मणिशेखरोपाख्यानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि॥
उक्तार्थानुवादः
नारदः—
विश्वास-प्रस्तुतिः - 33.1
भगवन् कथितं सर्वं स्वरूपं च गुणास्तथा।
परिवारास्तथा मन्त्राः शस्त्रैरस्त्रैश्च दैवतैः ॥ 33.1 ॥
मूलम् - 33.1
भगवन् कथितं सर्वं स्वरूपं च गुणास्तथा।
परिवारास्तथा मन्त्राः शस्त्रैरस्त्रैश्च दैवतैः ॥ 33.1 ॥
विश्वास-प्रस्तुतिः - 33.2
शक्तिभिर्मण्डलैश्चित्रैः पद्मैर्बहुविधैरपि।
एतैर्विशिष्टमाख्यातं यन्त्ररूपमनुत्तमम् ॥ 33.2 ॥
मूलम् - 33.2
शक्तिभिर्मण्डलैश्चित्रैः पद्मैर्बहुविधैरपि।
एतैर्विशिष्टमाख्यातं यन्त्ररूपमनुत्तमम् ॥ 33.2 ॥
विश्वास-प्रस्तुतिः - 33.3
सर्वेषामेव जन्तूनां वर्णानां परमेश्वर।
क्षत्रियस्य विशेषेण रक्षार्थं यन्त्रमीरितम् ॥ 33.3 ॥
मूलम् - 33.3
सर्वेषामेव जन्तूनां वर्णानां परमेश्वर।
क्षत्रियस्य विशेषेण रक्षार्थं यन्त्रमीरितम् ॥ 33.3 ॥
विश्वास-प्रस्तुतिः - 33.4
एतस्य यन्त्रराजस्य महिमा कथितः पुरा।
प्रभावश्चक्ररूपस्य देवस्य किमयं स्मृतः ॥ 33.4 ॥
मूलम् - 33.4
एतस्य यन्त्रराजस्य महिमा कथितः पुरा।
प्रभावश्चक्ररूपस्य देवस्य किमयं स्मृतः ॥ 33.4 ॥
विश्वास-प्रस्तुतिः - 33.5
सुदर्शननृसिंहस्य किमु किं परिवारजः।
तमिमं संशयं छिन्धि सर्वज्ञोऽसि यतः प्रभो ॥ 33.5 ॥
मूलम् - 33.5
सुदर्शननृसिंहस्य किमु किं परिवारजः।
तमिमं संशयं छिन्धि सर्वज्ञोऽसि यतः प्रभो ॥ 33.5 ॥
विश्वास-प्रस्तुतिः - 33.6
सुदर्शनप्रभावोऽयं संक्षेपात् कथितो मया।
विस्तारमस्य देवर्षे कथ्यमानमिमं श्रृणु ॥ 33.6 ॥
मूलम् - 33.6
सुदर्शनप्रभावोऽयं संक्षेपात् कथितो मया।
विस्तारमस्य देवर्षे कथ्यमानमिमं श्रृणु ॥ 33.6 ॥
विश्वास-प्रस्तुतिः - 33.7
सा भूमानं प्रति प्रायो महतां परिवारता।
न चेद्भूमास्य नास्त्येव परिवार्यत्वसंभवः ॥ 33.7 ॥
मूलम् - 33.7
सा भूमानं प्रति प्रायो महतां परिवारता।
न चेद्भूमास्य नास्त्येव परिवार्यत्वसंभवः ॥ 33.7 ॥
विश्वास-प्रस्तुतिः - 33.9
त्रिनाभियुक्तं षण्नेमि पञ्चारं चक्रमव्ययम्।
संवत्सरमयं यत् तत् कालचक्रमिति स्मृतम् ॥ 33.9 ॥
मूलम् - 33.9
त्रिनाभियुक्तं षण्नेमि पञ्चारं चक्रमव्ययम्।
संवत्सरमयं यत् तत् कालचक्रमिति स्मृतम् ॥ 33.9 ॥
विश्वास-प्रस्तुतिः - 33.23
इदमेव वपुर्धत्ते सुदर्शनमयं हरिः।
रहस्यमेतत् कथितं भक्तोऽसीति तपोधन ॥ 33.23 ॥
मूलम् - 33.23
इदमेव वपुर्धत्ते सुदर्शनमयं हरिः।
रहस्यमेतत् कथितं भक्तोऽसीति तपोधन ॥ 33.23 ॥
तत्रेतिहासोदाहरणम्
विश्वास-प्रस्तुतिः - 33.24
पुरावृत्तं सुरमुने श्रृणुष्व गदतो मम।
दुर्धर्षो नाम राजर्षिर्धार्मिको दृढविक्रमः ॥ 33.24 ॥
मूलम् - 33.24
पुरावृत्तं सुरमुने श्रृणुष्व गदतो मम।
दुर्धर्षो नाम राजर्षिर्धार्मिको दृढविक्रमः ॥ 33.24 ॥
विश्वास-प्रस्तुतिः - 33.25
प्रमगन्दसुतः श्रीमान्नैचाशाखपुरे वसन्।
धर्मतः पालयामास सप्तद्वीपवतीं महीम् ॥ 33.25 ॥
मूलम् - 33.25
प्रमगन्दसुतः श्रीमान्नैचाशाखपुरे वसन्।
धर्मतः पालयामास सप्तद्वीपवतीं महीम् ॥ 33.25 ॥
विश्वास-प्रस्तुतिः - 33.26
वत्सला नाम तस्याभून्महिषी वरवर्णिनी।
सा तस्य जनयामास मणिशेखरमात्मजम् ॥ 33.26 ॥
मूलम् - 33.26
वत्सला नाम तस्याभून्महिषी वरवर्णिनी।
सा तस्य जनयामास मणिशेखरमात्मजम् ॥ 33.26 ॥
विश्वास-प्रस्तुतिः - 33.27
सोऽप्यवस्थामतिक्रम्य प्रथमां मणिशेखरः।
रमणीयाकृतिः शूरः प्राप्तविद्यः परंतपः ॥ 33.27 ॥
मूलम् - 33.27
सोऽप्यवस्थामतिक्रम्य प्रथमां मणिशेखरः।
रमणीयाकृतिः शूरः प्राप्तविद्यः परंतपः ॥ 33.27 ॥
पितेव पालयामास स समुद्रवतीं महीम् ॥ 33.29 ॥
विश्वास-प्रस्तुतिः - 33.30
प्राच्यां पुत्राः समभवंस्तस्य सप्त महात्मनः।
पालयत्यवनीं तस्मिन् निखिलां 8मणिशेखरे ॥ 33.30 ॥
मूलम् - 33.30
प्राच्यां पुत्राः समभवंस्तस्य सप्त महात्मनः।
पालयत्यवनीं तस्मिन् निखिलां 8मणिशेखरे ॥ 33.30 ॥
विश्वास-प्रस्तुतिः - 33.31
तस्मिन् काले समभवत् सर्वप्राणिभयंकरः।
विकटाक्ष इति ख्यातो ब्रह्मदत्तवरो बली ॥ 33.31 ॥
मूलम् - 33.31
तस्मिन् काले समभवत् सर्वप्राणिभयंकरः।
विकटाक्ष इति ख्यातो ब्रह्मदत्तवरो बली ॥ 33.31 ॥
विश्वास-प्रस्तुतिः - 33.32
महासुरेण तेनैव पीडिता सकला मही।
तत्पुत्रैस्तस्य पौत्रैश्च प्रपौत्रैः पूरिता मही ॥ 33.32 ॥
मूलम् - 33.32
महासुरेण तेनैव पीडिता सकला मही।
तत्पुत्रैस्तस्य पौत्रैश्च प्रपौत्रैः पूरिता मही ॥ 33.32 ॥
विकटाक्षसमाज्ञप्ता भीमरूपाः सहस्रशः ॥ 33.33 ॥
विश्वास-प्रस्तुतिः - 33.34
कांश्चिद्विद्रावयन्ति स्म कांश्चिज्जघ्नस्तरस्विनः9।
द्विजातीनां मुनिश्रेष्ठ 10यज्ञव्यासेधमाचरन् ॥ 33.34 ॥
मूलम् - 33.34
कांश्चिद्विद्रावयन्ति स्म कांश्चिज्जघ्नस्तरस्विनः9।
द्विजातीनां मुनिश्रेष्ठ 10यज्ञव्यासेधमाचरन् ॥ 33.34 ॥
विश्वास-प्रस्तुतिः - 33.35
सर्वेषामेव वर्णानां तत्तदाश्रमवासिनाम्।
अबाधिषत कर्माणि विहितानि यथातथम् ॥ 33.35 ॥
मूलम् - 33.35
सर्वेषामेव वर्णानां तत्तदाश्रमवासिनाम्।
अबाधिषत कर्माणि विहितानि यथातथम् ॥ 33.35 ॥
विश्वास-प्रस्तुतिः - 33.36
पृथिव्यां यानि रत्नानि 11धनानि विपुलानि च।
स्वस्मै प्रदापयामास विकटक्षो महासुरः ॥ 33.36 ॥
मूलम् - 33.36
पृथिव्यां यानि रत्नानि 11धनानि विपुलानि च।
स्वस्मै प्रदापयामास विकटक्षो महासुरः ॥ 33.36 ॥
विश्वास-प्रस्तुतिः - 33.37
ततः संपीडिताः सर्वाः प्रजास्तेन दुरात्मना।
व्यजिज्ञपंस्तद् वृत्तान्तं मणिशेशरभूभुजे ॥ 33.37 ॥
मूलम् - 33.37
ततः संपीडिताः सर्वाः प्रजास्तेन दुरात्मना।
व्यजिज्ञपंस्तद् वृत्तान्तं मणिशेशरभूभुजे ॥ 33.37 ॥
विश्वास-प्रस्तुतिः - 33.39
समानीय ततः सर्वान् सैनिकान् समनह्यत।
तस्य संनाहमालोक्य मन्त्रिणस्तस्य संगताः । 33.39 ॥
मूलम् - 33.39
समानीय ततः सर्वान् सैनिकान् समनह्यत।
तस्य संनाहमालोक्य मन्त्रिणस्तस्य संगताः । 33.39 ॥
विश्वास-प्रस्तुतिः - 33.40
इदमुचुरवध्यत्वं तस्य सेनाभियोगतः।
पुरा दुरात्मावृणुत तपःसंतोषिताद्विधेः ॥ 33.40 ॥
मूलम् - 33.40
इदमुचुरवध्यत्वं तस्य सेनाभियोगतः।
पुरा दुरात्मावृणुत तपःसंतोषिताद्विधेः ॥ 33.40 ॥
विश्वास-प्रस्तुतिः - 33.41
ये 12मामभिमुखायाताः शत्रवस्तैरवध्यताम्13।
एवमस्त्विति तेनोक्ते विकटाक्षोऽतिदर्पितः ॥ 33.41 ॥
मूलम् - 33.41
ये 12मामभिमुखायाताः शत्रवस्तैरवध्यताम्13।
एवमस्त्विति तेनोक्ते विकटाक्षोऽतिदर्पितः ॥ 33.41 ॥
विश्वास-प्रस्तुतिः - 33.42
ततः 14प्रभृत्यजय्योऽभूच्छत्रुभिः संमुखागतैः।
तस्मात् त्वमपि संनाहमुपसंहर तं प्रति ॥ 33.42 ॥
मूलम् - 33.42
ततः 14प्रभृत्यजय्योऽभूच्छत्रुभिः संमुखागतैः।
तस्मात् त्वमपि संनाहमुपसंहर तं प्रति ॥ 33.42 ॥
विश्वास-प्रस्तुतिः - 33.43
ततः स शुश्रुवान् वाक्यं मन्त्रिभिः समुदीरितम्।
ततः संग्रमसंनाहाद् विरराम महीपतिः ॥ 33.43 ॥
मूलम् - 33.43
ततः स शुश्रुवान् वाक्यं मन्त्रिभिः समुदीरितम्।
ततः संग्रमसंनाहाद् विरराम महीपतिः ॥ 33.43 ॥
विश्वास-प्रस्तुतिः - 33.44
ततः क्रतुं समाहूय पुरोधसमनागसम्।
मन्त्रयामास नृपतिस्तेन मन्त्रविदा समम् ॥ 33.44 ॥
मूलम् - 33.44
ततः क्रतुं समाहूय पुरोधसमनागसम्।
मन्त्रयामास नृपतिस्तेन मन्त्रविदा समम् ॥ 33.44 ॥
विश्वास-प्रस्तुतिः - 33.45
विकटाक्षस्य वृत्तान्तं सर्वमाख्याय तत्त्वतः।
परैरजय्यतां15 चास्य युद्धे संमुखवर्तिभिः ॥ 33.45 ॥
मूलम् - 33.45
विकटाक्षस्य वृत्तान्तं सर्वमाख्याय तत्त्वतः।
परैरजय्यतां15 चास्य युद्धे संमुखवर्तिभिः ॥ 33.45 ॥
विश्वास-प्रस्तुतिः - 33.46
येनोपायेन भगवन् जेष्यामस्तं दुरासदम्।
ब्रूहि तं सकलाः स्वस्था भवेयुर्मामिकाः प्रजाः ॥ 33.46 ॥
मूलम् - 33.46
येनोपायेन भगवन् जेष्यामस्तं दुरासदम्।
ब्रूहि तं सकलाः स्वस्था भवेयुर्मामिकाः प्रजाः ॥ 33.46 ॥
विश्वास-प्रस्तुतिः - 33.47
एवमुक्तस्तदा तेन भूभूजा स पुरोहितः।
चिन्तयित्वा चिरायैतदुवाच मणिशेखरम् ॥ 33.47 ॥
मूलम् - 33.47
एवमुक्तस्तदा तेन भूभूजा स पुरोहितः।
चिन्तयित्वा चिरायैतदुवाच मणिशेखरम् ॥ 33.47 ॥
विश्वास-प्रस्तुतिः - 33.49
नीलजीमूतसंकाशं पुण्डरीकायतेक्षणम्।
अप्रमेयं जगन्नाथमाश्रितार्तिविनाशनम् ॥ 33.49 ॥
मूलम् - 33.49
नीलजीमूतसंकाशं पुण्डरीकायतेक्षणम्।
अप्रमेयं जगन्नाथमाश्रितार्तिविनाशनम् ॥ 33.49 ॥
विश्वास-प्रस्तुतिः - 33.50
उत्तुङ्गमङ्गलगुणं दैत्यचक्रप्रमर्दनम्।
नास्त्युपायान्तरं लोके तत्समं जगतीपते ॥ 33.50 ॥
मूलम् - 33.50
उत्तुङ्गमङ्गलगुणं दैत्यचक्रप्रमर्दनम्।
नास्त्युपायान्तरं लोके तत्समं जगतीपते ॥ 33.50 ॥
विश्वास-प्रस्तुतिः - 33.51
अतस्तं शरणं गच्छ सर्वभावेन भूपते।
चक्ररूपधरं देवं भक्तरक्षणदीक्षितम् ॥ 33.51 ॥
मूलम् - 33.51
अतस्तं शरणं गच्छ सर्वभावेन भूपते।
चक्ररूपधरं देवं भक्तरक्षणदीक्षितम् ॥ 33.51 ॥
विश्वास-प्रस्तुतिः - 33.53
तमृषिं सर्वभूतानां 16भीषणं गच्छ सांप्रतम्।
एवमेवेति निश्चित्य राजा परमधार्मिकः ॥ 33.53 ॥
मूलम् - 33.53
तमृषिं सर्वभूतानां 16भीषणं गच्छ सांप्रतम्।
एवमेवेति निश्चित्य राजा परमधार्मिकः ॥ 33.53 ॥
विश्वास-प्रस्तुतिः - 33.54
निर्जगाम पुरात् तस्मात् सार्धं तेन पुरोधसा।
हिमवच्छिखरे रम्ये तपस्यन्तं महामुनिम् ॥ 33.54 ॥
मूलम् - 33.54
निर्जगाम पुरात् तस्मात् सार्धं तेन पुरोधसा।
हिमवच्छिखरे रम्ये तपस्यन्तं महामुनिम् ॥ 33.54 ॥
विश्वास-प्रस्तुतिः - 33.55
वसानं वल्कले शुभ्रे शुभ्रयज्ञोपवीतिनम्।
जटाजिनधरं शान्तं ज्वलत्पावकसंनिभूम् ॥ 33.55 ॥
मूलम् - 33.55
वसानं वल्कले शुभ्रे शुभ्रयज्ञोपवीतिनम्।
जटाजिनधरं शान्तं ज्वलत्पावकसंनिभूम् ॥ 33.55 ॥
विश्वास-प्रस्तुतिः - 33.56
तं तथावस्थितं राजा जगाम सपुरोहितः।
स मुनिस्तौ मुनिश्रेष्ठो दृष्ट्वा राजपुरोहितौ ॥ 33.56 ॥
मूलम् - 33.56
तं तथावस्थितं राजा जगाम सपुरोहितः।
स मुनिस्तौ मुनिश्रेष्ठो दृष्ट्वा राजपुरोहितौ ॥ 33.56 ॥
इमं देशमनुप्राप्तौ किमर्थं वनगोचरम् ॥ 33.57 ॥
विश्वास-प्रस्तुतिः - 33.58
भवन्तौ लक्षये साक्षाद् ब्रह्मक्षत्रे सविग्रहे।
प्रमगन्दसुतं वीर जाने त्वां मणिशेखरम् ॥ 33.58 ॥
मूलम् - 33.58
भवन्तौ लक्षये साक्षाद् ब्रह्मक्षत्रे सविग्रहे।
प्रमगन्दसुतं वीर जाने त्वां मणिशेखरम् ॥ 33.58 ॥
विश्वास-प्रस्तुतिः - 33.60
प्रजाः पालयसे सर्वाः स्वधर्मस्था महीपते।
क्रतुं पुरोहितं लब्ध्वा भवतः किं न 17सेत्स्यति ॥ 33.60 ॥
मूलम् - 33.60
प्रजाः पालयसे सर्वाः स्वधर्मस्था महीपते।
क्रतुं पुरोहितं लब्ध्वा भवतः किं न 17सेत्स्यति ॥ 33.60 ॥
विश्वास-प्रस्तुतिः - 33.61
अनूचानो मुनिः श्रेयान् सर्वेषां च 18तपस्विनाम्।
शान्तो दान्तः शुचिः श्रीमान् सत्यवादी दृढव्रतः॥ 33.61 ॥
मूलम् - 33.61
अनूचानो मुनिः श्रेयान् सर्वेषां च 18तपस्विनाम्।
शान्तो दान्तः शुचिः श्रीमान् सत्यवादी दृढव्रतः॥ 33.61 ॥
विश्वास-प्रस्तुतिः - 33.63
कृपानुरक्तः सर्वेषु समबुद्धिः समाधिमान्।
दैष्टिकः परमोदारो धृतिमान् राजसत्कृतः ॥ 33.63 ॥
मूलम् - 33.63
कृपानुरक्तः सर्वेषु समबुद्धिः समाधिमान्।
दैष्टिकः परमोदारो धृतिमान् राजसत्कृतः ॥ 33.63 ॥
विश्वास-प्रस्तुतिः - 33.64
सर्वैरनुमतः शश्वद् भक्तिमान् पुरुषोत्तमे।
षण्णां समयधर्माणामभिज्ञो नयकोविदः ॥ 33.64 ॥
मूलम् - 33.64
सर्वैरनुमतः शश्वद् भक्तिमान् पुरुषोत्तमे।
षण्णां समयधर्माणामभिज्ञो नयकोविदः ॥ 33.64 ॥
विश्वास-प्रस्तुतिः - 33.65
दयालुरभिजातश्च साधकः सर्वमन्त्रवित्।
अन्यैश्च सद्गुणैर्युक्तः पुरोहित इति स्मृतः ॥ 33.65 ॥
मूलम् - 33.65
दयालुरभिजातश्च साधकः सर्वमन्त्रवित्।
अन्यैश्च सद्गुणैर्युक्तः पुरोहित इति स्मृतः ॥ 33.65 ॥
विश्वास-प्रस्तुतिः - 33.66
ईदृशोऽयं क्रतुः साक्षाद् बृहस्पतिरिवापरः।
अनेन सर्वकार्याणि कुरुष्व मणिशेखर ॥ 33.66 ॥
मूलम् - 33.66
ईदृशोऽयं क्रतुः साक्षाद् बृहस्पतिरिवापरः।
अनेन सर्वकार्याणि कुरुष्व मणिशेखर ॥ 33.66 ॥
विश्वास-प्रस्तुतिः - 33.67
तथापि कैश्चिदरिभिः परिभूत इवागतः।
आख्याहि सर्वं नृपते किमागमनकारणम् ॥ 33.67 ॥
मूलम् - 33.67
तथापि कैश्चिदरिभिः परिभूत इवागतः।
आख्याहि सर्वं नृपते किमागमनकारणम् ॥ 33.67 ॥
विश्वास-प्रस्तुतिः - 33.68
एवमुक्त्वा महातेजा विरराम तपोधनः।
अथ क्रतुर्मुनिश्रेष्ठः प्राह दुर्वाससं प्रति ॥ 33.68 ॥
मूलम् - 33.68
एवमुक्त्वा महातेजा विरराम तपोधनः।
अथ क्रतुर्मुनिश्रेष्ठः प्राह दुर्वाससं प्रति ॥ 33.68 ॥
विश्वास-प्रस्तुतिः - 33.69
राजकार्यमशेषेण समागमनकारणम्।
स्वराज्यं विकटाक्षेण पीड्यमानं दुरात्मना ॥ 33.69 ॥
मूलम् - 33.69
राजकार्यमशेषेण समागमनकारणम्।
स्वराज्यं विकटाक्षेण पीड्यमानं दुरात्मना ॥ 33.69 ॥
विश्वास-प्रस्तुतिः - 33.70
बलं महासुरस्यास्य दुर्जयत्वमरातिभिः।
प्रजापतेर्वरप्राप्तिं तत्संततिविजृम्भणम् ॥ 33.70 ॥
मूलम् - 33.70
बलं महासुरस्यास्य दुर्जयत्वमरातिभिः।
प्रजापतेर्वरप्राप्तिं तत्संततिविजृम्भणम् ॥ 33.70 ॥
विश्वास-प्रस्तुतिः - 33.71
एवं बहुविधं तस्य चेष्टतं लोकगर्हितम् ।
व्याहृत्य प्रणिपत्यैनमुवाच विनयान्वितः ॥ 33.71 ॥
मूलम् - 33.71
एवं बहुविधं तस्य चेष्टतं लोकगर्हितम् ।
व्याहृत्य प्रणिपत्यैनमुवाच विनयान्वितः ॥ 33.71 ॥
विश्वास-प्रस्तुतिः - 33.72
ब्रूहि तस्य जयोपायं 19त्वामयं शरणं गतः।
त्वमापदः परित्राहि राजानं धर्मवत्सलम् ॥ 33.72 ॥
मूलम् - 33.72
ब्रूहि तस्य जयोपायं 19त्वामयं शरणं गतः।
त्वमापदः परित्राहि राजानं धर्मवत्सलम् ॥ 33.72 ॥
विश्वास-प्रस्तुतिः - 33.73
परित्रातान्यनेनैव भुवनानि 20तपोधन।
एवमुक्त्वा मुनिवरं प्रणिपत्य पुरः स्थितौ ॥ 33.73 ॥
मूलम् - 33.73
परित्रातान्यनेनैव भुवनानि 20तपोधन।
एवमुक्त्वा मुनिवरं प्रणिपत्य पुरः स्थितौ ॥ 33.73 ॥
विश्वास-प्रस्तुतिः - 33.74
कृपया परया वीक्ष्य षड्वर्णं मन्त्रमुत्तमम्।
सौदर्शनं तयोः प्रादाच्चतुर्वर्गफलप्रदम् ॥ 33.74 ॥
मूलम् - 33.74
कृपया परया वीक्ष्य षड्वर्णं मन्त्रमुत्तमम्।
सौदर्शनं तयोः प्रादाच्चतुर्वर्गफलप्रदम् ॥ 33.74 ॥
विश्वास-प्रस्तुतिः - 33.75
अनेन साधयाभीष्टमेतेनैव पुरोधसा।
पुरोधा एव राज्ञां हि दृष्टादृष्टार्थसाधकः ॥ 33.75 ॥
मूलम् - 33.75
अनेन साधयाभीष्टमेतेनैव पुरोधसा।
पुरोधा एव राज्ञां हि दृष्टादृष्टार्थसाधकः ॥ 33.75 ॥
विश्वास-प्रस्तुतिः - 33.77
तथा साद्गुण्यमस्यैव राज्ञः कार्येषु भूपते।
अन्यैः पौरोधसैः कार्यं कार्यमेतस्य तच्च वै ॥ 33.77 ॥
मूलम् - 33.77
तथा साद्गुण्यमस्यैव राज्ञः कार्येषु भूपते।
अन्यैः पौरोधसैः कार्यं कार्यमेतस्य तच्च वै ॥ 33.77 ॥
विश्वास-प्रस्तुतिः - 33.78
इत्युक्त्वा तौ तदा प्राह पुरावृत्तं महामुनिः।
वाराहं रूपमास्थाय भगवान् पुरुषोत्तमः ॥ 33.78 ॥
मूलम् - 33.78
इत्युक्त्वा तौ तदा प्राह पुरावृत्तं महामुनिः।
वाराहं रूपमास्थाय भगवान् पुरुषोत्तमः ॥ 33.78 ॥
विश्वास-प्रस्तुतिः - 33.79
उज्जहार भुवं कल्पे वाराहे सलिलात् ततः।
तदाह परमप्रीता देवं देवी वसुधरा ॥ 33.79 ॥
मूलम् - 33.79
उज्जहार भुवं कल्पे वाराहे सलिलात् ततः।
तदाह परमप्रीता देवं देवी वसुधरा ॥ 33.79 ॥
विश्वास-प्रस्तुतिः - 33.80
प्रियार्थमनुरक्तानां सदा भूमण्डले त्वया।
वर्तितव्यं जगन्नाथ प्रियां तनुमुपेयुषा ॥ 33.80 ॥
मूलम् - 33.80
प्रियार्थमनुरक्तानां सदा भूमण्डले त्वया।
वर्तितव्यं जगन्नाथ प्रियां तनुमुपेयुषा ॥ 33.80 ॥
विश्वास-प्रस्तुतिः - 33.81
एवमुक्तस्तया देव्या तदा प्रभृति केशवः।
सालग्रामाह्वये पुण्ये न्यवसन्मण्डले भुवः ॥ 33.81 ॥
मूलम् - 33.81
एवमुक्तस्तया देव्या तदा प्रभृति केशवः।
सालग्रामाह्वये पुण्ये न्यवसन्मण्डले भुवः ॥ 33.81 ॥
विश्वास-प्रस्तुतिः - 33.82
सुदर्शनवपुः श्रीमान् भगवान् भक्तवत्सलः।
अद्यापि देशमाहात्म्याद् 21भक्तानामनुकम्पया ॥ 33.82 ॥
मूलम् - 33.82
सुदर्शनवपुः श्रीमान् भगवान् भक्तवत्सलः।
अद्यापि देशमाहात्म्याद् 21भक्तानामनुकम्पया ॥ 33.82 ॥
विश्वास-प्रस्तुतिः - 83
भुवः प्रार्थनया तत्र नित्यं संनिहितो हरिः।
अत्र तप्तं तपो यत् तत् सहस्रगुणितं भवेत् ॥ 83 ॥
मूलम् - 83
भुवः प्रार्थनया तत्र नित्यं संनिहितो हरिः।
अत्र तप्तं तपो यत् तत् सहस्रगुणितं भवेत् ॥ 83 ॥
विश्वास-प्रस्तुतिः - 33.84
मनुष्याः पशवस्तत्र क्रिमयश्च पतत्रिणः।
ये मृताः शङ्खचक्राङ्कास्ते भवन्ति न संशयः ॥ 33.84 ॥
मूलम् - 33.84
मनुष्याः पशवस्तत्र क्रिमयश्च पतत्रिणः।
ये मृताः शङ्खचक्राङ्कास्ते भवन्ति न संशयः ॥ 33.84 ॥
विश्वास-प्रस्तुतिः - 33.85
भगवान् पुण्डरीकाक्षः सुर्शनवपुर्धरः।
संनिधत्ते सदा तत्र सन्मङ्गलगुणार्णवः ॥ 33.85 ॥
मूलम् - 33.85
भगवान् पुण्डरीकाक्षः सुर्शनवपुर्धरः।
संनिधत्ते सदा तत्र सन्मङ्गलगुणार्णवः ॥ 33.85 ॥
विश्वास-प्रस्तुतिः - 33.87
सरस्वत्यास्तटे पुण्ये सालग्रामे जनार्दनम्।
चक्ररूपं समाराध्य पूर्वोक्तेनैव वर्त्मना ॥ 33.87 ॥
मूलम् - 33.87
सरस्वत्यास्तटे पुण्ये सालग्रामे जनार्दनम्।
चक्ररूपं समाराध्य पूर्वोक्तेनैव वर्त्मना ॥ 33.87 ॥
विश्वास-प्रस्तुतिः - 33.89
एवमुक्त्वा मुनिश्रेष्ठो राजानं सपुरोहितम्।
उपारराम भगवान् दुर्वासा यमिनां वरः ॥ 33.89 ॥
मूलम् - 33.89
एवमुक्त्वा मुनिश्रेष्ठो राजानं सपुरोहितम्।
उपारराम भगवान् दुर्वासा यमिनां वरः ॥ 33.89 ॥
विश्वास-प्रस्तुतिः - 33.90
ततः प्रणम्य तं राजा पुरोधाश्चापि जग्मतुः।
जैत्रं विमानमारुह्य नैचाशाखपुरं प्रति ॥ 33.90 ॥
मूलम् - 33.90
ततः प्रणम्य तं राजा पुरोधाश्चापि जग्मतुः।
जैत्रं विमानमारुह्य नैचाशाखपुरं प्रति ॥ 33.90 ॥
विश्वास-प्रस्तुतिः - 33.91
सालग्रामं ततो गत्वा भगवन्तं जनार्दनम्।
संभृत्य सर्वसंभारांश्चक्ररूपं जगत्पतिम् ॥ 33.91 ॥
मूलम् - 33.91
सालग्रामं ततो गत्वा भगवन्तं जनार्दनम्।
संभृत्य सर्वसंभारांश्चक्ररूपं जगत्पतिम् ॥ 33.91 ॥
विश्वास-प्रस्तुतिः - 33.92
पुरोधसैव नृपतिरर्चयामास मन्त्रतः।
अर्चनेन जपेनैव ध्यानेन च महीपतिः ॥ 33.92 ॥
मूलम् - 33.92
पुरोधसैव नृपतिरर्चयामास मन्त्रतः।
अर्चनेन जपेनैव ध्यानेन च महीपतिः ॥ 33.92 ॥
विश्वास-प्रस्तुतिः - 33.93
तोषयामास मासेन भक्त्या परमया हरिम्।
आविर्बभूव स तदा चक्ररूपी महीपतेः ॥ 33.93 ॥
मूलम् - 33.93
तोषयामास मासेन भक्त्या परमया हरिम्।
आविर्बभूव स तदा चक्ररूपी महीपतेः ॥ 33.93 ॥
विश्वास-प्रस्तुतिः - 33.94
गदामुसलशङ्खारिधनुः पाशाङ्कुशाम्बुजान्।
अष्टाभिर्बाहुभिर्दिव्यैर्बिभ्रत् पिङ्गललोचनः ॥ 33.94 ॥
मूलम् - 33.94
गदामुसलशङ्खारिधनुः पाशाङ्कुशाम्बुजान्।
अष्टाभिर्बाहुभिर्दिव्यैर्बिभ्रत् पिङ्गललोचनः ॥ 33.94 ॥
विश्वास-प्रस्तुतिः - 33.95
ऊर्ध्वपिङ्गलकेशाढ्यो रक्तवर्णो महाद्युतिः।
दंष्ट्राकरालवदनः पङ्कजासनसंश्रितः ॥ 33.95 ॥
मूलम् - 33.95
ऊर्ध्वपिङ्गलकेशाढ्यो रक्तवर्णो महाद्युतिः।
दंष्ट्राकरालवदनः पङ्कजासनसंश्रितः ॥ 33.95 ॥
विश्वास-प्रस्तुतिः - 33.96
रक्ताम्बरधरो दृप्तः सर्वभूषणभूषितः।
दिव्यमालाधरोरस्कः22 सस्मितं समुदैक्षत ॥ 33.96 ॥
मूलम् - 33.96
रक्ताम्बरधरो दृप्तः सर्वभूषणभूषितः।
दिव्यमालाधरोरस्कः22 सस्मितं समुदैक्षत ॥ 33.96 ॥
विश्वास-प्रस्तुतिः - 33.99
युगपद् विकटाक्षदानवं विनिहत्याखिलबान्धवैः सह।
तदिहाविषयं व्यतिष्ठत 23क्षणमाप्लुत्य ययौ 24सुदर्शनः॥ 33.99 ॥
मूलम् - 33.99
युगपद् विकटाक्षदानवं विनिहत्याखिलबान्धवैः सह।
तदिहाविषयं व्यतिष्ठत 23क्षणमाप्लुत्य ययौ 24सुदर्शनः॥ 33.99 ॥
-
संख्यतैः E.F ↩︎
-
एष B C E F
तस्यैव रुद्ररूपेण संहर्तृत्वम्
स एव रुद्ररूपेण संहरत्यखिलं जगत्।
तस्यैव बुद्धरूपत्वम्
बुद्धात्मना च बौद्धानां स एव जगति स्थितः ॥ 33.17 ॥
तस्यैव दिगम्बररूपत्वम्
स एव 3शाम्बराणां च निरावरणरूपधृत्।
तस्यैव जिनरूपत्वम्
स एव चार्वाकमते जिनेश्वरवपुर्धरः ॥ 33.18 ॥
तस्यैव यज्ञपुरुषरूपत्वम्
4स एव याज्ञिकानां च यज्ञपूरुषसंज्ञकः।
मीमांसकैः स एवायमुपास्यत्वेन चोद्यते ॥ 33.19 ॥
कापिलमते तस्यैव पुरुषरूपत्वम्
कापिलैः पुरुषत्वेन स एवाख्यायते विभुः।
सर्वस्वरूपत्वात् तस्यैव सर्वफलप्रदत्वम्
उपास्यत्वेन ये प्राहुर्यं यं तत्तद्वपुर्धरः ॥ 33.20 ॥
तेषां मनीषितं सर्वं स एवाशु प्रयच्छति। ↩︎ -
शम्बराणां D ↩︎
-
A B E F omit four lines from here
देवादिरूपधारणादपि चक्ररूपधारणं भगवतः प्रियतमम्
एतेषामेव देवानां स्वतनूनां जनार्दनः ॥ 33.21 ॥
परं प्रीणाति भगवंश्चक्ररूपधरो हरिः।
तत्र हेतुनिरूपणम्
स्वसमाश्रितरक्षायां परेषां च निबर्हणे ॥ 33.22 ॥ ↩︎ -
सोऽयं A B C E F ↩︎
-
युद्धेषु वर A B C E F ↩︎
-
तरवश्च शिलाः सर्वे D ↩︎
-
साधनानि बलानि च B C E F
अभियोद्धुं मनश्चक्रे विकटाक्षं महासुरम् ॥ 33.38 ॥ ↩︎ ↩︎ -
असह्यतां B C
5सत्यं न शक्यते जेतुं 6युद्धे स वरदर्पितः।
भगवन्तमृते विष्णु शङ्खचक्रगदाधरम् ॥ 33.48 ॥ ↩︎ ↩︎ -
चतुर्दश B C
वैगुण्यमस्य तत् सर्वमपराधात् पुरोधसः ॥ 33.76 ॥ ↩︎ ↩︎ -
भूताना A B C E F
7तरवश्चाचलाः सर्वे चक्रमुद्राङ्कितास्तदा ॥ 33.86 ॥ ↩︎ ↩︎