न्यासापरपर्यायप्रपत्तिनिरूपणं नाम
सप्तत्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
उक्तानुवादपूर्वकं सुदर्शनस्य
षोडशभुजत्वप्रयोजनादिप्रश्नः
नारदः –
विश्वास-प्रस्तुतिः - ३७-१
आख्यातं भवता सर्वं भगवन् परमेश्वर ।
सौदर्शनस्य यन्त्रस्य मन्त्रस्य स्वस्य च प्रभो ॥ ३७-१ ॥
मूलम् - ३७-१
आख्यातं भवता सर्वं भगवन् परमेश्वर ।
सौदर्शनस्य यन्त्रस्य मन्त्रस्य स्वस्य च प्रभो ॥ ३७-१ ॥
विश्वास-प्रस्तुतिः - ३७-२
अस्त्राणां चापि माहात्म्यं स्वरूपं लक्षणं तथा ।
आराधनं च योगश्च स्वभावश्च विशेषतः ॥ ३७-२ ॥
मूलम् - ३७-२
अस्त्राणां चापि माहात्म्यं स्वरूपं लक्षणं तथा ।
आराधनं च योगश्च स्वभावश्च विशेषतः ॥ ३७-२ ॥
विश्वास-प्रस्तुतिः - ३७-३
भुजैः षोडशभिर्वेति प्रोक्तं रूपोपवर्णने ।
तत् कदा केन कर्तव्यं किमर्थं कीदृशं वद ॥ ३७-३ ॥
मूलम् - ३७-३
भुजैः षोडशभिर्वेति प्रोक्तं रूपोपवर्णने ।
तत् कदा केन कर्तव्यं किमर्थं कीदृशं वद ॥ ३७-३ ॥
राज्ञामत्याहितादिनिवारणं षोडशभुजत्वस्य प्रयोजनम्
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ३७-४
परैरभिभवे प्राप्ते राज्ञां बलसमन्वितैः ।
नगरेषु प्रदग्धेषु राज्ञां विद्राविते बले ॥ ३७-४ ॥
मूलम् - ३७-४
परैरभिभवे प्राप्ते राज्ञां बलसमन्वितैः ।
नगरेषु प्रदग्धेषु राज्ञां विद्राविते बले ॥ ३७-४ ॥
[[३५४]]
विश्वास-प्रस्तुतिः - ३७-५
उपरुद्धेषु भोगेषु तत्तद्विषयवासिनाम् ।
पीड्यमाने परबलैरित्थं राष्ट्रे महामुने ॥ ३७-५ ॥
मूलम् - ३७-५
उपरुद्धेषु भोगेषु तत्तद्विषयवासिनाम् ।
पीड्यमाने परबलैरित्थं राष्ट्रे महामुने ॥ ३७-५ ॥
विश्वास-प्रस्तुतिः - ३७-६
स्थितावनुपपन्नायां राज्ञोऽव्युच्छिन्नवैरिणः ।
कारयेत् षोडशभुजं सुदर्शनमवारितम् ॥ ३७-६ ॥
मूलम् - ३७-६
स्थितावनुपपन्नायां राज्ञोऽव्युच्छिन्नवैरिणः ।
कारयेत् षोडशभुजं सुदर्शनमवारितम् ॥ ३७-६ ॥
षोडशभुजसुदर्शनविग्रहवर्णनम्
विश्वास-प्रस्तुतिः - ३७-७
अपारमपरिच्छेद्यमवाङ्मनसगोचरम् ।
रक्तवर्णमुदाराङ्गं पीतकौशेयवाससम् ॥ ३७-७ ॥
मूलम् - ३७-७
अपारमपरिच्छेद्यमवाङ्मनसगोचरम् ।
रक्तवर्णमुदाराङ्गं पीतकौशेयवाससम् ॥ ३७-७ ॥
विश्वास-प्रस्तुतिः - ३७-८
विद्युत्पुञ्जप्रतीकाशैः केशैरूर्ध्वमुखैर्युतम् ।
पिङ्गलाघूर्णमानोग्रनेत्रत्रितयभीषणम् ॥ ३७-८ ॥
मूलम् - ३७-८
विद्युत्पुञ्जप्रतीकाशैः केशैरूर्ध्वमुखैर्युतम् ।
पिङ्गलाघूर्णमानोग्रनेत्रत्रितयभीषणम् ॥ ३७-८ ॥
विश्वास-प्रस्तुतिः - ३७-९
दष्टाधरस्फुटालक्ष्यदंष्ट्रानिष्ठ्यूतपावकम् ।
क्वणत्किङ्किणिजालेन काञ्चीदाम्ना विराजितम् ॥ ३७-९ ॥
मूलम् - ३७-९
दष्टाधरस्फुटालक्ष्यदंष्ट्रानिष्ठ्यूतपावकम् ।
क्वणत्किङ्किणिजालेन काञ्चीदाम्ना विराजितम् ॥ ३७-९ ॥
विश्वास-प्रस्तुतिः - ३७-१०
नितम्बलम्बिनोपेतं ज्वलत्कौक्षेयकेण च ।
दधानं किङ्किणीमालां त्वलिमालानिनादिताम् ॥ ३७-१० ॥
मूलम् - ३७-१०
नितम्बलम्बिनोपेतं ज्वलत्कौक्षेयकेण च ।
दधानं किङ्किणीमालां त्वलिमालानिनादिताम् ॥ ३७-१० ॥
विश्वास-प्रस्तुतिः - ३७-११
आपादलम्बिनीं दिव्यां मुक्तारत्नाचितां तथा ।
झणज्झणितमञ्जीरशोभमानपदाम्बुजम् ॥ ३७-११ ॥
मूलम् - ३७-११
आपादलम्बिनीं दिव्यां मुक्तारत्नाचितां तथा ।
झणज्झणितमञ्जीरशोभमानपदाम्बुजम् ॥ ३७-११ ॥
विश्वास-प्रस्तुतिः - ३७-१२
हारकेयूरताटङ्कमुकुटैरुपशोभितम् ।
अन्यैर्मणिमयैश्चित्रैर्भूषणैः समलङ्कृतम् ॥ ३७-१२ ॥
मूलम् - ३७-१२
हारकेयूरताटङ्कमुकुटैरुपशोभितम् ।
अन्यैर्मणिमयैश्चित्रैर्भूषणैः समलङ्कृतम् ॥ ३७-१२ ॥
विश्वास-प्रस्तुतिः - ३७-१३
क्रमेण चक्रपरशुकुन्तदण्डाङ्कुशानि च ।
शस्त्राणि शतवक्त्राणि खड्गशक्ती च बिभ्रतम् ॥ ३७-१३ ॥
मूलम् - ३७-१३
क्रमेण चक्रपरशुकुन्तदण्डाङ्कुशानि च ।
शस्त्राणि शतवक्त्राणि खड्गशक्ती च बिभ्रतम् ॥ ३७-१३ ॥
[[३५५]]
विश्वास-प्रस्तुतिः - ३७-१४
करैरूर्ध्वमुखैर्दीर्घैर्दक्षिणैरष्टभिः परैः ।
वामैः शङ्खधनुःपाशहलवज्राणि च क्रमात् ॥ ३७-१४ ॥
मूलम् - ३७-१४
करैरूर्ध्वमुखैर्दीर्घैर्दक्षिणैरष्टभिः परैः ।
वामैः शङ्खधनुःपाशहलवज्राणि च क्रमात् ॥ ३७-१४ ॥
विश्वास-प्रस्तुतिः - ३७-१५
गदामुसलशूलानि भीमान्येतानि बिभ्रतम् ।
स्वसमाश्रितशत्रूत्थक्रोधेन महतावृतम् ॥ ३७-१५ ॥
मूलम् - ३७-१५
गदामुसलशूलानि भीमान्येतानि बिभ्रतम् ।
स्वसमाश्रितशत्रूत्थक्रोधेन महतावृतम् ॥ ३७-१५ ॥
विश्वास-प्रस्तुतिः - ३७-१६
भुग्नभ्रूकुटिलं वक्त्रं धारयन्तं विभीषणम् ।
प्रत्यालीढविशेषेण तिष्ठन्तं दीप्तिमालिनम् ॥ ३७-१६ ॥
मूलम् - ३७-१६
भुग्नभ्रूकुटिलं वक्त्रं धारयन्तं विभीषणम् ।
प्रत्यालीढविशेषेण तिष्ठन्तं दीप्तिमालिनम् ॥ ३७-१६ ॥
कालाग्निरुद्ररूपेण संहरन्तमिदं जगत् ।
यथोक्तसुदर्शनध्यानस्य निःसापत्न्यसाधनता
एवं सुदर्शनं ध्यायेत् कालात्मानं महाद्युतिम् ॥ ३७-१७ ॥
विश्वास-प्रस्तुतिः - ३७-१८
राजा तद्ध्यानमात्रेण निःसपत्नो भवेत् क्षणात् ।
न क्वाप्युपस्थितिस्तेषां सपत्नानां महीतले ॥ ३७-१८ ॥
मूलम् - ३७-१८
राजा तद्ध्यानमात्रेण निःसपत्नो भवेत् क्षणात् ।
न क्वाप्युपस्थितिस्तेषां सपत्नानां महीतले ॥ ३७-१८ ॥
नश्यन्ति शत्रवस्तत्र यत्र यत्र च विद्रुताः ।
सुदर्शनमनाराधयतां राज्ञां शत्रुपराभवादिः
एवमेनमनाराध्य राजानोऽमितविक्रमाः ॥ ३७-१९ ॥
सपत्नैरभिभूयन्ते निःश्रीकाश्च भवन्ति वै ।
योगेन न्यासेन वा सुदर्शनाराधनस्यैहिकामुष्मिकफलसाधनता
य एनं पूजयेद्भक्त्या पूर्वोक्तेनैव वर्त्मना ॥ ३७-२० ॥
विश्वास-प्रस्तुतिः - ३७-२१
बाह्येन चान्तरेणापि योगाख्येन महामुने ।
न्यासेन वा सुखी सोऽत्र परत्र च न संशयः ॥ ३७-२१ ॥
मूलम् - ३७-२१
बाह्येन चान्तरेणापि योगाख्येन महामुने ।
न्यासेन वा सुखी सोऽत्र परत्र च न संशयः ॥ ३७-२१ ॥
[[३५६]]
उक्तानुवादपूर्वकं न्यासाख्यप्रपत्तिस्वरूपप्रश्नः
नारदः –
विश्वास-प्रस्तुतिः - ३७-२२
बाह्य आभ्यन्तरश्चापि मम योगः पुरोदितः ।
न्यासाख्यं साधनं प्रोक्तं तन्मे ब्रूहि महेश्वर ॥ ३७-२२ ॥
मूलम् - ३७-२२
बाह्य आभ्यन्तरश्चापि मम योगः पुरोदितः ।
न्यासाख्यं साधनं प्रोक्तं तन्मे ब्रूहि महेश्वर ॥ ३७-२२ ॥
न्यासस्य परमरहस्यत्वख्यापनम्
अहिर्बुध्न्यः –
विश्वास-प्रस्तुतिः - ३७-२३
एतन्महोपनिषदं देवानां गुह्यमुत्तमम् ।
अभीष्टार्थप्रदं सद्यः सर्वपापप्रणाशनम् ॥ ३७-२३ ॥
मूलम् - ३७-२३
एतन्महोपनिषदं देवानां गुह्यमुत्तमम् ।
अभीष्टार्थप्रदं सद्यः सर्वपापप्रणाशनम् ॥ ३७-२३ ॥
विश्वास-प्रस्तुतिः - ३७-२४
अवाच्यमेतत् सर्वस्मै नाभक्ताय कदाचन ।
भक्तोऽसि मे स्थिरश्चेति वक्ष्यामि हितकाम्यया ॥ ३७-२४ ॥
मूलम् - ३७-२४
अवाच्यमेतत् सर्वस्मै नाभक्ताय कदाचन ।
भक्तोऽसि मे स्थिरश्चेति वक्ष्यामि हितकाम्यया ॥ ३७-२४ ॥
न्यासस्य सर्वफलसाधनत्वोपपादनम्
विश्वास-प्रस्तुतिः - ३७-२५
यद्येन कामकामेन नासाद्यं साधनान्तरैः ।
मुमुक्षुणा यत् साङ्ख्येन योगेन न च भक्तितः ॥ ३७-२५ ॥
मूलम् - ३७-२५
यद्येन कामकामेन नासाद्यं साधनान्तरैः ।
मुमुक्षुणा यत् साङ्ख्येन योगेन न च भक्तितः ॥ ३७-२५ ॥
विश्वास-प्रस्तुतिः - ३७-२६
प्राप्यते परमं धाम यतो नावर्तते पुनः ।
तेन तेनाप्यते तत्तन्न्यासेनैव महामुने ॥ ३७-२६ ॥
मूलम् - ३७-२६
प्राप्यते परमं धाम यतो नावर्तते पुनः ।
तेन तेनाप्यते तत्तन्न्यासेनैव महामुने ॥ ३७-२६ ॥
परमात्मा च तेनैव साध्यते पुरुषोत्तमः ।
प्रपत्तेः षडङ्गानि
षोढा हि वेदविदुषो वदन्त्येनं महामुने ॥ ३७-२७ ॥
[[३५७]]
विश्वास-प्रस्तुतिः - ३७-२८
आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ ३७-२८ ॥
मूलम् - ३७-२८
आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ ३७-२८ ॥
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ।
न्यासप्रकरणे शरणशब्दस्य साधनवाचित्वम्
उपाये गृहरक्षित्रोः
शब्दः शरणमित्ययम् ॥ ३७-२९ ॥
वर्तते साम्प्रतं चैष
उपायार्थैकवाचकः ।
प्रपत्तिलक्षणम्
अहमस्म्य् अपराधानाम्
आलयो ऽकिञ्चनोऽगतिः ॥ ३७-३० ॥
त्वम् एवोपायभूतो मे
भवेति प्रार्थनामतिः ।
शरणागतिर् इत्युक्ता
सा देवेऽस्मिन् प्रयुज्यताम् ॥ ३७-३१ ॥
सुदर्शनप्रपत्तौ मन्त्रविशेषकथनम्
विश्वास-प्रस्तुतिः - ३७-३२
भगवन् सर्वविजयिसहस्रारापराजित ।
शरणं त्वां प्रपन्नोऽस्मि श्रीकरं श्रीसुदर्शनम् ॥ ३७-३२ ॥
मूलम् - ३७-३२
भगवन् सर्वविजयिसहस्रारापराजित ।
शरणं त्वां प्रपन्नोऽस्मि श्रीकरं श्रीसुदर्शनम् ॥ ३७-३२ ॥
अनेन मन्त्रेण प्रपन्नस्य फलोत्पत्तिप्रतिबन्धकसकलदुरितनिवृत्तिः
विश्वास-प्रस्तुतिः - ३७-३३
अनेनैव प्रपन्नस्य भगवन्तं सुदर्शनम् ।
तस्यानुबन्धाः पाप्मानः सर्वे नश्यन्त्यसंशयम् ॥ ३७-३३ ॥
मूलम् - ३७-३३
अनेनैव प्रपन्नस्य भगवन्तं सुदर्शनम् ।
तस्यानुबन्धाः पाप्मानः सर्वे नश्यन्त्यसंशयम् ॥ ३७-३३ ॥
प्रपन्नस्य कृतकृत्यत्वम्
विश्वास-प्रस्तुतिः - ३७-३४
कृतान्यनेन सर्वाणि तपांसि तपतां वर ।
सर्वे तीर्थाः सर्वयज्ञाः सर्वदानानि च क्षणात् ॥ ३७-३४ ॥
मूलम् - ३७-३४
कृतान्यनेन सर्वाणि तपांसि तपतां वर ।
सर्वे तीर्थाः सर्वयज्ञाः सर्वदानानि च क्षणात् ॥ ३७-३४ ॥
[[३५८]]
कृतान्यनेन मोक्षश्च तस्य हस्ते न संशयः ।
न्यासमात्रेण तपोयज्ञादिसिद्धिकथन्ताप्रश्नः
नारदः –
कथं तपांसि यज्ञाश्च तीर्थदानानि सर्वशः ॥ ३७-३५ ॥
तस्यैव न्यासमात्रेण सिध्यन्ते तद्वद प्रभो ।
तदुत्तरकथने न्यासस्य सर्वतपोऽतिरिक्ततपस्त्वकथनम्
अहिर्बुध्न्यः –
यानि निःश्रेयसार्थानि चोदितानि तपांसि वै ॥ ३७-३६ ॥
तेषां तु तपसां न्यासमतिरिक्तं तपः श्रुतम् ।
नमःशब्देन कृतात्मन्यासस्य स्वध्वरत्वोपपादनम्
समित्साधनकादीनां यज्ञानां न्यासमात्मनः ॥ ३७-३७ ॥
नमसा योऽकरोद् देवे स स्वध्वर उदीरितः ।
न्यासस्य परमधर्मत्वे प्रमाणप्रदर्शनम्
यागसाधनभूतेन स्वात्मना वेद्यमीश्वरम् ॥ ३७-३८ ॥
अयजत् तानि धर्माणि प्रथमानीति नः श्रुतम् ।
न्यासस्य सर्वयज्ञसमत्वम्
यज्ञरूपधरं देवं यजते स्वात्मनैव यः ॥ ३७-३९ ॥
तेन सर्वे कृता यज्ञा भवन्तीह महात्मना ।
न्यासस्य यज्ञत्वनिर्वहणाय यज्ञाङ्गपौष्कल्यरूपणम्
यज्ञरूपधरस्यास्य शरीरं वेदिरिष्यते ॥ ३७-४० ॥
[[३५९]]
विश्वास-प्रस्तुतिः - ३७-४१
आस्यमाहवनीयाग्निर्हृदयं दक्षिणानलः ।
अथास्य गार्हपत्याग्निरुदरं श्रुतिचोदितम् ॥ ३७-४१ ॥
मूलम् - ३७-४१
आस्यमाहवनीयाग्निर्हृदयं दक्षिणानलः ।
अथास्य गार्हपत्याग्निरुदरं श्रुतिचोदितम् ॥ ३७-४१ ॥
विश्वास-प्रस्तुतिः - ३७-४२
यजमानो मनस्तत्त्वं बुद्धिः पत्नी प्रकीर्तिता ।
स्वाश्रितप्रत्यनीका ये पशवस्ते प्रकीर्तिताः ॥ ३७-४२ ॥
मूलम् - ३७-४२
यजमानो मनस्तत्त्वं बुद्धिः पत्नी प्रकीर्तिता ।
स्वाश्रितप्रत्यनीका ये पशवस्ते प्रकीर्तिताः ॥ ३७-४२ ॥
विश्वास-प्रस्तुतिः - ३७-४३
लोमानि बर्हिषस्त्वस्य जीवं हव्यं प्रचक्षते ।
सवनानि शिरोमध्यगात्रपादाः प्रकीर्तिताः ॥ ३७-४३ ॥
मूलम् - ३७-४३
लोमानि बर्हिषस्त्वस्य जीवं हव्यं प्रचक्षते ।
सवनानि शिरोमध्यगात्रपादाः प्रकीर्तिताः ॥ ३७-४३ ॥
विश्वास-प्रस्तुतिः - ३७-४४
दश यज्ञायुधान्यस्य ज्ञानकर्मेन्द्रियाण्यपि ।
ऋत्विजः षोडश भुजा देवस्यास्य महामुने ॥ ३७-४४ ॥
मूलम् - ३७-४४
दश यज्ञायुधान्यस्य ज्ञानकर्मेन्द्रियाण्यपि ।
ऋत्विजः षोडश भुजा देवस्यास्य महामुने ॥ ३७-४४ ॥
विश्वास-प्रस्तुतिः - ३७-४५
भक्तरक्षणसङ्कल्पो दीक्षा देवस्य नारद ।
ऋग्यजुःसामघोषोऽस्य भूषणाराव इष्यते ॥ ३७-४५ ॥
मूलम् - ३७-४५
भक्तरक्षणसङ्कल्पो दीक्षा देवस्य नारद ।
ऋग्यजुःसामघोषोऽस्य भूषणाराव इष्यते ॥ ३७-४५ ॥
विश्वास-प्रस्तुतिः - ३७-४६
सदस्या भूषणान्यस्य दया देवस्य दक्षिणा ।
जुहूर्ध्रुवा स्रुवश्चैव प्राशित्रहरणं तथा ॥ ३७-४६ ॥
मूलम् - ३७-४६
सदस्या भूषणान्यस्य दया देवस्य दक्षिणा ।
जुहूर्ध्रुवा स्रुवश्चैव प्राशित्रहरणं तथा ॥ ३७-४६ ॥
विश्वास-प्रस्तुतिः - ३७-४७
मेक्षणोपभृतौ वेद इडापात्री तथैव च ।
दारुपात्रं च योक्त्रं च चमसः सृष्टिरेव च ॥ ३७-४७ ॥
मूलम् - ३७-४७
मेक्षणोपभृतौ वेद इडापात्री तथैव च ।
दारुपात्रं च योक्त्रं च चमसः सृष्टिरेव च ॥ ३७-४७ ॥
विश्वास-प्रस्तुतिः - ३७-४८
पिष्टोद्वपन्याज्यस्थाल्याविध्मप्रव्रश्चनं तथा ।
मदन्तीत्यस्य शस्त्रेषु चक्राद्येषु समाश्रिताः ॥ ३७-४८ ॥
मूलम् - ३७-४८
पिष्टोद्वपन्याज्यस्थाल्याविध्मप्रव्रश्चनं तथा ।
मदन्तीत्यस्य शस्त्रेषु चक्राद्येषु समाश्रिताः ॥ ३७-४८ ॥
प्रपन्नस्य कृतकृत्यत्वनिगमनम्
विश्वास-प्रस्तुतिः - ३७-४९
एवंरूपं तमभ्यर्च्य प्रक्षीणाशेषपातकः ।
अनुष्ठितक्रतुशतो भवेदेष न संशयः ॥ ३७-४९ ॥
मूलम् - ३७-४९
एवंरूपं तमभ्यर्च्य प्रक्षीणाशेषपातकः ।
अनुष्ठितक्रतुशतो भवेदेष न संशयः ॥ ३७-४९ ॥
[[३६०]]
यथोक्तक्रमेण सुदर्शनमनाराधयतां
क्लेशप्राप्तिनिगमनम्
विश्वास-प्रस्तुतिः - ३७-५०
एवं बहुविधै रूपैरुपेतं तं सुदर्शनम् ।
कृत्वा तमप्रतिष्ठाप्य राजानो मन्त्रिणोऽपि वा ॥ ३७-५० ॥
मूलम् - ३७-५०
एवं बहुविधै रूपैरुपेतं तं सुदर्शनम् ।
कृत्वा तमप्रतिष्ठाप्य राजानो मन्त्रिणोऽपि वा ॥ ३७-५० ॥
विश्वास-प्रस्तुतिः - ३७-५१
विनष्टसम्पदः सद्यः परिभूताश्च शत्रुभिः ।
अर्चनाभावतो राज्याद् भ्रष्टाश्चिरमुपद्रुताः ॥ ३७-५१ ॥
मूलम् - ३७-५१
विनष्टसम्पदः सद्यः परिभूताश्च शत्रुभिः ।
अर्चनाभावतो राज्याद् भ्रष्टाश्चिरमुपद्रुताः ॥ ३७-५१ ॥
सुदर्शनमनाराधयतां राज्ये ब्रह्महत्यादिदोषोत्पत्तिः
विश्वास-प्रस्तुतिः - ३७-५२
स्वराज्यं ब्रह्महत्यादिदोषैर्दुष्येन्महामुने ।
समिदित्यस्य ऋग्वेदश्रुतिराह (१) दयावती ॥ ३७-५२ ॥
मूलम् - ३७-५२
स्वराज्यं ब्रह्महत्यादिदोषैर्दुष्येन्महामुने ।
समिदित्यस्य ऋग्वेदश्रुतिराह (१) दयावती ॥ ३७-५२ ॥
सुदर्शनमनाराधयतां राज्ञां प्रजानुरागाभावः
विश्वास-प्रस्तुतिः - ३७-५३
अनभिध्यानतो ह्यस्य विश्वे विषयवासिनः ।
अपरक्ताश्च जायन्ते महाराजे कृतागसि ॥ ३७-५३ ॥
मूलम् - ३७-५३
अनभिध्यानतो ह्यस्य विश्वे विषयवासिनः ।
अपरक्ताश्च जायन्ते महाराजे कृतागसि ॥ ३७-५३ ॥
राज्ये सुदर्शनानाराधनात् प्रजानामपि बहुदुःखभागिता
अश्रद्दधानाश्चैतस्मिन्निह जन्मनि दुःखिनः ।
१ अत्रेदं ऋग्वेदश्रुतिद्वयं बोध्यम्- यः समिधा य आहुती यो वेदेन
ददाश मर्तो अग्नये । यो नमसा स्वघ्वरः ॥ तस्येदर्वन्तो रंहयन्त
आशवस्तस्य द्युम्नितमं यशः । न तमंहो देवकृतं कुतश्चन न
मर्त्यकृतं नशत् ॥ (ऋग्वेदे ८-१९, ६।)
[[३६१]]
प्रेत्याधोऽधः पतन्त्येव नाप्नुवन्ति सुखं क्वचित् ॥ ३७-५४ ॥
सुदर्शनसमाराधनस्य सर्वफलावाप्तिसाधनतानिगमनम्
तद्यज्ञरूपं सुसमाश्रितानां
रक्षाविधाने कृतदीक्षमीशम् ।
सुभीषणं षोडशबाहुयुक्तं
स्वशत्रुपक्षक्षपणप्रवृत्तम् ॥ ३७-५५ ॥
यथोक्तरूपं धृतसर्वशस्त्र-
मुपेतमस्त्रैरपि मूर्तिमद्भिः ।
पटे लिखित्वा शिलयाथवार्चां
विधाय लोहैरुत बिम्बमस्य ॥ ३७-५६ ॥
समर्चयेद्यो नृपतिः प्रतिष्ठां
विधाय भक्त्याथ सुदर्शनेशम् ।
क्षणेन सिध्यन्ति मनीषितानि
विपक्षनाशश्च भवेदमुष्य ॥ ३७-५७ ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
न्यासापरपर्यायप्रपत्तिनिरूपणं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
आदितः श्लोकाः २३७६