राज्ञां सुदर्शनयन्त्राराधनविधानकेशवादिगुणप्रधानभावव्यवस्थापनं नाम षट्त्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
सौदर्शनयन्त्रस्य पूर्वापराङ्गध्यानार्चनप्रकारप्रश्नः
नारदः—
भगवन् कथिताः सर्वे सर्वास्त्राणां महौजसाम्।
प्रवर्तकास्तथा मन्त्रास्तथैव1 च निवर्तकाः ॥ 36.1 ॥
एतच्च कथितं सर्वं सर्वज्ञेन त्वया पुरा।
सौदर्शनं 2महायन्त्रमर्चनीयं महात्मभिः ॥ 36.2 ॥
उक्तेनैव प्रकारेण चतुर्वर्गफलार्थिभिः।
राजा चेदर्चयेदेतत् सौदर्शनमुखं परम् ॥ 36.3 ॥
उभयं चास्य यन्त्रस्य 3मुखमाराधयेदिति।
कथमस्यापराङ्गं4 च ध्यायेत् कुर्याच्च वा कथम् ॥ 36.4 ॥
छेत्तुमर्हसि संदेहमिमं मम महेश्वर।
ततो विष्णवादिषोडशमूर्तिध्यानम्
ततः षोडशभिर्देवैर्विष्ण्वाद्यैरायुधान्वितैः ॥ 36.11 ॥
मूर्तिमद्भिश्च सोद्योगैः सर्वाभरणसंयुतैः ।
एतैः पञ्जरितं ध्यायेद्यन्त्रराजमनुत्तमम् ॥ 36.12 ॥
जात्यायुर्भोगकामाश्च ये चान्ये भुवि मानवाः ॥ 36.48 ॥
तेऽप्येतत्पूजया सर्वं काङ्क्षितं प्राप्नुवन्ति च।
शेषिणः केशवादेः शेषभूतं सुदर्शनं प्रतिपरिवारतादिकथंताप्रश्नः
नारदः—
सिद्धं सुदर्शनं विष्णोः शेषमायुधसंज्ञितम् ॥ 36.49 ॥
कथमस्य परीवाराः केशवाद्याः समीरिताः।
विष्ण्वाद्या मूर्तिभेदाश्च कथं वा पञ्जरीकृताः ॥ 36.50 ॥
कथं वा भगवन्मन्त्राः परिवारत्वमागताः।
इमं च संशयं देव च्छेत्तुमर्हसि सांप्रतम् ॥ 36.51 ॥
तदुत्तरकथनारम्भः
अहिर्बुध्न्यः—
श्रुणु 21तात महाप्राज्ञ रहस्यमिदमुत्तमम्।
त्वदृते शक्नुयात् प्रष्टुमिमर्थं22 न कश्चन ॥ 36.52 ॥
भगवत इव तत्संकल्परूपस्य सुदर्शनस्याप्यनादित्वापरिच्छेद्यत्वे
यथा नारायणो देवः पुरुषः पुष्करेक्षणः।
अनादिरपरिच्छेद्यस्तथायमपि नारद ॥ 36.53 ॥
तदुपपादनाय परमात्मशक्तेर्द्वेधा विभागः
द्वे शक्ती तस्य विद्यते विष्णोः सर्वार्थसाधने।
प्रधानभूते याभ्यां तु वहत्येष जगद्धुरम् ॥ 36.54 ॥
-
तथैवैतन्निवर्तकाः D ↩︎
-
महामन्त्रम् D ↩︎
-
मुखं नाराधयेदिति D ↩︎
-
अपराङ्गस्य A B C E F
तदुत्तरकथनम्
अहिर्बुध्न्यः—-
एवं ध्यात्वार्चयेद्राजा यन्त्रमेतन्महाद्युति ॥ 36.5 ॥
तत्र पूर्वाङ्गे यन्त्रमध्ये सुदर्शनध्यानम्
यन्त्रमध्ये महात्मानं पुरुषं भीमलोचनम्।
ऊर्ध्वपिङ्गलकेशाढ्यं ज्वलद्दंष्ट्रोज्ज्वलाननम् ॥ 36.6 ॥
तिष्ठन्तमष्ठभिर्युक्तं भुजैः परमशौभनैः।
चक्राब्जमध्ये तिष्ठन्तमवष्टभ्य महद्धनुः ॥ 36.7 ॥
समभङ्गमुदाराङ्गं रक्ताम्बरधरं विभुम्।
शङ्खचक्राब्जमुसलपाशाङ्कुशगदाधरम् ॥ 36.8 ॥
सर्वाभरणसंयुक्तं पुष्पमालाविभूषितम् ।
परितः केशवादिद्वादशमूर्तिध्यानम्
5सुदर्शनमिमं ध्यात्वा परितश्चिन्तयेत् ततः ॥ 36.9 ॥
तिष्ठतो यदि वासीनान् केशवादीन् सविग्रहान्।
उक्तेनैव प्रकारेण भूषणैरायुधैर्युतात् ॥ 36.10 ॥
प्रधानभूतान् परमान् यथाकामनिवेशितान्। ↩︎ -
सुदर्शनमिदं A B C
परितो मूर्तिमत्संहारास्त्रध्यानम्
परितस्तान्यपि ध्यायेन्मूर्तिमन्ति महान्ति च।
संहारास्त्रणि सर्वाणि साञ्जलीन्यद्भुतानि च ॥ 36.13 ॥
अकुतोभयशालीनि शक्तिमन्ति समन्ततः।
ततो मूर्तिमत्प्रवर्तकास्त्रध्यानम्
ततः प्रवर्तकान्येवं ध्यायीतास्त्राणि नारद ॥ 36.14 ॥
मूर्तान्यत्तुमिवाशेषभुवनान्युज्ज्वलानि च।
ततो नारसिंहध्यानम्
एवं चक्रक्रमेणैतदभिध्यायोपरि स्मरेत् ॥ 36.15 ॥
6दधानं नारसिंहस्य वपुर्नारायणं परम्।
मूलकोशं परं देवमधोभागेऽथ चिन्तयेत् ॥ 36.16 ॥
यन्त्रं चक्राकृति श्रीमद् दीप्तनेमिस्मन्वितम्।
नेमेरस्य चतुर्दिक्षु महाज्वालां विचिन्तयेत् ॥ 36.17 ॥
चक्रकौमोदकीशार्ङ्गखङ्गहस्तान् स्मरेत् क्रमात्।
7एवमेकमुखं ध्यायेद्यन्त्रधस्यास्य महाद्युतेः ॥ 36.18 ॥
अपराङ्गध्यानम्
अपराङ्गं महामन्त्रैः सर्वतः समलंकृतम्। ↩︎ -
C Gap from here up to the end of chapter.50 ↩︎
-
एवमेव मुखं A B E F
अन्तस्तारं समारभ्य यदि वा विष्णुपञ्जरम् ॥ 36.19 ॥
पूर्वोक्तं तद्विना 8 मूर्तिस्तत्तन्मन्त्रसुमुच्चयम्।
अपराङ्गे सर्वास्त्राणां मन्त्रमात्रध्यानम्
यथास्थानं स्मरेत् तस्य पर्यन्ते चिन्तयेत् ततः ॥ 36.20 ॥
8सर्वसंहरणास्त्राणां मन्त्रानेव च केवलम्।
तदनन्तरमन्येषामस्त्राणां च प्रवर्तकम् ॥ 36.21 ॥
9मन्त्रजालमभिध्याय सुनेमि सुरपूजितम्।
महायन्त्रं महाशक्ति चक्ररूपमनुत्तमम् ॥ 36.22 ॥
उक्तैर्विशेषणैर्जुष्टं सर्वकामैकसाधनम्।
अस्य चक्रस्य मध्ये 10यद्वर्तते पुरुषः परः ॥ 36.23 ॥
तस्मान्निगद्यते लोके चक्रवर्तीति सूरिभिः।
एतद्यन्त्राभ्यर्चनाद्राज्ञां चक्रवर्तित्वलाभः
तस्मादभ्यर्चयेदेतद्यो राजा भक्तिसंयुतः ॥ 36.24 ॥
सोऽचिरेणैव कालेन चक्रवर्तित्वमाप्नुयात्।
अन्यैरपि राजहितैषिभिरेतदर्चनं कार्यम्
राजा वा राजभृत्या वा मन्त्रिणो वाथवा परे ॥ 36.25 ॥
राज्ञां हितैषिणः सर्वे पूजयेयुरिदं परम्।
अन्येषामपि श्रीकामानामेतदभ्यर्चनम्
अन्ये च ये 11तु विपुलां श्रियमिच्छन्ति मानवाः ॥ 36.26 ॥ ↩︎ -
सर्वसंहारणास्त्राणां A B E F ↩︎
-
मन्त्रराज D ↩︎
-
यो वर्तते E ↩︎
-
च D
तैर्नित्यमर्चनीयं स्यादिदं सर्वार्थसाधकम्।
राज्ञामेव विशेषेण यदेतत् समुदीरितम् ॥ 36.27 ॥
तद्राजव्यतिरेकेण ये निर्दिष्टास्तु मानवाः।
तेषां विभूतिर्महती राज्ञा संपत्स्यते ध्रुवम् ॥ 36.28 ॥
लोहैर्वा शिलया वापि यो हि निर्माय पूजयते।
विपुलां श्रियमाप्नोति दीर्घमायुश्च विन्दति ॥ 36.29 ॥
आरोग्यं चाश्नुते सर्वे तद्वंश्या दीर्घजीविनः12।
द्विमुखयन्त्रार्चने मन्त्रोपदेष्टुर्ब्राह्मणस्यैवाधिकारः
परं मन्त्रोपदेष्टैव ब्राह्मणो 13द्विमुखं यजेत् ॥ 36.30 ॥
ज्ञानेन तपसा शक्त्या सोढुं तस्योभयात्मनः।
स एव शक्नुयात् तस्य प्रभावं परमं मुने ॥ 36.31 ॥
आदित्यमण्डलाक्ष्यादिस्थानां पुरुषाणामभिन्नत्वम्
योऽसावादित्यबिम्बस्थः पुरुषो दृश्यते परः।
हिरण्मयो 14य एवान्तरक्षिण्यपि च दृश्यते ॥ 36.32 ॥
सोऽप्ययं नाभिचक्रस्य मध्ये यो वर्तते पुमान्।
तस्यैव कालचक्रादिप्रवर्तकत्वम्
15योऽयं 16कालाख्यचक्रस्य प्रेरकः पुरुषोऽव्ययः ॥ 36.33 ॥ ↩︎ -
दर्शिनः A B E F ↩︎
-
विमुखं D ↩︎
-
यमेवान्त E F ↩︎
-
सोऽयं A E F; सोऽथ B ↩︎
-
कालस्य चक्रस्य A E F
युगचक्रस्य नेतारमेनमेव विदुर्बुधाः।
एनं महर्षयोऽप्याहुर्जगच्चक्रप्रवर्तकम् ॥ 36.34 ॥
विमाने संस्थाप्य तस्यैव समभ्यर्चनमैहिकामुष्मिकफलसाधकम्
सर्वलोकैककर्तारं17 सर्वलोकैकसाक्षिणम्।
18एनं विमाने संस्थाप्य चक्रवर्तिनमव्ययम् ॥ 36.35 ॥
यः पूजयति तस्यायं लोकश्चामुष्मिको भवेत्।
विमानकरणारम्भस्यापि महाफलकत्वम्
सुदर्शनविमानं यः प्रारभेत् महामुने ॥ 36.36 ॥
इह सर्वानवाप्यार्थान् विष्णुलोकं स यास्यति।
विमानकरणार्थस्य कर्षणस्यापि सर्वसंपत्साधनत्वम्
सुदर्शनविमानस्य कर्षणं यः करोति वै ॥ 36.37 ॥
तस्यामित्रा विनश्यन्ति सन्ति सर्वाश्च संपदः।
आरब्धापरिसमाप्तस्यापि विमानकरणस्यान्ततो मुक्तिसाधनता
आरभ्यायतनं मध्ये 19विच्छित्त्या विघ्नितो यदि ॥ 36.38 ॥
स सार्वभौमः सकलान् भुक्त्वा भोगान् महीतले।
पुनश्च भक्तश्चक्रस्य शेषं निर्वर्तयिष्यति ॥ 36.39 ॥
अन्ते वैकुण्ठमासाद्य विष्णुसायुज्यमाप्नुयात्। ↩︎ -
भर्तारं D ↩︎
-
एवं A B E F ↩︎
-
विभृत्या D; विभूत्या E.
साङ्गप्रतिष्ठादिकर्तुः फलपरंपरानिरूपणम्
विमानं परमं कृत्वा प्रतिष्ठाप्य सुदर्शनम् ॥ 36.40 ॥
ब्राह्मणान् वेदविदुषो वैष्णवान् द्वादशावरान्।
तच्छेषभूतांस्तत्रैव प्रतिष्ठाप्य च शक्तितः ॥ 36.41 ॥
पर्याप्तजीवनान् कृत्वा दत्त्वा भूमिमठादिकान्।
नित्यं 20योऽभ्यर्चयत्येनं देवं भूतिसमन्वितम् ॥ 36.42 ॥
तस्य प्रतिदिनं भूतिरमर्यादा विवर्धते।
नीरोगता दीर्घमायुर्लभ्यते नात्र संशयः ॥ 36.43 ॥
जन्मान्तरे सार्वभौमो जनित्वा सकलां भुवम्।
भुक्त्वा कालेन महता तदनन्तरजन्मनि ॥ 36.44 ॥
त्रिविष्टपपतिर्भूत्वा भुङ्क्ते चैन्द्रपदं चिरम्।
ततः क्रमेण लब्ध्वायं तत्तल्लोकेशतां गतः ॥ 36.45 ॥
तदन्ते परमं धाम वैष्णवं प्रतिपद्यते।
सुदर्शनपुरुषमनाराधयतो नृपत्वं दुर्लभम्
देवमेनमनाराध्य न कश्चिज्जायते नृपः ॥ 36.46 ॥
एतदाराधनतारतम्यात् फलतारतम्यम्
एतदाराधनस्यैव तारतम्येन नारद।
भोगायुषोस्तारतम्यमश्नुते नृपतिर्ध्रुवम् ॥ 36.47 ॥
तस्माद्राज्ञामन्येषां चैतदाराधनावश्यकता
तस्मात् सर्वप्रयत्नेन राजैवैनं समर्चयेत्। ↩︎ -
योग्यश्च सत्येन D ↩︎
-
तत्त्वं A B E F ↩︎
-
अल्पं D
एका त्विच्छात्मिका तस्य तथान्या तु क्रियात्मिका।
तत्रेच्छारूपिण्याः शक्तेर्लक्ष्मीरूपत्वम्
प्रथमा परमा लक्ष्मीर्जगत्त्रातुः कुटुन्बिनी ॥ 36.55 ॥
क्रियारूपायाः शक्तेः सुदर्शनरूपत्वम्
तत्त्वविद्भिरिदं प्रोक्तं द्वितीयेह सुदर्शनम्।
ताभ्यां शक्तिभ्यां विना भगवतोऽप्यकिंचित्करत्वम्
तस्माल्लक्ष्म्या विना देवः संकल्पे न प्रभुर्हरिः ॥ 36.56 ॥
अनेनापि विना कर्तुं किंचिन्नार्हति केशवः।
तस्य शक्तिद्वयस्य सृष्टिस्थितिसंहाराद्युपकरणत्वम्
अनेन सर्वं सृजति देवोऽनेनैव पाति च ॥ 36.57 ॥
अनेन संहृतिं देवो विश्वस्यान्ते करोति च।
अनेन दानवान् दैत्यान्निहन्ति मधुसूदनः ॥ 36.58 ॥
क्रियतेऽनेन तत्कर्म सर्वं सर्वगतेन वै।
रक्षकं परमात्मानं प्रति शक्तिद्वयस्यापि रक्ष्यकोट्यन्तर्भावः।
तस्मात् सर्वात्मना चैनं [^24]स्वबुद्ध्या परिरक्षति ॥ 36.59 ॥
विशिष्य लक्ष्म्या अपि रक्ष्यकोट्यन्तर्भावप्रतिपादनम्
यथा स्वं स्वामिना रक्ष्यं रक्ष्यते स्वयमेव हि।
एवं सर्वस्य जननीं लक्ष्मीं लक्ष्मीधरः स्वयम् ॥ 36.60 ॥
चतुर्धा व्यूह्य चात्मानं स्वभूतां परिरक्षति। ↩︎