ज्वरादिरोगनिवृत्त्युपायविधानं नाम अष्टात्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
उक्तानुवादपूर्वकं रोगमोचनोपायप्रश्नः
नारदः –
विश्वास-प्रस्तुतिः - ३८-१
आख्यातं भवता राज्ञां परेभ्यो रक्षणं परम् ।
तथैव सर्वे सर्वज्ञ पुरुषार्थाः समीरिताः ॥ ३८-१ ॥
मूलम् - ३८-१
आख्यातं भवता राज्ञां परेभ्यो रक्षणं परम् ।
तथैव सर्वे सर्वज्ञ पुरुषार्थाः समीरिताः ॥ ३८-१ ॥
विश्वास-प्रस्तुतिः - ३८-२
तत्साधनानि चान्यच्च प्रसङ्गात् समुदीरितम् ।
इदं त्विदानीं भगवन् व्याख्याहि मम पृच्छतः ॥ ३८-२ ॥
मूलम् - ३८-२
तत्साधनानि चान्यच्च प्रसङ्गात् समुदीरितम् ।
इदं त्विदानीं भगवन् व्याख्याहि मम पृच्छतः ॥ ३८-२ ॥
विश्वास-प्रस्तुतिः - ३८-३
राज्ञां तत्सचिवानां च तथान्येषां नृणामपि ।
रोगाः क्रूरतरास्तेषां पुरुषार्थविरोधिनः ॥ ३८-३ ॥
मूलम् - ३८-३
राज्ञां तत्सचिवानां च तथान्येषां नृणामपि ।
रोगाः क्रूरतरास्तेषां पुरुषार्थविरोधिनः ॥ ३८-३ ॥
सम्भवन्ति हि तेषां तु मोचनं केन सिध्यति ।
रोगोत्पत्तितद्विनाशकारणकथनम्
अहिर्बुध्न्यः –
साधु पृष्टं मुने रोगा जायन्ते येन दुःसहाः ॥ ३८-४ ॥
शृणु येनैव नश्यन्ति तद् वक्ष्यामि तवाधुना ।
[[३६३]]
प्राकृतप्रलये एकाकिनः परमपुरुषस्य रमणाभावः
प्राकृते सर्वलोकस्य सम्प्राप्ते प्रतिसञ्चरे ॥ ३८-५ ॥
विश्वास-प्रस्तुतिः - ३८-६
ब्रह्मायुषि परिक्षीणे नष्टे स्थावरजङ्गमे ।
सर्वभूतेषु भूतादौ प्रलीनेषु महामुने ॥ ३८-६ ॥
मूलम् - ३८-६
ब्रह्मायुषि परिक्षीणे नष्टे स्थावरजङ्गमे ।
सर्वभूतेषु भूतादौ प्रलीनेषु महामुने ॥ ३८-६ ॥
विश्वास-प्रस्तुतिः - ३८-७
भूतादाविन्द्रियादौ च तैजसे महति स्थिते ।
ततो महति याते तु प्रकृतिं बुद्धिलक्षणे ॥ ३८-७ ॥
मूलम् - ३८-७
भूतादाविन्द्रियादौ च तैजसे महति स्थिते ।
ततो महति याते तु प्रकृतिं बुद्धिलक्षणे ॥ ३८-७ ॥
विश्वास-प्रस्तुतिः - ३८-८
तथा च पुरुषे तस्यां प्रलीने पञ्चविंशके ।
तस्यामपि प्रलीनायां पुरुषे पुष्करेक्षणे ॥ ३८-८ ॥
मूलम् - ३८-८
तथा च पुरुषे तस्यां प्रलीने पञ्चविंशके ।
तस्यामपि प्रलीनायां पुरुषे पुष्करेक्षणे ॥ ३८-८ ॥
विश्वास-प्रस्तुतिः - ३८-९
स एव सर्वं संहृत्य स्वस्मिन् परमपूरुषः ।
भगवान् पुण्डरीकाक्षः परमात्मा जगन्मयः ॥ ३८-९ ॥
मूलम् - ३८-९
स एव सर्वं संहृत्य स्वस्मिन् परमपूरुषः ।
भगवान् पुण्डरीकाक्षः परमात्मा जगन्मयः ॥ ३८-९ ॥
एकाकी स तदा नैव रमते स्म सनातनः ।
लीलार्थं पुनः सृष्टिः
स लीलार्थं पुनश्चेदमसृजत् पुष्करेक्षणः ॥ ३८-१० ॥
नामरूपव्याकरणम्
स पूर्वं नामरूपाणि चक्रे सर्वस्य सर्वगः ।
लीलोपकरणभूतप्रकृत्या परमात्मनो रमणम्
लीलोपकरणां देवः प्रकृतिं त्रिगुणात्मिकाम् ॥ ३८-११ ॥
मायासञ्ज्ञां पुनः सृष्ट्वा तया रेमे जनार्दनः ।
प्रकृत्या जीवपरयोः स्वरूपप्रच्छादनम्
सा तु सर्वाणि भूतानि तत्तच्छक्तिसमन्विता ॥ ३८-१२ ॥
[[३६४]]
विश्वास-प्रस्तुतिः - ३८-१३
मोदयन्ती च तन्वाना स्वस्यां भोग्यधियं तथा ।
वर्तते जीवपरयोः स्वरूपाच्छादनाय सा ॥ ३८-१३ ॥
मूलम् - ३८-१३
मोदयन्ती च तन्वाना स्वस्यां भोग्यधियं तथा ।
वर्तते जीवपरयोः स्वरूपाच्छादनाय सा ॥ ३८-१३ ॥
प्रकृतिपारवश्याज्जीवस्य संसरणम्
तया विवशमेतत्तु संसरत्यखिलं जगत् ।
प्रकृतेर्देहात्मभ्रमहेतुत्वम्
तयैव प्रथमं देहे करोत्यात्मधियं नरः ॥ ३८-१४ ॥
सैवास्वे स्वत्वधीहेतुः
ततः शरीरसम्बन्धिपुत्रादौ ममतां गतः ।
अहङ्कारममकारोत्थवासनादार्ध्यम्
ततोऽहङ्कारजास्तस्य ममतोत्थाश्च वासनाः ॥ ३८-१५ ॥
भवन्ति देहे पुत्रादौ दृढबद्धाश्चिरं मुने ।
तदुत्थवासनानां रागद्वेषद्वारा पुण्यपापहेतुत्वम्
ततः स्वदेहे पुत्रादावुपकार्यपकारिषु ॥ ३८-१६ ॥
विश्वास-प्रस्तुतिः - ३८-१७
रागद्वेषौ च भवतस्ताभ्यां सर्वं विचेष्टते ।
कपूयरमणीये च तदुत्थे सञ्चिनोत्ययम् ॥ ३८-१७ ॥
मूलम् - ३८-१७
रागद्वेषौ च भवतस्ताभ्यां सर्वं विचेष्टते ।
कपूयरमणीये च तदुत्थे सञ्चिनोत्ययम् ॥ ३८-१७ ॥
ततो जात्यायुर्भोगरूपकर्मविपाकप्राप्तिः
तद्विपाकानथाप्नोति जात्यायुर्भोगलक्षणान् ।
प्रारब्धकर्मफलोपभोगायैव शरीरसृष्टिः
अतः फलोपभोगार्थमुभयेषां च कर्मणाम् ॥ ३८-१८ ॥
[[३६५]]
प्रारब्धानामिदं सृष्टं शरीरं च शरीरिणः ।
रोगाणां पापजन्यत्वम्
पाप्मभ्य एव जायन्ते प्रारब्धेष्वामयास्तनौ ॥ ३८-१९ ॥
नानाविधा दुःखवरा भुज्यन्ते देहिनापरे ।
तत्र प्रथमं ज्वरशान्त्युपायः
ज्वराभिभूते नृपतौ सचिवेऽन्यजनेऽथवा ॥ ३८-२० ॥
विश्वास-प्रस्तुतिः - ३८-२१
महासुदर्शनं यन्त्रं कथितं मन्त्रकोविदैः ।
गुडूचीराज्यसंसिक्ताश्चतुरङ्गुलसम्मिताः ॥ ३८-२१ ॥
मूलम् - ३८-२१
महासुदर्शनं यन्त्रं कथितं मन्त्रकोविदैः ।
गुडूचीराज्यसंसिक्ताश्चतुरङ्गुलसम्मिताः ॥ ३८-२१ ॥
विश्वास-प्रस्तुतिः - ३८-२२
मन्त्रेणानेन जुहुयात् सहस्रं ज्वलितेऽनले ।
चक्राम्बुजं च विन्यस्य स्थण्डिले शालितण्डुलैः ॥ ३८-२२ ॥
मूलम् - ३८-२२
मन्त्रेणानेन जुहुयात् सहस्रं ज्वलितेऽनले ।
चक्राम्बुजं च विन्यस्य स्थण्डिले शालितण्डुलैः ॥ ३८-२२ ॥
विश्वास-प्रस्तुतिः - ३८-२३
तत्र पात्रं निधायाज्यं प्रस्थपूर्णं निधाय च ।
तस्यां पलप्रमाणेषु तन्तुष्वारोप्य दीपिकाम् ॥ ३८-२३ ॥
मूलम् - ३८-२३
तत्र पात्रं निधायाज्यं प्रस्थपूर्णं निधाय च ।
तस्यां पलप्रमाणेषु तन्तुष्वारोप्य दीपिकाम् ॥ ३८-२३ ॥
विश्वास-प्रस्तुतिः - ३८-२४
तत्राप्येनं समावाह्य मन्त्रेणानेन मन्त्रवित् ।
ततः पश्चिमभागे तु स्थण्डिले मण्डिते शुचौ ॥ ३८-२४ ॥
मूलम् - ३८-२४
तत्राप्येनं समावाह्य मन्त्रेणानेन मन्त्रवित् ।
ततः पश्चिमभागे तु स्थण्डिले मण्डिते शुचौ ॥ ३८-२४ ॥
विश्वास-प्रस्तुतिः - ३८-२५
आस्तीर्य कलमांस्तत्र न्यसेन्माहेन्द्रमण्डलम् ।
तन्मध्ये षडरं चक्रं मध्ये तारं च विन्यसेत् ॥ ३८-२५ ॥
मूलम् - ३८-२५
आस्तीर्य कलमांस्तत्र न्यसेन्माहेन्द्रमण्डलम् ।
तन्मध्ये षडरं चक्रं मध्ये तारं च विन्यसेत् ॥ ३८-२५ ॥
विश्वास-प्रस्तुतिः - ३८-२६
तन्तुजालेन संवेष्ट्य नवकुम्भं सुशोभनम् ।
चन्द्रचन्दनकाश्मीरमिश्रैरापूर्य वारिभिः ॥ ३८-२६ ॥
मूलम् - ३८-२६
तन्तुजालेन संवेष्ट्य नवकुम्भं सुशोभनम् ।
चन्द्रचन्दनकाश्मीरमिश्रैरापूर्य वारिभिः ॥ ३८-२६ ॥
तद्बहिश्चन्दनाद्यैस्तमर्चयेदक्षतैरपि ।
[[३६६]]
रत्नानि पञ्च पद्मं च दूर्वां हाटकमेव च ॥ ३८-२७ ॥
विश्वास-प्रस्तुतिः - ३८-२८
श्यामाकं विष्णुपर्णीं च देवीं चान्तर्विनिक्षिपेत् ।
मध्येकुम्भं समावेष्ट्य क्षौमेण नवमालया ॥ ३८-२८ ॥
मूलम् - ३८-२८
श्यामाकं विष्णुपर्णीं च देवीं चान्तर्विनिक्षिपेत् ।
मध्येकुम्भं समावेष्ट्य क्षौमेण नवमालया ॥ ३८-२८ ॥
विश्वास-प्रस्तुतिः - ३८-२९
तं तारमध्ये संस्थाप्य साध्यनामयुते शुभे ।
पूर्णचन्द्रमभिध्यायंस्तत्र चावाहयेत् प्रभुम् ॥ ३८-२९ ॥
मूलम् - ३८-२९
तं तारमध्ये संस्थाप्य साध्यनामयुते शुभे ।
पूर्णचन्द्रमभिध्यायंस्तत्र चावाहयेत् प्रभुम् ॥ ३८-२९ ॥
विश्वास-प्रस्तुतिः - ३८-३०
तं धूपदीपमाल्याद्यैः समभ्यर्च्य यथाविधि ।
शाल्यन्नं दधिमध्वाज्यसर्वव्यञ्जनसंयुतम् ॥ ३८-३० ॥
मूलम् - ३८-३०
तं धूपदीपमाल्याद्यैः समभ्यर्च्य यथाविधि ।
शाल्यन्नं दधिमध्वाज्यसर्वव्यञ्जनसंयुतम् ॥ ३८-३० ॥
विश्वास-प्रस्तुतिः - ३८-३१
हृद्यं साज्यं गुडं दद्याद् देवाय हविरुत्तमम् ।
बलिं ततो हरेद् दिक्षु विदिक्षु च समाहितः ॥ ३८-३१ ॥
मूलम् - ३८-३१
हृद्यं साज्यं गुडं दद्याद् देवाय हविरुत्तमम् ।
बलिं ततो हरेद् दिक्षु विदिक्षु च समाहितः ॥ ३८-३१ ॥
विश्वास-प्रस्तुतिः - ३८-३२
शाल्यन्नैः श्वेतपुष्पैश्च धूपदीपादिभिस्तथा ।
दिक्पालानां ततो दद्यात् क्षेत्रेशायापि नारद ॥ ३८-३२ ॥
मूलम् - ३८-३२
शाल्यन्नैः श्वेतपुष्पैश्च धूपदीपादिभिस्तथा ।
दिक्पालानां ततो दद्यात् क्षेत्रेशायापि नारद ॥ ३८-३२ ॥
विश्वास-प्रस्तुतिः - ३८-३३
आसने प्राङ्मुखं साध्यमुपवेश्याथ सज्वरम् ।
दर्पणं तस्य संस्थाप्य पुरस्तात् प्रतिबिम्बितम् ॥ ३८-३३ ॥
मूलम् - ३८-३३
आसने प्राङ्मुखं साध्यमुपवेश्याथ सज्वरम् ।
दर्पणं तस्य संस्थाप्य पुरस्तात् प्रतिबिम्बितम् ॥ ३८-३३ ॥
विश्वास-प्रस्तुतिः - ३८-३४
कुम्भमादाय मन्त्रेण दर्पणं सोऽभिषेचयेत् ।
सद्य एव ज्वरान्मुक्तो भवेन्मेघादिवोडुराट् ॥ ३८-३४ ॥
मूलम् - ३८-३४
कुम्भमादाय मन्त्रेण दर्पणं सोऽभिषेचयेत् ।
सद्य एव ज्वरान्मुक्तो भवेन्मेघादिवोडुराट् ॥ ३८-३४ ॥
विश्वास-प्रस्तुतिः - ३८-३५
अथ द्विजेभ्यो विद्वद्भ्यो वैष्णवेभ्यो विशेषतः ।
निष्कत्रयं हिरण्यस्य द्रोणं चाज्यस्य गां तथा ॥ ३८-३५ ॥
मूलम् - ३८-३५
अथ द्विजेभ्यो विद्वद्भ्यो वैष्णवेभ्यो विशेषतः ।
निष्कत्रयं हिरण्यस्य द्रोणं चाज्यस्य गां तथा ॥ ३८-३५ ॥
विश्वास-प्रस्तुतिः - ३८-३६
कर्पूरं चन्दनं चापि वासांसि विमलान्यपि ।
एतानि दद्यादेकस्मै मुने ब्रह्मविदेऽथवा ॥ ३८-३६ ॥
मूलम् - ३८-३६
कर्पूरं चन्दनं चापि वासांसि विमलान्यपि ।
एतानि दद्यादेकस्मै मुने ब्रह्मविदेऽथवा ॥ ३८-३६ ॥
[[३६७]]
विश्वास-प्रस्तुतिः - ३८-३७
ततः स्वस्थो भवेत् सद्यो यावज्जीवं न संशयः ।
एषा चिकित्सा प्रकृतिर्व्याधीनां मात्रया भिदा ॥ ३८-३७ ॥
मूलम् - ३८-३७
ततः स्वस्थो भवेत् सद्यो यावज्जीवं न संशयः ।
एषा चिकित्सा प्रकृतिर्व्याधीनां मात्रया भिदा ॥ ३८-३७ ॥
राजयक्ष्मशान्तिः
विश्वास-प्रस्तुतिः - ३८-३८
राजयक्ष्माभिभूते तु नृपादौ मुनिसत्तम ।
मध्वक्ताभिरपामार्गसमिद्भिः खादिरेऽनले ॥ ३८-३८ ॥
मूलम् - ३८-३८
राजयक्ष्माभिभूते तु नृपादौ मुनिसत्तम ।
मध्वक्ताभिरपामार्गसमिद्भिः खादिरेऽनले ॥ ३८-३८ ॥
विश्वास-प्रस्तुतिः - ३८-३९
मन्त्रेणानेन जुहुयात् सहस्रं मन्त्रवित्तमः ।
ततः प्रतीच्ये दिग्भागे पूर्ववत् कल्पितेऽनले ॥ ३८-३९ ॥
मूलम् - ३८-३९
मन्त्रेणानेन जुहुयात् सहस्रं मन्त्रवित्तमः ।
ततः प्रतीच्ये दिग्भागे पूर्ववत् कल्पितेऽनले ॥ ३८-३९ ॥
विश्वास-प्रस्तुतिः - ३८-४०
आढकाज्याभिपूर्णायां पात्र्यां द्विपलतन्तुषु ।
आरोप्य दीपिकां पश्चाद् देवमावाह्य मन्त्रतः ॥ ३८-४० ॥
मूलम् - ३८-४०
आढकाज्याभिपूर्णायां पात्र्यां द्विपलतन्तुषु ।
आरोप्य दीपिकां पश्चाद् देवमावाह्य मन्त्रतः ॥ ३८-४० ॥
विश्वास-प्रस्तुतिः - ३८-४१
ततः पाश्चात्त्यभागे तु भारशालिपरिष्कृते ।
स्थण्डिले मण्डिते शुद्धे कृत्वा माहेन्द्रमण्डलम् ॥ ३८-४१ ॥
मूलम् - ३८-४१
ततः पाश्चात्त्यभागे तु भारशालिपरिष्कृते ।
स्थण्डिले मण्डिते शुद्धे कृत्वा माहेन्द्रमण्डलम् ॥ ३८-४१ ॥
विश्वास-प्रस्तुतिः - ३८-४२
पूर्ववत् षडरं चक्रं विन्यस्यारेष्वमुष्य च ।
मन्त्रवर्णानि विन्यस्य साध्यनाम च तारके ॥ ३८-४२ ॥
मूलम् - ३८-४२
पूर्ववत् षडरं चक्रं विन्यस्यारेष्वमुष्य च ।
मन्त्रवर्णानि विन्यस्य साध्यनाम च तारके ॥ ३८-४२ ॥
विश्वास-प्रस्तुतिः - ३८-४३
पूर्ववन्मन्त्रितं कुम्भं तत्र संस्थाप्य मण्डले ।
आवाह्य देवमभ्यर्च्य पूर्ववच्चक्ररूपिणम् ॥ ३८-४३ ॥
मूलम् - ३८-४३
पूर्ववन्मन्त्रितं कुम्भं तत्र संस्थाप्य मण्डले ।
आवाह्य देवमभ्यर्च्य पूर्ववच्चक्ररूपिणम् ॥ ३८-४३ ॥
विश्वास-प्रस्तुतिः - ३८-४४
हविश्च पायसं दद्यात् खण्डमध्वाज्यसंयुतम् ।
बलिं च पूर्ववत् कुर्यात् पायसेन विशेषतः ॥ ३८-४४ ॥
मूलम् - ३८-४४
हविश्च पायसं दद्यात् खण्डमध्वाज्यसंयुतम् ।
बलिं च पूर्ववत् कुर्यात् पायसेन विशेषतः ॥ ३८-४४ ॥
विश्वास-प्रस्तुतिः - ३८-४५
गुरुक्षेत्रेशविघ्नेशदुर्गादिक्पालकान् प्रति ।
प्रावृत्य कम्बलेनैनं साध्यं प्राङ्मुखमासने ॥ ३८-४५ ॥
मूलम् - ३८-४५
गुरुक्षेत्रेशविघ्नेशदुर्गादिक्पालकान् प्रति ।
प्रावृत्य कम्बलेनैनं साध्यं प्राङ्मुखमासने ॥ ३८-४५ ॥
[[३६८]]
विश्वास-प्रस्तुतिः - ३८-४६
आसीनं मन्त्रतः कुम्भवारिभिश्चाभिषेचयेत् ।
अन्वहं दर्पणाविष्टं स्नापयेच्छायया पुनः ॥ ३८-४६ ॥
मूलम् - ३८-४६
आसीनं मन्त्रतः कुम्भवारिभिश्चाभिषेचयेत् ।
अन्वहं दर्पणाविष्टं स्नापयेच्छायया पुनः ॥ ३८-४६ ॥
विश्वास-प्रस्तुतिः - ३८-४७
निष्कद्वयं हिरण्यस्य द्विनिष्कं रजतं तथा ।
कम्बलं स्वधृतं वस्त्रं तिलानां द्रोणमेव च ॥ ३८-४७ ॥
मूलम् - ३८-४७
निष्कद्वयं हिरण्यस्य द्विनिष्कं रजतं तथा ।
कम्बलं स्वधृतं वस्त्रं तिलानां द्रोणमेव च ॥ ३८-४७ ॥
विश्वास-प्रस्तुतिः - ३८-४८
कमण्डलुं कांस्यपात्रं छत्रं चोपानहौ तथा ।
एकस्मै ब्राह्मणायैव विदुषे चास्तिकाय वै ॥ ३८-४८ ॥
मूलम् - ३८-४८
कमण्डलुं कांस्यपात्रं छत्रं चोपानहौ तथा ।
एकस्मै ब्राह्मणायैव विदुषे चास्तिकाय वै ॥ ३८-४८ ॥
विश्वास-प्रस्तुतिः - ३८-४९
दद्यादेतानि सर्वाणि सर्वसत्कारपूर्वकम् ।
प्रयोक्तारं धनैरेवमभ्यर्च्य प्रयतो भवेत् ॥ ३८-४९ ॥
मूलम् - ३८-४९
दद्यादेतानि सर्वाणि सर्वसत्कारपूर्वकम् ।
प्रयोक्तारं धनैरेवमभ्यर्च्य प्रयतो भवेत् ॥ ३८-४९ ॥
सद्यस्तस्मान्महारोगाद् विमुक्तो नात्र संशयः ।
प्रमेहरोगशान्तिः
एवं प्रमेहरोगेण गृहीते च महामुने ॥ ३८-५० ॥
विश्वास-प्रस्तुतिः - ३८-५१
सहस्रं जुहुयान्मन्त्री मन्त्रेणानेन बैल्वकैः ।
माषौदनं हविर्दद्याद् बलिं चानेन कारयेत् ॥ ३८-५१ ॥
मूलम् - ३८-५१
सहस्रं जुहुयान्मन्त्री मन्त्रेणानेन बैल्वकैः ।
माषौदनं हविर्दद्याद् बलिं चानेन कारयेत् ॥ ३८-५१ ॥
विश्वास-प्रस्तुतिः - ३८-५२
अभिषेकं स्वयं कुर्यादन्यत् पूर्ववदाचरेत् ।
दद्याद् द्रोणं च माषाणां रजतं पञ्चनिष्ककम् ॥ ३८-५२ ॥
मूलम् - ३८-५२
अभिषेकं स्वयं कुर्यादन्यत् पूर्ववदाचरेत् ।
दद्याद् द्रोणं च माषाणां रजतं पञ्चनिष्ककम् ॥ ३८-५२ ॥
एकं चानडुहं सद्यो नीरोगः स्यान्महामुने ।
उदररोगशान्तिः
तथौदरैर्महारोगैर्गुल्मशूलादिभिश्चिरम् ॥ ३८-५३ ॥
विश्वास-प्रस्तुतिः - ३८-५४
अभिभूतेषु मर्त्येषु वक्ष्ये प्रतिविधिं शृणु ।
पूर्ववत् कुम्भमभ्यर्च्य सुदर्शननिषेवितम् ॥ ३८-५४ ॥
मूलम् - ३८-५४
अभिभूतेषु मर्त्येषु वक्ष्ये प्रतिविधिं शृणु ।
पूर्ववत् कुम्भमभ्यर्च्य सुदर्शननिषेवितम् ॥ ३८-५४ ॥
[[३६९]]
विश्वास-प्रस्तुतिः - ३८-५५
तत्पूर्वभागे प्रज्वाल्य ज्वलनं कुण्डमध्यमे ।
समिद्भिरार्कैर्जुहुयादाज्याक्तैर्द्विसहस्रकम् ॥ ३८-५५ ॥
मूलम् - ३८-५५
तत्पूर्वभागे प्रज्वाल्य ज्वलनं कुण्डमध्यमे ।
समिद्भिरार्कैर्जुहुयादाज्याक्तैर्द्विसहस्रकम् ॥ ३८-५५ ॥
विश्वास-प्रस्तुतिः - ३८-५६
तिलैश्च जुहुयात् तद्वन्मन्त्रेणानेन मन्त्रवित् ।
ततः कुम्भोदकं स्पृष्ट्वा सहस्रं च जपेन्मनुम् ॥ ३८-५६ ॥
मूलम् - ३८-५६
तिलैश्च जुहुयात् तद्वन्मन्त्रेणानेन मन्त्रवित् ।
ततः कुम्भोदकं स्पृष्ट्वा सहस्रं च जपेन्मनुम् ॥ ३८-५६ ॥
विश्वास-प्रस्तुतिः - ३८-५७
ततो हरेद् बलिं मन्त्री दिक्पालानां यथाक्रमम् ।
भूतप्रेतपिशाचानां क्षेत्रेशस्यापि नारद ॥ ३८-५७ ॥
मूलम् - ३८-५७
ततो हरेद् बलिं मन्त्री दिक्पालानां यथाक्रमम् ।
भूतप्रेतपिशाचानां क्षेत्रेशस्यापि नारद ॥ ३८-५७ ॥
शुक्लौदनैः शुक्लपुष्पैः
पिष्टैः शुक्लध्वजैरपि ।
कुम्भाधिवासितं देवं
पूजयेद् विधिवत् ततः ॥ ३८-५८ ॥
विश्वास-प्रस्तुतिः - ३८-५९
हविर्निवेदयेच्छुद्धैरोदनैः कल्पितं बहु ।
शर्करामधुदध्याढ्यं सर्वव्यञ्जनसंयुतम् ॥ ३८-५९ ॥
मूलम् - ३८-५९
हविर्निवेदयेच्छुद्धैरोदनैः कल्पितं बहु ।
शर्करामधुदध्याढ्यं सर्वव्यञ्जनसंयुतम् ॥ ३८-५९ ॥
विश्वास-प्रस्तुतिः - ३८-६०
ततः कुम्भोदकं किञ्चिदादायानेन मन्त्रितम् ।
पाययेद्रोगिणं मन्त्री मन्त्रोच्चारणपूर्वकम् ॥ ३८-६० ॥
मूलम् - ३८-६०
ततः कुम्भोदकं किञ्चिदादायानेन मन्त्रितम् ।
पाययेद्रोगिणं मन्त्री मन्त्रोच्चारणपूर्वकम् ॥ ३८-६० ॥
ततः कुम्भोदकेनैव
प्राङ्मुखं स्नापयेद् बुधः ।
तर्पयेद् ब्राह्मणान् सप्त
यथाशक्ति समाहितः ॥ ३८-६१ ॥
विश्वास-प्रस्तुतिः - ३८-६२
गुरुं बहुधनैर्वस्त्रैर्भूषणैर्धान्यराशिभिः ।
सर्वे तस्यौदरा रोगा विनश्यन्ति न संशयः ॥ ३८-६२ ॥
मूलम् - ३८-६२
गुरुं बहुधनैर्वस्त्रैर्भूषणैर्धान्यराशिभिः ।
सर्वे तस्यौदरा रोगा विनश्यन्ति न संशयः ॥ ३८-६२ ॥
ततः स्वस्थो भवेन्मर्त्यो देववन्मोदतेऽनिशम् ।
[[३७०]]
अपस्मारशान्तिः
अपस्माराभिभूते तु नरे प्रतिविधिं शृणु ॥ ३८-६३ ॥
विश्वास-प्रस्तुतिः - ३८-६४
भूतले गोमयालिप्ते समे मङ्गलसंयुते ।
तिलभारद्वयं तत्र प्रस्तीर्य चतुरश्रकम् ॥ ३८-६४ ॥
मूलम् - ३८-६४
भूतले गोमयालिप्ते समे मङ्गलसंयुते ।
तिलभारद्वयं तत्र प्रस्तीर्य चतुरश्रकम् ॥ ३८-६४ ॥
विश्वास-प्रस्तुतिः - ३८-६५
द्विहस्तसम्मितं तत्र यन्त्रं सौदर्शनं न्यसेत् ।
पूर्वोक्तेन प्रकारेण विनैवाखिलमूर्तिभिः ॥ ३८-६५ ॥
मूलम् - ३८-६५
द्विहस्तसम्मितं तत्र यन्त्रं सौदर्शनं न्यसेत् ।
पूर्वोक्तेन प्रकारेण विनैवाखिलमूर्तिभिः ॥ ३८-६५ ॥
विश्वास-प्रस्तुतिः - ३८-६६
सुदर्शनं नृसिंहं च विना मन्त्राभिसंहितम् ।
सौदर्शनं महायन्त्रं मध्ये पूर्वोक्तवर्त्मना ॥ ३८-६६ ॥
मूलम् - ३८-६६
सुदर्शनं नृसिंहं च विना मन्त्राभिसंहितम् ।
सौदर्शनं महायन्त्रं मध्ये पूर्वोक्तवर्त्मना ॥ ३८-६६ ॥
विश्वास-प्रस्तुतिः - ३८-६७
प्रणिधायोदकुम्भं तु तन्तुभिः परिवेष्टितम् ।
पूर्वोक्तद्रव्यसंयुक्तं कम्बलेनाभिवेष्टितम् ॥ ३८-६७ ॥
मूलम् - ३८-६७
प्रणिधायोदकुम्भं तु तन्तुभिः परिवेष्टितम् ।
पूर्वोक्तद्रव्यसंयुक्तं कम्बलेनाभिवेष्टितम् ॥ ३८-६७ ॥
विश्वास-प्रस्तुतिः - ३८-६८
पूर्वेण मण्डलं वह्निं निधाय विधिवत् ततः ।
अनेन मनुना कुर्याद् द्विसहस्रं तिलाहुतीः ॥ ३८-६८ ॥
मूलम् - ३८-६८
पूर्वेण मण्डलं वह्निं निधाय विधिवत् ततः ।
अनेन मनुना कुर्याद् द्विसहस्रं तिलाहुतीः ॥ ३८-६८ ॥
विश्वास-प्रस्तुतिः - ३८-६९
ततः कुम्भं स्पृशन्मन्त्रमष्टोत्तरसहस्रकम् ।
जपेन्मन्त्राभिपूतेन वारिणानेन मन्त्रवित् ॥ ३८-६९ ॥
मूलम् - ३८-६९
ततः कुम्भं स्पृशन्मन्त्रमष्टोत्तरसहस्रकम् ।
जपेन्मन्त्राभिपूतेन वारिणानेन मन्त्रवित् ॥ ३८-६९ ॥
विश्वास-प्रस्तुतिः - ३८-७०
ग्रहाभिभूतमासीनं प्राङ्मुखं चाभिषेचयेत् ।
ततो मुक्तग्रहस्तेन क्षणेनैव सुखी भवेत् ॥ ३८-७० ॥
मूलम् - ३८-७०
ग्रहाभिभूतमासीनं प्राङ्मुखं चाभिषेचयेत् ।
ततो मुक्तग्रहस्तेन क्षणेनैव सुखी भवेत् ॥ ३८-७० ॥
विश्वास-प्रस्तुतिः - ३८-७१
सर्वे चान्ये ग्रहास्तं तु न क्षमन्ते हि वीक्षितुम् ।
धनधान्यैश्च वासोभिः स गुरुं पूजयेत् ततः ॥ ३८-७१ ॥
मूलम् - ३८-७१
सर्वे चान्ये ग्रहास्तं तु न क्षमन्ते हि वीक्षितुम् ।
धनधान्यैश्च वासोभिः स गुरुं पूजयेत् ततः ॥ ३८-७१ ॥
[[३७१]]
विश्वास-प्रस्तुतिः - ३८-७२
यस्मिन् यन्त्रे तु यद् द्रव्यं तच्च तस्मै निवेदयेत् ।
ब्राह्मणांस्तर्पयेत् पश्चादष्टौ तिलसुवर्णकैः ॥ ३८-७२ ॥
मूलम् - ३८-७२
यस्मिन् यन्त्रे तु यद् द्रव्यं तच्च तस्मै निवेदयेत् ।
ब्राह्मणांस्तर्पयेत् पश्चादष्टौ तिलसुवर्णकैः ॥ ३८-७२ ॥
विश्वास-प्रस्तुतिः - ३८-७३
रजतैश्चापि महिषीं साधकाय निवेदयेत् ।
ततः स्वस्थो भवेन्मर्त्यो देववन्मोदते भुवि ॥ ३८-७३ ॥
मूलम् - ३८-७३
रजतैश्चापि महिषीं साधकाय निवेदयेत् ।
ततः स्वस्थो भवेन्मर्त्यो देववन्मोदते भुवि ॥ ३८-७३ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
ज्वरादिरोगनिवृत्त्युपायविधानं नाम अष्टात्रिंशोऽध्यायः ॥ ३८ ॥
आदितः श्लोकाः २४४९