ब्रह्मास्त्रादिमन्त्रस्वरूपनिरूपणं नाम चतुस्त्रिंशोऽध्याः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
ब्रह्मसात्रादिमन्त्रस्वरूपप्रश्नः
नारदः—
विश्वास-प्रस्तुतिः - 34.1
भगवत् सर्वधर्मज्ञ सर्वलोकनमस्कृत।
उक्तं चक्राद्विनिष्क्रान्मस्त्रजातमिह प्रभो ॥ 34.1 ।
मूलम् - 34.1
भगवत् सर्वधर्मज्ञ सर्वलोकनमस्कृत।
उक्तं चक्राद्विनिष्क्रान्मस्त्रजातमिह प्रभो ॥ 34.1 ।
विश्वास-प्रस्तुतिः - 34.2
तेषां 1स्वरूपं मन्त्राणां सर्वेषां वक्तुमर्हसि।
विना त्वां 2न हि पश्यामि वेत्तारं कमपीश्वर ॥ 34.2 ॥
मूलम् - 34.2
तेषां 1स्वरूपं मन्त्राणां सर्वेषां वक्तुमर्हसि।
विना त्वां 2न हि पश्यामि वेत्तारं कमपीश्वर ॥ 34.2 ॥
विश्वास-प्रस्तुतिः - 34.3
महर्षे यत् त्वया पृष्टमेतद् गुह्यतमं परम्।
सुदुर्लभमनाख्येयं कस्मैचित् सर्वसाधकम् ॥ 34.3 ॥
मूलम् - 34.3
महर्षे यत् त्वया पृष्टमेतद् गुह्यतमं परम्।
सुदुर्लभमनाख्येयं कस्मैचित् सर्वसाधकम् ॥ 34.3 ॥
विश्वास-प्रस्तुतिः - 34.4
तथापि तव वक्ष्यामि भक्तोऽसीति महामुने।
त्वयाप्येतन्न दातव्यं सुरासुरसमर्चितम्3 ॥ 34.4 ॥
मूलम् - 34.4
तथापि तव वक्ष्यामि भक्तोऽसीति महामुने।
त्वयाप्येतन्न दातव्यं सुरासुरसमर्चितम्3 ॥ 34.4 ॥
विश्वास-प्रस्तुतिः - 34.6
घनाद्यं वायुपूर्वं च दन्तयुक्तमथान्तिमम्।
सरसं चर्क्षपर्यायं 21भान्तं भृगुमतः परम् ॥ 34.6 ॥
मूलम् - 34.6
घनाद्यं वायुपूर्वं च दन्तयुक्तमथान्तिमम्।
सरसं चर्क्षपर्यायं 21भान्तं भृगुमतः परम् ॥ 34.6 ॥
विश्वास-प्रस्तुतिः - 34.7
अम्बरं वायुसंयुक्तमरिमर्दनमप्यतः।
प्रदीप्तमत वक्तव्यं परमं च पदं ततः ॥ 34.7 ॥
मूलम् - 34.7
अम्बरं वायुसंयुक्तमरिमर्दनमप्यतः।
प्रदीप्तमत वक्तव्यं परमं च पदं ततः ॥ 34.7 ॥
विश्वास-प्रस्तुतिः - 34.8
तत्ते पदे प्रयोक्तव्ये गायत्र्या मध्यमं ततः।
पदत्रयं प्रयोक्तव्यमेतद् ब्रह्मास्त्रमीरितम् ॥ 34.8 ॥
मूलम् - 34.8
तत्ते पदे प्रयोक्तव्ये गायत्र्या मध्यमं ततः।
पदत्रयं प्रयोक्तव्यमेतद् ब्रह्मास्त्रमीरितम् ॥ 34.8 ॥
विश्वास-प्रस्तुतिः - 34.9
जीवः 22पञ्चवर्गादिश्चतुर्थाद्योऽन्तिमान्वितः।
भृगुः सदीर्घो 23दण्डाद्यो मेषो यष्ट्यपराह्वयः ॥ 34.9 ॥
मूलम् - 34.9
जीवः 22पञ्चवर्गादिश्चतुर्थाद्योऽन्तिमान्वितः।
भृगुः सदीर्घो 23दण्डाद्यो मेषो यष्ट्यपराह्वयः ॥ 34.9 ॥
विश्वास-प्रस्तुतिः - 34.10
आत्मने च पदं तत्र चक्रायेति पदं ततः।
वर्मान्त एष मन्त्रस्तु दण्डचक्रमितीष्यते ॥ 34.10 ॥
मूलम् - 34.10
आत्मने च पदं तत्र चक्रायेति पदं ततः।
वर्मान्त एष मन्त्रस्तु दण्डचक्रमितीष्यते ॥ 34.10 ॥
विश्वास-प्रस्तुतिः - 34.13
मोन यक्राच नेत्मर्मा तथा ध नमयेति च।
निलखीत्यपिचाकारो व्युत्क्रमेण 24प्रदृश्यते ॥ 34.13 ॥
मूलम् - 34.13
मोन यक्राच नेत्मर्मा तथा ध नमयेति च।
निलखीत्यपिचाकारो व्युत्क्रमेण 24प्रदृश्यते ॥ 34.13 ॥
विश्वास-प्रस्तुतिः - 34.15
चण्डीशयुक्त आषाढस्तीव्रतेजस इत्यपि।
पर्यायं लक्षसंख्याया आरेति च पदं ततः ॥ 34.15 ॥
मूलम् - 34.15
चण्डीशयुक्त आषाढस्तीव्रतेजस इत्यपि।
पर्यायं लक्षसंख्याया आरेति च पदं ततः ॥ 34.15 ॥
विश्वास-प्रस्तुतिः - 34.16
परमक्षत्र प्रयोक्तव्यं भिन्धीति च पदं ततः।
भीषयेत्यपि वक्तव्यं विष्णुचक्रमिदं विदुः ॥ 34.16 ॥
मूलम् - 34.16
परमक्षत्र प्रयोक्तव्यं भिन्धीति च पदं ततः।
भीषयेत्यपि वक्तव्यं विष्णुचक्रमिदं विदुः ॥ 34.16 ॥
विश्वास-प्रस्तुतिः - 34.17
यषशो कं तथा नीवानदा वन्नपिरूमहि।
मिन्नेलज्वेति तारं च इन्द्रचक्रमिदं25 स्मृत् ॥ 34.17 ।
मूलम् - 34.17
यषशो कं तथा नीवानदा वन्नपिरूमहि।
मिन्नेलज्वेति तारं च इन्द्रचक्रमिदं25 स्मृत् ॥ 34.17 ।
विश्वास-प्रस्तुतिः - 34.20
हृत्पूर्वं वह्निमायायुगाषाढो मायया बकः।
वह्निर्भृगुः सचण्डीशः प्रयोक्तव्यस्ततः परम् ॥ 34.20 ॥
मूलम् - 34.20
हृत्पूर्वं वह्निमायायुगाषाढो मायया बकः।
वह्निर्भृगुः सचण्डीशः प्रयोक्तव्यस्ततः परम् ॥ 34.20 ॥
विश्वास-प्रस्तुतिः - 34.21
अथ शूलवरायेति भीमरूपपदं तथा।
दारयेति पदं तत्र मारयेति पदं ततः ॥ 34.21 ॥
मूलम् - 34.21
अथ शूलवरायेति भीमरूपपदं तथा।
दारयेति पदं तत्र मारयेति पदं ततः ॥ 34.21 ॥
विश्वास-प्रस्तुतिः - 34.25
संतापनान्ते माया स्यान्मोदकान्ते च तां न्यसेत्।
कवचास्त्रयुतो मन्त्रो मोदकी स्याद् गदाह्वया26 ॥ 34.25 ॥
मूलम् - 34.25
संतापनान्ते माया स्यान्मोदकान्ते च तां न्यसेत्।
कवचास्त्रयुतो मन्त्रो मोदकी स्याद् गदाह्वया26 ॥ 34.25 ॥
विश्वास-प्रस्तुतिः - 34.26
लोहितश्च भुजंगेशो भृगुर्भौतिकसंयुतः।
मुण्डः सवाली खड्गीशो दीर्घयुक्तश्च पावकः ॥ 34.26 ॥
मूलम् - 34.26
लोहितश्च भुजंगेशो भृगुर्भौतिकसंयुतः।
मुण्डः सवाली खड्गीशो दीर्घयुक्तश्च पावकः ॥ 34.26 ॥
विश्वास-प्रस्तुतिः - 34.27
उमेशो मायया युक्तः शिखरीति पदं ततः।
ततो भेदिति फट् 27चैव शिखरी स्याद् गदाह्वया28 ॥ 34.27 ॥
मूलम् - 34.27
उमेशो मायया युक्तः शिखरीति पदं ततः।
ततो भेदिति फट् 27चैव शिखरी स्याद् गदाह्वया28 ॥ 34.27 ॥
विश्वास-प्रस्तुतिः - 34.28
वप्रान्तमाद्यं 29चण्डस्य मण्कडपे मध्यमं ततः।
दुर्वृत्तेति पदं तत्र [^30]गजपर्यायमप्युत ॥ 34.28 ॥
मूलम् - 34.28
वप्रान्तमाद्यं 29चण्डस्य मण्कडपे मध्यमं ततः।
दुर्वृत्तेति पदं तत्र [^30]गजपर्यायमप्युत ॥ 34.28 ॥
विश्वास-प्रस्तुतिः - 34.30
षष्ठस्वरसमायुक्तो लोहितश्च ततः क्रमात्।
विष्टम्भयेति च पदं द्विरावृत्तमतः परम् ॥ 34.30 ॥
मूलम् - 34.30
षष्ठस्वरसमायुक्तो लोहितश्च ततः क्रमात्।
विष्टम्भयेति च पदं द्विरावृत्तमतः परम् ॥ 34.30 ॥
विश्वास-प्रस्तुतिः - 34.32
वारणेति ततो घोररूपेति च पदं क्रमात्।
वर्म फट् चेति मन्त्रोऽयं वारुणं पाशमुत्तमम् ॥ 34.32 ।
मूलम् - 34.32
वारणेति ततो घोररूपेति च पदं क्रमात्।
वर्म फट् चेति मन्त्रोऽयं वारुणं पाशमुत्तमम् ॥ 34.32 ।
विश्वास-प्रस्तुतिः - 34.33
लोहितश्चैव वह्निश्च कूर्मः साषाढकं विषम्।
भारभूतियुतः क्रोधी ततश्च मतिपश्चिमः ॥ 34.33 ॥
मूलम् - 34.33
लोहितश्चैव वह्निश्च कूर्मः साषाढकं विषम्।
भारभूतियुतः क्रोधी ततश्च मतिपश्चिमः ॥ 34.33 ॥
विश्वास-प्रस्तुतिः - 34.34
अथ हस्तापरं नाम शोषयेति द्विरुच्चरेत्।
अशनिद्वितयादाद्यमिमं मन्त्रं विदुर्बुधाः ॥ 34.34 ॥
मूलम् - 34.34
अथ हस्तापरं नाम शोषयेति द्विरुच्चरेत्।
अशनिद्वितयादाद्यमिमं मन्त्रं विदुर्बुधाः ॥ 34.34 ॥
विश्वास-प्रस्तुतिः - 34.37
आषाढो मायया युक्तः सुदर्शनपराह्वयः।
दारणेति पदं तत्र विश्वमूर्ते इति क्रमात् ॥ 34.37 ॥
मूलम् - 34.37
आषाढो मायया युक्तः सुदर्शनपराह्वयः।
दारणेति पदं तत्र विश्वमूर्ते इति क्रमात् ॥ 34.37 ॥
विश्वास-प्रस्तुतिः - 34.39
लोहितोऽथ बकश्चायं पञ्चमस्वरसंयुतः।
कवचास्त्रे प्रयोक्तव्ये एतत् पाशुपतं स्मृतम् ॥ 34.39 ॥
मूलम् - 34.39
लोहितोऽथ बकश्चायं पञ्चमस्वरसंयुतः।
कवचास्त्रे प्रयोक्तव्ये एतत् पाशुपतं स्मृतम् ॥ 34.39 ॥
विश्वास-प्रस्तुतिः - 34.40
तारं ततश्च हृदयं बहुवर्णाय चेत्यथ।
वृत्तपिङ्गलशब्दं च लोचनेति ततः क्रमात् ॥ 34.40 ॥
मूलम् - 34.40
तारं ततश्च हृदयं बहुवर्णाय चेत्यथ।
वृत्तपिङ्गलशब्दं च लोचनेति ततः क्रमात् ॥ 34.40 ॥
विश्वास-प्रस्तुतिः - 34.41
विश्वामित्रपदं चापि तथा प्रशमनेति च।
दहेति शोषयेत्येवं प्रयुञ्ज्याद् भीषयेति च ॥ 34.41 ॥
मूलम् - 34.41
विश्वामित्रपदं चापि तथा प्रशमनेति च।
दहेति शोषयेत्येवं प्रयुञ्ज्याद् भीषयेति च ॥ 34.41 ॥
विश्वास-प्रस्तुतिः - 34.43
व्योम खड्गीशसंयुक्तं वाली प्रक्षेपणेति च।
वर्मान्तमेतं मन्त्रं तु दयितं परिचक्षते ॥ 34.43 ॥
मूलम् - 34.43
व्योम खड्गीशसंयुक्तं वाली प्रक्षेपणेति च।
वर्मान्तमेतं मन्त्रं तु दयितं परिचक्षते ॥ 34.43 ॥
विश्वास-प्रस्तुतिः - 34.44
वालिनं दण्डसहितं त्रिरावृत्तं विनिर्दिशेत्।
यक्षरक्षः पदे चैव पिशाचादीनिति क्रमात् ॥ 34.44 ॥
मूलम् - 34.44
वालिनं दण्डसहितं त्रिरावृत्तं विनिर्दिशेत्।
यक्षरक्षः पदे चैव पिशाचादीनिति क्रमात् ॥ 34.44 ॥
विश्वास-प्रस्तुतिः - 34.45
अमित्रांश्चेति च पदं ब्रूयाद् दूरमतः परम्।
द्विरावत्तं ततः कुर्यादुत्सारयपदं क्रमात् ॥ 34.45 ॥
मूलम् - 34.45
अमित्रांश्चेति च पदं ब्रूयाद् दूरमतः परम्।
द्विरावत्तं ततः कुर्यादुत्सारयपदं क्रमात् ॥ 34.45 ॥
विश्वास-प्रस्तुतिः - 34.47
श्वेतो वह्नियुतो दीर्घो भुजंगो दीर्घसंयुतः।
आषाढोऽथ महामायासंयुतो मुण्डमण्डितः[^33] ॥ 34.47 ॥
मूलम् - 34.47
श्वेतो वह्नियुतो दीर्घो भुजंगो दीर्घसंयुतः।
आषाढोऽथ महामायासंयुतो मुण्डमण्डितः[^33] ॥ 34.47 ॥
विश्वास-प्रस्तुतिः - 34.49
णिरदाविरप र्तेमूप्तदी व्युत्क्रमतो मनुः।
वर्मान्त एष शक्तिभ्यामाद्यः सर्वारिभीषणः ॥ 34.49 ॥
मूलम् - 34.49
णिरदाविरप र्तेमूप्तदी व्युत्क्रमतो मनुः।
वर्मान्त एष शक्तिभ्यामाद्यः सर्वारिभीषणः ॥ 34.49 ॥
विश्वास-प्रस्तुतिः - 34.50
नेसेतप्रो र्णिककुशं र्तेमूज्रव इतीरितः।
व्युत्क्रमेण हुमन्तोऽयं शक्तिभ्यामपरो मनुः ॥ 34.50 ॥
मूलम् - 34.50
नेसेतप्रो र्णिककुशं र्तेमूज्रव इतीरितः।
व्युत्क्रमेण हुमन्तोऽयं शक्तिभ्यामपरो मनुः ॥ 34.50 ॥
विश्वास-प्रस्तुतिः - 34.51
शिवोत्तमः सबिन्दुश्च क्रोधी [^35]दीर्घान्वितोऽनलः।
भान्तो दीर्घसमायुक्तो वाली फटिति [^36]चान्ततः ॥ 34.51 ॥
मूलम् - 34.51
शिवोत्तमः सबिन्दुश्च क्रोधी [^35]दीर्घान्वितोऽनलः।
भान्तो दीर्घसमायुक्तो वाली फटिति [^36]चान्ततः ॥ 34.51 ॥
आवर्तयेद् घातयेति तदेतन्मुसलं स्मृतम्।
[^30]. कापालास्त्रम्
चण्डो भुजङ्गश्चात्रिश्च बको वह्निसमायुतः ॥ 34.53 ॥
विश्वास-प्रस्तुतिः - 34.54
मुण्डो द्विगण्कडो मायी मा मेषद्वयमतः परम्।
शड्गीशो भौतिकयुतो वह्निश्चण्डीशसंयुतः ॥ 34.54 ॥
मूलम् - 34.54
मुण्डो द्विगण्कडो मायी मा मेषद्वयमतः परम्।
शड्गीशो भौतिकयुतो वह्निश्चण्डीशसंयुतः ॥ 34.54 ॥
विश्वास-प्रस्तुतिः - 34.56
आषाढोऽनन्तसहितो वह्निर्दीर्घसमन्वितः।
आद्यश्चतुरथवर्गस्य चण्डीशेन समन्वितः ॥ 34.56 ॥
मूलम् - 34.56
आषाढोऽनन्तसहितो वह्निर्दीर्घसमन्वितः।
आद्यश्चतुरथवर्गस्य चण्डीशेन समन्वितः ॥ 34.56 ॥
विश्वास-प्रस्तुतिः - 34.58
वतीत्येतदपि ब्रूयान्महामाये इति क्रमात्।
कवचास्त्रे प्रयोक्तव्ये एतद्वैद्याधरं परम् ॥ 34.58 ॥
मूलम् - 34.58
वतीत्येतदपि ब्रूयान्महामाये इति क्रमात्।
कवचास्त्रे प्रयोक्तव्ये एतद्वैद्याधरं परम् ॥ 34.58 ॥
विश्वास-प्रस्तुतिः - 34.60
क्रोधी पिनाकिसंयुक्तो दण्डभौतिकसंयुतः।
मोहयेति द्विरभ्यस्य मनुर्गान्धर्व इष्यते ॥ 34.60 ॥
मूलम् - 34.60
क्रोधी पिनाकिसंयुक्तो दण्डभौतिकसंयुतः।
मोहयेति द्विरभ्यस्य मनुर्गान्धर्व इष्यते ॥ 34.60 ॥
विश्वास-प्रस्तुतिः - 34.61
पञ्चान्तकः सदण्डः स्यादथो गणपते अपि।
लोकेत्यनन्तरं ब्रूयादमित्रानित्यनन्तरम् ॥ 34.61 ॥
मूलम् - 34.61
पञ्चान्तकः सदण्डः स्यादथो गणपते अपि।
लोकेत्यनन्तरं ब्रूयादमित्रानित्यनन्तरम् ॥ 34.61 ॥
विश्वास-प्रस्तुतिः - 34.63
अत्रिर्द्विरण्डः[^42] पञ्चारिर्लान्तो मायी तलादिमः।
मायारूपिणि चेत्येतत् पदमन्ते प्रयोजयेत् ॥ 34.63 ॥
मूलम् - 34.63
अत्रिर्द्विरण्डः[^42] पञ्चारिर्लान्तो मायी तलादिमः।
मायारूपिणि चेत्येतत् पदमन्ते प्रयोजयेत् ॥ 34.63 ॥
विश्वास-प्रस्तुतिः - 34.65
परेति पदमुच्चार्य तेजः पदमनन्तरम्।
निबर्हणाय चेत्येतत् फडन्तं [^43]सौर्यमुच्यते ॥ 34.65 ॥
मूलम् - 34.65
परेति पदमुच्चार्य तेजः पदमनन्तरम्।
निबर्हणाय चेत्येतत् फडन्तं [^43]सौर्यमुच्यते ॥ 34.65 ॥
[^44]अत्रिः सदीर्घो वह्निश्च मायी चाषाढकः स्मृतः ॥ 34.66 ॥
विश्वास-प्रस्तुतिः - 34.67
अत्रिर्लोहितयुक्तश्च वह्निर्वर्म च फट् ततः।
दर्पणास्त्रमिदं प्रोक्तं सर्वारिबलमर्दनम् ॥ 34.67 ॥
मूलम् - 34.67
अत्रिर्लोहितयुक्तश्च वह्निर्वर्म च फट् ततः।
दर्पणास्त्रमिदं प्रोक्तं सर्वारिबलमर्दनम् ॥ 34.67 ॥
विश्वास-प्रस्तुतिः - 34.68
बको दन्ती च शुक्राद्यो मायायुक्तस्तलादिमः।
वैरीति मानसेत्येतत् प्रयोज्यं वर्म चान्ततः ॥ 34.68 ॥
मूलम् - 34.68
बको दन्ती च शुक्राद्यो मायायुक्तस्तलादिमः।
वैरीति मानसेत्येतत् प्रयोज्यं वर्म चान्ततः ॥ 34.68 ॥
विश्वास-प्रस्तुतिः - 34.70
आषाढो लोहितो वह्निर्भृगुर्भौतिकसंयुतः।
मुण्डयुक्तं[^45] सवालि स्याद् भृगुराकाश एव च ॥ 34.70 ॥
मूलम् - 34.70
आषाढो लोहितो वह्निर्भृगुर्भौतिकसंयुतः।
मुण्डयुक्तं[^45] सवालि स्याद् भृगुराकाश एव च ॥ 34.70 ॥
विश्वास-प्रस्तुतिः - 34.71
स्रमूर्ते इति च न्यस्य संतापयपदं ततः।
आवर्तयेदिमं मन्त्रं संतापनमुदाहृत् ॥ 34.71 ॥
मूलम् - 34.71
स्रमूर्ते इति च न्यस्य संतापयपदं ततः।
आवर्तयेदिमं मन्त्रं संतापनमुदाहृत् ॥ 34.71 ॥
विश्वास-प्रस्तुतिः - 34.72
भृगुर्भौतिकसंयुक्तः सवह्निर्दण्डसंयुतः।
महाकालः सदीर्घः स्याद् वाली दीर्घान्वितस्ततः ॥ 34.72 ॥
मूलम् - 34.72
भृगुर्भौतिकसंयुक्तः सवह्निर्दण्डसंयुतः।
महाकालः सदीर्घः स्याद् वाली दीर्घान्वितस्ततः ॥ 34.72 ॥
विश्वास-प्रस्तुतिः - 34.74
चलगण्डमथो व्योम सामराधीश्वरं ततः।
महाकालः सदन्तः स्याद् व्योम मेषस्ततः परम् ॥ 34.74 ॥
मूलम् - 34.74
चलगण्डमथो व्योम सामराधीश्वरं ततः।
महाकालः सदन्तः स्याद् व्योम मेषस्ततः परम् ॥ 34.74 ॥
विश्वास-प्रस्तुतिः - 34.75
मायाविन्निति च ब्रूयादस्त्रायेति पदं ततः।
फडन्त एष मन्त्रस्तु कंदर्पदयितं स्मृतम् ॥ 34.75 ॥
मूलम् - 34.75
मायाविन्निति च ब्रूयादस्त्रायेति पदं ततः।
फडन्त एष मन्त्रस्तु कंदर्पदयितं स्मृतम् ॥ 34.75 ॥
विश्वास-प्रस्तुतिः - 34.76
निहमोरप इत्येष व्युत्क्रान्तः सशिरोमनुः।
पैशाचमिदमाख्यातमखिलारिविमर्दनम् ॥ 34.76 ॥
मूलम् - 34.76
निहमोरप इत्येष व्युत्क्रान्तः सशिरोमनुः।
पैशाचमिदमाख्यातमखिलारिविमर्दनम् ॥ 34.76 ॥
विश्वास-प्रस्तुतिः - 34.77
अजेश्वरं त्रिरावृत्तं सदण्डं प्रथमं पठेत्।
तिमिरेति पदं ब्रूयाद्धस्तपर्यायमेव च ॥ 34.77 ॥
मूलम् - 34.77
अजेश्वरं त्रिरावृत्तं सदण्डं प्रथमं पठेत्।
तिमिरेति पदं ब्रूयाद्धस्तपर्यायमेव च ॥ 34.77 ॥
विश्वास-प्रस्तुतिः - 34.78
प्रतिसैन्यं पदं पश्चात् संवृण्विति समभ्यसेत्।
एतत् तामसमित्युक्तमस्त्रं सर्वारिमोहनम् ॥ 34.78 ॥
मूलम् - 34.78
प्रतिसैन्यं पदं पश्चात् संवृण्विति समभ्यसेत्।
एतत् तामसमित्युक्तमस्त्रं सर्वारिमोहनम् ॥ 34.78 ॥
विश्वास-प्रस्तुतिः - 34.79
विष्णुर्दन्ती महाकालः शिवोत्तममतः परम्।
शक्ते इति पदं पश्चात् परस्तम्भन इत्यतः ॥ 34.79 ॥
मूलम् - 34.79
विष्णुर्दन्ती महाकालः शिवोत्तममतः परम्।
शक्ते इति पदं पश्चात् परस्तम्भन इत्यतः ॥ 34.79 ॥
विश्वास-प्रस्तुतिः - 34.83
रिपूनिति पदं ब्रूयाज्जहीत्येतद् द्विरभ्यसेत्।
सत्यमस्त्रमिदं प्रोक्तं सर्वशत्रुनिबर्हणम् ॥ 34.83 ॥
मूलम् - 34.83
रिपूनिति पदं ब्रूयाज्जहीत्येतद् द्विरभ्यसेत्।
सत्यमस्त्रमिदं प्रोक्तं सर्वशत्रुनिबर्हणम् ॥ 34.83 ॥
विश्वास-प्रस्तुतिः - 34.84
तारं ततश्च हृदयं देवायेति पदं वदेत्।
मायात्मने इति पदं पठित्वा तदनन्तरम् ॥ 34.84 ॥
मूलम् - 34.84
तारं ततश्च हृदयं देवायेति पदं वदेत्।
मायात्मने इति पदं पठित्वा तदनन्तरम् ॥ 34.84 ॥
विश्वास-प्रस्तुतिः - 34.86
वह्निस्ततो भुजङ्गः स्यादङ्घ्रीशेन च संयुतः।
लोहितो दीर्घयुग्वाली चण्डायेति पदं वदेत् ॥ 34.86 ॥
मूलम् - 34.86
वह्निस्ततो भुजङ्गः स्यादङ्घ्रीशेन च संयुतः।
लोहितो दीर्घयुग्वाली चण्डायेति पदं वदेत् ॥ 34.86 ॥
विश्वास-प्रस्तुतिः - 34.88
शिवोत्तमं ससत्यं च भुजङ्गेशस्ततः परम्।
आषाढोऽमरयुङ्मेषं रत्यस्त्रं च पवित्रकम् ॥ 34.88 ॥
मूलम् - 34.88
शिवोत्तमं ससत्यं च भुजङ्गेशस्ततः परम्।
आषाढोऽमरयुङ्मेषं रत्यस्त्रं च पवित्रकम् ॥ 34.88 ॥
विश्वास-प्रस्तुतिः - 34.89
चटं वीप्स्य पुनः प्रादिं क्रोधीशं व्योम चाभ्यसेत्।
वारुणं च तथा कालं द्विर्वामनसबिन्दुकम् ॥ 34.89 ॥
मूलम् - 34.89
चटं वीप्स्य पुनः प्रादिं क्रोधीशं व्योम चाभ्यसेत्।
वारुणं च तथा कालं द्विर्वामनसबिन्दुकम् ॥ 34.89 ॥
विश्वास-प्रस्तुतिः - 34.90
मीनमावृत्य [^47]मेषं च आषाढं लोहितं पुनः।
शक्त्याधिकमघोरास्त्रं वर्मास्त्रान्तमुदीरितम् ॥ 34.90 ॥
मूलम् - 34.90
मीनमावृत्य [^47]मेषं च आषाढं लोहितं पुनः।
शक्त्याधिकमघोरास्त्रं वर्मास्त्रान्तमुदीरितम् ॥ 34.90 ॥
विश्वास-प्रस्तुतिः - 34.91
भृगुं सानुग्रहाधीशं दण्डिनं प्रथमं पठेत्।
द्विषन्तं पदमुच्चार्य तत उद्वेजयेति च ॥ 34.91 ॥
मूलम् - 34.91
भृगुं सानुग्रहाधीशं दण्डिनं प्रथमं पठेत्।
द्विषन्तं पदमुच्चार्य तत उद्वेजयेति च ॥ 34.91 ॥
विश्वास-प्रस्तुतिः - 34.93
क्रोधी पिनाकी मेषश्च मायया च समन्वितः।
महाकालद्वयं साग्निदीर्घयुक्तं ततः परम् ॥ 34.93 ॥
मूलम् - 34.93
क्रोधी पिनाकी मेषश्च मायया च समन्वितः।
महाकालद्वयं साग्निदीर्घयुक्तं ततः परम् ॥ 34.93 ॥
विश्वास-प्रस्तुतिः - 34.94
भारभूतियुगाषाढो मीनो दीर्घसमन्वितः।
धाम्नो इति पदं ब्रूयात् परायेति पदं ततः ॥ 34.94 ॥
मूलम् - 34.94
भारभूतियुगाषाढो मीनो दीर्घसमन्वितः।
धाम्नो इति पदं ब्रूयात् परायेति पदं ततः ॥ 34.94 ॥
विश्वास-प्रस्तुतिः - 34.96
आषाढो मायया युक्तो ज्वलनो बिन्दुसंयुतः।
चतुर्मुखश्च क्रोधीशः फडन्तः [^48]स्यात्तु दारुणम् ॥ 34.96 ॥
मूलम् - 34.96
आषाढो मायया युक्तो ज्वलनो बिन्दुसंयुतः।
चतुर्मुखश्च क्रोधीशः फडन्तः [^48]स्यात्तु दारुणम् ॥ 34.96 ॥
विश्वास-प्रस्तुतिः - 34.97
विपक्षादिममध्यान्तान्[^49] पठेद् विभजनेति च।
प्रवृत्तायेति च पदं भगेति तदनन्तरम् ॥ 34.97 ॥
मूलम् - 34.97
विपक्षादिममध्यान्तान्[^49] पठेद् विभजनेति च।
प्रवृत्तायेति च पदं भगेति तदनन्तरम् ॥ 34.97 ॥
विश्वास-प्रस्तुतिः - 34.99
पिनाकी खड्गिको मायी लोहितश्च तथोपरि।
संवर्तकः सदण्डश्च क्षिपेति द्विः पठेत् ततः ॥ 34.99 ॥
मूलम् - 34.99
पिनाकी खड्गिको मायी लोहितश्च तथोपरि।
संवर्तकः सदण्डश्च क्षिपेति द्विः पठेत् ततः ॥ 34.99 ॥
[^50]अग्निर्भान्तश्च वाली च सवह्निर्दीर्घसयुतः।
विश्वास-प्रस्तुतिः - 34.101
अत्रिर्दीर्घसमायुक्तो भेदिने इति च क्रमात्।
भीमरूपाय चेत्युक्त्वा नमोऽन्तं मानवं स्मृतम् ॥ 34.101 ॥
मूलम् - 34.101
अत्रिर्दीर्घसमायुक्तो भेदिने इति च क्रमात्।
भीमरूपाय चेत्युक्त्वा नमोऽन्तं मानवं स्मृतम् ॥ 34.101 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां ब्रह्मास्त्रादिमन्त्रस्वरूपनिरूपणं नाम चतुस्त्रिंशोऽध्यायः
आदितः श्लोकाः 2153
————-********—————-
-
वान्तं D ↩︎
-
व्योम्ना कालसमन्वितम् D ↩︎
-
द्वन्द्वयुतं A B C;दन्तयुगं E ↩︎
-
वरुणम् D
यूपान्तं वह्निना युक्तं मोऽथ साग्निरथात्रियुक्8॥
9धान्तं कालात्मनेत्येतच्चक्रायेति10 पदं ततः।
फडन्त एष मन्त्रस्तु 15 कालचक्रः 11प्रकीर्तितः ॥ 34.12 ॥ ↩︎ -
रथाग्नियुक् A B C ↩︎
-
सान्तं D ↩︎
-
एकचक्रायेति B C ↩︎
-
प्रकीर्तितम् B C E F; प्रवर्तितः D ↩︎
-
स्वङ्गं D ↩︎
-
संयुतम् D
पिनाकी दीर्घसंयुक्तो जलाद्यं मायि सोमराट् ॥ 34.18 ॥
फलान्तं भीषणपदं दम्भोले इत्यपि क्रमात्।
14वर्मास्त्रयुक्तं विज्ञेयं वज्रास्त्रमिदमुत्तमम्15॥ 34.19 ॥ ↩︎ -
वर्णास्त्र D ↩︎
-
मीरितम् A B C ↩︎
-
सझण्टीशो D ↩︎
-
पकारात् A B; वक्रारम् B C; सतारम् D ↩︎
-
व्युत्क्रमेणैवमैषीकं A B C ↩︎
-
यरदा E F ↩︎
-
कान्तो D ↩︎