सर्वफलसाधनभूतमहाभिषेकविधानं नाम
एकोनचत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
केन प्रयोगेण सर्वार्थसिद्धिरिति प्रश्नः
नारदः –
भगवन् ब्रूहि सर्वज्ञ येनैकेनैव कर्मणा ।
सर्वरोगा विनश्यन्ति केन सर्वे च शत्रवः ॥ ३९-१ ॥
केन सर्वार्थसिद्धिः स्याज्जगत् केन वशं भवेत् ।
विभूतिर्विमला केन प्राप्यते कर्मणा वद ॥ ३९-२ ॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः –
श्रूयतां चावधानेन गुह्यमेतन्महामुने ।
येनैकेन प्रयोगेण सर्वार्थाः सम्भवन्ति हि ॥ ३९-३ ॥
महाभिषेकाख्यकर्मविधिः
राज्ञश्च मन्त्रिणां चैव सर्वेषामधिकारिणाम् ।
[[३७३]]
पदात् स्वस्मादुपारोढुकामानां परमं पदम् ॥ ३९-४ ॥
अन्येषां लौकिकानां च यत् किञ्चिद् वाञ्छतां तथा ।
कार्यं महाभिषेकाख्यं कर्म सर्वार्थसाधकम् ॥ ३९-५ ॥
तदङ्गतया स्थानादिविशेषविधिः
वासुदेवालयोद्यानमण्डपे मन्दिरेऽथवा ।
समे पवित्रिततले मङ्गलाष्टकसंयुते ॥ ३९-६ ॥
विकीर्य कलमांस्तत्र नवभाराभिसम्मितान् ।
माहेन्द्रमण्डलं न्यस्य बाह्यतो जातिपुष्पकैः ॥ ३९-७ ॥
मध्ये सौदर्शनं यन्त्रमुक्तेनैव तु वर्त्मना ।
विन्यसेद् गन्धपुष्पैश्च तन्मध्ये च सुशोभनम् ॥ ३९-८ ॥
तन्मध्ये विन्यसेन्मन्त्री यन्त्रबिम्बमनुत्तमम् ।
तस्याग्रे मूलमन्त्रेण कुम्भं तन्तुपरिष्कृतम् ॥ ३९-९ ॥
आवाहयेद् गन्धतोये नवरत्नसमन्वितम् ।
चन्दनागुरुकर्पूरकाश्मीरक्षोदमण्डितम् ॥ ३९-१० ॥
अक्षतैश्च परिक्षिप्तं शुद्धक्षौमाभिवेष्टितम् ।
गन्धवत्कुसुमाकीर्णं धूपदीपसमन्वितम् ॥ ३९-११ ॥
मुखान्तरे तथा कार्ये कुम्भकुण्डे स्वलङ्कृते ।
प्रतिष्ठाप्याष्टदिग्भागे पूर्णकुम्भानलङ्कृतान् ॥ ३९-१२ ॥
आचक्रायेतिमन्त्राद्यैरग्निप्राकारकान्तकैः ।
[[३७४]]
प्रागादि विन्यसेन्मन्त्रैः प्रत्येकं पूजयेत् ततः ॥ ३९-१३ ॥
प्रागादिदिक्षु मध्ये चाग्निकुण्डविधिः
सर्वत्र कुम्भप्राग्भागेष्वग्निकुण्डानि विन्यसेत् ।
प्रासादलक्षणं कुण्डं मध्ये कुर्यात् स्वलङ्कृतम् ॥ ३९-१४ ॥
प्रागाद्यग्निकुण्डानां लक्षणकथनम्
प्राच्यां दिशि चतुष्कोणमाग्नेय्यां तु त्रिकोणकम् ।
याम्ये त्वर्धेन्दुसङ्काशं नैर्-ऋत्यां योनिसन्निभम् ॥ ३९-१५ ॥
वारुण्यां पद्मसङ्काशं वायव्यामष्टकोणकम् ।
वृत्तमुत्तरदिग्भागे चैशान्यां तु षडश्रकम् ॥ ३९-१६ ॥
दिशां होमेषु वैष्णवर्त्विग्वरणम्
वैष्णवानृत्विजश्चाष्टौ दिशां होमेषु योजयेत् ।
मध्ये तु साधको मन्त्री जुहुयाज्ज्वलितेऽनले ॥ ३९-१७ ॥
होमे द्रव्यसङ्ख्ययोर्विधिः
प्रत्येकं जुहुयादाज्यैरष्टोत्तरसहस्रकम् ।
होमे मन्त्रविधिः
सर्वत्र मूलमन्त्रेण जुहुयाद् ध्यानपूर्वकम् ॥ ३९-१८ ॥
कुम्भाभिमन्त्रणविधिः
होमान्ते देवमभ्यर्च्य सर्वकुम्भेषु साधकः ।
[[३७५]]
स्पृष्ट्वा तु ताञ्जपेन्मन्त्रं साध्यनामपुटीकृतम् ॥ ३९-१९ ॥
अष्टोत्तरसहस्रं तु सर्वत्र विधिवत् ततः ।
निवेशयेन्महायन्त्रसम्मुखं साध्यमासने ॥ ३९-२० ॥
प्रथमं प्रागादिकुम्भजलैरभिषेकः
ततो भेरीनिनादैश्च शङ्खकाहलनिस्वनैः ।
सहितं स्नापयेदेनं प्राच्याद्यैः कुम्भवारिभिः ॥ ३९-२१ ॥
ततः पूर्णकुम्भजलेनाभिषेकः
पश्चान्मध्यममादाय पूर्णकुम्भं स्वलङ्कृतम् ।
तद्वारिणाभिषिच्यान्ते मन्त्रं मन्त्रीजपेत् स्वयम् ॥ ३९-२२ ॥
यथोक्ताभिषेकेण सर्वकामावाप्तिः
ततस्तेनाभिषेकेण निर्धूताशेषकिल्बिषः ।
राजते हिमसंरोधान्निर्मुक्त इव भास्करः ॥ ३९-२३ ॥
सर्वे तमनघं कामा वृणते स्वयमेव हि ।
विना राजानमेतेन कुर्याच्चान्याभिषेचनम् ॥ ३९-२४ ॥
एवं महाभिषेके तु कृते पूर्णे महात्मना ।
यस्य यद् वाञ्छितं तस्य हस्तस्थं तन्न संशयः ॥ ३९-२५ ॥
आयुष्कामी तथायुष्यमारोग्यार्थी तदश्नुते ।
[[३७६]]
अर्थार्थी चार्थमाप्नोति पशुकामस्तथा पशून् ॥ ३९-२६ ॥
अपुत्रः पुत्रमाप्नोति निर्गुणो गुणवान् भवेत् ।
कन्यार्थी लभते कन्यां जिगीषुर्जयमश्नुते ॥ ३९-२७ ॥
स्वपदं पदहीनस्तु पदार्थी परमं पदम् ।
अन्नकामश्च बह्वन्नं यशोऽर्थी चाश्नुते यशः ॥ ३९-२८ ॥
किमत्र बहुनोक्तेन यद्यन्मनसि वर्तते ।
तत्तत् सद्यः समाप्नोति नात्र कार्या विचारणा ॥ ३९-२९ ॥
अन्ते साधकार्चनविधिः
एवं कृताभिषेकस्तु पूर्णकामोऽथ मानवः ।
सुवर्णैर्बहुरत्नैश्च वस्त्रैर्माल्यानुलेपनैः ॥ ३९-३० ॥
अर्चयेत् साधकं सम्यग् दद्याद्धेनुं सवत्सकाम् ।
तस्मै शिष्टं च यद् द्रव्यमभिषेकपरिच्छदम् ॥ ३९-३१ ॥
तच्च दद्यात् तथा पात्रीं पायसेनाभिपूरिताम् ।
ऋत्विजां ब्राह्मणानां च परितोषणविधिः
प्रत्येकं निष्कदानेन तोषयेदृत्विजोऽखिलान् ।
तर्पयेद् ब्राह्मणानन्यान् यथाशक्ति समाहितः ॥ ३९-३२ ॥
इति श्रीपञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
सर्वफलसाधनभूतमहाभिषेकविधानं नाम
एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
आदितः श्लोकाः २४८१