राज्ञां सुदर्शनयन्त्राराधनविधानकेशवादिगुणप्रधानभावव्यवस्थापनं नाम षट्त्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
सौदर्शनयन्त्रस्य पूर्वापराङ्गध्यानार्चनप्रकारप्रश्नः
नारदः—
विश्वास-प्रस्तुतिः - 36.1
भगवन् कथिताः सर्वे सर्वास्त्राणां महौजसाम्।
प्रवर्तकास्तथा मन्त्रास्तथैव1 च निवर्तकाः ॥ 36.1 ॥
मूलम् - 36.1
भगवन् कथिताः सर्वे सर्वास्त्राणां महौजसाम्।
प्रवर्तकास्तथा मन्त्रास्तथैव1 च निवर्तकाः ॥ 36.1 ॥
विश्वास-प्रस्तुतिः - 36.2
एतच्च कथितं सर्वं सर्वज्ञेन त्वया पुरा।
सौदर्शनं 2महायन्त्रमर्चनीयं महात्मभिः ॥ 36.2 ॥
मूलम् - 36.2
एतच्च कथितं सर्वं सर्वज्ञेन त्वया पुरा।
सौदर्शनं 2महायन्त्रमर्चनीयं महात्मभिः ॥ 36.2 ॥
विश्वास-प्रस्तुतिः - 36.3
उक्तेनैव प्रकारेण चतुर्वर्गफलार्थिभिः।
राजा चेदर्चयेदेतत् सौदर्शनमुखं परम् ॥ 36.3 ॥
मूलम् - 36.3
उक्तेनैव प्रकारेण चतुर्वर्गफलार्थिभिः।
राजा चेदर्चयेदेतत् सौदर्शनमुखं परम् ॥ 36.3 ॥
विश्वास-प्रस्तुतिः - 36.4
उभयं चास्य यन्त्रस्य 3मुखमाराधयेदिति।
कथमस्यापराङ्गं4 च ध्यायेत् कुर्याच्च वा कथम् ॥ 36.4 ॥
मूलम् - 36.4
उभयं चास्य यन्त्रस्य 3मुखमाराधयेदिति।
कथमस्यापराङ्गं4 च ध्यायेत् कुर्याच्च वा कथम् ॥ 36.4 ॥
विश्वास-प्रस्तुतिः - 36.6
यन्त्रमध्ये महात्मानं पुरुषं भीमलोचनम्।
ऊर्ध्वपिङ्गलकेशाढ्यं ज्वलद्दंष्ट्रोज्ज्वलाननम् ॥ 36.6 ॥
मूलम् - 36.6
यन्त्रमध्ये महात्मानं पुरुषं भीमलोचनम्।
ऊर्ध्वपिङ्गलकेशाढ्यं ज्वलद्दंष्ट्रोज्ज्वलाननम् ॥ 36.6 ॥
विश्वास-प्रस्तुतिः - 36.7
तिष्ठन्तमष्ठभिर्युक्तं भुजैः परमशौभनैः।
चक्राब्जमध्ये तिष्ठन्तमवष्टभ्य महद्धनुः ॥ 36.7 ॥
मूलम् - 36.7
तिष्ठन्तमष्ठभिर्युक्तं भुजैः परमशौभनैः।
चक्राब्जमध्ये तिष्ठन्तमवष्टभ्य महद्धनुः ॥ 36.7 ॥
विश्वास-प्रस्तुतिः - 36.8
समभङ्गमुदाराङ्गं रक्ताम्बरधरं विभुम्।
शङ्खचक्राब्जमुसलपाशाङ्कुशगदाधरम् ॥ 36.8 ॥
मूलम् - 36.8
समभङ्गमुदाराङ्गं रक्ताम्बरधरं विभुम्।
शङ्खचक्राब्जमुसलपाशाङ्कुशगदाधरम् ॥ 36.8 ॥
विश्वास-प्रस्तुतिः - 36.10
तिष्ठतो यदि वासीनान् केशवादीन् सविग्रहान्।
उक्तेनैव प्रकारेण भूषणैरायुधैर्युतात् ॥ 36.10 ॥
मूलम् - 36.10
तिष्ठतो यदि वासीनान् केशवादीन् सविग्रहान्।
उक्तेनैव प्रकारेण भूषणैरायुधैर्युतात् ॥ 36.10 ॥
ततो विष्णवादिषोडशमूर्तिध्यानम्
ततः षोडशभिर्देवैर्विष्ण्वाद्यैरायुधान्वितैः ॥ 36.11 ॥
विश्वास-प्रस्तुतिः - 36.12
मूर्तिमद्भिश्च सोद्योगैः सर्वाभरणसंयुतैः ।
एतैः पञ्जरितं ध्यायेद्यन्त्रराजमनुत्तमम् ॥ 36.12 ॥
मूलम् - 36.12
मूर्तिमद्भिश्च सोद्योगैः सर्वाभरणसंयुतैः ।
एतैः पञ्जरितं ध्यायेद्यन्त्रराजमनुत्तमम् ॥ 36.12 ॥
विश्वास-प्रस्तुतिः - 36.13
परितस्तान्यपि ध्यायेन्मूर्तिमन्ति महान्ति च।
संहारास्त्रणि सर्वाणि साञ्जलीन्यद्भुतानि च ॥ 36.13 ॥
मूलम् - 36.13
परितस्तान्यपि ध्यायेन्मूर्तिमन्ति महान्ति च।
संहारास्त्रणि सर्वाणि साञ्जलीन्यद्भुतानि च ॥ 36.13 ॥
विश्वास-प्रस्तुतिः - 36.17
यन्त्रं चक्राकृति श्रीमद् दीप्तनेमिस्मन्वितम्।
नेमेरस्य चतुर्दिक्षु महाज्वालां विचिन्तयेत् ॥ 36.17 ॥
मूलम् - 36.17
यन्त्रं चक्राकृति श्रीमद् दीप्तनेमिस्मन्वितम्।
नेमेरस्य चतुर्दिक्षु महाज्वालां विचिन्तयेत् ॥ 36.17 ॥
विश्वास-प्रस्तुतिः - 36.23
उक्तैर्विशेषणैर्जुष्टं सर्वकामैकसाधनम्।
अस्य चक्रस्य मध्ये 7यद्वर्तते पुरुषः परः ॥ 36.23 ॥
मूलम् - 36.23
उक्तैर्विशेषणैर्जुष्टं सर्वकामैकसाधनम्।
अस्य चक्रस्य मध्ये 7यद्वर्तते पुरुषः परः ॥ 36.23 ॥
विश्वास-प्रस्तुतिः - 36.27
तैर्नित्यमर्चनीयं स्यादिदं सर्वार्थसाधकम्।
राज्ञामेव विशेषेण यदेतत् समुदीरितम् ॥ 36.27 ॥
मूलम् - 36.27
तैर्नित्यमर्चनीयं स्यादिदं सर्वार्थसाधकम्।
राज्ञामेव विशेषेण यदेतत् समुदीरितम् ॥ 36.27 ॥
विश्वास-प्रस्तुतिः - 36.28
तद्राजव्यतिरेकेण ये निर्दिष्टास्तु मानवाः।
तेषां विभूतिर्महती राज्ञा संपत्स्यते ध्रुवम् ॥ 36.28 ॥
मूलम् - 36.28
तद्राजव्यतिरेकेण ये निर्दिष्टास्तु मानवाः।
तेषां विभूतिर्महती राज्ञा संपत्स्यते ध्रुवम् ॥ 36.28 ॥
विश्वास-प्रस्तुतिः - 36.29
लोहैर्वा शिलया वापि यो हि निर्माय पूजयते।
विपुलां श्रियमाप्नोति दीर्घमायुश्च विन्दति ॥ 36.29 ॥
मूलम् - 36.29
लोहैर्वा शिलया वापि यो हि निर्माय पूजयते।
विपुलां श्रियमाप्नोति दीर्घमायुश्च विन्दति ॥ 36.29 ॥
विश्वास-प्रस्तुतिः - 36.31
ज्ञानेन तपसा शक्त्या सोढुं तस्योभयात्मनः।
स एव शक्नुयात् तस्य प्रभावं परमं मुने ॥ 36.31 ॥
मूलम् - 36.31
ज्ञानेन तपसा शक्त्या सोढुं तस्योभयात्मनः।
स एव शक्नुयात् तस्य प्रभावं परमं मुने ॥ 36.31 ॥
विश्वास-प्रस्तुतिः - 36.32
योऽसावादित्यबिम्बस्थः पुरुषो दृश्यते परः।
हिरण्मयो 8य एवान्तरक्षिण्यपि च दृश्यते ॥ 36.32 ॥
मूलम् - 36.32
योऽसावादित्यबिम्बस्थः पुरुषो दृश्यते परः।
हिरण्मयो 8य एवान्तरक्षिण्यपि च दृश्यते ॥ 36.32 ॥
विश्वास-प्रस्तुतिः - 36.34
युगचक्रस्य नेतारमेनमेव विदुर्बुधाः।
एनं महर्षयोऽप्याहुर्जगच्चक्रप्रवर्तकम् ॥ 36.34 ॥
मूलम् - 36.34
युगचक्रस्य नेतारमेनमेव विदुर्बुधाः।
एनं महर्षयोऽप्याहुर्जगच्चक्रप्रवर्तकम् ॥ 36.34 ॥
विश्वास-प्रस्तुतिः - 36.39
स सार्वभौमः सकलान् भुक्त्वा भोगान् महीतले।
पुनश्च भक्तश्चक्रस्य शेषं निर्वर्तयिष्यति ॥ 36.39 ॥
मूलम् - 36.39
स सार्वभौमः सकलान् भुक्त्वा भोगान् महीतले।
पुनश्च भक्तश्चक्रस्य शेषं निर्वर्तयिष्यति ॥ 36.39 ॥
विश्वास-प्रस्तुतिः - 36.41
ब्राह्मणान् वेदविदुषो वैष्णवान् द्वादशावरान्।
तच्छेषभूतांस्तत्रैव प्रतिष्ठाप्य च शक्तितः ॥ 36.41 ॥
मूलम् - 36.41
ब्राह्मणान् वेदविदुषो वैष्णवान् द्वादशावरान्।
तच्छेषभूतांस्तत्रैव प्रतिष्ठाप्य च शक्तितः ॥ 36.41 ॥
विश्वास-प्रस्तुतिः - 36.42
पर्याप्तजीवनान् कृत्वा दत्त्वा भूमिमठादिकान्।
नित्यं 9योऽभ्यर्चयत्येनं देवं भूतिसमन्वितम् ॥ 36.42 ॥
मूलम् - 36.42
पर्याप्तजीवनान् कृत्वा दत्त्वा भूमिमठादिकान्।
नित्यं 9योऽभ्यर्चयत्येनं देवं भूतिसमन्वितम् ॥ 36.42 ॥
विश्वास-प्रस्तुतिः - 36.43
तस्य प्रतिदिनं भूतिरमर्यादा विवर्धते।
नीरोगता दीर्घमायुर्लभ्यते नात्र संशयः ॥ 36.43 ॥
मूलम् - 36.43
तस्य प्रतिदिनं भूतिरमर्यादा विवर्धते।
नीरोगता दीर्घमायुर्लभ्यते नात्र संशयः ॥ 36.43 ॥
विश्वास-प्रस्तुतिः - 36.44
जन्मान्तरे सार्वभौमो जनित्वा सकलां भुवम्।
भुक्त्वा कालेन महता तदनन्तरजन्मनि ॥ 36.44 ॥
मूलम् - 36.44
जन्मान्तरे सार्वभौमो जनित्वा सकलां भुवम्।
भुक्त्वा कालेन महता तदनन्तरजन्मनि ॥ 36.44 ॥
विश्वास-प्रस्तुतिः - 36.45
त्रिविष्टपपतिर्भूत्वा भुङ्क्ते चैन्द्रपदं चिरम्।
ततः क्रमेण लब्ध्वायं तत्तल्लोकेशतां गतः ॥ 36.45 ॥
मूलम् - 36.45
त्रिविष्टपपतिर्भूत्वा भुङ्क्ते चैन्द्रपदं चिरम्।
ततः क्रमेण लब्ध्वायं तत्तल्लोकेशतां गतः ॥ 36.45 ॥
विश्वास-प्रस्तुतिः - 36.47
एतदाराधनस्यैव तारतम्येन नारद।
भोगायुषोस्तारतम्यमश्नुते नृपतिर्ध्रुवम् ॥ 36.47 ॥
मूलम् - 36.47
एतदाराधनस्यैव तारतम्येन नारद।
भोगायुषोस्तारतम्यमश्नुते नृपतिर्ध्रुवम् ॥ 36.47 ॥
जात्यायुर्भोगकामाश्च ये चान्ये भुवि मानवाः ॥ 36.48 ॥
तेऽप्येतत्पूजया सर्वं काङ्क्षितं प्राप्नुवन्ति च।
शेषिणः केशवादेः शेषभूतं सुदर्शनं प्रतिपरिवारतादिकथंताप्रश्नः
नारदः—
सिद्धं सुदर्शनं विष्णोः शेषमायुधसंज्ञितम् ॥ 36.49 ॥
विश्वास-प्रस्तुतिः - 36.50
कथमस्य परीवाराः केशवाद्याः समीरिताः।
विष्ण्वाद्या मूर्तिभेदाश्च कथं वा पञ्जरीकृताः ॥ 36.50 ॥
मूलम् - 36.50
कथमस्य परीवाराः केशवाद्याः समीरिताः।
विष्ण्वाद्या मूर्तिभेदाश्च कथं वा पञ्जरीकृताः ॥ 36.50 ॥
विश्वास-प्रस्तुतिः - 36.51
कथं वा भगवन्मन्त्राः परिवारत्वमागताः।
इमं च संशयं देव च्छेत्तुमर्हसि सांप्रतम् ॥ 36.51 ॥
मूलम् - 36.51
कथं वा भगवन्मन्त्राः परिवारत्वमागताः।
इमं च संशयं देव च्छेत्तुमर्हसि सांप्रतम् ॥ 36.51 ॥
विश्वास-प्रस्तुतिः - 36.52
श्रुणु 10तात महाप्राज्ञ रहस्यमिदमुत्तमम्।
त्वदृते शक्नुयात् प्रष्टुमिमर्थं11 न कश्चन ॥ 36.52 ॥
मूलम् - 36.52
श्रुणु 10तात महाप्राज्ञ रहस्यमिदमुत्तमम्।
त्वदृते शक्नुयात् प्रष्टुमिमर्थं11 न कश्चन ॥ 36.52 ॥
विश्वास-प्रस्तुतिः - 36.53
यथा नारायणो देवः पुरुषः पुष्करेक्षणः।
अनादिरपरिच्छेद्यस्तथायमपि नारद ॥ 36.53 ॥
मूलम् - 36.53
यथा नारायणो देवः पुरुषः पुष्करेक्षणः।
अनादिरपरिच्छेद्यस्तथायमपि नारद ॥ 36.53 ॥
विश्वास-प्रस्तुतिः - 36.54
द्वे शक्ती तस्य विद्यते विष्णोः सर्वार्थसाधने।
प्रधानभूते याभ्यां तु वहत्येष जगद्धुरम् ॥ 36.54 ॥
मूलम् - 36.54
द्वे शक्ती तस्य विद्यते विष्णोः सर्वार्थसाधने।
प्रधानभूते याभ्यां तु वहत्येष जगद्धुरम् ॥ 36.54 ॥
विश्वास-प्रस्तुतिः - 36.58
अनेन संहृतिं देवो विश्वस्यान्ते करोति च।
अनेन दानवान् दैत्यान्निहन्ति मधुसूदनः ॥ 36.58 ॥
मूलम् - 36.58
अनेन संहृतिं देवो विश्वस्यान्ते करोति च।
अनेन दानवान् दैत्यान्निहन्ति मधुसूदनः ॥ 36.58 ॥
विश्वास-प्रस्तुतिः - 36.59
रक्षकं परमात्मानं प्रति शक्तिद्वयस्यापि रक्ष्यकोट्यन्तर्भावः।
तस्मात् सर्वात्मना चैनं [^24]स्वबुद्ध्या परिरक्षति ॥ 36.59 ॥
मूलम् - 36.59
रक्षकं परमात्मानं प्रति शक्तिद्वयस्यापि रक्ष्यकोट्यन्तर्भावः।
तस्मात् सर्वात्मना चैनं [^24]स्वबुद्ध्या परिरक्षति ॥ 36.59 ॥
विश्वास-प्रस्तुतिः - 36.60
यथा स्वं स्वामिना रक्ष्यं रक्ष्यते स्वयमेव हि।
एवं सर्वस्य जननीं लक्ष्मीं लक्ष्मीधरः स्वयम् ॥ 36.60 ॥
मूलम् - 36.60
यथा स्वं स्वामिना रक्ष्यं रक्ष्यते स्वयमेव हि।
एवं सर्वस्य जननीं लक्ष्मीं लक्ष्मीधरः स्वयम् ॥ 36.60 ॥
-
अपराङ्गस्य A B C E F
तदुत्तरकथनम्
अहिर्बुध्न्यः—-
एवं ध्यात्वार्चयेद्राजा यन्त्रमेतन्महाद्युति ॥ 36.5 ॥
तत्र पूर्वाङ्गे यन्त्रमध्ये सुदर्शनध्यानम् ↩︎ ↩︎ -
सर्वसंहारणास्त्राणां A B E F ↩︎
-
मन्त्रराज D ↩︎
-
अल्पं D
एका त्विच्छात्मिका तस्य तथान्या तु क्रियात्मिका।
तत्रेच्छारूपिण्याः शक्तेर्लक्ष्मीरूपत्वम्
प्रथमा परमा लक्ष्मीर्जगत्त्रातुः कुटुन्बिनी ॥ 36.55 ॥
क्रियारूपायाः शक्तेः सुदर्शनरूपत्वम्
तत्त्वविद्भिरिदं प्रोक्तं द्वितीयेह सुदर्शनम्।
ताभ्यां शक्तिभ्यां विना भगवतोऽप्यकिंचित्करत्वम्
तस्माल्लक्ष्म्या विना देवः संकल्पे न प्रभुर्हरिः ॥ 36.56 ॥
अनेनापि विना कर्तुं किंचिन्नार्हति केशवः।
तस्य शक्तिद्वयस्य सृष्टिस्थितिसंहाराद्युपकरणत्वम्
अनेन सर्वं सृजति देवोऽनेनैव पाति च ॥ 36.57 ॥ ↩︎ ↩︎