३५

संहारास्त्रस्वरूपनिरूपणं नाम पञ्चत्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि॥
संहारास्त्रस्वरूपप्रश्नः
नारदः—

विश्वास-प्रस्तुतिः - 35.1

भगवन् 1पूर्वमाख्यातं संहारास्त्राण्यशेषतः।
सुदर्शनस्यापराङ्गान्निर्जग्मुरिति चेश्वर ॥ 35.1 ॥

मूलम् - 35.1

भगवन् 1पूर्वमाख्यातं संहारास्त्राण्यशेषतः।
सुदर्शनस्यापराङ्गान्निर्जग्मुरिति चेश्वर ॥ 35.1 ॥

विश्वास-प्रस्तुतिः - 35.2

तेषां स्वरूपविज्ञाने वर्तते मे कुतूहलम्।
वक्तुमर्हस्यशेषेण 2यदि सानुग्रहो मयि ॥ 35.2 ॥

मूलम् - 35.2

तेषां स्वरूपविज्ञाने वर्तते मे कुतूहलम्।
वक्तुमर्हस्यशेषेण 2यदि सानुग्रहो मयि ॥ 35.2 ॥

तदुत्तरकथनारम्भः अहिर्बुध्न्यः---
विश्वास-प्रस्तुतिः - 35.3

तदेतत् परमं गुह्यं पुरा 3नारायणेरितम्।
भक्तोषऽसीति तव स्नेहाद् वक्ष्यामि श्रृणु नारद ॥ 35.3 ॥

मूलम् - 35.3

तदेतत् परमं गुह्यं पुरा 3नारायणेरितम्।
भक्तोषऽसीति तव स्नेहाद् वक्ष्यामि श्रृणु नारद ॥ 35.3 ॥

विश्वास-प्रस्तुतिः - 35.4

लोहितोऽग्निसमायुक्तः खकड्गीशो भारभूतिमान्।
आषाढयुग्मं मुण्कडश्च मायी स्यात् खड्गनायकः ॥ 35.4 ॥

मूलम् - 35.4

लोहितोऽग्निसमायुक्तः खकड्गीशो भारभूतिमान्।
आषाढयुग्मं मुण्कडश्च मायी स्यात् खड्गनायकः ॥ 35.4 ॥

विश्वास-प्रस्तुतिः - 35.5

साग्न्याषाढयुगं पश्चात् 8क्रोधीशं निर्दिशेत् ततः।
परमेष्ठिन्निति ब्रूयादथो ऋतमिति क्रमात् ॥ 35.5 ॥

मूलम् - 35.5

साग्न्याषाढयुगं पश्चात् 8क्रोधीशं निर्दिशेत् ततः।
परमेष्ठिन्निति ब्रूयादथो ऋतमिति क्रमात् ॥ 35.5 ॥

पिबेति सशिरोमन्त्रः [^5]सत्यवानिति विश्रुतः।
विश्वास-प्रस्तुतिः - 35.8

महाकालश्च मज्जा च साग्निश्चोमापतिस्तथा।
प्रसादयेत्यथाभ्यस्तं धृष्टमस्त्रमिदं विदुः ॥ 35.8 ॥

मूलम् - 35.8

महाकालश्च मज्जा च साग्निश्चोमापतिस्तथा।
प्रसादयेत्यथाभ्यस्तं धृष्टमस्त्रमिदं विदुः ॥ 35.8 ॥

विश्वास-प्रस्तुतिः - 35.9

क्रोधी पिनाकी मायी स्यात् खड्गी मायासमन्वितः।
अत्रिः पिनाकी मुण्डश्च दीर्घयुक्तो रसस्तथा ॥ 35.9 ॥

मूलम् - 35.9

क्रोधी पिनाकी मायी स्यात् खड्गी मायासमन्वितः।
अत्रिः पिनाकी मुण्डश्च दीर्घयुक्तो रसस्तथा ॥ 35.9 ॥

[^7]अग्निर्द्विरण्डश्च भृगुर्दीर्घो वाली ततः परम्। नमोऽन्त एष मन्त्रस्तु रभसः परिकीर्तितः ॥ 35.10 ॥

तारं 9शिरोयुतं मन्त्रं प्रतीहारतरं विदुः।

विश्वास-प्रस्तुतिः - 35.12

स्तोभात्मने इति ब्रूयात् पराङ्मुख इति क्रमात्।
आयेति च हृदन्तं तु पराङ्मुखमुदाहृतम् ॥ 35.12 ॥

मूलम् - 35.12

स्तोभात्मने इति ब्रूयात् पराङ्मुख इति क्रमात्।
आयेति च हृदन्तं तु पराङ्मुखमुदाहृतम् ॥ 35.12 ॥

विश्वास-प्रस्तुतिः - 35.13

अमरेशस्तथात्रिश्च सवाल्याषाढनायकः।
विद्रावणायेति 10पदमवेति तदनन्तरम् ॥ 35.13 ॥

मूलम् - 35.13

अमरेशस्तथात्रिश्च सवाल्याषाढनायकः।
विद्रावणायेति 10पदमवेति तदनन्तरम् ॥ 35.13 ॥

विश्वास-प्रस्तुतिः - 35.14

नतेति च प्रयोक्तव्यं 11फलाय तदनन्तरम्।
शिरोयुक्तमिमं मन्त्रं मन्त्रिणोऽवाङ्मुखं विदुः ॥ 35.14 ॥

मूलम् - 35.14

नतेति च प्रयोक्तव्यं 11फलाय तदनन्तरम्।
शिरोयुक्तमिमं मन्त्रं मन्त्रिणोऽवाङ्मुखं विदुः ॥ 35.14 ॥

विश्वास-प्रस्तुतिः - 35.15

नियुतापरपर्यायं 12भेदिने इत्यनन्तरम्।
निरासकेति चावृत्तं पदमायेति चेत्यथ ॥ 35.15 ॥

मूलम् - 35.15

नियुतापरपर्यायं 12भेदिने इत्यनन्तरम्।
निरासकेति चावृत्तं पदमायेति चेत्यथ ॥ 35.15 ॥

हृदयान्तमिमं मन्त्रं लक्षाक्षं परिचक्षते।
विश्वास-प्रस्तुतिः - 35.17

आषाढो वह्निसहितो 13लोहितश्चाग्निसंयुतः।
भृगुः सदीर्घो वह्निश्च मर्षयेति द्विरभ्यसेत् ॥ 35.17 ॥

मूलम् - 35.17

आषाढो वह्निसहितो 13लोहितश्चाग्निसंयुतः।
भृगुः सदीर्घो वह्निश्च मर्षयेति द्विरभ्यसेत् ॥ 35.17 ॥

एतद्विषममित्युक्तमस्त्रं परमदुर्जयम्।
विश्वास-प्रस्तुतिः - 35.19

निबिडेति ततो न्यस्य गात्रशब्दं ततः परम्।
विष्कम्भेति 14शिरोऽन्तं च दृढनाभमुदाहृतम् ॥ 35.19 ॥

मूलम् - 35.19

निबिडेति ततो न्यस्य गात्रशब्दं ततः परम्।
विष्कम्भेति 14शिरोऽन्तं च दृढनाभमुदाहृतम् ॥ 35.19 ॥

विश्वास-प्रस्तुतिः - 35.20

हास्वा यक्राचतसृवि मोन ओं व्युत्क्रमो मनुः।
संहारकमिदं चास्त्रं विदुः पूर्वे महर्षयः ॥ 35.20 ॥

मूलम् - 35.20

हास्वा यक्राचतसृवि मोन ओं व्युत्क्रमो मनुः।
संहारकमिदं चास्त्रं विदुः पूर्वे महर्षयः ॥ 35.20 ॥

विश्वास-प्रस्तुतिः - 35.23

तारपूर्वं च हृदयं चलगण्डं ततो न्यसेत्।
अम्बरं सामराधीशं वक्त्रायेति पदं ततः ॥ 35.23 ॥

मूलम् - 35.23

तारपूर्वं च हृदयं चलगण्डं ततो न्यसेत्।
अम्बरं सामराधीशं वक्त्रायेति पदं ततः ॥ 35.23 ॥

विश्वास-प्रस्तुतिः - 35.24

वज्रवारणशब्दौ च 15आयान्तं शतवक्त्रकम्।
शिवोत्तमः 16सदन्तः स्यादग्निर्दीर्घसमन्वितः ॥ 35.24 ॥

मूलम् - 35.24

वज्रवारणशब्दौ च 15आयान्तं शतवक्त्रकम्।
शिवोत्तमः 16सदन्तः स्यादग्निर्दीर्घसमन्वितः ॥ 35.24 ॥

भृगुराषाढवान् साग्निः कर्तनायेति विन्यसेत्।
विश्वास-प्रस्तुतिः - 35.27

जालायेति प्रयोक्तव्यं बहूदरपदं ततः।
आयेत्यन्ते प्रयोक्तव्यं शतोदरमिदं विदुः ॥ 35.27 ॥

मूलम् - 35.27

जालायेति प्रयोक्तव्यं बहूदरपदं ततः।
आयेत्यन्ते प्रयोक्तव्यं शतोदरमिदं विदुः ॥ 35.27 ॥

विश्वास-प्रस्तुतिः - 35.28

लोहितः पावकश्चैव नकुलीशस्ततः परम्।
आषाढो मायया युक्तः प्रवृत्त इति च क्रमात् ॥ 35.28 ॥

मूलम् - 35.28

लोहितः पावकश्चैव नकुलीशस्ततः परम्।
आषाढो मायया युक्तः प्रवृत्त इति च क्रमात् ॥ 35.28 ॥

नाशनायेत्यथाभ्यस्तं स्वस्त्यन्तं पद्मनाभकम्।
विश्वास-प्रस्तुतिः - 35.30

बकः खड्गीश्वरो मायी नाशनायेति च न्यसेत्।
चक्रान्मन इति ब्रूयात् स्वस्त्यन्तो मन्त्रनायकः ॥ 35.30 ॥

मूलम् - 35.30

बकः खड्गीश्वरो मायी नाशनायेति च न्यसेत्।
चक्रान्मन इति ब्रूयात् स्वस्त्यन्तो मन्त्रनायकः ॥ 35.30 ॥

महानाभमिदं प्राज्ञा वदन्त्यखिलसाधकम्।
विश्वास-प्रस्तुतिः - 35.32

शूलायेति प्रयोक्तव्यं चण्डनाभाय 17चेत्यतः।
स्वस्ति चैव द्विरभ्यस्तं दुन्दुनाभमिदं विदुः ॥ 35.32 ॥

मूलम् - 35.32

शूलायेति प्रयोक्तव्यं चण्डनाभाय 17चेत्यतः।
स्वस्ति चैव द्विरभ्यस्तं दुन्दुनाभमिदं विदुः ॥ 35.32 ॥

विश्वास-प्रस्तुतिः - 35.33

मेषो मायी च साङ्घ्रीशो भृगुश्चैवात्रिरेव च।
मायायुक्तस्तथाषाढो दीर्घदण्डसमन्वितः ॥ 35.33 ॥

मूलम् - 35.33

मेषो मायी च साङ्घ्रीशो भृगुश्चैवात्रिरेव च।
मायायुक्तस्तथाषाढो दीर्घदण्डसमन्वितः ॥ 35.33 ॥

विश्वास-प्रस्तुतिः - 35.34

क्रीधी च 18सामरेशः स्याद् बको दीर्घसमन्वितः।
वाली दीर्घसमायुक्तो निवारितपदं ततः ॥ 35.34 ॥

मूलम् - 35.34

क्रीधी च 18सामरेशः स्याद् बको दीर्घसमन्वितः।
वाली दीर्घसमायुक्तो निवारितपदं ततः ॥ 35.34 ॥

तेजसे इति च ब्रूयात् स्वस्त्य्न्तोऽयं [^21]महामनुः। [^22]धृतिमालीति विख्यातः सर्वलोकेषु पूजितः ॥ 35.35 ॥
विश्वास-प्रस्तुतिः - 35.36

संवर्तकः सामरेशो मीनो 19बिन्दुसमन्वितः।
मायी च क्षामयेत्येतदावृत्तं 20वृत्तिमान् मनुः ॥ 35.36 ॥

मूलम् - 35.36

संवर्तकः सामरेशो मीनो 19बिन्दुसमन्वितः।
मायी च क्षामयेत्येतदावृत्तं 20वृत्तिमान् मनुः ॥ 35.36 ॥

[^25]द्विरावृत्तः प्रहरणं शं तनोतु पदं ततः। शिरोऽन्त एष मन्त्रस्तु रुचिरः परिकीर्तितः ॥ 35.37 ॥
विश्वास-प्रस्तुतिः - 35.38

लोहितो मायया युक्त आषाढो भारभूतिमान्।
देवसारेत्यतः पाठ्यं सर्वाभयपदं ततः ॥ 35.38 ॥

मूलम् - 35.38

लोहितो मायया युक्त आषाढो भारभूतिमान्।
देवसारेत्यतः पाठ्यं सर्वाभयपदं ततः ॥ 35.38 ॥

विश्वास-प्रस्तुतिः - 35.39

प्रदेत्येतत् प्रयोक्तव्यं सर्वशान्तिकराय च।
शिरोऽन्त एष मन्त्रस्तु पितृसौमनसं स्मृतम् ॥ 35.39 ॥

मूलम् - 35.39

प्रदेत्येतत् प्रयोक्तव्यं सर्वशान्तिकराय च।
शिरोऽन्त एष मन्त्रस्तु पितृसौमनसं स्मृतम् ॥ 35.39 ॥

विश्वास-प्रस्तुतिः - 35.40

तारं तथा च हृदयं खड्गीशो मायया युतः।
मीनश्चाङ्घ्रीशसंयुक्त आषाढो दीर्घसंयुतः ॥ 35.40 ॥

मूलम् - 35.40

तारं तथा च हृदयं खड्गीशो मायया युतः।
मीनश्चाङ्घ्रीशसंयुक्त आषाढो दीर्घसंयुतः ॥ 35.40 ॥

विश्वास-प्रस्तुतिः - 35.41

चण्डो मायी पिनाकी चाप्याषाढो दीर्घसंयुतः।
लोहितश्च करायेति पदं तत उदीर्य च ॥ 35.41 ॥

मूलम् - 35.41

चण्डो मायी पिनाकी चाप्याषाढो दीर्घसंयुतः।
लोहितश्च करायेति पदं तत उदीर्य च ॥ 35.41 ॥

परमेत्यथ धाम्ने च विधूतमिदमुत्तमम्।
विश्वास-प्रस्तुतिः - 35.43

शस्त्रास्त्रशब्दौ चोच्चार्य शक्तये इत्यनन्तरम्।
शक्तिशालिन इत्युक्त्वा मकरायेति च क्रमात् ॥ 35.43 ॥

मूलम् - 35.43

शस्त्रास्त्रशब्दौ चोच्चार्य शक्तये इत्यनन्तरम्।
शक्तिशालिन इत्युक्त्वा मकरायेति च क्रमात् ॥ 35.43 ॥

विश्वास-प्रस्तुतिः - 35.44

प्रवृत्तास्त्रपदे चैव महार्णवपदं ततः।
विभेदिन इति ब्रूयादेतन्मकरमुत्तमम् ॥ 35.44 ॥

मूलम् - 35.44

प्रवृत्तास्त्रपदे चैव महार्णवपदं ततः।
विभेदिन इति ब्रूयादेतन्मकरमुत्तमम् ॥ 35.44 ॥

विश्वास-प्रस्तुतिः - 35.45

तारपूर्वं नमश्चोक्त्वा तिरस्कृतपदं ततः।
गदाशब्दं समुच्चार्य 18वीर्यायेति ततः पठेत् ॥ 35.45 ॥

मूलम् - 35.45

तारपूर्वं नमश्चोक्त्वा तिरस्कृतपदं ततः।
गदाशब्दं समुच्चार्य 18वीर्यायेति ततः पठेत् ॥ 35.45 ॥

शिरोऽन्त एष मन्त्रस्तु [^27]करवीरसमं स्मृतम्।
विश्वास-प्रस्तुतिः - 35.48

वेतवाजीर्तरापेति व्युत्क्रमेण समीरितम्।
शिरोऽन्त एष मन्त्रस्तु धान्यमित्युच्यते बुधैः ॥ 35.48 ॥

मूलम् - 35.48

वेतवाजीर्तरापेति व्युत्क्रमेण समीरितम्।
शिरोऽन्त एष मन्त्रस्तु धान्यमित्युच्यते बुधैः ॥ 35.48 ॥

विश्वास-प्रस्तुतिः - 35.49

लोहितो वह्निसंयुक्तश्चण्डाद्यन्तौ[^28] ततः क्रमात्।
बको मुण्डः समायी स्यात् सवह्निर्लोहितस्यथा ॥ 35.49 ॥

मूलम् - 35.49

लोहितो वह्निसंयुक्तश्चण्डाद्यन्तौ[^28] ततः क्रमात्।
बको मुण्डः समायी स्यात् सवह्निर्लोहितस्यथा ॥ 35.49 ॥

विश्वास-प्रस्तुतिः - 35.50

बको विषं ततो मुण्डो मायी प्रकटितेति च।
अथ विश्वं पदं चोक्त्वा ततः प्रशमयेति च ॥ 35.50 ॥

मूलम् - 35.50

बको विषं ततो मुण्डो मायी प्रकटितेति च।
अथ विश्वं पदं चोक्त्वा ततः प्रशमयेति च ॥ 35.50 ॥

द्विरभ्यस्तमिमं मन्त्रं ज्यौतिषं परिचक्षते।
विश्वास-प्रस्तुतिः - 35.52

क्रोधी [^29]चानन्तसहितो बकयुग् दीर्घमग्निमत्[^30]।
मुण्डो वाली शिरोऽन्तश्च कृशनं समुदाहृतम् ॥ 35.52 ॥

मूलम् - 35.52

क्रोधी [^29]चानन्तसहितो बकयुग् दीर्घमग्निमत्[^30]।
मुण्डो वाली शिरोऽन्तश्च कृशनं समुदाहृतम् ॥ 35.52 ॥

[^28]. नैराश्यास्त्रम्
विश्वास-प्रस्तुतिः - 35.53

मायी खड्गी शिखी चैव महामायी पिनाकवान्।
कृतचक्रेति शब्दौ च चक्रायेति च निर्दिशेत् ॥ 35.53 ॥

मूलम् - 35.53

मायी खड्गी शिखी चैव महामायी पिनाकवान्।
कृतचक्रेति शब्दौ च चक्रायेति च निर्दिशेत् ॥ 35.53 ॥

वषडन्तमिमं मन्त्रं नैराश्यं परिचक्षते। [^28].चण्डाद्यन्तः [^29].चानन्द F [^30].दीर्घवह्निमान् E F [^29].विमलास्त्रम् [^31]खड्गेशः प्रथमं मायी चाषाढो दीर्घवह्निमान् ॥ 35.54 ॥
विश्वास-प्रस्तुतिः - 35.55

भृगुश्च मायासंयुक्त आषाढो दीर्घसंयुतः।
मायी चण्डः पिनाकी च सानन्तोऽतः परं क्रमात् ॥ 35.55 ॥

मूलम् - 35.55

भृगुश्च मायासंयुक्त आषाढो दीर्घसंयुतः।
मायी चण्डः पिनाकी च सानन्तोऽतः परं क्रमात् ॥ 35.55 ॥

विश्वास-प्रस्तुतिः - 35.56

भृगुः साषाढदीर्घाग्निर्वाली च तदनन्तरम्।
विमलायेति चोच्चार्य शिरोऽन्तं विमलं स्मृतम् ॥ 35.56 ॥

मूलम् - 35.56

भृगुः साषाढदीर्घाग्निर्वाली च तदनन्तरम्।
विमलायेति चोच्चार्य शिरोऽन्तं विमलं स्मृतम् ॥ 35.56 ॥

[^30].योगंधरास्त्रम्
विश्वास-प्रस्तुतिः - 35.57

भृगुर्लान्तः सवह्निश्च मायाशब्दं पठेत् ततः।
मयास्त्रायेति च पदं तमोबर्हण इत्यपि ॥ 35.57 ॥

मूलम् - 35.57

भृगुर्लान्तः सवह्निश्च मायाशब्दं पठेत् ततः।
मयास्त्रायेति च पदं तमोबर्हण इत्यपि ॥ 35.57 ॥

विश्वास-प्रस्तुतिः - 35.58

मूर्तये इति निर्दिश्य योगं चेति ततः पठेत्।
धरायेति पदं चापि महते इत्यनन्तरम् ॥ 35.58 ॥

मूलम् - 35.58

मूर्तये इति निर्दिश्य योगं चेति ततः पठेत्।
धरायेति पदं चापि महते इत्यनन्तरम् ॥ 35.58 ॥

विश्वास-प्रस्तुतिः - 35.59

भीषणायेति च ब्रूयादभ्यस्तं हृदयं ततः।
योगंधरमिदं प्रोक्तमस्त्रं निखिलवन्दितम् ॥ 35.59 ॥

मूलम् - 35.59

भीषणायेति च ब्रूयादभ्यस्तं हृदयं ततः।
योगंधरमिदं प्रोक्तमस्त्रं निखिलवन्दितम् ॥ 35.59 ॥

[^31]. विनिद्रास्त्रम्
विश्वास-प्रस्तुतिः - 35.60

मुण्डो मायी तथाकाश आषाढश्च ततः परम्।
मेषो मायायुतोऽत्रिश्च सदीर्घाग्निस्ततः परम् ॥ 35.60 ॥

मूलम् - 35.60

मुण्डो मायी तथाकाश आषाढश्च ततः परम्।
मेषो मायायुतोऽत्रिश्च सदीर्घाग्निस्ततः परम् ॥ 35.60 ॥

मुद्रायेति शिरोऽन्तोऽयं [^32]विनिद्रमभिधीयते। [^32].नैद्रास्त्रम् विषमग्न्यनिलोपेतं सषष्ठस्वरबिन्दुकम् ॥ 35.61 ॥ [^31]. खड्गी च B; खड्गीशः E F [^32]. भद्रमित्यभिधीयते D पिण्डमेतच्छिरोऽन्तं च नैद्रमस्त्रविदो विदुः[^33]। [^33].प्रमथनास्त्रम् प्रथमं तारमुच्चार्य हृदयं च ततः परम् ॥ 35.62 ॥
विश्वास-प्रस्तुतिः - 35.63

विषं ततश्च दण्डीशं मायया च समन्वितम्।
आषाढं च बकं चैव पठित्वा तदनन्तरम् ॥ 35.63 ॥

मूलम् - 35.63

विषं ततश्च दण्डीशं मायया च समन्वितम्।
आषाढं च बकं चैव पठित्वा तदनन्तरम् ॥ 35.63 ॥

विश्वास-प्रस्तुतिः - 35.64

ततः क्रोधी च साषाढश्चण्डीशेन समन्वितः।
प्रसादयेत्यथावृत्तमस्त्रं प्रमथनं स्मृतम् ॥ 35.64 ॥

मूलम् - 35.64

ततः क्रोधी च साषाढश्चण्डीशेन समन्वितः।
प्रसादयेत्यथावृत्तमस्त्रं प्रमथनं स्मृतम् ॥ 35.64 ॥

[^34]. सार्चिर्माल्यस्त्रम्
विश्वास-प्रस्तुतिः - 35.65

वरुणेन समायुक्तो दीर्घयुक्तश्चतुर्मुखः।
ततः पिनाकी सानन्तो लान्तो मायी ततः परम् ॥ 35.65 ॥

मूलम् - 35.65

वरुणेन समायुक्तो दीर्घयुक्तश्चतुर्मुखः।
ततः पिनाकी सानन्तो लान्तो मायी ततः परम् ॥ 35.65 ॥

विश्वास-प्रस्तुतिः - 35.66

ज्वालान्तो मायया युक्तः पिनाकी च ततः परम्।
आद्यं चतुर्थवर्गस्य महासीति पठेत् ततः ॥ 35.66 ॥

मूलम् - 35.66

ज्वालान्तो मायया युक्तः पिनाकी च ततः परम्।
आद्यं चतुर्थवर्गस्य महासीति पठेत् ततः ॥ 35.66 ॥

विश्वास-प्रस्तुतिः - 35.67

शक्त इत्यपि वक्तव्यं महामहस इत्यपि।
मर्षयेति द्विरभ्यस्तं सार्चिर्मालिरयं मनुः ॥ 35.67 ॥

मूलम् - 35.67

शक्त इत्यपि वक्तव्यं महामहस इत्यपि।
मर्षयेति द्विरभ्यस्तं सार्चिर्मालिरयं मनुः ॥ 35.67 ॥

[^35]. कामरूपास्त्रम्
विश्वास-प्रस्तुतिः - 35.68

हास्वा नञ्जभरञ्चासरपत्तवृप्र इत्यपि।
रस्वा इति व्युत्क्रमेण कामरूपमिदं स्मृतम् ॥ 35.68 ॥

मूलम् - 35.68

हास्वा नञ्जभरञ्चासरपत्तवृप्र इत्यपि।
रस्वा इति व्युत्क्रमेण कामरूपमिदं स्मृतम् ॥ 35.68 ॥

[^36].कामरुच्यस्त्रम् ओं नमो इत्युपक्रम्य मुण्डो मायासमन्वितः। [^33].मन्त्रविदो विदुः E F तृतीयस्वरसंयुक्तश्चण्डो रान्तस्ततः परम् ॥ 35.69 ॥
विश्वास-प्रस्तुतिः - 35.70

कबन्धेति पदं ब्रूयात् संधानायेति चान्ततः।
शिखान्तोऽयं कामरुचिर्मन्त्रः पूर्वैः समीरितः ॥ 35.70 ॥

मूलम् - 35.70

कबन्धेति पदं ब्रूयात् संधानायेति चान्ततः।
शिखान्तोऽयं कामरुचिर्मन्त्रः पूर्वैः समीरितः ॥ 35.70 ॥

[^37]. मोहनास्त्रम् भौतिकं दण्डसंयुक्तमङ्कुशं च ततो वदेत्। [^34]मोहवारिणिशब्दं च शिरोऽन्तं मोह उच्यते ॥ 35.71 ॥ [^38]. आवरणास्त्रम्
विश्वास-प्रस्तुतिः - 35.72

खड्गीशो दीर्घसंयुक्तो वह्निर्मायासमन्वितः।
आषाढश्च महाकालो व्योम दीर्घान्वितं ततः ॥ 35.72 ॥

मूलम् - 35.72

खड्गीशो दीर्घसंयुक्तो वह्निर्मायासमन्वितः।
आषाढश्च महाकालो व्योम दीर्घान्वितं ततः ॥ 35.72 ॥

विश्वास-प्रस्तुतिः - 35.73

महाकालश्च सानन्तो वाली चण्डीशसंयुतः।
शिरोऽन्तोऽयं महामन्त्रः प्रोक्तमावरणं बुधैः ॥ 35.73 ॥

मूलम् - 35.73

महाकालश्च सानन्तो वाली चण्डीशसंयुतः।
शिरोऽन्तोऽयं महामन्त्रः प्रोक्तमावरणं बुधैः ॥ 35.73 ॥

[^39]. जृम्भकास्त्रम्
विश्वास-प्रस्तुतिः - 35.74

द्विरण्डौ द्वौ क्रमान्न्यस्य सदण्डौ चतुराननम्।
मुण्डमुच्चार्य परतः स्वस्तीति पदमुद्धरेत् ॥ 35.74 ॥

मूलम् - 35.74

द्विरण्डौ द्वौ क्रमान्न्यस्य सदण्डौ चतुराननम्।
मुण्डमुच्चार्य परतः स्वस्तीति पदमुद्धरेत् ॥ 35.74 ॥

शिरोऽन्तोऽयं महामन्त्रो जृम्भकः परिकीर्तितः। [^40]. सर्वनाभकास्त्रम् चण्डोऽनन्तसमायुक्तो मायी चात्रिस्ततः परम् ॥ 35.75 ॥ आद्यश्चतुर्थवर्गस्य सेनापदमनन्तरम्। [^34].मोहवारीणि B; मोहवारुणि D जीवातव इति ब्रूयाच्छिरोऽन्तं सर्वनाभकम् ॥ 35.76 ॥ [^41]. भृशाश्वतनयास्त्रम्
विश्वास-प्रस्तुतिः - 35.77

वेगाद्यन्तौ क्रमादुक्त्वा विश्वाद्यं च ततः परम्।
जितशब्दमथोच्चार्य वैनतेयाय इत्यपि ॥ 35.77 ॥

मूलम् - 35.77

वेगाद्यन्तौ क्रमादुक्त्वा विश्वाद्यं च ततः परम्।
जितशब्दमथोच्चार्य वैनतेयाय इत्यपि ॥ 35.77 ॥

शिरोऽन्तोऽयं मनुः प्रोक्तो भृशाश्वतनया [^35]इति। [^42]. संधानास्त्रम् भृगुश्च वरुणः साग्निर्मुण्डो मायी ततः क्रमात् ॥ 35.78 ॥
विश्वास-प्रस्तुतिः - 35.79

खड्गीशः साग्निदीर्घश्च [^36]लोहितोऽथ उमापतिः।
शं कुर्विति द्विरभ्यस्तो मन्त्र संधानमुच्यते ॥ 35.79 ॥

मूलम् - 35.79

खड्गीशः साग्निदीर्घश्च [^36]लोहितोऽथ उमापतिः।
शं कुर्विति द्विरभ्यस्तो मन्त्र संधानमुच्यते ॥ 35.79 ॥

[^43]. वारुणास्त्रम्
विश्वास-प्रस्तुतिः - 35.80

भृगुर्लान्तोऽग्निसहितो दण्डेन च समन्वितः।
भृगुर्व्योमाथ जीवश्च वरुणेन समन्वितः ॥ 35.80 ॥

मूलम् - 35.80

भृगुर्लान्तोऽग्निसहितो दण्डेन च समन्वितः।
भृगुर्व्योमाथ जीवश्च वरुणेन समन्वितः ॥ 35.80 ॥

शिरोऽन्त एष मन्त्रस्तु वारुणं परिकीर्तितम्। अस्त्राणां मूर्तत्वामूर्तत्वजिज्ञासया नारदेनाहिर्बुध्न्यस्तुतिः नारदः--- भगवन् देवदेवेश सर्वलोकनमस्कृत ॥ 35.81 ॥
विश्वास-प्रस्तुतिः - 35.82

सर्वाध्यक्षाप्रमेयात्मन्नचिन्त्यज्ञानगोचर।
त्वामाश्रित्य सुराः सर्वे लभन्ते काङ्क्षितं फलम्॥ 35.82 ॥

मूलम् - 35.82

सर्वाध्यक्षाप्रमेयात्मन्नचिन्त्यज्ञानगोचर।
त्वामाश्रित्य सुराः सर्वे लभन्ते काङ्क्षितं फलम्॥ 35.82 ॥

[^35].इमे D [^36].लोहितो य उमापतिः D
विश्वास-प्रस्तुतिः - 35.83

त्वत्तः सर्वं समुद्भूतं जगत् स्थावरजङ्गमम्।
त्वयैव [^37]पालितं सर्वं संहृतं च महेश्वर ॥ 35.83 ।

मूलम् - 35.83

त्वत्तः सर्वं समुद्भूतं जगत् स्थावरजङ्गमम्।
त्वयैव [^37]पालितं सर्वं संहृतं च महेश्वर ॥ 35.83 ।

विश्वास-प्रस्तुतिः - 35.84

त्वमादिः सर्वजगतामनादिस्त्वं जगन्मय।
पुरुषस्त्वं त्वमव्यक्तो व्यक्तस्त्वं विश्वभावन ॥ 35.84 ॥

मूलम् - 35.84

त्वमादिः सर्वजगतामनादिस्त्वं जगन्मय।
पुरुषस्त्वं त्वमव्यक्तो व्यक्तस्त्वं विश्वभावन ॥ 35.84 ॥

विश्वास-प्रस्तुतिः - 35.85

यज्ञस्त्वमिज्यो यष्टा त्वमग्नयस्त्वं त्वमाहुतिः।
वषट्कारस्त्वमोंकारो [^38]वेदवेद्यस्तथा भवान् ॥ 35.85 ॥

मूलम् - 35.85

यज्ञस्त्वमिज्यो यष्टा त्वमग्नयस्त्वं त्वमाहुतिः।
वषट्कारस्त्वमोंकारो [^38]वेदवेद्यस्तथा भवान् ॥ 35.85 ॥

विश्वास-प्रस्तुतिः - 35.86

त्वत्त एव च भूतानि प्रवर्तन्ते महेश्वर।
करणं कारणं कर्ता कार्यं कर्म फलं विभो ॥ 35.86 ॥

मूलम् - 35.86

त्वत्त एव च भूतानि प्रवर्तन्ते महेश्वर।
करणं कारणं कर्ता कार्यं कर्म फलं विभो ॥ 35.86 ॥

विश्वास-प्रस्तुतिः - 35.87

त्वमेव भूतं भव्यं च भवच्च परमेश्वर।
निर्गुणस्त्वं जगत्सृष्टौ जुषमाणो [^39]गुणानसि ॥ 35.87 ॥

मूलम् - 35.87

त्वमेव भूतं भव्यं च भवच्च परमेश्वर।
निर्गुणस्त्वं जगत्सृष्टौ जुषमाणो [^39]गुणानसि ॥ 35.87 ॥

विश्वास-प्रस्तुतिः - 35.88

अणीयसामणीयांस्त्वं महांश्च त्वं महीयसाम्।
अनुरक्तस्त्वयीशान प्रयाति परमां गतिम् ॥ 35.88 ॥

मूलम् - 35.88

अणीयसामणीयांस्त्वं महांश्च त्वं महीयसाम्।
अनुरक्तस्त्वयीशान प्रयाति परमां गतिम् ॥ 35.88 ॥

विश्वास-प्रस्तुतिः - 35.89

अपरक्तो व्रजत्येव निरयं [^40]विकृतिर्न ते।
कलाकाष्ठामुहूर्तादिकालश्च[^41] त्वं कलात्मकः ॥ 35.89 ॥

मूलम् - 35.89

अपरक्तो व्रजत्येव निरयं [^40]विकृतिर्न ते।
कलाकाष्ठामुहूर्तादिकालश्च[^41] त्वं कलात्मकः ॥ 35.89 ॥

विश्वास-प्रस्तुतिः - 35.90

सर्वदा सर्वभूतेषु निवसन्नपि शंकर।
न लिप्यसे तद्विकारैः पद्मपत्रमिवाम्भसा ॥ 35.90 ॥

मूलम् - 35.90

सर्वदा सर्वभूतेषु निवसन्नपि शंकर।
न लिप्यसे तद्विकारैः पद्मपत्रमिवाम्भसा ॥ 35.90 ॥

विश्वास-प्रस्तुतिः - 35.91

करामलकवत् सर्वं सर्वदा कलयस्यतः।
प्रोक्तवानसि सर्वास्त्रस्वरूपं पृच्छतो मम ॥ 35.91 ॥

मूलम् - 35.91

करामलकवत् सर्वं सर्वदा कलयस्यतः।
प्रोक्तवानसि सर्वास्त्रस्वरूपं पृच्छतो मम ॥ 35.91 ॥

[^37].साधितं D [^38].वेदावेद्यं D; वेदो वेद्यः E F [^39].गुणानपि D [^40].प्रकृतिर्न D [^41]. कालस्तत्त्वं D

अस्त्राणां मूर्तत्वामूर्तत्वप्रश्नः

विश्वास-प्रस्तुतिः - 35.92

किमेषां मूर्तयः सन्ति किं वामूर्तान्यमूनि वै।
छेत्तुमर्हसि देवेस तमिमं संशयं विभो ॥ 35.92 ।

मूलम् - 35.92

किमेषां मूर्तयः सन्ति किं वामूर्तान्यमूनि वै।
छेत्तुमर्हसि देवेस तमिमं संशयं विभो ॥ 35.92 ।

तेषां मूर्तत्पप्रतिपादनम् अहिर्बुध्न्यः--- तेषां भवन्ति गात्राणि भीमरूपाणि नारद। [^42]वक्रभीषणदंष्ट्रोग्रमुखत्रस्तजनानि वै ॥ 35.93 ॥
विश्वास-प्रस्तुतिः - 35.94

भीषिताघूर्णितारक्तवृत्तनेत्रयुतानि वै।
विद्युत्पुञ्जप्रतीकाशकेशभीमानि नारद ॥ 35.94 ॥

मूलम् - 35.94

भीषिताघूर्णितारक्तवृत्तनेत्रयुतानि वै।
विद्युत्पुञ्जप्रतीकाशकेशभीमानि नारद ॥ 35.94 ॥

विश्वास-प्रस्तुतिः - 35.95

कानिचिद्धूम्रवर्णानि भास्कराभानि कानिचित्।
कानिचिच्छुक्लवर्णानि वह्निकल्पानि कानिचित् ॥ 35.95 ॥

मूलम् - 35.95

कानिचिद्धूम्रवर्णानि भास्कराभानि कानिचित्।
कानिचिच्छुक्लवर्णानि वह्निकल्पानि कानिचित् ॥ 35.95 ॥

विश्वास-प्रस्तुतिः - 35.96

महापरिघसंकाशभीमरूपैः करैः परैः।
यथास्वं धृतशस्त्राणि महान्ति बलवन्ति च ॥ 35.96 ॥

मूलम् - 35.96

महापरिघसंकाशभीमरूपैः करैः परैः।
यथास्वं धृतशस्त्राणि महान्ति बलवन्ति च ॥ 35.96 ॥

विश्वास-प्रस्तुतिः - 35.97

वेगवन्ति प्रमाथीनि वैरिदर्पद्रुहाणि च।
उपासितानि सततं सुरासुरवरैरपि ॥ 35.97 ॥

मूलम् - 35.97

वेगवन्ति प्रमाथीनि वैरिदर्पद्रुहाणि च।
उपासितानि सततं सुरासुरवरैरपि ॥ 35.97 ॥

विश्वास-प्रस्तुतिः - 35.98

एवंभूतान्यधिष्ठाय गात्राण्यस्त्राणि नारद।
विचरन्ति यथाकाममकुतोभीतिमन्ति च ॥ 35.98 ॥

मूलम् - 35.98

एवंभूतान्यधिष्ठाय गात्राण्यस्त्राणि नारद।
विचरन्ति यथाकाममकुतोभीतिमन्ति च ॥ 35.98 ॥

[^42].चक्र A B C E F अकलितमहिमानि भीषणानि ज्वलितवपूंषि समुद्यतायुधानि। अविहतगमनानि चास्त्रमुख्या- न्यनवरतं भुवनेषु संचरन्ति ॥ 35.99 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां संहारास्त्रस्वरूपनिरूपणं नाम पञ्चत्रिंशोऽध्यायः
आदितः श्लोकाः 2252
————*******————-


  1. सत्यवदस्त्रम् ↩︎ ↩︎

  2. तानि D ↩︎ ↩︎

  3. नारायणोदितम् E ↩︎ ↩︎

  4. तथा E F ↩︎

  5. विषमास्त्रम्
    खड्गीशो मायया युक्तः कूर्मो मायासमन्वितः॥ 35.16 ॥ ↩︎

  6. लान्तो B C E F ↩︎

  7. दीर्घः D ↩︎

  8. रभसास्त्रम् ↩︎ ↩︎

  9. शिरोमयं D ↩︎

  10. पदं द्रवेति B C ↩︎ ↩︎

  11. फलायेत्यप्यनन्तरम् D ↩︎ ↩︎

  12. भेदेति इत्यनन्तरम् B.C; भेदेने तदनन्तरम् D ↩︎ ↩︎

  13. लोहितश्चात्रि D ↩︎ ↩︎

  14. शिरोऽन्तश्च B C E F ↩︎ ↩︎

  15. आयातं D ↩︎ ↩︎

  16. सदन्तिः D
    दशेति च पदं पश्चाच्छीर्षायेति पदं ततः ॥ 35.25 ॥
    शिरोऽन्त एष मन्त्रस्तु दशशीर्षमुदाहृतम्। ↩︎ ↩︎

  17. चेत्यथ B ↩︎ ↩︎

  18. पितृसौमनसास्त्रम् ↩︎ ↩︎ ↩︎ ↩︎

  19. मेषसमन्वितः D ↩︎ ↩︎

  20. वृत्तिमात्मनः D ↩︎ ↩︎