४१

स्वरूपतोऽस्त्रधारणतत्प्रयोजनप्रतिपिपादयिषया
मधुकैटभसंहारवर्णनं नाम एकचत्वारिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥

भगवता अस्त्राणां स्वरूपतो धारणस्य   

कालविशेषप्रयोजनादिप्रश्नः

नारदः –

विश्वास-प्रस्तुतिः - ४१-१

अस्त्राण्येतानि भगवन् कथितानि स्वरूपतः ।
तान्यधत्त स्वरूपेण देवः पूर्वमितीरितम् ॥ ४१-१ ॥

मूलम् - ४१-१

अस्त्राण्येतानि भगवन् कथितानि स्वरूपतः ।
तान्यधत्त स्वरूपेण देवः पूर्वमितीरितम् ॥ ४१-१ ॥

विश्वास-प्रस्तुतिः - ४१-२

कस्मिन् कदा किमर्थं तत् कृतं विश्वेश्वर प्रभो ।
प्रश्नमेतं परिच्छिन्धि यदि सानुग्रहोऽसि मे ॥ ४१-२ ॥

मूलम् - ४१-२

कस्मिन् कदा किमर्थं तत् कृतं विश्वेश्वर प्रभो ।
प्रश्नमेतं परिच्छिन्धि यदि सानुग्रहोऽसि मे ॥ ४१-२ ॥

पृष्टस्यार्थस्य परमगुह्यत्वख्यापनमुखेन तत्प्रतिवचनप्रतिज्ञा

अहिर्बुध्न्यः –

विश्वास-प्रस्तुतिः - ४१-३

परमं ते प्रवक्ष्यामि गुह्यमत्यद्भतं महत् ।
पृच्छते भक्तियुक्ताय परमात्मनि नारद ॥ ४१-३ ॥

मूलम् - ४१-३

परमं ते प्रवक्ष्यामि गुह्यमत्यद्भतं महत् ।
पृच्छते भक्तियुक्ताय परमात्मनि नारद ॥ ४१-३ ॥

प्रलयावसाने भगवतः सिसृक्षोदयः

विश्वास-प्रस्तुतिः - ४१-४

पुरा कल्पावसाने तु भगवान् पुरुषोत्तमः ।
जगत् स्रष्टुं मनश्चक्रे लीलारससमुत्सुकः ॥ ४१-४ ॥

मूलम् - ४१-४

पुरा कल्पावसाने तु भगवान् पुरुषोत्तमः ।
जगत् स्रष्टुं मनश्चक्रे लीलारससमुत्सुकः ॥ ४१-४ ॥

[[३९३]]

प्रकृतिपुरुषमहदादिविशेषान्तजगत्सृष्टिः

विश्वास-प्रस्तुतिः - ४१-५

प्रथमं जनयामास प्रधानपुरुषौ स्वतः ।
महदादि विशेषान्तं जनयित्वा ततो हरिः ॥ ४१-५ ॥

मूलम् - ४१-५

प्रथमं जनयामास प्रधानपुरुषौ स्वतः ।
महदादि विशेषान्तं जनयित्वा ततो हरिः ॥ ४१-५ ॥

अण्डोत्पादनपूर्वकं चतुर्मुखसृष्टिः

तैः सर्वैरण्डमुत्पाद्य तस्मिन् ब्रह्माणमासृजत् ।

प्रजासृष्ट्यर्थं चतुर्मुखाय वेदोपदेशः

प्रजाः सृजेति वेदांश्च तस्मै प्रादाज्जनार्दनः ॥ ४१-६ ॥

चतुर्मुखस्य प्रजासृष्ट्यारम्भः

ततः प्रजाः स विविधाः स्रष्टुं समुपचक्रमे ।

तत्र बलदर्पितमधुकैटभोत्पत्तिः

एतस्मिन्नन्तरे दैत्यौ ब्रह्मसृष्टेरनन्तरम् ॥ ४१-७ ॥

विश्वास-प्रस्तुतिः - ४१-८

बलवन्तौ तु तस्योर्वोर्जज्ञाते मधुकैटभौ ।
मदोन्मत्तौ महाकायौ दानवौ बलदर्पितौ ॥ ४१-८ ॥

मूलम् - ४१-८

बलवन्तौ तु तस्योर्वोर्जज्ञाते मधुकैटभौ ।
मदोन्मत्तौ महाकायौ दानवौ बलदर्पितौ ॥ ४१-८ ॥

मधुकैटभाभ्यां चतुर्मुखाद्वेदापहरणम्

विश्वास-प्रस्तुतिः - ४१-९

तौ दृष्ट्वा सृष्ट्युपक्रान्तं ब्रह्माणममितद्युतिम् ।
प्रविश्य मायया तस्माद्वेदाञ्जगृहतुस्तदा ॥ ४१-९ ॥

मूलम् - ४१-९

तौ दृष्ट्वा सृष्ट्युपक्रान्तं ब्रह्माणममितद्युतिम् ।
प्रविश्य मायया तस्माद्वेदाञ्जगृहतुस्तदा ॥ ४१-९ ॥

वेदापहाराच्चतुर्मुखस्य सृष्ट्यसामर्थ्यम्

ततः स्रष्टुं प्रजाः सर्वा न शशाक प्रजापतिः ।

निर्विण्णस्य चतुर्मुखस्य चिन्ताप्रकारः

[[३९४]]

परं निर्वेदमापन्नो बभूवाथ प्रजापतिः ॥ ४१-१० ॥

विश्वास-प्रस्तुतिः - ४१-११

प्रजाः सृजेति भगवान् व्यादिदेश स मां हरिः ।
न शक्यते विना वेदैः स्रष्टुं नानाविधाः प्रजाः ॥ ४१-११ ॥

मूलम् - ४१-११

प्रजाः सृजेति भगवान् व्यादिदेश स मां हरिः ।
न शक्यते विना वेदैः स्रष्टुं नानाविधाः प्रजाः ॥ ४१-११ ॥

विश्वास-प्रस्तुतिः - ४१-१२

दानवाभ्यामिमे वेदा हृता मत्तोऽद्य मायया ।
किमन्यत् कार्यमित्येष परां चिन्तामुपेयिवान् ॥ ४१-१२ ॥

मूलम् - ४१-१२

दानवाभ्यामिमे वेदा हृता मत्तोऽद्य मायया ।
किमन्यत् कार्यमित्येष परां चिन्तामुपेयिवान् ॥ ४१-१२ ॥

कृतनिश्चयस्य चतुर्मुखस्य क्षीराब्धिगमनम्

विश्वास-प्रस्तुतिः - ४१-१३

ततो वेधा विनिश्चित्य मनसा कार्यमात्मनः ।
क्षीराब्धेरुत्तरं तीरं जगाम कमलोद्भवः ॥ ४१-१३ ॥

मूलम् - ४१-१३

ततो वेधा विनिश्चित्य मनसा कार्यमात्मनः ।
क्षीराब्धेरुत्तरं तीरं जगाम कमलोद्भवः ॥ ४१-१३ ॥

चतुर्मुखेन भगवतः स्तुतिः

विश्वास-प्रस्तुतिः - ४१-१४

तत्र तुष्टाव देवेशं पुण्डरीकाक्षमच्युतम् ।
ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥ ४१-१४ ॥

मूलम् - ४१-१४

तत्र तुष्टाव देवेशं पुण्डरीकाक्षमच्युतम् ।
ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥ ४१-१४ ॥

विश्वास-प्रस्तुतिः - ४१-१५

असीमानन्दकन्दाय भूरिभूम्ने महात्मने ।
अचिन्त्यशक्तिरूपाय बिभ्रते भुवनानि ते ॥ ४१-१५ ॥

मूलम् - ४१-१५

असीमानन्दकन्दाय भूरिभूम्ने महात्मने ।
अचिन्त्यशक्तिरूपाय बिभ्रते भुवनानि ते ॥ ४१-१५ ॥

विश्वास-प्रस्तुतिः - ४१-१६

असीमैश्वर्यवीर्याय तेजसां निधये नमः ।
विश्वान्तर्यामिणे तुभ्यं शुद्धसत्त्वैकमूर्तये ॥ ४१-१६ ॥

मूलम् - ४१-१६

असीमैश्वर्यवीर्याय तेजसां निधये नमः ।
विश्वान्तर्यामिणे तुभ्यं शुद्धसत्त्वैकमूर्तये ॥ ४१-१६ ॥

विश्वास-प्रस्तुतिः - ४१-१७

अनवद्याखिलाधारभूषणाय नमो नमः ।
शङ्खचक्रगदाखड्गशार्ङ्गायुधधराय ते ॥ ४१-१७ ॥

मूलम् - ४१-१७

अनवद्याखिलाधारभूषणाय नमो नमः ।
शङ्खचक्रगदाखड्गशार्ङ्गायुधधराय ते ॥ ४१-१७ ॥

[[३९५]]

विश्वास-प्रस्तुतिः - ४१-१८

श्रीमते पुष्कराक्षाय पुरुषाय नमो नमः ।
विष्वक्सेनमुखैर्दिव्यैः सेव्यमानाय सूरिभिः ॥ ४१-१८ ॥

मूलम् - ४१-१८

श्रीमते पुष्कराक्षाय पुरुषाय नमो नमः ।
विष्वक्सेनमुखैर्दिव्यैः सेव्यमानाय सूरिभिः ॥ ४१-१८ ॥

विश्वास-प्रस्तुतिः - ४१-१९

दिव्यानन्दमयव्योमनिलयाय नमो नमः ।
सर्गोपसर्गरक्षाभिः क्रीडते जगतां सदा ॥ ४१-१९ ॥

मूलम् - ४१-१९

दिव्यानन्दमयव्योमनिलयाय नमो नमः ।
सर्गोपसर्गरक्षाभिः क्रीडते जगतां सदा ॥ ४१-१९ ॥

विश्वास-प्रस्तुतिः - ४१-२०

महाविभूतये तुभ्यं नमो निखिलमूर्तये ।
स्वसमाश्रितवात्सल्यकृतव्यूहविभूतये ॥ ४१-२० ॥

मूलम् - ४१-२०

महाविभूतये तुभ्यं नमो निखिलमूर्तये ।
स्वसमाश्रितवात्सल्यकृतव्यूहविभूतये ॥ ४१-२० ॥

विश्वास-प्रस्तुतिः - ४१-२१

विश्वविद्वेषिविध्वंसकृतदीक्षाय ते नमः ।
तापत्रयाभितप्ताघनाशनस्मरणाय ते ॥ ४१-२१ ॥

मूलम् - ४१-२१

विश्वविद्वेषिविध्वंसकृतदीक्षाय ते नमः ।
तापत्रयाभितप्ताघनाशनस्मरणाय ते ॥ ४१-२१ ॥

नमोऽचिन्त्यस्वरूपाय विष्णवे कर्मसाक्षिणे ।

भगवता चतुर्मुखाय दर्शनप्रदानम्

इति तस्य स्तुतिं श्रुत्वा भगवान् पुरुषोत्तमः ॥ ४१-२२ ॥

आविर्बभूव पुरतः प्रसन्नः पद्मलोचनः ।

चतुर्मुखेन स्ववृत्तान्तनिवेदनम्

तं दृष्ट्वा परमप्रीतः प्रणम्य परमाद्भुतम् ॥ ४१-२३ ॥

व्यजिज्ञपदमेयात्मा स्ववृत्तं विनयान्वितः ।

भगवता मधुकैटभस्मरणम्

एतं दानवयोः श्रुत्वा व्यतिक्रममरिन्दमः ॥ ४१-२४ ॥

मन्दं प्रहस्य भगवान् सस्मार मधुकैटभौ ।

[[३९६]]

मधुकैटभयोस्तत्रागमनम्

तौ तस्य स्मृतिमात्रेण द्वारमाजग्मतुस्तदा ॥ ४१-२५ ॥

मधुकैटभौ प्रति भगवद्वचनम्

विश्वास-प्रस्तुतिः - ४१-२६

ततः समागतौ दृष्ट्वा तत्रैव बलदर्पितौ ।
मेघगम्भीरनिर्घोषमुवाच मधुसूदनः ॥ ४१-२६ ॥

मूलम् - ४१-२६

ततः समागतौ दृष्ट्वा तत्रैव बलदर्पितौ ।
मेघगम्भीरनिर्घोषमुवाच मधुसूदनः ॥ ४१-२६ ॥

विश्वास-प्रस्तुतिः - ४१-२७

युवाभ्यामाहृता वेदा मद्दत्ता ब्रह्मणो मुखात् ।
माययेति श्रुतं नैवं युज्यते कर्तुमत्र वै ॥ ४१-२७ ॥

मूलम् - ४१-२७

युवाभ्यामाहृता वेदा मद्दत्ता ब्रह्मणो मुखात् ।
माययेति श्रुतं नैवं युज्यते कर्तुमत्र वै ॥ ४१-२७ ॥

तत् तस्मै सकला वेदा दीयन्तां परमेष्ठिने ।

भगवद्वचनतिरस्करणपूर्वकं मधुकैटभयोः प्रतिवचनम्

एवमुक्तौ भगवता दुर्मदान्धौ महासुरौ ॥ ४१-२८ ॥

विश्वास-प्रस्तुतिः - ४१-२९

प्रत्यूचतुरिमांस्तस्मै ददावो नैव सर्वथा ।
आवामेवाचिरात् सर्वाः स्रक्ष्यावो विविधाः प्रजाः ॥ ४१-२९ ॥

मूलम् - ४१-२९

प्रत्यूचतुरिमांस्तस्मै ददावो नैव सर्वथा ।
आवामेवाचिरात् सर्वाः स्रक्ष्यावो विविधाः प्रजाः ॥ ४१-२९ ॥

वेदैर्विनैव भगवन् किमत्र परमेष्ठिना ।

भगवता मधुकैटभयोर्हननाय विष्वक्सेनादेशनम्

स तयोर्वचनं श्रुत्वा कोपसंरक्तलोचनः ॥ ४१-३० ॥

विश्वास-प्रस्तुतिः - ४१-३१

दुरात्मानौ तु तौ हन्तुं मतिं चक्रे जगत्पतिः ।
एतौ निहत्य दुर्दान्तौ पापावद्य मदोद्धतौ ॥ ४१-३१ ॥

मूलम् - ४१-३१

दुरात्मानौ तु तौ हन्तुं मतिं चक्रे जगत्पतिः ।
एतौ निहत्य दुर्दान्तौ पापावद्य मदोद्धतौ ॥ ४१-३१ ॥

विश्वास-प्रस्तुतिः - ४१-३२

आदाय वेदानेतस्मै ब्रह्मणे प्रतिपादय ।
इति शेषाशनं देवो व्यादिदेश कृताञ्जलिम् ॥ ४१-३२ ॥

मूलम् - ४१-३२

आदाय वेदानेतस्मै ब्रह्मणे प्रतिपादय ।
इति शेषाशनं देवो व्यादिदेश कृताञ्जलिम् ॥ ४१-३२ ॥

[[३९७]]

ततः समरसन्नहनम्

विश्वास-प्रस्तुतिः - ४१-३३

स तथेति समानीय सर्वाः सेनाश्च वैष्णवीः ।
निर्जगाम ततो योद्धुं सन्नद्धौ तौ च दानवौ ॥ ४१-३३ ॥

मूलम् - ४१-३३

स तथेति समानीय सर्वाः सेनाश्च वैष्णवीः ।
निर्जगाम ततो योद्धुं सन्नद्धौ तौ च दानवौ ॥ ४१-३३ ॥

निर्मिमाते तदा सेनां महतीं तौ च मायया ।

द्वयोः सेनयोस्तुमुलसङ्ग्रामः

उभयोः पक्षयोर्युद्धं तुमुलं समपद्यत ॥ ४१-३४ ॥

अदृष्टमश्रुतचरमभूत् तत् समरं तदा ।

विष्वक्सेनेन भगवत्सकाशे मधुकैटभयोरजय्यत्वनिवेदनम्

चिरेणाजय्यतां ज्ञात्वा दुष्टदानवयोर्युधि ॥ ४१-३५ ॥

विष्वक्सेनस्तु देवाय न्यवेदयदवारितः ।

भगवतः सर्वास्त्राणां स्वरूपतो धारणपूर्वकं युद्धाय
निर्गमनम्

ततस्तु परमक्रुद्धो निर्जगाम जनार्दनः ॥ ४१-३६ ॥

विश्वास-प्रस्तुतिः - ४१-३७

युध्यमानौ तु तौ दृष्ट्वा चक्ररूपी स्वयं हरिः ।
बिभ्रद् द्विषष्टिभिर्हस्तैस्तस्थौ दिव्यास्त्रसंहतिम् ॥ ४१-३७ ॥

मूलम् - ४१-३७

युध्यमानौ तु तौ दृष्ट्वा चक्ररूपी स्वयं हरिः ।
बिभ्रद् द्विषष्टिभिर्हस्तैस्तस्थौ दिव्यास्त्रसंहतिम् ॥ ४१-३७ ॥

सर्वास्त्रस्वरूपधारिभगवद्रूपवर्णनम्

विश्वास-प्रस्तुतिः - ४१-३८

तं दृष्ट्वा परमक्रुद्धं सहस्रादित्यसन्निभम् ।
ज्वलद्भिरस्त्रैर्हस्ताग्रधार्यमाणैश्च वेष्टितम् ॥ ४१-३८ ॥

मूलम् - ४१-३८

तं दृष्ट्वा परमक्रुद्धं सहस्रादित्यसन्निभम् ।
ज्वलद्भिरस्त्रैर्हस्ताग्रधार्यमाणैश्च वेष्टितम् ॥ ४१-३८ ॥

विश्वास-प्रस्तुतिः - ४१-३९

पिङ्गलोर्ध्वमुखैः केशैरुपेतमतिभीषणम् ।
अण्डान्तव्याप्तवपुषं जपाकुसुमसन्निभम् ॥ ४१-३९ ॥

मूलम् - ४१-३९

पिङ्गलोर्ध्वमुखैः केशैरुपेतमतिभीषणम् ।
अण्डान्तव्याप्तवपुषं जपाकुसुमसन्निभम् ॥ ४१-३९ ॥

[[३९८]]

विश्वास-प्रस्तुतिः - ४१-४०

पिङ्गलाघूर्णमानोग्रवृत्तनेत्रत्रयान्वितम् ।
भुग्नभ्रुकुटिसन्नद्धभीषणाननशोभितम् ॥ ४१-४० ॥

मूलम् - ४१-४०

पिङ्गलाघूर्णमानोग्रवृत्तनेत्रत्रयान्वितम् ।
भुग्नभ्रुकुटिसन्नद्धभीषणाननशोभितम् ॥ ४१-४० ॥

विश्वास-प्रस्तुतिः - ४१-४१

दष्टोष्ठमुज्ज्वलद्दंष्ट्रानिर्यत्स्खलितपावकम् ।
महाजलधिसङ्काशं द्विषष्टिभुजपञ्जरम् ॥ ४१-४१ ॥

मूलम् - ४१-४१

दष्टोष्ठमुज्ज्वलद्दंष्ट्रानिर्यत्स्खलितपावकम् ।
महाजलधिसङ्काशं द्विषष्टिभुजपञ्जरम् ॥ ४१-४१ ॥

विश्वास-प्रस्तुतिः - ४१-४२

रक्ताम्बरधरं भीममालीढस्थितिमण्डितम् ।
हारकेयूरताटङ्ककटकादिविभूषणैः ॥ ४१-४२ ॥

मूलम् - ४१-४२

रक्ताम्बरधरं भीममालीढस्थितिमण्डितम् ।
हारकेयूरताटङ्ककटकादिविभूषणैः ॥ ४१-४२ ॥

विश्वास-प्रस्तुतिः - ४१-४३

उपेतं किङ्किणीजालक्वणत्कारनिनादितम् ।
आश्चर्यरूपमतुलमेवम्भूतं महाद्युतिम् ॥ ४१-४३ ॥

मूलम् - ४१-४३

उपेतं किङ्किणीजालक्वणत्कारनिनादितम् ।
आश्चर्यरूपमतुलमेवम्भूतं महाद्युतिम् ॥ ४१-४३ ॥

तद्रूपदर्शनाद् दैत्यसैन्यानां निःशेषं विलयः

विश्वास-प्रस्तुतिः - ४१-४४

कल्पान्तजृम्भिताम्भोधिकल्पास्ते दैत्यसैनिकाः ।
नेशुर्निरीक्ष्य निःशेषं शिष्टौ तौ दानवौ परम् ॥ ४१-४४ ॥

मूलम् - ४१-४४

कल्पान्तजृम्भिताम्भोधिकल्पास्ते दैत्यसैनिकाः ।
नेशुर्निरीक्ष्य निःशेषं शिष्टौ तौ दानवौ परम् ॥ ४१-४४ ॥

विश्वास-प्रस्तुतिः - ४१-४५

आगच्छन्तौ सुसम्भ्रान्तौ दृष्ट्वा तावुद्यतायुधौ ।
प्राहिणोद् भीषणं चक्रं तद्वधाय महाद्युतिः ॥ ४१-४५ ॥

मूलम् - ४१-४५

आगच्छन्तौ सुसम्भ्रान्तौ दृष्ट्वा तावुद्यतायुधौ ।
प्राहिणोद् भीषणं चक्रं तद्वधाय महाद्युतिः ॥ ४१-४५ ॥

चक्रेण मधुकैटभयोः शिरश्छेदः

विश्वास-प्रस्तुतिः - ४१-४६

तयोश्चिच्छेद शिरसी तत्क्षणाच्चक्रमुत्तमम् ।
ताभ्यां वेदानुपादाय देवायैतान्न्यवेदयत् ॥ ४१-४६ ॥

मूलम् - ४१-४६

तयोश्चिच्छेद शिरसी तत्क्षणाच्चक्रमुत्तमम् ।
ताभ्यां वेदानुपादाय देवायैतान्न्यवेदयत् ॥ ४१-४६ ॥

ब्रह्मणे वेदप्रदानपूर्वकं भगवतस्तिरोधानम्

देवोऽपि ब्रह्मणे दत्त्वा पुनरन्तर्दधे हरिः ।

[[३९९]]

ब्रह्मणा यथापूर्वं प्रजासृष्टिः

लब्धवेदः पुनर्धाता प्रजाश्चक्रे यथापुरम् ।

उपसंहारः

इत्थं भगवतो रूपं चक्ररूपस्य चक्रिणः ॥ ४१-४७ ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम्
स्वरूपतोऽस्त्रधारणतत्प्रयोजनप्रतिपिपादयिषया
मधुकैटभसंहारवर्णनं नाम एकचत्वारिंशोऽध्यायः ॥ ४१ ॥

आदितः श्लोकाः २५९१