।
चतुरङ्गबलैर्युक्तः समभ्यर्च्य सुदर्शनम् ॥ ४२-४४ ॥
विश्वास-प्रस्तुतिः - ४२-४५
कामगं स्यन्दनं चित्रमारुरोह महाबलः ।
ततः प्रतस्थे प्रथममन्तरिक्षं बलान्वितः ॥ ४२-४५ ॥
मूलम् - ४२-४५
कामगं स्यन्दनं चित्रमारुरोह महाबलः ।
ततः प्रतस्थे प्रथममन्तरिक्षं बलान्वितः ॥ ४२-४५ ॥
स्वस्तिकनगरवर्णनम्
विश्वास-प्रस्तुतिः - ४२-४६
तत्र गन्धर्वनगरं विशालं स्वस्तिकाह्वयम् ।
वीणाविनोदनेनेत्थं पालितं परमद्युति ॥ ४२-४६ ॥
मूलम् - ४२-४६
तत्र गन्धर्वनगरं विशालं स्वस्तिकाह्वयम् ।
वीणाविनोदनेनेत्थं पालितं परमद्युति ॥ ४२-४६ ॥
विश्वास-प्रस्तुतिः - ४२-४७
स्वयम्प्रवृत्तैः शस्त्रैश्च वार्यमाणारिसैनिकम् ।
बहिर्निरिन्धनेनैव वह्निना परिवेष्टितम् ॥ ४२-४७ ॥
मूलम् - ४२-४७
स्वयम्प्रवृत्तैः शस्त्रैश्च वार्यमाणारिसैनिकम् ।
बहिर्निरिन्धनेनैव वह्निना परिवेष्टितम् ॥ ४२-४७ ॥
विश्वास-प्रस्तुतिः - ४२-४८
सुवर्णसालं परमं रत्नगोपुरमण्डितम् ।
मणिहर्म्यपरिक्षिप्तं गानस्वनसमाकुलम् ॥ ४२-४८ ॥
मूलम् - ४२-४८
सुवर्णसालं परमं रत्नगोपुरमण्डितम् ।
मणिहर्म्यपरिक्षिप्तं गानस्वनसमाकुलम् ॥ ४२-४८ ॥
विश्वास-प्रस्तुतिः - ४२-४९
विमानैस्तैजसैर्जुष्टं दिव्योपवनशोभितम् ।
सुवर्णपद्मसरसीसरिद्वापीनिषेवितम् ॥ ४२-४९ ॥
मूलम् - ४२-४९
विमानैस्तैजसैर्जुष्टं दिव्योपवनशोभितम् ।
सुवर्णपद्मसरसीसरिद्वापीनिषेवितम् ॥ ४२-४९ ॥
विश्वास-प्रस्तुतिः - ४२-५०
सेवितं सुरनारीभिरप्सरोभिश्च सेवितम् ।
गन्धर्वैः किन्नरैः सिद्धैश्चारणैश्च सदा युतम् ॥ ४२-५० ॥
मूलम् - ४२-५०
सेवितं सुरनारीभिरप्सरोभिश्च सेवितम् ।
गन्धर्वैः किन्नरैः सिद्धैश्चारणैश्च सदा युतम् ॥ ४२-५० ॥
युयुत्सुना श्रुतकीर्तिना तन्नगरोपरोधः
विश्वास-प्रस्तुतिः - ४२-५१
एवंविधं पुरं राजा रुरोध बलदर्पितः ।
वीणाविनोदनं योद्धुं महत्या सेनया तदा ॥ ४२-५१ ॥
मूलम् - ४२-५१
एवंविधं पुरं राजा रुरोध बलदर्पितः ।
वीणाविनोदनं योद्धुं महत्या सेनया तदा ॥ ४२-५१ ॥
[[४०७]]
गन्धर्वराजेन वाहिनीप्रेषणम्
विश्वास-प्रस्तुतिः - ४२-५२
श्रुत्वा गन्धर्वराजोऽपि मानुषैरुपरोधनम् ।
प्रहस्य प्रेषयामास सिद्धगन्धर्ववाहिनीम् ॥ ४२-५२ ॥
मूलम् - ४२-५२
श्रुत्वा गन्धर्वराजोऽपि मानुषैरुपरोधनम् ।
प्रहस्य प्रेषयामास सिद्धगन्धर्ववाहिनीम् ॥ ४२-५२ ॥
तत्र तुमुलसङ्ग्रामः
विश्वास-प्रस्तुतिः - ४२-५३
सा तेन बलिना राज्ञा युयुधे निशितैः शरैः ।
प्रवृत्तं तन्महद्युद्धं तुमुलं रोमहर्षणम् ॥ ४२-५३ ॥
मूलम् - ४२-५३
सा तेन बलिना राज्ञा युयुधे निशितैः शरैः ।
प्रवृत्तं तन्महद्युद्धं तुमुलं रोमहर्षणम् ॥ ४२-५३ ॥
श्रुतकीर्तिना गन्धर्वसैन्यविद्रावणम्
विश्वास-प्रस्तुतिः - ४२-५४
ततो विद्रावयामास भूपतिर्लीलया बलम् ।
गान्धर्वं तत् पुनः प्राप स्वपुरीं भयविह्वलम् ॥ ४२-५४ ॥
मूलम् - ४२-५४
ततो विद्रावयामास भूपतिर्लीलया बलम् ।
गान्धर्वं तत् पुनः प्राप स्वपुरीं भयविह्वलम् ॥ ४२-५४ ॥
क्रुद्धस्य गन्धर्वराजस्य स्वयं युद्धाय निर्गमनम्
विश्वास-प्रस्तुतिः - ४२-५५
तच्छ्रुत्वा परमक्रुद्धः स्वयं वीणाविनोदनः ।
रथं महान्तमास्थाय निर्ययौ सह सैनिकैः ॥ ४२-५५ ॥
मूलम् - ४२-५५
तच्छ्रुत्वा परमक्रुद्धः स्वयं वीणाविनोदनः ।
रथं महान्तमास्थाय निर्ययौ सह सैनिकैः ॥ ४२-५५ ॥
गन्धर्वराजश्रुतकीर्त्योरष्टदिनपर्यन्तं युद्धप्रवृत्तिः
विश्वास-प्रस्तुतिः - ४२-५६
ततस्तयोरभूद्युद्धं वृत्रवासवयोरिव ।
परस्परं निजघ्नुस्ते सैनिकाः विविधैः शरैः ॥ ४२-५६ ॥
मूलम् - ४२-५६
ततस्तयोरभूद्युद्धं वृत्रवासवयोरिव ।
परस्परं निजघ्नुस्ते सैनिकाः विविधैः शरैः ॥ ४२-५६ ॥
विश्वास-प्रस्तुतिः - ४२-५७
तत्र सञ्छन्नमाकाशं शरौघैरुभयोरपि ।
जयः पराजयो वा स्यान्न तत्र समितौ तयोः ॥ ४२-५७ ॥
मूलम् - ४२-५७
तत्र सञ्छन्नमाकाशं शरौघैरुभयोरपि ।
जयः पराजयो वा स्यान्न तत्र समितौ तयोः ॥ ४२-५७ ॥
एवमष्टदिनान्यासीदेकरूपं भयङ्करम् ।
[[४०८]]
भूपतिना गन्धर्वराजस्य धनुरादिच्छेदो बलविद्रावणं च
ततो गन्धर्वराजस्य घनुश्चिच्छेद भूपतिः ॥ ४२-५८ ॥
विश्वास-प्रस्तुतिः - ४२-५९
ध्वजच्छत्रहयांश्चापि सायकैर्नतपर्वभिः ।
दिशः प्रस्थापयामास तदीयं सकलं बलम् ॥ ४२-५९ ॥
मूलम् - ४२-५९
ध्वजच्छत्रहयांश्चापि सायकैर्नतपर्वभिः ।
दिशः प्रस्थापयामास तदीयं सकलं बलम् ॥ ४२-५९ ॥
गन्धर्वराजस्य विषादः
विश्वास-प्रस्तुतिः - ४२-६०
शस्त्रैरजय्यमालोच्य नृपं गन्धर्वराडपि ।
पराजितं तु स्वबलं मनुजैर्विषसाद ह ॥ ४२-६० ॥
मूलम् - ४२-६०
शस्त्रैरजय्यमालोच्य नृपं गन्धर्वराडपि ।
पराजितं तु स्वबलं मनुजैर्विषसाद ह ॥ ४२-६० ॥
गन्धर्वराजेन मानुषबले गान्धर्वास्त्रप्रयोगः
विश्वास-प्रस्तुतिः - ४२-६१
दिव्यास्त्रैः सूदयाम्येनमिति मत्वा महाद्युतिः ।
गान्धर्वमस्त्रं चिक्षेप स तस्मिन् मानुषे बले ॥ ४२-६१ ॥
मूलम् - ४२-६१
दिव्यास्त्रैः सूदयाम्येनमिति मत्वा महाद्युतिः ।
गान्धर्वमस्त्रं चिक्षेप स तस्मिन् मानुषे बले ॥ ४२-६१ ॥
तेन मानुषसैन्यविमोहनम्
विश्वास-प्रस्तुतिः - ४२-६२
तेनैव मोहिता सर्वा श्रुतकीर्तिवरूथिनी ।
गान्धर्वास्त्रप्रभावेण तिष्ठत्येव च संयुगे ॥ ४२-६२ ॥
मूलम् - ४२-६२
तेनैव मोहिता सर्वा श्रुतकीर्तिवरूथिनी ।
गान्धर्वास्त्रप्रभावेण तिष्ठत्येव च संयुगे ॥ ४२-६२ ॥
सुदर्शनप्रभावेण दिव्यास्त्रं नाप तं नृपम् ।
तत्प्रतीकाराशक्तस्य श्रुतकीर्तेः पुरोधसि स्ववृत्तनिवेदनम्
श्रुतकीर्तिस्तदास्त्रेषु दिव्येष्वनभियोगतः ॥ ४२-६३ ॥
विश्वास-प्रस्तुतिः - ४२-६४
न शशाक प्रतीकर्तुं स्वपुरोधसमभ्ययात् ।
वृत्तं विज्ञापयामास नृपस्तस्मै पुरोधसे ॥ ४२-६४ ॥
मूलम् - ४२-६४
न शशाक प्रतीकर्तुं स्वपुरोधसमभ्ययात् ।
वृत्तं विज्ञापयामास नृपस्तस्मै पुरोधसे ॥ ४२-६४ ॥
पुरोधसा सुदर्शनशरणवरणोपदेशपूर्वकं
निखिलास्त्रमन्त्रोपदेशनम्
सोऽभ्यभाषत धर्मज्ञः परमास्त्रविशारदः ।
[[४०९]]
श्रुतकीर्तेऽत्र मा भैषीस्तमेव शरणं व्रज ॥ ४२-६५ ॥
विश्वास-प्रस्तुतिः - ४२-६६
प्रणतार्तिहरं देवं सुदर्शनवपुर्धरम् ।
दिव्यास्त्राणामशेषाणां प्रसूतिं परमेश्वरम् ॥ ४२-६६ ॥
मूलम् - ४२-६६
प्रणतार्तिहरं देवं सुदर्शनवपुर्धरम् ।
दिव्यास्त्राणामशेषाणां प्रसूतिं परमेश्वरम् ॥ ४२-६६ ॥
विश्वास-प्रस्तुतिः - ४२-६७
एवं भूते महाचक्रे चतुःषष्ट्यरसंयुते ।
नेमिद्वयान्विते देवं मध्ये ध्यायस्व भूपते ॥ ४२-६७ ॥
मूलम् - ४२-६७
एवं भूते महाचक्रे चतुःषष्ट्यरसंयुते ।
नेमिद्वयान्विते देवं मध्ये ध्यायस्व भूपते ॥ ४२-६७ ॥
विश्वास-प्रस्तुतिः - ४२-६८
द्विषष्टिभुजमत्युग्रं संहारास्त्रधरं परम् ।
एवं ध्यात्वा च जप्त्वैतं मन्त्रं सेनां विलोकय ॥ ४२-६८ ॥
मूलम् - ४२-६८
द्विषष्टिभुजमत्युग्रं संहारास्त्रधरं परम् ।
एवं ध्यात्वा च जप्त्वैतं मन्त्रं सेनां विलोकय ॥ ४२-६८ ॥
इत्यस्त्रमन्त्रानखिलांस्तस्मा उपदिदेश सः ।
तेन जातबलस्य श्रुतकीर्तेः पुनर्युद्धायागमनम्
प्रतिगृह्याखिलान् मन्त्रान् प्रवर्तकनिवर्तकान् ॥ ४२-६९ ॥
पुनरेत्य च सङ्ग्रामं स राजा समितिञ्जयः ।
तेन स्वसैनिकमोहविमोचनम्
ध्यात्वा देवं जपन् मन्त्रं स्वसेनां समलोकयत् ॥ ४२-७० ॥
ततः सञ्ज्ञामवाप्यासौ प्रावर्तत महाहवे ।
पुनर्युद्धे श्रुतकीर्तेर्विजयो गन्धर्वलोकवशीकरणं च
पुनः प्रववृते युद्धं सेनयोरुभयोरपि ॥ ४२-७१ ॥
विश्वास-प्रस्तुतिः - ४२-७२
दिव्यास्त्रैः समरे राजा जित्वा वीणाविनोदनम् ।
तल्लोकं स्ववशं चक्रे चक्रवर्ती बलान्वितः ॥ ४२-७२ ॥
मूलम् - ४२-७२
दिव्यास्त्रैः समरे राजा जित्वा वीणाविनोदनम् ।
तल्लोकं स्ववशं चक्रे चक्रवर्ती बलान्वितः ॥ ४२-७२ ॥
[[४१०]]
ततः स्वपुरप्रत्यागमनम्
विश्वास-प्रस्तुतिः - ४२-७३
सत्कृतः सिद्धगन्धर्वैः किन्नरैश्चारणैरपि ।
भद्रशालां पुनः प्राप स्वपुरीं विजयश्रिया ॥ ४२-७३ ॥
मूलम् - ४२-७३
सत्कृतः सिद्धगन्धर्वैः किन्नरैश्चारणैरपि ।
भद्रशालां पुनः प्राप स्वपुरीं विजयश्रिया ॥ ४२-७३ ॥
समेयिवाञ्शशासोर्वीं दिवं सुरपतिर्यथा ।
सुदर्शनप्रभावाद्विस्मितस्य पुनः पुरोधसा सह मन्त्रणप्रकारः
सुदर्शनप्रभावस्य स्मृत्वा विस्मितमानसः ॥ ४२-७४ ॥
विश्वास-प्रस्तुतिः - ४२-७५
पुरोधसमुपागम्य ज्वलन्तमिव पावकम् ।
मन्त्रयामास तेनैवं राजा राजीवलोचनः ॥ ४२-७५ ॥
मूलम् - ४२-७५
पुरोधसमुपागम्य ज्वलन्तमिव पावकम् ।
मन्त्रयामास तेनैवं राजा राजीवलोचनः ॥ ४२-७५ ॥
स्वसम्पदो भगवत्प्रसादहेतुकत्वकथनम्
देवप्रसादाज्जगती ममेयं
समुद्रनेमिर्वशमागताद्य ।
लोकान्तरं चापि तथैव मन्ये
मयि प्रसादोन्मुख एव देवः ॥ ४२-७६ ॥
भगवत्प्रसादात् स्वस्य मोक्षलाभे संशयाभावकथनम्
संसारभीतस्य ममापवर्गं
प्रदास्यते चक्रवपुर्धरोऽयम् ।
इत्यत्र शङ्का मम नास्ति काचि-
दतः परं देवमुपास्महे तु ॥ ४२-७७ ॥
[[४११]]
राजानं प्रति पुरोधसा सुदर्शनप्रतिष्ठापनाद्युपदेशः
इत्युक्तवन्तं नृपतिं पुरोधाः
कृताञ्जलिं प्राह महानुभावः ।
विमानमग्र्यं बहुवर्णकूटं
विधाय चक्रोपपदं ससाध्यम् ॥ ४२-७८ ॥
इह प्रतिष्ठाप्य सुचक्रमध्ये
द्विषष्टिबाहुं सनिवर्तकास्त्रम् ।
यथोक्तरूपं बहुभूषणाढ्यं
सुदर्शनं पूजय सर्वसिद्ध्यै ॥ ४२-७९ ॥
राज्ञा तथैवानुष्ठानम्
इत्येवमुक्तः प्रतिगृह्य मूर्ध्ना
स तस्य वाक्यं परमार्थयुक्तम् ।
अकारयत् कारयितव्यदक्ष-
स्तथैव तस्मिन्नगरे स राजा ॥ ४२-८० ॥
तदर्थं राज्ञा द्विजानां वृत्तिप्रकल्पनम्
शतं स विंशत्यधिकं द्विजांस्तु
समन्ततो देवनिकेतनात् सः ।
ततः प्रतिष्ठाप्य धनानि दत्त्वा
बहूनि बह्वीश्च भुवः स तेभ्यः ॥ ४२-८१ ॥
[[४१२]]
विभूतिमन्तं च विधाय देवं
मुमोद राजा समवाप्तकामः ।
ततो भगवत्प्रसादाद्राज्ञः परमपुरुषार्थलाभः
महालये तत्र समर्च्य देवं
दिने दिने प्राप्तसमस्तकामः ।
ततोऽचिरेणैव विमुक्तसङ्गः
परं पदं प्राप च तत्प्रसादात् ॥ ४२-८२ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
काशीराजश्रुतकीर्त्युपाख्यानवर्णनं नाम
द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
आदितः श्लोकाः २६७३