३३

मणिशेखरोपाख्यानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि॥

उक्तार्थानुवादः
नारदः—

विश्वास-प्रस्तुतिः - 33.1

भगवन् कथितं सर्वं स्वरूपं च गुणास्तथा।
परिवारास्तथा मन्त्राः शस्त्रैरस्त्रैश्च दैवतैः ॥ 33.1 ॥

मूलम् - 33.1

भगवन् कथितं सर्वं स्वरूपं च गुणास्तथा।
परिवारास्तथा मन्त्राः शस्त्रैरस्त्रैश्च दैवतैः ॥ 33.1 ॥

विश्वास-प्रस्तुतिः - 33.2

शक्तिभिर्मण्डलैश्चित्रैः पद्मैर्बहुविधैरपि।
एतैर्विशिष्टमाख्यातं यन्त्ररूपमनुत्तमम् ॥ 33.2 ॥

मूलम् - 33.2

शक्तिभिर्मण्डलैश्चित्रैः पद्मैर्बहुविधैरपि।
एतैर्विशिष्टमाख्यातं यन्त्ररूपमनुत्तमम् ॥ 33.2 ॥

विश्वास-प्रस्तुतिः - 33.3

सर्वेषामेव जन्तूनां वर्णानां परमेश्वर।
क्षत्रियस्य विशेषेण रक्षार्थं यन्त्रमीरितम् ॥ 33.3 ॥

मूलम् - 33.3

सर्वेषामेव जन्तूनां वर्णानां परमेश्वर।
क्षत्रियस्य विशेषेण रक्षार्थं यन्त्रमीरितम् ॥ 33.3 ॥

सुदर्शनप्रभावविषयकस्त्रिधा प्रश्नः
विश्वास-प्रस्तुतिः - 33.4

एतस्य यन्त्रराजस्य महिमा कथितः पुरा।
प्रभावश्चक्ररूपस्य देवस्य किमयं स्मृतः ॥ 33.4 ॥

मूलम् - 33.4

एतस्य यन्त्रराजस्य महिमा कथितः पुरा।
प्रभावश्चक्ररूपस्य देवस्य किमयं स्मृतः ॥ 33.4 ॥

विश्वास-प्रस्तुतिः - 33.5

सुदर्शननृसिंहस्य किमु किं परिवारजः।
तमिमं संशयं छिन्धि सर्वज्ञोऽसि यतः प्रभो ॥ 33.5 ॥

मूलम् - 33.5

सुदर्शननृसिंहस्य किमु किं परिवारजः।
तमिमं संशयं छिन्धि सर्वज्ञोऽसि यतः प्रभो ॥ 33.5 ॥

विस्तरेण तदुत्तरकथनारम्भः अहिर्बुध्न्यः---
विश्वास-प्रस्तुतिः - 33.6

सुदर्शनप्रभावोऽयं संक्षेपात् कथितो मया।
विस्तारमस्य देवर्षे कथ्यमानमिमं श्रृणु ॥ 33.6 ॥

मूलम् - 33.6

सुदर्शनप्रभावोऽयं संक्षेपात् कथितो मया।
विस्तारमस्य देवर्षे कथ्यमानमिमं श्रृणु ॥ 33.6 ॥

विश्वास-प्रस्तुतिः - 33.7

सा भूमानं प्रति प्रायो महतां परिवारता।
न चेद्भूमास्य नास्त्येव परिवार्यत्वसंभवः ॥ 33.7 ॥

मूलम् - 33.7

सा भूमानं प्रति प्रायो महतां परिवारता।
न चेद्भूमास्य नास्त्येव परिवार्यत्वसंभवः ॥ 33.7 ॥

सर्वस्यापि सुदर्शनात्मकत्वम् ततश्चक्रमयं सर्वं जगत् स्थावरजङ्गमम्। सुदर्शनस्यैव कालचक्रात्मकत्वम् चक्रात्मानमनाद्यन्तं कालं प्रथमतः श्रृणु ॥ 33.8 ॥ कालचक्रस्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - 33.9

त्रिनाभियुक्तं षण्नेमि पञ्चारं चक्रमव्ययम्।
संवत्सरमयं यत् तत् कालचक्रमिति स्मृतम् ॥ 33.9 ॥

मूलम् - 33.9

त्रिनाभियुक्तं षण्नेमि पञ्चारं चक्रमव्ययम्।
संवत्सरमयं यत् तत् कालचक्रमिति स्मृतम् ॥ 33.9 ॥

सर्वस्यापि कालचक्रवशवर्तित्वम् तद्वशे वर्तते [^1]विश्वं चेतनाचेतनात्मकम्। परमात्मा कालचक्रप्रवर्तकः परिवर्तयते देवस्तदेतच्चक्ररूपधृत् ॥ 33.10 ॥ जगच्चक्रनिरूपणम् अव्यक्तादिविशेषान्ततत्त्वरूपैररैर्वृतम्।
विश्वास-प्रस्तुतिः - 33.23

इदमेव वपुर्धत्ते सुदर्शनमयं हरिः।
रहस्यमेतत् कथितं भक्तोऽसीति तपोधन ॥ 33.23 ॥

मूलम् - 33.23

इदमेव वपुर्धत्ते सुदर्शनमयं हरिः।
रहस्यमेतत् कथितं भक्तोऽसीति तपोधन ॥ 33.23 ॥

तत्रेतिहासोदाहरणम्

विश्वास-प्रस्तुतिः - 33.24

पुरावृत्तं सुरमुने श्रृणुष्व गदतो मम।
दुर्धर्षो नाम राजर्षिर्धार्मिको दृढविक्रमः ॥ 33.24 ॥

मूलम् - 33.24

पुरावृत्तं सुरमुने श्रृणुष्व गदतो मम।
दुर्धर्षो नाम राजर्षिर्धार्मिको दृढविक्रमः ॥ 33.24 ॥

विश्वास-प्रस्तुतिः - 33.25

प्रमगन्दसुतः श्रीमान्नैचाशाखपुरे वसन्।
धर्मतः पालयामास सप्तद्वीपवतीं महीम् ॥ 33.25 ॥

मूलम् - 33.25

प्रमगन्दसुतः श्रीमान्नैचाशाखपुरे वसन्।
धर्मतः पालयामास सप्तद्वीपवतीं महीम् ॥ 33.25 ॥

विश्वास-प्रस्तुतिः - 33.26

वत्सला नाम तस्याभून्महिषी वरवर्णिनी।
सा तस्य जनयामास मणिशेखरमात्मजम् ॥ 33.26 ॥

मूलम् - 33.26

वत्सला नाम तस्याभून्महिषी वरवर्णिनी।
सा तस्य जनयामास मणिशेखरमात्मजम् ॥ 33.26 ॥

विश्वास-प्रस्तुतिः - 33.27

सोऽप्यवस्थामतिक्रम्य प्रथमां मणिशेखरः।
रमणीयाकृतिः शूरः प्राप्तविद्यः परंतपः ॥ 33.27 ॥

मूलम् - 33.27

सोऽप्यवस्थामतिक्रम्य प्रथमां मणिशेखरः।
रमणीयाकृतिः शूरः प्राप्तविद्यः परंतपः ॥ 33.27 ॥

[^6]संप्राप्तयौवनः श्रीमान् प्राची भार्यामविन्दत। सर्वलोकाधिपत्यार्हमेनं दुर्धर्षणः सुतम् ॥ 33.28 ॥ निधाय राज्ये तत्रैव जगाम तपसे वनम्।

पितेव पालयामास स समुद्रवतीं महीम् ॥ 33.29 ॥

विश्वास-प्रस्तुतिः - 33.30

प्राच्यां पुत्राः समभवंस्तस्य सप्त महात्मनः।
पालयत्यवनीं तस्मिन् निखिलां 8मणिशेखरे ॥ 33.30 ॥

मूलम् - 33.30

प्राच्यां पुत्राः समभवंस्तस्य सप्त महात्मनः।
पालयत्यवनीं तस्मिन् निखिलां 8मणिशेखरे ॥ 33.30 ॥

विश्वास-प्रस्तुतिः - 33.31

तस्मिन् काले समभवत् सर्वप्राणिभयंकरः।
विकटाक्ष इति ख्यातो ब्रह्मदत्तवरो बली ॥ 33.31 ॥

मूलम् - 33.31

तस्मिन् काले समभवत् सर्वप्राणिभयंकरः।
विकटाक्ष इति ख्यातो ब्रह्मदत्तवरो बली ॥ 33.31 ॥

विश्वास-प्रस्तुतिः - 33.32

महासुरेण तेनैव पीडिता सकला मही।
तत्पुत्रैस्तस्य पौत्रैश्च प्रपौत्रैः पूरिता मही ॥ 33.32 ॥

मूलम् - 33.32

महासुरेण तेनैव पीडिता सकला मही।
तत्पुत्रैस्तस्य पौत्रैश्च प्रपौत्रैः पूरिता मही ॥ 33.32 ॥

तेऽसुराः सर्वभूतानि पीडयन्ति स्म [^8]भीषणाः।

विकटाक्षसमाज्ञप्ता भीमरूपाः सहस्रशः ॥ 33.33 ॥

विश्वास-प्रस्तुतिः - 33.34

कांश्चिद्विद्रावयन्ति स्म कांश्चिज्जघ्नस्तरस्विनः9
द्विजातीनां मुनिश्रेष्ठ 10यज्ञव्यासेधमाचरन् ॥ 33.34 ॥

मूलम् - 33.34

कांश्चिद्विद्रावयन्ति स्म कांश्चिज्जघ्नस्तरस्विनः9
द्विजातीनां मुनिश्रेष्ठ 10यज्ञव्यासेधमाचरन् ॥ 33.34 ॥

विश्वास-प्रस्तुतिः - 33.35

सर्वेषामेव वर्णानां तत्तदाश्रमवासिनाम्।
अबाधिषत कर्माणि विहितानि यथातथम् ॥ 33.35 ॥

मूलम् - 33.35

सर्वेषामेव वर्णानां तत्तदाश्रमवासिनाम्।
अबाधिषत कर्माणि विहितानि यथातथम् ॥ 33.35 ॥

विश्वास-प्रस्तुतिः - 33.36

पृथिव्यां यानि रत्नानि 11धनानि विपुलानि च।
स्वस्मै प्रदापयामास विकटक्षो महासुरः ॥ 33.36 ॥

मूलम् - 33.36

पृथिव्यां यानि रत्नानि 11धनानि विपुलानि च।
स्वस्मै प्रदापयामास विकटक्षो महासुरः ॥ 33.36 ॥

विश्वास-प्रस्तुतिः - 33.37

ततः संपीडिताः सर्वाः प्रजास्तेन दुरात्मना।
व्यजिज्ञपंस्तद् वृत्तान्तं मणिशेशरभूभुजे ॥ 33.37 ॥

मूलम् - 33.37

ततः संपीडिताः सर्वाः प्रजास्तेन दुरात्मना।
व्यजिज्ञपंस्तद् वृत्तान्तं मणिशेशरभूभुजे ॥ 33.37 ॥

क्रोधेन महाताविष्टो राजा राजीवलोचनः।
विश्वास-प्रस्तुतिः - 33.39

समानीय ततः सर्वान् सैनिकान् समनह्यत।
तस्य संनाहमालोक्य मन्त्रिणस्तस्य संगताः । 33.39 ॥

मूलम् - 33.39

समानीय ततः सर्वान् सैनिकान् समनह्यत।
तस्य संनाहमालोक्य मन्त्रिणस्तस्य संगताः । 33.39 ॥

विश्वास-प्रस्तुतिः - 33.40

इदमुचुरवध्यत्वं तस्य सेनाभियोगतः।
पुरा दुरात्मावृणुत तपःसंतोषिताद्विधेः ॥ 33.40 ॥

मूलम् - 33.40

इदमुचुरवध्यत्वं तस्य सेनाभियोगतः।
पुरा दुरात्मावृणुत तपःसंतोषिताद्विधेः ॥ 33.40 ॥

विश्वास-प्रस्तुतिः - 33.41

ये 12मामभिमुखायाताः शत्रवस्तैरवध्यताम्13
एवमस्त्विति तेनोक्ते विकटाक्षोऽतिदर्पितः ॥ 33.41 ॥

मूलम् - 33.41

ये 12मामभिमुखायाताः शत्रवस्तैरवध्यताम्13
एवमस्त्विति तेनोक्ते विकटाक्षोऽतिदर्पितः ॥ 33.41 ॥

विश्वास-प्रस्तुतिः - 33.42

ततः 14प्रभृत्यजय्योऽभूच्छत्रुभिः संमुखागतैः।
तस्मात् त्वमपि संनाहमुपसंहर तं प्रति ॥ 33.42 ॥

मूलम् - 33.42

ततः 14प्रभृत्यजय्योऽभूच्छत्रुभिः संमुखागतैः।
तस्मात् त्वमपि संनाहमुपसंहर तं प्रति ॥ 33.42 ॥

विश्वास-प्रस्तुतिः - 33.43

ततः स शुश्रुवान् वाक्यं मन्त्रिभिः समुदीरितम्।
ततः संग्रमसंनाहाद् विरराम महीपतिः ॥ 33.43 ॥

मूलम् - 33.43

ततः स शुश्रुवान् वाक्यं मन्त्रिभिः समुदीरितम्।
ततः संग्रमसंनाहाद् विरराम महीपतिः ॥ 33.43 ॥

विश्वास-प्रस्तुतिः - 33.44

ततः क्रतुं समाहूय पुरोधसमनागसम्।
मन्त्रयामास नृपतिस्तेन मन्त्रविदा समम् ॥ 33.44 ॥

मूलम् - 33.44

ततः क्रतुं समाहूय पुरोधसमनागसम्।
मन्त्रयामास नृपतिस्तेन मन्त्रविदा समम् ॥ 33.44 ॥

विश्वास-प्रस्तुतिः - 33.45

विकटाक्षस्य वृत्तान्तं सर्वमाख्याय तत्त्वतः।
परैरजय्यतां15 चास्य युद्धे संमुखवर्तिभिः ॥ 33.45 ॥

मूलम् - 33.45

विकटाक्षस्य वृत्तान्तं सर्वमाख्याय तत्त्वतः।
परैरजय्यतां15 चास्य युद्धे संमुखवर्तिभिः ॥ 33.45 ॥

विश्वास-प्रस्तुतिः - 33.46

येनोपायेन भगवन् जेष्यामस्तं दुरासदम्।
ब्रूहि तं सकलाः स्वस्था भवेयुर्मामिकाः प्रजाः ॥ 33.46 ॥

मूलम् - 33.46

येनोपायेन भगवन् जेष्यामस्तं दुरासदम्।
ब्रूहि तं सकलाः स्वस्था भवेयुर्मामिकाः प्रजाः ॥ 33.46 ॥

विश्वास-प्रस्तुतिः - 33.47

एवमुक्तस्तदा तेन भूभूजा स पुरोहितः।
चिन्तयित्वा चिरायैतदुवाच मणिशेखरम् ॥ 33.47 ॥

मूलम् - 33.47

एवमुक्तस्तदा तेन भूभूजा स पुरोहितः।
चिन्तयित्वा चिरायैतदुवाच मणिशेखरम् ॥ 33.47 ॥

विश्वास-प्रस्तुतिः - 33.49

नीलजीमूतसंकाशं पुण्डरीकायतेक्षणम्।
अप्रमेयं जगन्नाथमाश्रितार्तिविनाशनम् ॥ 33.49 ॥

मूलम् - 33.49

नीलजीमूतसंकाशं पुण्डरीकायतेक्षणम्।
अप्रमेयं जगन्नाथमाश्रितार्तिविनाशनम् ॥ 33.49 ॥

विश्वास-प्रस्तुतिः - 33.50

उत्तुङ्गमङ्गलगुणं दैत्यचक्रप्रमर्दनम्।
नास्त्युपायान्तरं लोके तत्समं जगतीपते ॥ 33.50 ॥

मूलम् - 33.50

उत्तुङ्गमङ्गलगुणं दैत्यचक्रप्रमर्दनम्।
नास्त्युपायान्तरं लोके तत्समं जगतीपते ॥ 33.50 ॥

विश्वास-प्रस्तुतिः - 33.51

अतस्तं शरणं गच्छ सर्वभावेन भूपते।
चक्ररूपधरं देवं भक्तरक्षणदीक्षितम् ॥ 33.51 ॥

मूलम् - 33.51

अतस्तं शरणं गच्छ सर्वभावेन भूपते।
चक्ररूपधरं देवं भक्तरक्षणदीक्षितम् ॥ 33.51 ॥

तत्प्राप्त्युपायं जानाति दुर्वासा मुनिसत्तमः। [^18]तत्प्रसादात् तमसुरं संहर्तुं सकलं क्षमम् ॥ 33.52 ॥
विश्वास-प्रस्तुतिः - 33.53

तमृषिं सर्वभूतानां 16भीषणं गच्छ सांप्रतम्।
एवमेवेति निश्चित्य राजा परमधार्मिकः ॥ 33.53 ॥

मूलम् - 33.53

तमृषिं सर्वभूतानां 16भीषणं गच्छ सांप्रतम्।
एवमेवेति निश्चित्य राजा परमधार्मिकः ॥ 33.53 ॥

विश्वास-प्रस्तुतिः - 33.54

निर्जगाम पुरात् तस्मात् सार्धं तेन पुरोधसा।
हिमवच्छिखरे रम्ये तपस्यन्तं महामुनिम् ॥ 33.54 ॥

मूलम् - 33.54

निर्जगाम पुरात् तस्मात् सार्धं तेन पुरोधसा।
हिमवच्छिखरे रम्ये तपस्यन्तं महामुनिम् ॥ 33.54 ॥

विश्वास-प्रस्तुतिः - 33.55

वसानं वल्कले शुभ्रे शुभ्रयज्ञोपवीतिनम्।
जटाजिनधरं शान्तं ज्वलत्पावकसंनिभूम् ॥ 33.55 ॥

मूलम् - 33.55

वसानं वल्कले शुभ्रे शुभ्रयज्ञोपवीतिनम्।
जटाजिनधरं शान्तं ज्वलत्पावकसंनिभूम् ॥ 33.55 ॥

विश्वास-प्रस्तुतिः - 33.56

तं तथावस्थितं राजा जगाम सपुरोहितः।
स मुनिस्तौ मुनिश्रेष्ठो दृष्ट्वा राजपुरोहितौ ॥ 33.56 ॥

मूलम् - 33.56

तं तथावस्थितं राजा जगाम सपुरोहितः।
स मुनिस्तौ मुनिश्रेष्ठो दृष्ट्वा राजपुरोहितौ ॥ 33.56 ॥

तौ समभ्यर्च्य विधिना स्वगतं व्याजहार ह।

इमं देशमनुप्राप्तौ किमर्थं वनगोचरम् ॥ 33.57 ॥

विश्वास-प्रस्तुतिः - 33.58

भवन्तौ लक्षये साक्षाद् ब्रह्मक्षत्रे सविग्रहे।
प्रमगन्दसुतं वीर जाने त्वां मणिशेखरम् ॥ 33.58 ॥

मूलम् - 33.58

भवन्तौ लक्षये साक्षाद् ब्रह्मक्षत्रे सविग्रहे।
प्रमगन्दसुतं वीर जाने त्वां मणिशेखरम् ॥ 33.58 ॥

[^20]सप्तद्वीपवती पृथ्वी तव वश्येति शुश्रुम। सर्वेष्वङ्गादिधर्मेषु भवतः किमनामयम् ॥ 33.59 ॥
विश्वास-प्रस्तुतिः - 33.60

प्रजाः पालयसे सर्वाः स्वधर्मस्था महीपते।
क्रतुं पुरोहितं लब्ध्वा भवतः किं न 17सेत्स्यति ॥ 33.60 ॥

मूलम् - 33.60

प्रजाः पालयसे सर्वाः स्वधर्मस्था महीपते।
क्रतुं पुरोहितं लब्ध्वा भवतः किं न 17सेत्स्यति ॥ 33.60 ॥

विश्वास-प्रस्तुतिः - 33.61

अनूचानो मुनिः श्रेयान् सर्वेषां च 18तपस्विनाम्।
शान्तो दान्तः शुचिः श्रीमान् सत्यवादी दृढव्रतः॥ 33.61 ॥

मूलम् - 33.61

अनूचानो मुनिः श्रेयान् सर्वेषां च 18तपस्विनाम्।
शान्तो दान्तः शुचिः श्रीमान् सत्यवादी दृढव्रतः॥ 33.61 ॥

धर्मज्ञः सर्वशास्त्रज्ञः सर्वकर्मसु कोविदः। [^23]कर्मठः शीलसंपन्नो यायजूको निरामयः ॥ 33.62 ॥
विश्वास-प्रस्तुतिः - 33.63

कृपानुरक्तः सर्वेषु समबुद्धिः समाधिमान्।
दैष्टिकः परमोदारो धृतिमान् राजसत्कृतः ॥ 33.63 ॥

मूलम् - 33.63

कृपानुरक्तः सर्वेषु समबुद्धिः समाधिमान्।
दैष्टिकः परमोदारो धृतिमान् राजसत्कृतः ॥ 33.63 ॥

विश्वास-प्रस्तुतिः - 33.64

सर्वैरनुमतः शश्वद् भक्तिमान् पुरुषोत्तमे।
षण्णां समयधर्माणामभिज्ञो नयकोविदः ॥ 33.64 ॥

मूलम् - 33.64

सर्वैरनुमतः शश्वद् भक्तिमान् पुरुषोत्तमे।
षण्णां समयधर्माणामभिज्ञो नयकोविदः ॥ 33.64 ॥

विश्वास-प्रस्तुतिः - 33.65

दयालुरभिजातश्च साधकः सर्वमन्त्रवित्।
अन्यैश्च सद्गुणैर्युक्तः पुरोहित इति स्मृतः ॥ 33.65 ॥

मूलम् - 33.65

दयालुरभिजातश्च साधकः सर्वमन्त्रवित्।
अन्यैश्च सद्गुणैर्युक्तः पुरोहित इति स्मृतः ॥ 33.65 ॥

विश्वास-प्रस्तुतिः - 33.66

ईदृशोऽयं क्रतुः साक्षाद् बृहस्पतिरिवापरः।
अनेन सर्वकार्याणि कुरुष्व मणिशेखर ॥ 33.66 ॥

मूलम् - 33.66

ईदृशोऽयं क्रतुः साक्षाद् बृहस्पतिरिवापरः।
अनेन सर्वकार्याणि कुरुष्व मणिशेखर ॥ 33.66 ॥

विश्वास-प्रस्तुतिः - 33.67

तथापि कैश्चिदरिभिः परिभूत इवागतः।
आख्याहि सर्वं नृपते किमागमनकारणम् ॥ 33.67 ॥

मूलम् - 33.67

तथापि कैश्चिदरिभिः परिभूत इवागतः।
आख्याहि सर्वं नृपते किमागमनकारणम् ॥ 33.67 ॥

विश्वास-प्रस्तुतिः - 33.68

एवमुक्त्वा महातेजा विरराम तपोधनः।
अथ क्रतुर्मुनिश्रेष्ठः प्राह दुर्वाससं प्रति ॥ 33.68 ॥

मूलम् - 33.68

एवमुक्त्वा महातेजा विरराम तपोधनः।
अथ क्रतुर्मुनिश्रेष्ठः प्राह दुर्वाससं प्रति ॥ 33.68 ॥

विश्वास-प्रस्तुतिः - 33.69

राजकार्यमशेषेण समागमनकारणम्।
स्वराज्यं विकटाक्षेण पीड्यमानं दुरात्मना ॥ 33.69 ॥

मूलम् - 33.69

राजकार्यमशेषेण समागमनकारणम्।
स्वराज्यं विकटाक्षेण पीड्यमानं दुरात्मना ॥ 33.69 ॥

विश्वास-प्रस्तुतिः - 33.70

बलं महासुरस्यास्य दुर्जयत्वमरातिभिः।
प्रजापतेर्वरप्राप्तिं तत्संततिविजृम्भणम् ॥ 33.70 ॥

मूलम् - 33.70

बलं महासुरस्यास्य दुर्जयत्वमरातिभिः।
प्रजापतेर्वरप्राप्तिं तत्संततिविजृम्भणम् ॥ 33.70 ॥

विश्वास-प्रस्तुतिः - 33.71

एवं बहुविधं तस्य चेष्टतं लोकगर्हितम् ।
व्याहृत्य प्रणिपत्यैनमुवाच विनयान्वितः ॥ 33.71 ॥

मूलम् - 33.71

एवं बहुविधं तस्य चेष्टतं लोकगर्हितम् ।
व्याहृत्य प्रणिपत्यैनमुवाच विनयान्वितः ॥ 33.71 ॥

विश्वास-प्रस्तुतिः - 33.72

ब्रूहि तस्य जयोपायं 19त्वामयं शरणं गतः।
त्वमापदः परित्राहि राजानं धर्मवत्सलम् ॥ 33.72 ॥

मूलम् - 33.72

ब्रूहि तस्य जयोपायं 19त्वामयं शरणं गतः।
त्वमापदः परित्राहि राजानं धर्मवत्सलम् ॥ 33.72 ॥

विश्वास-प्रस्तुतिः - 33.73

परित्रातान्यनेनैव भुवनानि 20तपोधन।
एवमुक्त्वा मुनिवरं प्रणिपत्य पुरः स्थितौ ॥ 33.73 ॥

मूलम् - 33.73

परित्रातान्यनेनैव भुवनानि 20तपोधन।
एवमुक्त्वा मुनिवरं प्रणिपत्य पुरः स्थितौ ॥ 33.73 ॥

विश्वास-प्रस्तुतिः - 33.74

कृपया परया वीक्ष्य षड्वर्णं मन्त्रमुत्तमम्।
सौदर्शनं तयोः प्रादाच्चतुर्वर्गफलप्रदम् ॥ 33.74 ॥

मूलम् - 33.74

कृपया परया वीक्ष्य षड्वर्णं मन्त्रमुत्तमम्।
सौदर्शनं तयोः प्रादाच्चतुर्वर्गफलप्रदम् ॥ 33.74 ॥

विश्वास-प्रस्तुतिः - 33.75

अनेन साधयाभीष्टमेतेनैव पुरोधसा।
पुरोधा एव राज्ञां हि दृष्टादृष्टार्थसाधकः ॥ 33.75 ॥

मूलम् - 33.75

अनेन साधयाभीष्टमेतेनैव पुरोधसा।
पुरोधा एव राज्ञां हि दृष्टादृष्टार्थसाधकः ॥ 33.75 ॥

विशेषेणास्य देवस्य प्रतिष्ठाराधनादिषु।
विश्वास-प्रस्तुतिः - 33.77

तथा साद्गुण्यमस्यैव राज्ञः कार्येषु भूपते।
अन्यैः पौरोधसैः कार्यं कार्यमेतस्य तच्च वै ॥ 33.77 ॥

मूलम् - 33.77

तथा साद्गुण्यमस्यैव राज्ञः कार्येषु भूपते।
अन्यैः पौरोधसैः कार्यं कार्यमेतस्य तच्च वै ॥ 33.77 ॥

विश्वास-प्रस्तुतिः - 33.78

इत्युक्त्वा तौ तदा प्राह पुरावृत्तं महामुनिः।
वाराहं रूपमास्थाय भगवान् पुरुषोत्तमः ॥ 33.78 ॥

मूलम् - 33.78

इत्युक्त्वा तौ तदा प्राह पुरावृत्तं महामुनिः।
वाराहं रूपमास्थाय भगवान् पुरुषोत्तमः ॥ 33.78 ॥

विश्वास-प्रस्तुतिः - 33.79

उज्जहार भुवं कल्पे वाराहे सलिलात् ततः।
तदाह परमप्रीता देवं देवी वसुधरा ॥ 33.79 ॥

मूलम् - 33.79

उज्जहार भुवं कल्पे वाराहे सलिलात् ततः।
तदाह परमप्रीता देवं देवी वसुधरा ॥ 33.79 ॥

विश्वास-प्रस्तुतिः - 33.80

प्रियार्थमनुरक्तानां सदा भूमण्डले त्वया।
वर्तितव्यं जगन्नाथ प्रियां तनुमुपेयुषा ॥ 33.80 ॥

मूलम् - 33.80

प्रियार्थमनुरक्तानां सदा भूमण्डले त्वया।
वर्तितव्यं जगन्नाथ प्रियां तनुमुपेयुषा ॥ 33.80 ॥

विश्वास-प्रस्तुतिः - 33.81

एवमुक्तस्तया देव्या तदा प्रभृति केशवः।
सालग्रामाह्वये पुण्ये न्यवसन्मण्डले भुवः ॥ 33.81 ॥

मूलम् - 33.81

एवमुक्तस्तया देव्या तदा प्रभृति केशवः।
सालग्रामाह्वये पुण्ये न्यवसन्मण्डले भुवः ॥ 33.81 ॥

विश्वास-प्रस्तुतिः - 33.82

सुदर्शनवपुः श्रीमान् भगवान् भक्तवत्सलः।
अद्यापि देशमाहात्म्याद् 21भक्तानामनुकम्पया ॥ 33.82 ॥

मूलम् - 33.82

सुदर्शनवपुः श्रीमान् भगवान् भक्तवत्सलः।
अद्यापि देशमाहात्म्याद् 21भक्तानामनुकम्पया ॥ 33.82 ॥

विश्वास-प्रस्तुतिः - 83

भुवः प्रार्थनया तत्र नित्यं संनिहितो हरिः।
अत्र तप्तं तपो यत् तत् सहस्रगुणितं भवेत् ॥ 83 ॥

मूलम् - 83

भुवः प्रार्थनया तत्र नित्यं संनिहितो हरिः।
अत्र तप्तं तपो यत् तत् सहस्रगुणितं भवेत् ॥ 83 ॥

विश्वास-प्रस्तुतिः - 33.84

मनुष्याः पशवस्तत्र क्रिमयश्च पतत्रिणः।
ये मृताः शङ्खचक्राङ्कास्ते भवन्ति न संशयः ॥ 33.84 ॥

मूलम् - 33.84

मनुष्याः पशवस्तत्र क्रिमयश्च पतत्रिणः।
ये मृताः शङ्खचक्राङ्कास्ते भवन्ति न संशयः ॥ 33.84 ॥

विश्वास-प्रस्तुतिः - 33.85

भगवान् पुण्डरीकाक्षः सुर्शनवपुर्धरः।
संनिधत्ते सदा तत्र सन्मङ्गलगुणार्णवः ॥ 33.85 ॥

मूलम् - 33.85

भगवान् पुण्डरीकाक्षः सुर्शनवपुर्धरः।
संनिधत्ते सदा तत्र सन्मङ्गलगुणार्णवः ॥ 33.85 ॥

तद्देशवासिनो मर्त्याः सुरास्तिर्यञ्च एव च।
विश्वास-प्रस्तुतिः - 33.87

सरस्वत्यास्तटे पुण्ये सालग्रामे जनार्दनम्।
चक्ररूपं समाराध्य पूर्वोक्तेनैव वर्त्मना ॥ 33.87 ॥

मूलम् - 33.87

सरस्वत्यास्तटे पुण्ये सालग्रामे जनार्दनम्।
चक्ररूपं समाराध्य पूर्वोक्तेनैव वर्त्मना ॥ 33.87 ॥

तत्प्रसादात् [^28]सपत्नांस्त्वं जहि दुष्टविचेष्टितान्। [^29]ततो निष्कण्टकां भूमिं पालयैनां पुरा यथा ॥ 33.88 ॥
विश्वास-प्रस्तुतिः - 33.89

एवमुक्त्वा मुनिश्रेष्ठो राजानं सपुरोहितम्।
उपारराम भगवान् दुर्वासा यमिनां वरः ॥ 33.89 ॥

मूलम् - 33.89

एवमुक्त्वा मुनिश्रेष्ठो राजानं सपुरोहितम्।
उपारराम भगवान् दुर्वासा यमिनां वरः ॥ 33.89 ॥

विश्वास-प्रस्तुतिः - 33.90

ततः प्रणम्य तं राजा पुरोधाश्चापि जग्मतुः।
जैत्रं विमानमारुह्य नैचाशाखपुरं प्रति ॥ 33.90 ॥

मूलम् - 33.90

ततः प्रणम्य तं राजा पुरोधाश्चापि जग्मतुः।
जैत्रं विमानमारुह्य नैचाशाखपुरं प्रति ॥ 33.90 ॥

विश्वास-प्रस्तुतिः - 33.91

सालग्रामं ततो गत्वा भगवन्तं जनार्दनम्।
संभृत्य सर्वसंभारांश्चक्ररूपं जगत्पतिम् ॥ 33.91 ॥

मूलम् - 33.91

सालग्रामं ततो गत्वा भगवन्तं जनार्दनम्।
संभृत्य सर्वसंभारांश्चक्ररूपं जगत्पतिम् ॥ 33.91 ॥

विश्वास-प्रस्तुतिः - 33.92

पुरोधसैव नृपतिरर्चयामास मन्त्रतः।
अर्चनेन जपेनैव ध्यानेन च महीपतिः ॥ 33.92 ॥

मूलम् - 33.92

पुरोधसैव नृपतिरर्चयामास मन्त्रतः।
अर्चनेन जपेनैव ध्यानेन च महीपतिः ॥ 33.92 ॥

विश्वास-प्रस्तुतिः - 33.93

तोषयामास मासेन भक्त्या परमया हरिम्।
आविर्बभूव स तदा चक्ररूपी महीपतेः ॥ 33.93 ॥

मूलम् - 33.93

तोषयामास मासेन भक्त्या परमया हरिम्।
आविर्बभूव स तदा चक्ररूपी महीपतेः ॥ 33.93 ॥

विश्वास-प्रस्तुतिः - 33.94

गदामुसलशङ्खारिधनुः पाशाङ्कुशाम्बुजान्।
अष्टाभिर्बाहुभिर्दिव्यैर्बिभ्रत् पिङ्गललोचनः ॥ 33.94 ॥

मूलम् - 33.94

गदामुसलशङ्खारिधनुः पाशाङ्कुशाम्बुजान्।
अष्टाभिर्बाहुभिर्दिव्यैर्बिभ्रत् पिङ्गललोचनः ॥ 33.94 ॥

विश्वास-प्रस्तुतिः - 33.95

ऊर्ध्वपिङ्गलकेशाढ्यो रक्तवर्णो महाद्युतिः।
दंष्ट्राकरालवदनः पङ्कजासनसंश्रितः ॥ 33.95 ॥

मूलम् - 33.95

ऊर्ध्वपिङ्गलकेशाढ्यो रक्तवर्णो महाद्युतिः।
दंष्ट्राकरालवदनः पङ्कजासनसंश्रितः ॥ 33.95 ॥

विश्वास-प्रस्तुतिः - 33.96

रक्ताम्बरधरो दृप्तः सर्वभूषणभूषितः।
दिव्यमालाधरोरस्कः22 सस्मितं समुदैक्षत ॥ 33.96 ॥

मूलम् - 33.96

रक्ताम्बरधरो दृप्तः सर्वभूषणभूषितः।
दिव्यमालाधरोरस्कः22 सस्मितं समुदैक्षत ॥ 33.96 ॥

समुदियाय ततो हरिवक्षसः [^31]प्रतिहताखिललोकविलोचनम्। वलयिताचिररोचिरिवाम्बरात् परमचक्रमथैन्द्रमतिद्युति । 33.97 ॥ प्रथममेकमथो दश तत्छतं [^32]दशशतक्रमतो नियुतायुते। भवदथो बहुधा सकलं नभः कलितचक्रमभूदतिभीषणम् ॥ 33.98 ॥
विश्वास-प्रस्तुतिः - 33.99

युगपद् विकटाक्षदानवं विनिहत्याखिलबान्धवैः सह।
तदिहाविषयं व्यतिष्ठत 23क्षणमाप्लुत्य ययौ 24सुदर्शनः॥ 33.99 ॥

मूलम् - 33.99

युगपद् विकटाक्षदानवं विनिहत्याखिलबान्धवैः सह।
तदिहाविषयं व्यतिष्ठत 23क्षणमाप्लुत्य ययौ 24सुदर्शनः॥ 33.99 ॥

शशास पृथ्वीं ससमुद्रकाननां जिताखिलद्वीपवतीं सपत्तनाम्। यथा शचीशस्त्रिदिवं सदैवतं पवित्रकीर्तिर्मणिशेखरस्तथा ॥ 33.100 ॥ इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां मणिशेखरोपाख्यानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः आदितः श्लोकाः 2048

  1. संख्यतैः E.F ↩︎

  2. एष B C E F
    तस्यैव रुद्ररूपेण संहर्तृत्वम्
    स एव रुद्ररूपेण संहरत्यखिलं जगत्।
    तस्यैव बुद्धरूपत्वम्
    बुद्धात्मना च बौद्धानां स एव जगति स्थितः ॥ 33.17 ॥
    तस्यैव दिगम्बररूपत्वम्
    स एव 3शाम्बराणां च निरावरणरूपधृत्।
    तस्यैव जिनरूपत्वम्
    स एव चार्वाकमते जिनेश्वरवपुर्धरः ॥ 33.18 ॥
    तस्यैव यज्ञपुरुषरूपत्वम्
    4स एव याज्ञिकानां च यज्ञपूरुषसंज्ञकः।
    मीमांसकैः स एवायमुपास्यत्वेन चोद्यते ॥ 33.19 ॥
    कापिलमते तस्यैव पुरुषरूपत्वम्
    कापिलैः पुरुषत्वेन स एवाख्यायते विभुः।
    सर्वस्वरूपत्वात् तस्यैव सर्वफलप्रदत्वम्
    उपास्यत्वेन ये प्राहुर्यं यं तत्तद्वपुर्धरः ॥ 33.20 ॥
    तेषां मनीषितं सर्वं स एवाशु प्रयच्छति। ↩︎

  3. शम्बराणां D ↩︎

  4. A B E F omit four lines from here
    देवादिरूपधारणादपि चक्ररूपधारणं भगवतः प्रियतमम्
    एतेषामेव देवानां स्वतनूनां जनार्दनः ॥ 33.21 ॥
    परं प्रीणाति भगवंश्चक्ररूपधरो हरिः।
    तत्र हेतुनिरूपणम्
    स्वसमाश्रितरक्षायां परेषां च निबर्हणे ॥ 33.22 ॥ ↩︎

  5. सोऽयं A B C E F ↩︎

  6. युद्धेषु वर A B C E F ↩︎

  7. तरवश्च शिलाः सर्वे D ↩︎

  8. मणिरोखरः A B C F ↩︎ ↩︎

  9. तपस्विनः E F ↩︎ ↩︎

  10. यज्ञस्यासेध D ↩︎ ↩︎

  11. साधनानि बलानि च B C E F
    अभियोद्धुं मनश्चक्रे विकटाक्षं महासुरम् ॥ 33.38 ॥ ↩︎ ↩︎

  12. ममाभि D ↩︎ ↩︎

  13. तैरजेयताम् D ↩︎ ↩︎

  14. प्रभृत्यजय्योऽयं शत्रुभिः D ↩︎ ↩︎

  15. असह्यतां B C
    5सत्यं न शक्यते जेतुं 6युद्धे स वरदर्पितः।
    भगवन्तमृते विष्णु शङ्खचक्रगदाधरम् ॥ 33.48 ॥ ↩︎ ↩︎

  16. भूषणम् A B C ↩︎ ↩︎

  17. भेत्स्यति A B D ↩︎ ↩︎

  18. मनस्विनाम् D ↩︎ ↩︎

  19. त्वामहं D ↩︎ ↩︎

  20. चतुर्दश B C
    वैगुण्यमस्य तत् सर्वमपराधात् पुरोधसः ॥ 33.76 ॥ ↩︎ ↩︎

  21. भूताना A B C E F
    7तरवश्चाचलाः सर्वे चक्रमुद्राङ्कितास्तदा ॥ 33.86 ॥ ↩︎ ↩︎

  22. धरः स्वोरः D ↩︎ ↩︎

  23. क्षत A B C E F ↩︎ ↩︎

  24. सुदर्शनम् D ↩︎ ↩︎