अस्त्रस्वरूपतच्छक्तिनिरूपणं नाम चत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
उक्तानुवादपूर्वकमस्त्रसंस्थानतच्छक्तिस्वरूपप्रश्नः
नारदः –
विश्वास-प्रस्तुतिः - ४०-१
भगवन् देवदेवेश विश्वामरवरार्चित ।
यद्यन्मया पुरा पृष्टं तत्त्वतस्तत् तदीरितम् ॥ ४०-१ ॥
मूलम् - ४०-१
भगवन् देवदेवेश विश्वामरवरार्चित ।
यद्यन्मया पुरा पृष्टं तत्त्वतस्तत् तदीरितम् ॥ ४०-१ ॥
विश्वास-प्रस्तुतिः - ४०-२
दिव्यास्त्राणां तु सर्वेषां मन्त्ररूपाश्च मूर्तयः ।
कथिता भवता सम्यक् पृच्छतो मे सविस्तरम् ॥ ४०-२ ॥
मूलम् - ४०-२
दिव्यास्त्राणां तु सर्वेषां मन्त्ररूपाश्च मूर्तयः ।
कथिता भवता सम्यक् पृच्छतो मे सविस्तरम् ॥ ४०-२ ॥
विश्वास-प्रस्तुतिः - ४०-३
किंसंस्थानान्यथास्त्राणि किंशक्तीनि परन्तप ।
मयि सानुग्रहं चेतस्तव चेद् वक्तुमर्हसि ॥ ४०-३ ॥
मूलम् - ४०-३
किंसंस्थानान्यथास्त्राणि किंशक्तीनि परन्तप ।
मयि सानुग्रहं चेतस्तव चेद् वक्तुमर्हसि ॥ ४०-३ ॥
तदुत्तरकथनाय तेषां परमगुह्यत्वख्यापनम्
अहिर्बुध्न्यः-
तदेतत् परमं गुह्यमवाच्यमतिदुर्लभम् ।
अस्त्राणां स्वरूपेण प्रत्यक्षागोचरता
न चाविरासन्नस्त्राणि स्वस्वरूपेण कस्यचित् ॥ ४०-४ ॥
सुरासुरैर्नियुज्यन्ते मन्त्ररूपेण तानि वै ।
[[३७८]]
देवकार्यार्थमिन्द्रं प्रति कदाचित् तेषां गोचरता
एकदा वृत्रनिधने वासवस्य स्वरूपतः ॥ ४०-५ ॥
आविर्बभूवुरेतानि सुरकार्यमिदं त्विति ।
मन्त्ररूपेणासाध्ये विषये तेषां स्वस्वरूपाविष्करणम्
मन्त्रस्वरूपैश्चासाध्ये विषये स्वस्वरूपतः ॥ ४०-६ ॥
विश्वास-प्रस्तुतिः - ४०-७
आविष्कुर्वन्ति चास्त्राणि भीषणानि परं मुने ।
एषां दर्शनमात्रेण विनश्यन्त्यरिसैनिकाः ॥ ४०-७ ॥
मूलम् - ४०-७
आविष्कुर्वन्ति चास्त्राणि भीषणानि परं मुने ।
एषां दर्शनमात्रेण विनश्यन्त्यरिसैनिकाः ॥ ४०-७ ॥
भगवता तेषां स्वरूपेण धारणम्
चक्रस्वरूपी भगवांस्तानि धत्ते स्वरूपतः ।
तत्स्वरूपतच्छक्तिकथनप्रतिज्ञा
स्वरूपाणि तथा तेषां शक्तीश्च कथयामि ते ॥ ४०-८ ॥
१ - नारायणास्त्रम्
विश्वास-प्रस्तुतिः - ४०-९
शृणु नारायणास्त्रस्य स्वरूपं प्रथमं मुने ।
सहस्रधारमत्युग्रं सहस्रार्कसमप्रभम् ॥ ४०-९ ॥
मूलम् - ४०-९
शृणु नारायणास्त्रस्य स्वरूपं प्रथमं मुने ।
सहस्रधारमत्युग्रं सहस्रार्कसमप्रभम् ॥ ४०-९ ॥
तैजसं विस्तृताग्रं तन्मोहिनीकुसुमोपमम् ।
२ - पाशुपतास्त्रम्
प्रतिपच्चन्द्रसङ्काशमध्याष्टाश्रविदीपितम् ॥ ४०-१० ॥
[[३७९]]
शतधारं तडिद्दीप्तमेतत् पाशुपतं मतम् ।
३ - ब्राह्मास्त्रम्
सहस्रारसमायुक्तं विद्युत्पुञ्जोपमाकृति ॥ ४०-११ ॥
प्रस्तरप्रतिमं मुष्टिग्राह्याग्रं ब्राह्ममीरितम् ।
४ - ब्रह्मशिरोऽस्त्रम्
दंष्ट्राकरालं दष्टोष्ठं पिङ्गलाक्षं विभीषकम् ॥ ४०-१२ ॥
गृहीतपिङ्गकेशाग्रमेतद् ब्रह्मशिरो मतम् ।
५ - विष्णुचक्रास्त्रम्
विष्णुचक्रमिति ख्यातं सहस्रारं सुदर्शनम् ॥ ४०-१३ ॥
६ - जृम्भणास्त्रम्
जृम्भणं त्वष्टवक्राङ्गं दण्डमेवं विदुर्बुधाः ।
७ - कालपाशास्त्रम्
भीमाकारं पाशमेव कालपाशमिति स्मृतम् ॥ ४०-१४ ॥
८ - आग्नेयास्त्रम्
षट्कोणाग्रं ज्वलज्ज्वालमस्त्रमाग्नेयमुत्तमम् ।
९ - हयशिरोऽस्त्रम्
ज्वालाविलं वाजिवक्त्रमस्त्रं हयशिरो मतम् ॥ ४०-१५ ॥
[[३८०]]
१० - प्रस्वापनास्त्रम्
प्रस्वापनं कुवलयस्तबकस्तम्बसन्निभम् ।
११ - तामसास्त्रम्
सतोयतोयदप्रख्यं तामसास्त्रमुदीरितम् ॥ ४०-१६ ॥
१२ - कालास्त्रम्
कालास्त्रं भीषणं दण्डं षष्टिघण्टासमाकुलम् ।
१३ - दण्डचक्रास्त्रम्
आद्यन्तचक्रयुग्दण्डं दण्डचक्रमिति स्मृतम् ॥ ४०-१७ ॥
१४ - कालचक्रास्त्रम्
कालचक्रं चतुष्कोणं पर्यन्तस्थितराशिमत् ।
१५ - धर्मचक्रास्त्रम्
धर्मचक्रं सुवृत्तं स्याद् दशयज्ञायुधाङ्कितम् ॥ ४०-१८ ॥
१६ - शैवास्त्रम्
शैवं शतमुखाग्निस्तु दण्डवत् परिकीर्त्यते ।
१७ - शूलास्त्रम्
शूलं तु त्रिदलं प्रोक्तं तीक्ष्णधारं सुदण्डकम् ॥ ४०-१९ ॥
१८ - परश्वस्त्रम्
परशू रौद्रमस्त्रं च तीक्ष्णधारं भयावहम् ।
[[३८१]]
१९ - त्रिशूलास्त्रम्
शूलत्रयाङ्कितमुखं त्रिशूलं दण्डवद् भवेत् ॥ ४०-२० ॥
२० - घोरास्त्रम्
घोरं नारा च रूपं स्यादस्त्रमाहुर्मनीषिणः ।
२१ - अघोरास्त्रम्
कृष्णास्यं पिङ्गनयनं ज्वालाकेशोर्ध्वबन्धनम् ॥ ४०-२१ ॥
अघोरास्त्रमिदं प्रोक्तं नाम्ना चैवासिधारकम् ।
२२ - सम्मोहनास्त्रम्
अस्त्रं सम्मोहनं नाम कमलं नालसंयुतम् ॥ ४०-२२ ॥
२३ - ऐषीकास्त्रम्
ऐषीकं शरनालाभमस्त्रमाहुर्विचक्षणाः ।
२४ - ऐन्द्रचक्रास्त्रम्
वज्राङ्कितचतुष्कोणं नटाभममितद्युति ॥ ४०-२३ ॥
ऐन्द्रचक्राख्यमस्त्रं तत् परवैरिभयङ्करम् ।
२५ - शुष्काशन्यस्त्रम्
सदा ज्वलितसर्वाङ्गं महिषाकृति भीषणम् ॥ ४०-२४ ॥
शुष्काशनिरिदं प्रोक्तमस्त्रमङ्गारसन्निभम् ।
[[३८२]]
२६ - आर्द्राशन्यस्त्रम्
तादृशं शुक्लवर्णं तदार्द्राशनिरिति स्मृतम् ॥ ४०-२५ ॥
२७ - पैनाकास्त्रम्
पैनाकमस्त्रं परमं धनुस्तक्षकसन्निभम् ।
२८ - कङ्कालास्त्रम्
कङ्कालाख्यं भवेदस्त्रं पिशाचाकृति भीषणम् ॥ ४०-२६ ॥
२९ - कापालास्त्रम्
कपालमालिकामाहुः कापालास्त्रमनुत्तमम् ।
३० - सौरास्त्रम्
सौरमस्त्रं समाख्यातं सूर्यबिम्बपरम्परा ॥ ४०-२७ ॥
३१ - वरुणपाशास्त्रम्
अस्त्रं वरुणपाशाख्यं शीताकृति सुदारुणम् ।
३२ - सन्तापनास्त्रम्
लगुडं शङ्कुजालाढ्यं सन्तापनमिदं विदुः ॥ ४०-२८ ॥
३३ - वारुणास्त्रम्
वारुणं जालकाकारं द्वात्रिंशच्छिद्रसंयुतम् ।
[[३८४]]
३४ - धर्मपाशास्त्रम्
सर्वतत्त्वमयं दाम धर्मपाशमिति स्मृतम् ॥ ४०-२९ ॥
३५ – ३६ - शक्तिद्वयास्त्रम्
विश्वास-प्रस्तुतिः - ४०-३०
शक्तिरेका प्रसिद्धैव शक्त्यन्तरमथोच्यते ।
द्विशिरस्कैकनाला च दशघण्टाविभूषिता ॥ ४०-३० ॥
मूलम् - ४०-३०
शक्तिरेका प्रसिद्धैव शक्त्यन्तरमथोच्यते ।
द्विशिरस्कैकनाला च दशघण्टाविभूषिता ॥ ४०-३० ॥
३७ - वायव्यास्त्रम्
वायव्यमस्त्रं सारङ्गः सशृङ्ग इव पठ्यते ।
३८ - मौसलास्त्रम्
मौसलं मुसलं प्रोक्तं विद्युद्दण्डमिवोज्ज्वलम् ॥ ४०-३१ ॥
३९ - गान्धर्वास्त्रम्
गान्धर्वमस्त्रमादिष्टं वीणादण्डोपमाकृति ।
४० - दर्पणास्त्रम्
दर्पणं दर्पणं प्रोक्तमस्त्रं पूर्णेन्दुसन्निभम् ॥ ४०-३२ ॥
४१ - शोषणास्त्रम्
शोषणं विकटं शृङ्गमस्त्रं परविशोषणम् ।
४२ - पैशाचास्त्रम्
पैशाचमस्त्रं परममुल्कामुखमुदाहृतम् ॥ ४०-३३ ॥
[[३८४]]
४३ - तेजःप्रभास्त्रम्
तेजःप्रभं स्मृतं प्रासप्रतिमं परदारणम् ।
४४ - ऐन्द्रास्त्रम्
ऐन्द्रमस्त्रं वज्ररूपं तेजसां निलयं स्मृतम् ॥ ४०-३४ ॥
४५ - विलापनास्त्रम्
अस्त्रं विलापनं नाम धाराधरमुदाहृतम् ।
४६ - वैद्याधरास्त्रम्
वैद्याधरास्त्रमाहुस्तत् पुष्पमालां तु मोहिनीम् ॥ ४०-३५ ॥
४७ - कङ्कालास्त्रम्
अस्त्रं कङ्कालसञ्ज्ञं स्यान्महाघण्टानिनादितम् ।
४८ - मोदक्यस्त्रम्
मोदकी नाम परमा वल्लरी पुष्पशालिनी ॥ ४०-३६ ॥
४९ - शिखरास्त्रम्
शिखरं नाम खट्वाङ्गमायुधं परिचक्षते ।
५० - क्रौञ्चास्त्रम्
क्रौञ्चमस्त्रं महत् पक्षी क्रौञ्चाकृतिरिहोच्यते ॥ ४०-३७ ॥
[[३८५]]
५१ - असिरत्नास्त्रम्
असिरत्नाह्वयं दिव्यमस्त्रं खड्गो महाद्युतिः ।
५२ - प्रशमनास्त्रम्
अस्त्रं प्रशमनं नाम प्रोच्यते ध्वजसन्निभम् ॥ ४०-३८ ॥
५३ - कन्दर्पदयितास्त्रम्
कन्दर्पदयितं चास्त्रमिक्षुः परमशोभनम् ।
५४ - मदनास्त्रम्
मदनं चामरप्रख्यमस्त्रं परभयावहम् ॥ ४०-३९ ॥
५५ - सौमनास्त्रम्
सौमनं शिबिकाभं तदस्त्रमस्त्रविदो विदुः ।
५६ - सत्यास्त्रम्
स्थूलमुक्ताक्षमालैव सत्यास्त्रं सर्वसाधकम् ॥ ४०-४० ॥
५७ - संवर्तकास्त्रम्
अस्त्रं संवर्तकं नाम महाशङ्खः प्रकीर्त्यते ।
५८ - मायाधरास्त्रम्
मायाधराह्वयं प्राहुरस्त्रं शाखिनमेव च ॥ ४०-४१ ॥
[[३८६]]
५९ - सोमास्त्रम्
सोमास्त्रमर्धचन्द्राभं सायकं सम्प्रचक्षते ।
६० - त्वाष्ट्रास्त्रम्
त्वाष्ट्रमस्त्रं चैत्यसमं सदण्डमभिधीयते ॥ ४०-४२ ॥
६१ - शीतेष्वस्त्रम्
शीतेषुर्नाम कुम्भास्या स्रवन्ती सरिदुत्तमा ।
६२ - भगास्त्रम्
त्रिकोणं दण्डवद् विद्याद् भगास्त्रममितद्युति ॥ ४०-४३ ॥
६३ - सन्दामनास्त्रम्
सदामनं समाख्यातं चक्रं निररमुच्यते ।
६४ - सत्यवदस्त्रम्
सत्यवत् तन्महाभूतं व्यात्ताननमिदं विदुः ॥ ४०-४४ ॥
६५ - वारणास्त्रम्
वारणं नाम सर्पास्यं वारणं परमाङ्कुशम् ।
६६ - धृष्टास्त्रम्
धृष्टं कबन्धमुदरं व्यात्ताननमुदाहृतम् ॥ ४०-४५ ॥
६७ - भृशाश्वतनयास्त्रम्
भृशाश्वतनयं नाम द्विधारं क्रकचं स्मृतम् ।
[[३८७]]
६८ - सत्यकीर्त्यस्त्रम्
सत्यकीर्तिस्तु मकरो व्यात्तवक्त्रोऽभिधीयते ॥ ४०-४६ ॥
६९ - मोहास्त्रम्
मोहः सर्पशिरो व्यात्तवक्त्रमस्त्रं विदुर्बुधाः ।
७० - रभसास्त्रम्
रभसं तारसङ्काशमस्त्रं सर्वास्त्रसादनम् ॥ ४०-४७ ॥
७१ - सर्वनाभास्त्रम्
सर्वनाभाह्वयं चास्त्रं कमण्डलुरिहोच्यते ।
७२ - पराङ्मुखास्त्रम्
पराङ्मुखाह्वयं चास्त्रं पञ्चाननशिरो विदुः ॥ ४०-४८ ॥
७३ - जृम्भकास्त्रम्
जृम्भकं नाम रक्ताक्षं त्रिपञ्जरमुदीर्यते ।
७४ - प्रतिहारास्त्रम्
प्रतिहाराख्यमस्त्रं तु कुन्तः परमभास्वरः ॥ ४०-४९ ॥
७५ - अवाङ्मुखास्त्रम्
ऋक्षास्यं भूतमुद्दिष्टमवाङ्मुखसमाह्वयम् ।
[[३८८]]
७६ - धनास्त्रम्
धनाख्यमस्त्रं मुकुटसमानममितद्युति ॥ ४०-५० ॥
७७ - धान्यास्त्रम्
धान्यास्त्रमेतत् परमं शालिस्तबकबन्धनम् ।
७८ - महाभूतास्त्रम्
वृषाक्षं वृषवक्त्राङ्कं महाभूतं प्रचक्षते ॥ ४०-५१ ॥
७९ - कामरूपास्त्रम्
कामरूपं महास्त्रं तु प्रतिसूर्यकसन्निभम् ।
८० - दृढनाभास्त्रम्
दृढनाभाख्यमस्त्रं स्यान्नागो बहुफणान्वितः ॥ ४०-५२ ॥
८१ - कामरुच्यस्त्रम्
अस्त्रं कामरुचिर्नाम स्वस्तिकं परिचक्षते ।
८२ - सुनाभास्त्रम्
सुनाभं क्षुरिका तीक्ष्णा प्रोच्यतेऽस्त्रमनुत्तमम् ॥ ४०-५३ ॥
८३ - मकरास्त्रम्
मकरो नाम दिव्यास्त्रं दीपिकादण्डसन्निभम् ।
[[३८९]]
८४ - दशाक्षास्त्रम्
दशाक्षमेतज्जानीयात् कौक्षेयकमवारितम् ॥ ४०-५४ ॥
८५ - वेतालास्त्रम्
वृत्तिमन्तं चोष्ट्रमुखं वेतालमभिधीयते ।
८६ - दशवक्त्रास्त्रम्
एकस्था दशवक्त्री तु दशवक्त्रमुदाहृतम् ॥ ४०-५५ ॥
८७ - रुचिरास्त्रम्
रुचिराख्यं भवेदस्त्रं हलं परमदारुणम् ।
८८ - दशकर्णास्त्रम्
दशवर्षा काकमुखी दशकर्णमुदीर्यते ॥ ४०-५६ ॥
८९ - योगन्धरास्त्रम्
योगन्धरं दिवाभीतव्यात्तवक्त्रमिति स्मृतम् ।
९० - वारुणास्त्रम्
अमित्रघ्नं वारुणं स्यात् परास्त्रविनिवारणम् ॥ ४०-५७ ॥
९१ - अनिद्रास्त्रम्
अनिद्रमस्त्रमुन्निद्रकल्पकं कथयन्ति वै ।
[[३९०]]
९२ - कुठारास्त्रम्
भेत्तारमस्त्रमाख्यातं कुठारं परभेदनम् ॥ ४०-५८ ॥
९३ - शतोदरास्त्रम्
शतोदरास्त्रं भूतं स्याच्छतोदरसमन्वितम् ।
९४ - सौमनसास्त्रम्
अस्त्रं सौमनसं नाम जपाकुसुममञ्जरी ॥ ४०-५९ ॥
९५ - पद्मनाभास्त्रम्
पद्मनाभं महाभूतं पद्मालङ्कृतनाभिमत् ।
९६ - महानाभास्त्रम्
महानाभाख्यमस्त्रं तु बको विकटकन्धरः ॥ ४०-६० ॥
९७ - ज्यौतिषास्त्रम्
ज्यौतिषं नाम परमं विमानमभिधीयते ।
९८ - क्षेपणास्त्रम्
क्रमणं क्षेपणं प्रोक्तं परास्त्रक्रमणं महत् ॥ ४०-६१ ॥
९९ - त्रैराशिकास्त्रम्
त्रैराशिर्वानरमुखं सपक्षं नरपादवत् ।
१०० - सार्चिर्माल्यस्त्रम्
सार्चिर्मालि महाभूतमेकपाद् बहुहस्तकम् ॥ ४०-६२ ॥
[[३९१]]
१०१ - विमलास्त्रम्
विमलास्त्रमिदं विद्यात् स्फाटिकाकारडोलिकाम् ।
१०२ - धृतिकास्त्रम्
विश्वास-प्रस्तुतिः - ४०-६३
वराहसिंहमनुजकुक्कुरेभमुखैर्युतम् ।
भूतं पुराविदो ब्रूयुर्धृतिकास्त्रं सुदारुणम् ॥ ४०-६३ ॥
मूलम् - ४०-६३
वराहसिंहमनुजकुक्कुरेभमुखैर्युतम् ।
भूतं पुराविदो ब्रूयुर्धृतिकास्त्रं सुदारुणम् ॥ ४०-६३ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम्
अस्त्रस्वरूपतच्छक्तिनिरूपणं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥
आदितः श्लोकाः २५४४