संहारास्त्रस्वरूपनिरूपणं नाम पञ्चत्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि॥
संहारास्त्रस्वरूपप्रश्नः
नारदः—
विश्वास-प्रस्तुतिः - 35.1
भगवन् 1पूर्वमाख्यातं संहारास्त्राण्यशेषतः।
सुदर्शनस्यापराङ्गान्निर्जग्मुरिति चेश्वर ॥ 35.1 ॥
मूलम् - 35.1
भगवन् 1पूर्वमाख्यातं संहारास्त्राण्यशेषतः।
सुदर्शनस्यापराङ्गान्निर्जग्मुरिति चेश्वर ॥ 35.1 ॥
विश्वास-प्रस्तुतिः - 35.2
तेषां स्वरूपविज्ञाने वर्तते मे कुतूहलम्।
वक्तुमर्हस्यशेषेण 2यदि सानुग्रहो मयि ॥ 35.2 ॥
मूलम् - 35.2
तेषां स्वरूपविज्ञाने वर्तते मे कुतूहलम्।
वक्तुमर्हस्यशेषेण 2यदि सानुग्रहो मयि ॥ 35.2 ॥
विश्वास-प्रस्तुतिः - 35.3
तदेतत् परमं गुह्यं पुरा 3नारायणेरितम्।
भक्तोषऽसीति तव स्नेहाद् वक्ष्यामि श्रृणु नारद ॥ 35.3 ॥
मूलम् - 35.3
तदेतत् परमं गुह्यं पुरा 3नारायणेरितम्।
भक्तोषऽसीति तव स्नेहाद् वक्ष्यामि श्रृणु नारद ॥ 35.3 ॥
विश्वास-प्रस्तुतिः - 35.4
लोहितोऽग्निसमायुक्तः खकड्गीशो भारभूतिमान्।
आषाढयुग्मं मुण्कडश्च मायी स्यात् खड्गनायकः ॥ 35.4 ॥
मूलम् - 35.4
लोहितोऽग्निसमायुक्तः खकड्गीशो भारभूतिमान्।
आषाढयुग्मं मुण्कडश्च मायी स्यात् खड्गनायकः ॥ 35.4 ॥
विश्वास-प्रस्तुतिः - 35.5
साग्न्याषाढयुगं पश्चात् 8क्रोधीशं निर्दिशेत् ततः।
परमेष्ठिन्निति ब्रूयादथो ऋतमिति क्रमात् ॥ 35.5 ॥
मूलम् - 35.5
साग्न्याषाढयुगं पश्चात् 8क्रोधीशं निर्दिशेत् ततः।
परमेष्ठिन्निति ब्रूयादथो ऋतमिति क्रमात् ॥ 35.5 ॥
विश्वास-प्रस्तुतिः - 35.8
महाकालश्च मज्जा च साग्निश्चोमापतिस्तथा।
प्रसादयेत्यथाभ्यस्तं धृष्टमस्त्रमिदं विदुः ॥ 35.8 ॥
मूलम् - 35.8
महाकालश्च मज्जा च साग्निश्चोमापतिस्तथा।
प्रसादयेत्यथाभ्यस्तं धृष्टमस्त्रमिदं विदुः ॥ 35.8 ॥
विश्वास-प्रस्तुतिः - 35.9
क्रोधी पिनाकी मायी स्यात् खड्गी मायासमन्वितः।
अत्रिः पिनाकी मुण्डश्च दीर्घयुक्तो रसस्तथा ॥ 35.9 ॥
मूलम् - 35.9
क्रोधी पिनाकी मायी स्यात् खड्गी मायासमन्वितः।
अत्रिः पिनाकी मुण्डश्च दीर्घयुक्तो रसस्तथा ॥ 35.9 ॥
तारं 9शिरोयुतं मन्त्रं प्रतीहारतरं विदुः।
विश्वास-प्रस्तुतिः - 35.12
स्तोभात्मने इति ब्रूयात् पराङ्मुख इति क्रमात्।
आयेति च हृदन्तं तु पराङ्मुखमुदाहृतम् ॥ 35.12 ॥
मूलम् - 35.12
स्तोभात्मने इति ब्रूयात् पराङ्मुख इति क्रमात्।
आयेति च हृदन्तं तु पराङ्मुखमुदाहृतम् ॥ 35.12 ॥
विश्वास-प्रस्तुतिः - 35.13
अमरेशस्तथात्रिश्च सवाल्याषाढनायकः।
विद्रावणायेति 10पदमवेति तदनन्तरम् ॥ 35.13 ॥
मूलम् - 35.13
अमरेशस्तथात्रिश्च सवाल्याषाढनायकः।
विद्रावणायेति 10पदमवेति तदनन्तरम् ॥ 35.13 ॥
विश्वास-प्रस्तुतिः - 35.14
नतेति च प्रयोक्तव्यं 11फलाय तदनन्तरम्।
शिरोयुक्तमिमं मन्त्रं मन्त्रिणोऽवाङ्मुखं विदुः ॥ 35.14 ॥
मूलम् - 35.14
नतेति च प्रयोक्तव्यं 11फलाय तदनन्तरम्।
शिरोयुक्तमिमं मन्त्रं मन्त्रिणोऽवाङ्मुखं विदुः ॥ 35.14 ॥
विश्वास-प्रस्तुतिः - 35.15
नियुतापरपर्यायं 12भेदिने इत्यनन्तरम्।
निरासकेति चावृत्तं पदमायेति चेत्यथ ॥ 35.15 ॥
मूलम् - 35.15
नियुतापरपर्यायं 12भेदिने इत्यनन्तरम्।
निरासकेति चावृत्तं पदमायेति चेत्यथ ॥ 35.15 ॥
विश्वास-प्रस्तुतिः - 35.17
आषाढो वह्निसहितो 13लोहितश्चाग्निसंयुतः।
भृगुः सदीर्घो वह्निश्च मर्षयेति द्विरभ्यसेत् ॥ 35.17 ॥
मूलम् - 35.17
आषाढो वह्निसहितो 13लोहितश्चाग्निसंयुतः।
भृगुः सदीर्घो वह्निश्च मर्षयेति द्विरभ्यसेत् ॥ 35.17 ॥
विश्वास-प्रस्तुतिः - 35.19
निबिडेति ततो न्यस्य गात्रशब्दं ततः परम्।
विष्कम्भेति 14शिरोऽन्तं च दृढनाभमुदाहृतम् ॥ 35.19 ॥
मूलम् - 35.19
निबिडेति ततो न्यस्य गात्रशब्दं ततः परम्।
विष्कम्भेति 14शिरोऽन्तं च दृढनाभमुदाहृतम् ॥ 35.19 ॥
विश्वास-प्रस्तुतिः - 35.20
हास्वा यक्राचतसृवि मोन ओं व्युत्क्रमो मनुः।
संहारकमिदं चास्त्रं विदुः पूर्वे महर्षयः ॥ 35.20 ॥
मूलम् - 35.20
हास्वा यक्राचतसृवि मोन ओं व्युत्क्रमो मनुः।
संहारकमिदं चास्त्रं विदुः पूर्वे महर्षयः ॥ 35.20 ॥
विश्वास-प्रस्तुतिः - 35.23
तारपूर्वं च हृदयं चलगण्डं ततो न्यसेत्।
अम्बरं सामराधीशं वक्त्रायेति पदं ततः ॥ 35.23 ॥
मूलम् - 35.23
तारपूर्वं च हृदयं चलगण्डं ततो न्यसेत्।
अम्बरं सामराधीशं वक्त्रायेति पदं ततः ॥ 35.23 ॥
विश्वास-प्रस्तुतिः - 35.24
वज्रवारणशब्दौ च 15आयान्तं शतवक्त्रकम्।
शिवोत्तमः 16सदन्तः स्यादग्निर्दीर्घसमन्वितः ॥ 35.24 ॥
मूलम् - 35.24
वज्रवारणशब्दौ च 15आयान्तं शतवक्त्रकम्।
शिवोत्तमः 16सदन्तः स्यादग्निर्दीर्घसमन्वितः ॥ 35.24 ॥
विश्वास-प्रस्तुतिः - 35.27
जालायेति प्रयोक्तव्यं बहूदरपदं ततः।
आयेत्यन्ते प्रयोक्तव्यं शतोदरमिदं विदुः ॥ 35.27 ॥
मूलम् - 35.27
जालायेति प्रयोक्तव्यं बहूदरपदं ततः।
आयेत्यन्ते प्रयोक्तव्यं शतोदरमिदं विदुः ॥ 35.27 ॥
विश्वास-प्रस्तुतिः - 35.28
लोहितः पावकश्चैव नकुलीशस्ततः परम्।
आषाढो मायया युक्तः प्रवृत्त इति च क्रमात् ॥ 35.28 ॥
मूलम् - 35.28
लोहितः पावकश्चैव नकुलीशस्ततः परम्।
आषाढो मायया युक्तः प्रवृत्त इति च क्रमात् ॥ 35.28 ॥
विश्वास-प्रस्तुतिः - 35.30
बकः खड्गीश्वरो मायी नाशनायेति च न्यसेत्।
चक्रान्मन इति ब्रूयात् स्वस्त्यन्तो मन्त्रनायकः ॥ 35.30 ॥
मूलम् - 35.30
बकः खड्गीश्वरो मायी नाशनायेति च न्यसेत्।
चक्रान्मन इति ब्रूयात् स्वस्त्यन्तो मन्त्रनायकः ॥ 35.30 ॥
विश्वास-प्रस्तुतिः - 35.32
शूलायेति प्रयोक्तव्यं चण्डनाभाय 17चेत्यतः।
स्वस्ति चैव द्विरभ्यस्तं दुन्दुनाभमिदं विदुः ॥ 35.32 ॥
मूलम् - 35.32
शूलायेति प्रयोक्तव्यं चण्डनाभाय 17चेत्यतः।
स्वस्ति चैव द्विरभ्यस्तं दुन्दुनाभमिदं विदुः ॥ 35.32 ॥
विश्वास-प्रस्तुतिः - 35.33
मेषो मायी च साङ्घ्रीशो भृगुश्चैवात्रिरेव च।
मायायुक्तस्तथाषाढो दीर्घदण्डसमन्वितः ॥ 35.33 ॥
मूलम् - 35.33
मेषो मायी च साङ्घ्रीशो भृगुश्चैवात्रिरेव च।
मायायुक्तस्तथाषाढो दीर्घदण्डसमन्वितः ॥ 35.33 ॥
विश्वास-प्रस्तुतिः - 35.34
क्रीधी च 18सामरेशः स्याद् बको दीर्घसमन्वितः।
वाली दीर्घसमायुक्तो निवारितपदं ततः ॥ 35.34 ॥
मूलम् - 35.34
क्रीधी च 18सामरेशः स्याद् बको दीर्घसमन्वितः।
वाली दीर्घसमायुक्तो निवारितपदं ततः ॥ 35.34 ॥
विश्वास-प्रस्तुतिः - 35.36
संवर्तकः सामरेशो मीनो 19बिन्दुसमन्वितः।
मायी च क्षामयेत्येतदावृत्तं 20वृत्तिमान् मनुः ॥ 35.36 ॥
मूलम् - 35.36
संवर्तकः सामरेशो मीनो 19बिन्दुसमन्वितः।
मायी च क्षामयेत्येतदावृत्तं 20वृत्तिमान् मनुः ॥ 35.36 ॥
विश्वास-प्रस्तुतिः - 35.38
लोहितो मायया युक्त आषाढो भारभूतिमान्।
देवसारेत्यतः पाठ्यं सर्वाभयपदं ततः ॥ 35.38 ॥
मूलम् - 35.38
लोहितो मायया युक्त आषाढो भारभूतिमान्।
देवसारेत्यतः पाठ्यं सर्वाभयपदं ततः ॥ 35.38 ॥
विश्वास-प्रस्तुतिः - 35.39
प्रदेत्येतत् प्रयोक्तव्यं सर्वशान्तिकराय च।
शिरोऽन्त एष मन्त्रस्तु पितृसौमनसं स्मृतम् ॥ 35.39 ॥
मूलम् - 35.39
प्रदेत्येतत् प्रयोक्तव्यं सर्वशान्तिकराय च।
शिरोऽन्त एष मन्त्रस्तु पितृसौमनसं स्मृतम् ॥ 35.39 ॥
विश्वास-प्रस्तुतिः - 35.40
तारं तथा च हृदयं खड्गीशो मायया युतः।
मीनश्चाङ्घ्रीशसंयुक्त आषाढो दीर्घसंयुतः ॥ 35.40 ॥
मूलम् - 35.40
तारं तथा च हृदयं खड्गीशो मायया युतः।
मीनश्चाङ्घ्रीशसंयुक्त आषाढो दीर्घसंयुतः ॥ 35.40 ॥
विश्वास-प्रस्तुतिः - 35.41
चण्डो मायी पिनाकी चाप्याषाढो दीर्घसंयुतः।
लोहितश्च करायेति पदं तत उदीर्य च ॥ 35.41 ॥
मूलम् - 35.41
चण्डो मायी पिनाकी चाप्याषाढो दीर्घसंयुतः।
लोहितश्च करायेति पदं तत उदीर्य च ॥ 35.41 ॥
विश्वास-प्रस्तुतिः - 35.43
शस्त्रास्त्रशब्दौ चोच्चार्य शक्तये इत्यनन्तरम्।
शक्तिशालिन इत्युक्त्वा मकरायेति च क्रमात् ॥ 35.43 ॥
मूलम् - 35.43
शस्त्रास्त्रशब्दौ चोच्चार्य शक्तये इत्यनन्तरम्।
शक्तिशालिन इत्युक्त्वा मकरायेति च क्रमात् ॥ 35.43 ॥
विश्वास-प्रस्तुतिः - 35.44
प्रवृत्तास्त्रपदे चैव महार्णवपदं ततः।
विभेदिन इति ब्रूयादेतन्मकरमुत्तमम् ॥ 35.44 ॥
मूलम् - 35.44
प्रवृत्तास्त्रपदे चैव महार्णवपदं ततः।
विभेदिन इति ब्रूयादेतन्मकरमुत्तमम् ॥ 35.44 ॥
विश्वास-प्रस्तुतिः - 35.45
तारपूर्वं नमश्चोक्त्वा तिरस्कृतपदं ततः।
गदाशब्दं समुच्चार्य 18वीर्यायेति ततः पठेत् ॥ 35.45 ॥
मूलम् - 35.45
तारपूर्वं नमश्चोक्त्वा तिरस्कृतपदं ततः।
गदाशब्दं समुच्चार्य 18वीर्यायेति ततः पठेत् ॥ 35.45 ॥
विश्वास-प्रस्तुतिः - 35.48
वेतवाजीर्तरापेति व्युत्क्रमेण समीरितम्।
शिरोऽन्त एष मन्त्रस्तु धान्यमित्युच्यते बुधैः ॥ 35.48 ॥
मूलम् - 35.48
वेतवाजीर्तरापेति व्युत्क्रमेण समीरितम्।
शिरोऽन्त एष मन्त्रस्तु धान्यमित्युच्यते बुधैः ॥ 35.48 ॥
विश्वास-प्रस्तुतिः - 35.49
लोहितो वह्निसंयुक्तश्चण्डाद्यन्तौ[^28] ततः क्रमात्।
बको मुण्डः समायी स्यात् सवह्निर्लोहितस्यथा ॥ 35.49 ॥
मूलम् - 35.49
लोहितो वह्निसंयुक्तश्चण्डाद्यन्तौ[^28] ततः क्रमात्।
बको मुण्डः समायी स्यात् सवह्निर्लोहितस्यथा ॥ 35.49 ॥
विश्वास-प्रस्तुतिः - 35.50
बको विषं ततो मुण्डो मायी प्रकटितेति च।
अथ विश्वं पदं चोक्त्वा ततः प्रशमयेति च ॥ 35.50 ॥
मूलम् - 35.50
बको विषं ततो मुण्डो मायी प्रकटितेति च।
अथ विश्वं पदं चोक्त्वा ततः प्रशमयेति च ॥ 35.50 ॥
विश्वास-प्रस्तुतिः - 35.52
क्रोधी [^29]चानन्तसहितो बकयुग् दीर्घमग्निमत्[^30]।
मुण्डो वाली शिरोऽन्तश्च कृशनं समुदाहृतम् ॥ 35.52 ॥
मूलम् - 35.52
क्रोधी [^29]चानन्तसहितो बकयुग् दीर्घमग्निमत्[^30]।
मुण्डो वाली शिरोऽन्तश्च कृशनं समुदाहृतम् ॥ 35.52 ॥
विश्वास-प्रस्तुतिः - 35.53
मायी खड्गी शिखी चैव महामायी पिनाकवान्।
कृतचक्रेति शब्दौ च चक्रायेति च निर्दिशेत् ॥ 35.53 ॥
मूलम् - 35.53
मायी खड्गी शिखी चैव महामायी पिनाकवान्।
कृतचक्रेति शब्दौ च चक्रायेति च निर्दिशेत् ॥ 35.53 ॥
विश्वास-प्रस्तुतिः - 35.55
भृगुश्च मायासंयुक्त आषाढो दीर्घसंयुतः।
मायी चण्डः पिनाकी च सानन्तोऽतः परं क्रमात् ॥ 35.55 ॥
मूलम् - 35.55
भृगुश्च मायासंयुक्त आषाढो दीर्घसंयुतः।
मायी चण्डः पिनाकी च सानन्तोऽतः परं क्रमात् ॥ 35.55 ॥
विश्वास-प्रस्तुतिः - 35.56
भृगुः साषाढदीर्घाग्निर्वाली च तदनन्तरम्।
विमलायेति चोच्चार्य शिरोऽन्तं विमलं स्मृतम् ॥ 35.56 ॥
मूलम् - 35.56
भृगुः साषाढदीर्घाग्निर्वाली च तदनन्तरम्।
विमलायेति चोच्चार्य शिरोऽन्तं विमलं स्मृतम् ॥ 35.56 ॥
विश्वास-प्रस्तुतिः - 35.57
भृगुर्लान्तः सवह्निश्च मायाशब्दं पठेत् ततः।
मयास्त्रायेति च पदं तमोबर्हण इत्यपि ॥ 35.57 ॥
मूलम् - 35.57
भृगुर्लान्तः सवह्निश्च मायाशब्दं पठेत् ततः।
मयास्त्रायेति च पदं तमोबर्हण इत्यपि ॥ 35.57 ॥
विश्वास-प्रस्तुतिः - 35.58
मूर्तये इति निर्दिश्य योगं चेति ततः पठेत्।
धरायेति पदं चापि महते इत्यनन्तरम् ॥ 35.58 ॥
मूलम् - 35.58
मूर्तये इति निर्दिश्य योगं चेति ततः पठेत्।
धरायेति पदं चापि महते इत्यनन्तरम् ॥ 35.58 ॥
विश्वास-प्रस्तुतिः - 35.59
भीषणायेति च ब्रूयादभ्यस्तं हृदयं ततः।
योगंधरमिदं प्रोक्तमस्त्रं निखिलवन्दितम् ॥ 35.59 ॥
मूलम् - 35.59
भीषणायेति च ब्रूयादभ्यस्तं हृदयं ततः।
योगंधरमिदं प्रोक्तमस्त्रं निखिलवन्दितम् ॥ 35.59 ॥
विश्वास-प्रस्तुतिः - 35.60
मुण्डो मायी तथाकाश आषाढश्च ततः परम्।
मेषो मायायुतोऽत्रिश्च सदीर्घाग्निस्ततः परम् ॥ 35.60 ॥
मूलम् - 35.60
मुण्डो मायी तथाकाश आषाढश्च ततः परम्।
मेषो मायायुतोऽत्रिश्च सदीर्घाग्निस्ततः परम् ॥ 35.60 ॥
विश्वास-प्रस्तुतिः - 35.63
विषं ततश्च दण्डीशं मायया च समन्वितम्।
आषाढं च बकं चैव पठित्वा तदनन्तरम् ॥ 35.63 ॥
मूलम् - 35.63
विषं ततश्च दण्डीशं मायया च समन्वितम्।
आषाढं च बकं चैव पठित्वा तदनन्तरम् ॥ 35.63 ॥
विश्वास-प्रस्तुतिः - 35.64
ततः क्रोधी च साषाढश्चण्डीशेन समन्वितः।
प्रसादयेत्यथावृत्तमस्त्रं प्रमथनं स्मृतम् ॥ 35.64 ॥
मूलम् - 35.64
ततः क्रोधी च साषाढश्चण्डीशेन समन्वितः।
प्रसादयेत्यथावृत्तमस्त्रं प्रमथनं स्मृतम् ॥ 35.64 ॥
विश्वास-प्रस्तुतिः - 35.65
वरुणेन समायुक्तो दीर्घयुक्तश्चतुर्मुखः।
ततः पिनाकी सानन्तो लान्तो मायी ततः परम् ॥ 35.65 ॥
मूलम् - 35.65
वरुणेन समायुक्तो दीर्घयुक्तश्चतुर्मुखः।
ततः पिनाकी सानन्तो लान्तो मायी ततः परम् ॥ 35.65 ॥
विश्वास-प्रस्तुतिः - 35.66
ज्वालान्तो मायया युक्तः पिनाकी च ततः परम्।
आद्यं चतुर्थवर्गस्य महासीति पठेत् ततः ॥ 35.66 ॥
मूलम् - 35.66
ज्वालान्तो मायया युक्तः पिनाकी च ततः परम्।
आद्यं चतुर्थवर्गस्य महासीति पठेत् ततः ॥ 35.66 ॥
विश्वास-प्रस्तुतिः - 35.67
शक्त इत्यपि वक्तव्यं महामहस इत्यपि।
मर्षयेति द्विरभ्यस्तं सार्चिर्मालिरयं मनुः ॥ 35.67 ॥
मूलम् - 35.67
शक्त इत्यपि वक्तव्यं महामहस इत्यपि।
मर्षयेति द्विरभ्यस्तं सार्चिर्मालिरयं मनुः ॥ 35.67 ॥
विश्वास-प्रस्तुतिः - 35.68
हास्वा नञ्जभरञ्चासरपत्तवृप्र इत्यपि।
रस्वा इति व्युत्क्रमेण कामरूपमिदं स्मृतम् ॥ 35.68 ॥
मूलम् - 35.68
हास्वा नञ्जभरञ्चासरपत्तवृप्र इत्यपि।
रस्वा इति व्युत्क्रमेण कामरूपमिदं स्मृतम् ॥ 35.68 ॥
विश्वास-प्रस्तुतिः - 35.70
कबन्धेति पदं ब्रूयात् संधानायेति चान्ततः।
शिखान्तोऽयं कामरुचिर्मन्त्रः पूर्वैः समीरितः ॥ 35.70 ॥
मूलम् - 35.70
कबन्धेति पदं ब्रूयात् संधानायेति चान्ततः।
शिखान्तोऽयं कामरुचिर्मन्त्रः पूर्वैः समीरितः ॥ 35.70 ॥
विश्वास-प्रस्तुतिः - 35.72
खड्गीशो दीर्घसंयुक्तो वह्निर्मायासमन्वितः।
आषाढश्च महाकालो व्योम दीर्घान्वितं ततः ॥ 35.72 ॥
मूलम् - 35.72
खड्गीशो दीर्घसंयुक्तो वह्निर्मायासमन्वितः।
आषाढश्च महाकालो व्योम दीर्घान्वितं ततः ॥ 35.72 ॥
विश्वास-प्रस्तुतिः - 35.73
महाकालश्च सानन्तो वाली चण्डीशसंयुतः।
शिरोऽन्तोऽयं महामन्त्रः प्रोक्तमावरणं बुधैः ॥ 35.73 ॥
मूलम् - 35.73
महाकालश्च सानन्तो वाली चण्डीशसंयुतः।
शिरोऽन्तोऽयं महामन्त्रः प्रोक्तमावरणं बुधैः ॥ 35.73 ॥
विश्वास-प्रस्तुतिः - 35.74
द्विरण्डौ द्वौ क्रमान्न्यस्य सदण्डौ चतुराननम्।
मुण्डमुच्चार्य परतः स्वस्तीति पदमुद्धरेत् ॥ 35.74 ॥
मूलम् - 35.74
द्विरण्डौ द्वौ क्रमान्न्यस्य सदण्डौ चतुराननम्।
मुण्डमुच्चार्य परतः स्वस्तीति पदमुद्धरेत् ॥ 35.74 ॥
विश्वास-प्रस्तुतिः - 35.77
वेगाद्यन्तौ क्रमादुक्त्वा विश्वाद्यं च ततः परम्।
जितशब्दमथोच्चार्य वैनतेयाय इत्यपि ॥ 35.77 ॥
मूलम् - 35.77
वेगाद्यन्तौ क्रमादुक्त्वा विश्वाद्यं च ततः परम्।
जितशब्दमथोच्चार्य वैनतेयाय इत्यपि ॥ 35.77 ॥
विश्वास-प्रस्तुतिः - 35.79
खड्गीशः साग्निदीर्घश्च [^36]लोहितोऽथ उमापतिः।
शं कुर्विति द्विरभ्यस्तो मन्त्र संधानमुच्यते ॥ 35.79 ॥
मूलम् - 35.79
खड्गीशः साग्निदीर्घश्च [^36]लोहितोऽथ उमापतिः।
शं कुर्विति द्विरभ्यस्तो मन्त्र संधानमुच्यते ॥ 35.79 ॥
विश्वास-प्रस्तुतिः - 35.80
भृगुर्लान्तोऽग्निसहितो दण्डेन च समन्वितः।
भृगुर्व्योमाथ जीवश्च वरुणेन समन्वितः ॥ 35.80 ॥
मूलम् - 35.80
भृगुर्लान्तोऽग्निसहितो दण्डेन च समन्वितः।
भृगुर्व्योमाथ जीवश्च वरुणेन समन्वितः ॥ 35.80 ॥
विश्वास-प्रस्तुतिः - 35.82
सर्वाध्यक्षाप्रमेयात्मन्नचिन्त्यज्ञानगोचर।
त्वामाश्रित्य सुराः सर्वे लभन्ते काङ्क्षितं फलम्॥ 35.82 ॥
मूलम् - 35.82
सर्वाध्यक्षाप्रमेयात्मन्नचिन्त्यज्ञानगोचर।
त्वामाश्रित्य सुराः सर्वे लभन्ते काङ्क्षितं फलम्॥ 35.82 ॥
विश्वास-प्रस्तुतिः - 35.83
त्वत्तः सर्वं समुद्भूतं जगत् स्थावरजङ्गमम्।
त्वयैव [^37]पालितं सर्वं संहृतं च महेश्वर ॥ 35.83 ।
मूलम् - 35.83
त्वत्तः सर्वं समुद्भूतं जगत् स्थावरजङ्गमम्।
त्वयैव [^37]पालितं सर्वं संहृतं च महेश्वर ॥ 35.83 ।
विश्वास-प्रस्तुतिः - 35.84
त्वमादिः सर्वजगतामनादिस्त्वं जगन्मय।
पुरुषस्त्वं त्वमव्यक्तो व्यक्तस्त्वं विश्वभावन ॥ 35.84 ॥
मूलम् - 35.84
त्वमादिः सर्वजगतामनादिस्त्वं जगन्मय।
पुरुषस्त्वं त्वमव्यक्तो व्यक्तस्त्वं विश्वभावन ॥ 35.84 ॥
विश्वास-प्रस्तुतिः - 35.85
यज्ञस्त्वमिज्यो यष्टा त्वमग्नयस्त्वं त्वमाहुतिः।
वषट्कारस्त्वमोंकारो [^38]वेदवेद्यस्तथा भवान् ॥ 35.85 ॥
मूलम् - 35.85
यज्ञस्त्वमिज्यो यष्टा त्वमग्नयस्त्वं त्वमाहुतिः।
वषट्कारस्त्वमोंकारो [^38]वेदवेद्यस्तथा भवान् ॥ 35.85 ॥
विश्वास-प्रस्तुतिः - 35.86
त्वत्त एव च भूतानि प्रवर्तन्ते महेश्वर।
करणं कारणं कर्ता कार्यं कर्म फलं विभो ॥ 35.86 ॥
मूलम् - 35.86
त्वत्त एव च भूतानि प्रवर्तन्ते महेश्वर।
करणं कारणं कर्ता कार्यं कर्म फलं विभो ॥ 35.86 ॥
विश्वास-प्रस्तुतिः - 35.87
त्वमेव भूतं भव्यं च भवच्च परमेश्वर।
निर्गुणस्त्वं जगत्सृष्टौ जुषमाणो [^39]गुणानसि ॥ 35.87 ॥
मूलम् - 35.87
त्वमेव भूतं भव्यं च भवच्च परमेश्वर।
निर्गुणस्त्वं जगत्सृष्टौ जुषमाणो [^39]गुणानसि ॥ 35.87 ॥
विश्वास-प्रस्तुतिः - 35.88
अणीयसामणीयांस्त्वं महांश्च त्वं महीयसाम्।
अनुरक्तस्त्वयीशान प्रयाति परमां गतिम् ॥ 35.88 ॥
मूलम् - 35.88
अणीयसामणीयांस्त्वं महांश्च त्वं महीयसाम्।
अनुरक्तस्त्वयीशान प्रयाति परमां गतिम् ॥ 35.88 ॥
विश्वास-प्रस्तुतिः - 35.89
अपरक्तो व्रजत्येव निरयं [^40]विकृतिर्न ते।
कलाकाष्ठामुहूर्तादिकालश्च[^41] त्वं कलात्मकः ॥ 35.89 ॥
मूलम् - 35.89
अपरक्तो व्रजत्येव निरयं [^40]विकृतिर्न ते।
कलाकाष्ठामुहूर्तादिकालश्च[^41] त्वं कलात्मकः ॥ 35.89 ॥
विश्वास-प्रस्तुतिः - 35.90
सर्वदा सर्वभूतेषु निवसन्नपि शंकर।
न लिप्यसे तद्विकारैः पद्मपत्रमिवाम्भसा ॥ 35.90 ॥
मूलम् - 35.90
सर्वदा सर्वभूतेषु निवसन्नपि शंकर।
न लिप्यसे तद्विकारैः पद्मपत्रमिवाम्भसा ॥ 35.90 ॥
विश्वास-प्रस्तुतिः - 35.91
करामलकवत् सर्वं सर्वदा कलयस्यतः।
प्रोक्तवानसि सर्वास्त्रस्वरूपं पृच्छतो मम ॥ 35.91 ॥
मूलम् - 35.91
करामलकवत् सर्वं सर्वदा कलयस्यतः।
प्रोक्तवानसि सर्वास्त्रस्वरूपं पृच्छतो मम ॥ 35.91 ॥
अस्त्राणां मूर्तत्वामूर्तत्वप्रश्नः
विश्वास-प्रस्तुतिः - 35.92
किमेषां मूर्तयः सन्ति किं वामूर्तान्यमूनि वै।
छेत्तुमर्हसि देवेस तमिमं संशयं विभो ॥ 35.92 ।
मूलम् - 35.92
किमेषां मूर्तयः सन्ति किं वामूर्तान्यमूनि वै।
छेत्तुमर्हसि देवेस तमिमं संशयं विभो ॥ 35.92 ।
विश्वास-प्रस्तुतिः - 35.94
भीषिताघूर्णितारक्तवृत्तनेत्रयुतानि वै।
विद्युत्पुञ्जप्रतीकाशकेशभीमानि नारद ॥ 35.94 ॥
मूलम् - 35.94
भीषिताघूर्णितारक्तवृत्तनेत्रयुतानि वै।
विद्युत्पुञ्जप्रतीकाशकेशभीमानि नारद ॥ 35.94 ॥
विश्वास-प्रस्तुतिः - 35.95
कानिचिद्धूम्रवर्णानि भास्कराभानि कानिचित्।
कानिचिच्छुक्लवर्णानि वह्निकल्पानि कानिचित् ॥ 35.95 ॥
मूलम् - 35.95
कानिचिद्धूम्रवर्णानि भास्कराभानि कानिचित्।
कानिचिच्छुक्लवर्णानि वह्निकल्पानि कानिचित् ॥ 35.95 ॥
विश्वास-प्रस्तुतिः - 35.96
महापरिघसंकाशभीमरूपैः करैः परैः।
यथास्वं धृतशस्त्राणि महान्ति बलवन्ति च ॥ 35.96 ॥
मूलम् - 35.96
महापरिघसंकाशभीमरूपैः करैः परैः।
यथास्वं धृतशस्त्राणि महान्ति बलवन्ति च ॥ 35.96 ॥
विश्वास-प्रस्तुतिः - 35.97
वेगवन्ति प्रमाथीनि वैरिदर्पद्रुहाणि च।
उपासितानि सततं सुरासुरवरैरपि ॥ 35.97 ॥
मूलम् - 35.97
वेगवन्ति प्रमाथीनि वैरिदर्पद्रुहाणि च।
उपासितानि सततं सुरासुरवरैरपि ॥ 35.97 ॥
विश्वास-प्रस्तुतिः - 35.98
एवंभूतान्यधिष्ठाय गात्राण्यस्त्राणि नारद।
विचरन्ति यथाकाममकुतोभीतिमन्ति च ॥ 35.98 ॥
मूलम् - 35.98
एवंभूतान्यधिष्ठाय गात्राण्यस्त्राणि नारद।
विचरन्ति यथाकाममकुतोभीतिमन्ति च ॥ 35.98 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां संहारास्त्रस्वरूपनिरूपणं नाम पञ्चत्रिंशोऽध्यायः
आदितः श्लोकाः 2252
————*******————-