३२

नाडीशुद्धिवायुजययोगाङ्गप्राणायामादिनिरूपणं नाम द्वात्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
नाडीसंख्यास्थानादिप्रश्नः
नारदः—

विश्वास-प्रस्तुतिः - 32.1

नाडयः कति तिष्ठन्ति कीदृश्यः किंप्रमाणकाः।
क्व वर्तन्ते शरीरेऽस्मिन् कथमासां विशोधनम्॥ 32.1 ॥

मूलम् - 32.1

नाडयः कति तिष्ठन्ति कीदृश्यः किंप्रमाणकाः।
क्व वर्तन्ते शरीरेऽस्मिन् कथमासां विशोधनम्॥ 32.1 ॥

वायुसंख्यादिप्रश्नः

विश्वास-प्रस्तुतिः - 32.2

वायवः कति तिष्ठन्ति किंनामानश्च कीदृशाः।
कानि कर्माण्यमीषां 1तु तत् 2सर्वं वक्तुमर्हसि ॥ 32.2 ॥

मूलम् - 32.2

वायवः कति तिष्ठन्ति किंनामानश्च कीदृशाः।
कानि कर्माण्यमीषां 1तु तत् 2सर्वं वक्तुमर्हसि ॥ 32.2 ॥

तदुत्तरकथनारम्भः
अहिर्बुध्न्यः—
तदेतत् परमं गुह्यं शृणुष्वानन्यमानसः।

विश्वास-प्रस्तुतिः - 32.6

चतुष्कोणं त्रिकोणं तद् वृत्तमाग्नेयमण्डलम्।
चतुष्पदां नृणां चैव विहंगानां यथाक्रमम् ॥ 32.6 ॥

मूलम् - 32.6

चतुष्कोणं त्रिकोणं तद् वृत्तमाग्नेयमण्डलम्।
चतुष्पदां नृणां चैव विहंगानां यथाक्रमम् ॥ 32.6 ॥

नाडीमूलस्थानम्
विश्वास-प्रस्तुतिः - 32.7

मेढ्रान्नवाङ्गुलादूर्ध्वं नाडीनां 4कन्द उच्यते।
चतुरङ्गलमुत्सेधं चतुरङ्गुलमायतम् ॥ 32.7 ।

मूलम् - 32.7

मेढ्रान्नवाङ्गुलादूर्ध्वं नाडीनां 4कन्द उच्यते।
चतुरङ्गलमुत्सेधं चतुरङ्गुलमायतम् ॥ 32.7 ।

अण्डाकारं परिवृतं मेदोमांसास्थिशोणितैः। नाभिचक्रस्थानम् तत्रैव नाभिचक्रं तु द्वादशारं प्रतिष्ठितम् ॥ 32.8 ॥ शरीरं ध्रियते येन तस्मिन् वसति कुण्डली। नाभिचक्रस्यारेषु सुदर्शनमन्त्रवर्णन्यासः सौदर्शनस्य मन्त्रस्य यानि वर्णानि सन्ति वै ॥ 32.9 ॥
विश्वास-प्रस्तुतिः - 32.10

विभज्य तानि सर्वाणि व्यञ्जनानि स्वरांस्तथा।
चक्रेऽस्मिन् विन्यसेत् तानि प्राच्याद्यारेषु च क्रमात् ॥ 32.10 ॥

मूलम् - 32.10

विभज्य तानि सर्वाणि व्यञ्जनानि स्वरांस्तथा।
चक्रेऽस्मिन् विन्यसेत् तानि प्राच्याद्यारेषु च क्रमात् ॥ 32.10 ॥

शिष्टाक्षराणां चक्रमध्ये न्यासः शेषाणि विन्यसेन्मध्ये [^5]चक्रस्यास्य समाहितः।
विश्वास-प्रस्तुतिः - 32.11

नाभिचक्रं परितः कुण्डल्यवस्थितिः।
वर्तते परितश्चक्रमष्टवक्त्राथ कुण्डली ॥ 32.11 ॥

मूलम् - 32.11

नाभिचक्रं परितः कुण्डल्यवस्थितिः।
वर्तते परितश्चक्रमष्टवक्त्राथ कुण्डली ॥ 32.11 ॥

विश्वास-प्रस्तुतिः - 32.12

अष्टप्रकृतिरूपेण भोगेनावेष्ट्य वैष्णवी।
ब्रह्मरन्ध्रं सुषुम्नायाः 5पिदधाति मुखेन वै ॥ 32.12 ॥

मूलम् - 32.12

अष्टप्रकृतिरूपेण भोगेनावेष्ट्य वैष्णवी।
ब्रह्मरन्ध्रं सुषुम्नायाः 5पिदधाति मुखेन वै ॥ 32.12 ॥

चक्रमध्ये अलम्बुसासुषुम्नयोः स्थितिः अलम्बुसा सुषुम्ना च मध्ये चक्रस्य तिष्ठतः। अन्यासां द्वादशनाडीनां स्थानभेदाः अरे प्राच्ये सुषुम्नायाः कुहूर्नाडी वसत्यसौ ॥ 32.13 ॥
विश्वास-प्रस्तुतिः - 32.14

अनन्तरारयुग्मे च 6वारुणा च यशस्विनी।
दक्षिणारे सुषुम्नायाः पिङ्गला वर्तते क्रमात् ॥ 32.14 ॥

मूलम् - 32.14

अनन्तरारयुग्मे च 6वारुणा च यशस्विनी।
दक्षिणारे सुषुम्नायाः पिङ्गला वर्तते क्रमात् ॥ 32.14 ॥

विश्वास-प्रस्तुतिः - 32.15

तदन्तरयोः पूषा वर्तते च पयस्विनी।
सुषुम्नापश्चिमे चारे स्थिता नाडी सरस्वती ॥ 32.15 ॥

मूलम् - 32.15

तदन्तरयोः पूषा वर्तते च पयस्विनी।
सुषुम्नापश्चिमे चारे स्थिता नाडी सरस्वती ॥ 32.15 ॥

शङ्खिनी चैव [^8]गान्धारी तदनन्तरयोः स्थिते।
विश्वास-प्रस्तुतिः - 32.17

अनन्तरं हस्तिजिह्वा ततो विश्वोदरा स्थिता।
प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः ॥ 32.17 ॥

मूलम् - 32.17

अनन्तरं हस्तिजिह्वा ततो विश्वोदरा स्थिता।
प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः ॥ 32.17 ॥

वर्तन्ते द्वादशस्वेता द्वादश ब्रह्मणः सुताः। मुख्यानां चतुर्दशनाडीनां नामनि इडा च पिङ्गला चैव सुषुम्ना च सरस्वती ॥ 32.18 ॥
विश्वास-प्रस्तुतिः - 32.19

कुहुः पयस्विनी चैव 7वारुणा च यशस्विनी।
विश्वोदरा हस्तिजिह्वा 8गान्धारी शङ्किनी तथा ॥ 32.19 ॥

मूलम् - 32.19

कुहुः पयस्विनी चैव 7वारुणा च यशस्विनी।
विश्वोदरा हस्तिजिह्वा 8गान्धारी शङ्किनी तथा ॥ 32.19 ॥

अलम्बुसा च पूषा च [^11]मुख्यास्त्वेताश्चतुर्दश। देहवर्तिनाडीसंख्या द्विसप्ततिसहस्राणि[^12] नाडीनां देहवर्तिनाम् ॥ 32.20 ॥ मुख्यास्तिस्रो नाड्यः तासु तिस्रो मुख्यतमाः सुषुम्नेडा च पिङ्गला। तास्वपि सुषुम्ना मुख्यतमा तासां सुषुम्ना मुख्या स्यादामूर्धान्तं व्यवस्थिता ॥ 32.21 ॥ जीवस्य नाडीचक्रे भ्रमणम्
विश्वास-प्रस्तुतिः - 32.22

प्राणारूढो भवेज्जीवश्चक्रेऽस्मिन् भ्रमते सदा।
ऊर्णनाभिर्यथा तन्तुपञ्जरान्तर्व्यवस्थितः ॥ 32.22 ॥

मूलम् - 32.22

प्राणारूढो भवेज्जीवश्चक्रेऽस्मिन् भ्रमते सदा।
ऊर्णनाभिर्यथा तन्तुपञ्जरान्तर्व्यवस्थितः ॥ 32.22 ॥

विश्वास-प्रस्तुतिः - 32.23

पञ्चरन्ध्र्याः सुषुम्नायाश्चत्वारो रक्तपूरिताः।
कुण्डल्या पिहितं शश्वद् ब्रह्मरन्ध्रं तु मध्यमम् ॥ 32.23 ॥

मूलम् - 32.23

पञ्चरन्ध्र्याः सुषुम्नायाश्चत्वारो रक्तपूरिताः।
कुण्डल्या पिहितं शश्वद् ब्रह्मरन्ध्रं तु मध्यमम् ॥ 32.23 ॥

नाडीनां परिमाणनिरूपणम्
विश्वास-प्रस्तुतिः - 32.24

प्राच्यः पार्श्वः सुषुम्नाया ललाटान्तं समुच्छ्रितः।
प्रतीच्यः कन्धरान्तस्तु द्वौ पार्श्वौ सव्यदक्षिणौ ॥ 32.24 ॥

मूलम् - 32.24

प्राच्यः पार्श्वः सुषुम्नाया ललाटान्तं समुच्छ्रितः।
प्रतीच्यः कन्धरान्तस्तु द्वौ पार्श्वौ सव्यदक्षिणौ ॥ 32.24 ॥

विश्वास-प्रस्तुतिः - 32.25

आ पार्श्वशिरसः प्राप्तौ गुह्यमेतदुदाहृतम्।
अलम्बुसाख्या नाडी स्यादापादान्तं व्यवस्थिता ॥ 32.25 ॥

मूलम् - 32.25

आ पार्श्वशिरसः प्राप्तौ गुह्यमेतदुदाहृतम्।
अलम्बुसाख्या नाडी स्यादापादान्तं व्यवस्थिता ॥ 32.25 ॥

विश्वास-प्रस्तुतिः - 32.26

आमेढ्रान्तं कुहूः प्राप्ता 9वारुणा विश्वदेहगा।
आदक्षिणपदाङ्गुष्ठं संप्राप्ताथ यशस्विनी ॥ 32.26 ॥

मूलम् - 32.26

आमेढ्रान्तं कुहूः प्राप्ता 9वारुणा विश्वदेहगा।
आदक्षिणपदाङ्गुष्ठं संप्राप्ताथ यशस्विनी ॥ 32.26 ॥

विश्वास-प्रस्तुतिः - 32.27

प्राप्ता दक्षिणनासान्तं पिङ्गलाख्या तु नाडिका।
पूषा पयस्विनी चैव दक्षिणाक्षिश्रुती गते ॥ 32.27 ॥

मूलम् - 32.27

प्राप्ता दक्षिणनासान्तं पिङ्गलाख्या तु नाडिका।
पूषा पयस्विनी चैव दक्षिणाक्षिश्रुती गते ॥ 32.27 ॥

विश्वास-प्रस्तुतिः - 32.28

जिह्वामूलममभिप्राप्ता नाडी नाम्ना सरस्वती।
शङ्खिनी वामकर्णं च 10गान्धारी वामलोचनम्॥ 32.28 ॥

मूलम् - 32.28

जिह्वामूलममभिप्राप्ता नाडी नाम्ना सरस्वती।
शङ्खिनी वामकर्णं च 10गान्धारी वामलोचनम्॥ 32.28 ॥

विश्वास-प्रस्तुतिः - 32.29

वामघ्राणं गता नाडी इडा नाम्नेति विश्रुता।
प्राप्ता वामपदाङ्गुष्ठं हस्तिजिह्वा तु नाडिका ॥ 32.29 ॥

मूलम् - 32.29

वामघ्राणं गता नाडी इडा नाम्नेति विश्रुता।
प्राप्ता वामपदाङ्गुष्ठं हस्तिजिह्वा तु नाडिका ॥ 32.29 ॥

विश्वोदरोदरं प्राप्ता प्रोक्ता नाडीगतिर्मया। इडापिङ्गलयोश्चन्दसूर्यावस्थितिः इडायां वर्तते चन्द्रः पिङ्गलायां प्रभाकरः ॥ 32.30 ॥
विश्वास-प्रस्तुतिः - 32.32

प्राणापानसमानाश्चाप्युदानो व्यान एव च।
नागः कूर्मश्च कृकरो देवदत्तो धनंजयः ॥ 32.32 ॥

मूलम् - 32.32

प्राणापानसमानाश्चाप्युदानो व्यान एव च।
नागः कूर्मश्च कृकरो देवदत्तो धनंजयः ॥ 32.32 ॥

प्राणादिवायूनां स्थाननिरूपणम् सदा निवसति प्राणो नाभिचक्रे समीरणः। [^15]आस्यनासिकयोर्मध्ये हृदि प्राणः प्रकाशते ॥ 32.33 ॥
विश्वास-प्रस्तुतिः - 32.34

अपानो वसति प्रायो गुदमेढ्रोरुजानुषु।
उदरे 11वृषणे कट्यां जङ्घानाभ्योः प्रदीपवत् ॥ 32.34 ॥

मूलम् - 32.34

अपानो वसति प्रायो गुदमेढ्रोरुजानुषु।
उदरे 11वृषणे कट्यां जङ्घानाभ्योः प्रदीपवत् ॥ 32.34 ॥

विश्वास-प्रस्तुतिः - 32.35

गुदाग्न्यगारयोस्तिष्ठन् मध्येऽपानः प्रकाशते।
व्यानः श्रोत्राक्षिमध्ये च कृकाट्यां गुल्फयोरपि ॥ 32.35 ॥

मूलम् - 32.35

गुदाग्न्यगारयोस्तिष्ठन् मध्येऽपानः प्रकाशते।
व्यानः श्रोत्राक्षिमध्ये च कृकाट्यां गुल्फयोरपि ॥ 32.35 ॥

विश्वास-प्रस्तुतिः - 32.36

घ्राणे गले च स्फिग्देशे 12वसत्यत्र न संशयः।
उदानः सर्वसंधिस्थः पादयोर्हस्तयोरपि ॥ 32.36 ॥

मूलम् - 32.36

घ्राणे गले च स्फिग्देशे 12वसत्यत्र न संशयः।
उदानः सर्वसंधिस्थः पादयोर्हस्तयोरपि ॥ 32.36 ॥

समानः सर्वगात्रेषु सर्वं व्याप्य व्यवस्थितः। प्राणादीनां वृत्तिनिरूपणम् निश्वासोच्छ्वासकादीनि प्राणकर्म इतीष्यते ॥ 32.37 ॥
विश्वास-प्रस्तुतिः - 32.38

हानोपादनकर्मैव व्यानकर्मेति चेष्यते।
उदानकर्म तत् प्रोक्तं देहस्योन्नयनादिकम् ॥ 32.38 ॥

मूलम् - 32.38

हानोपादनकर्मैव व्यानकर्मेति चेष्यते।
उदानकर्म तत् प्रोक्तं देहस्योन्नयनादिकम् ॥ 32.38 ॥

विश्वास-प्रस्तुतिः - 32.39

पोषणादि समानस्य शरीरे कर्म कीर्तितम्।
उद्गरादिगुणो यस्तु नागकर्मेति चेरितम् ॥ 32.39 ॥

मूलम् - 32.39

पोषणादि समानस्य शरीरे कर्म कीर्तितम्।
उद्गरादिगुणो यस्तु नागकर्मेति चेरितम् ॥ 32.39 ॥

विश्वास-प्रस्तुतिः - 32.40

निमीलनादि कूर्मस्य क्षुतं कृकरकस्य च।
देवदत्तस्य देवर्षे तन्द्रीकर्मेति चेरितम् ॥ 32.40 ॥

मूलम् - 32.40

निमीलनादि कूर्मस्य क्षुतं कृकरकस्य च।
देवदत्तस्य देवर्षे तन्द्रीकर्मेति चेरितम् ॥ 32.40 ॥

विश्वास-प्रस्तुतिः - 32.41

धनंजयस्य शोफादि सर्वकर्म प्रकीर्तितम्।
एवं वायुगतिः सर्वा कर्म तेषां च कीर्तितम् ॥ 32.41 ॥

मूलम् - 32.41

धनंजयस्य शोफादि सर्वकर्म प्रकीर्तितम्।
एवं वायुगतिः सर्वा कर्म तेषां च कीर्तितम् ॥ 32.41 ॥

नाडीशोधनविधिः ततश्च सर्वनाडीनां कुर्याच्छोधनमात्मवान्। तच्छोधनप्रकारः इडया वायुमापूर्य बाह्यं षोडशमात्रकैः ॥ 32.42 ॥ [^18]धारयन्नुदरे वायुं मात्रा द्वात्रिंशतं ततः। स्मरेत् स्वमणडले वह्निं तत्र रेफं सबिन्दुकम् ॥ 32.43 ॥
विश्वास-प्रस्तुतिः - 32.44

नासाग्रे शशिनो बिम्बं स्मरेत् पीयूषवर्षिणम्।
स्मृत्वा चन्द्रे वकारं च सबिन्दुं रेचयेत् ततः ॥ 32.44 ॥

मूलम् - 32.44

नासाग्रे शशिनो बिम्बं स्मरेत् पीयूषवर्षिणम्।
स्मृत्वा चन्द्रे वकारं च सबिन्दुं रेचयेत् ततः ॥ 32.44 ॥

पुनः पिङ्गलयापूर्य यथोक्तेनैव वर्त्मना। [^19]धृत्वा च मातरिश्वानमिडया रेचयेत् पुनः ॥ 32.45 ॥ एवं त्रिसंध्यां त्रिः कृत्वा कुर्यान्नित्यं समाहितः।

उक्तक्रमेण शोधयतो मासत्रयेण नाडीशुद्धिसिद्धिः
एवं नियमयुक्तस्य 13कुर्वतः सर्वनाडयः ॥ 32.46 ॥
मासत्रयेण 14शुद्धाः स्युरिति योगविदो विदुः।
ततो वायुजयः
ततश्च मरुतां कुर्युर्विजयं देहवर्तिनाम् ॥ 32.47 ॥
वायुजयान्मनसः स्थैर्यम्

विश्वास-प्रस्तुतिः - 32.48

ततश्च वायवो देहे यत्र यत्र वसन्ति वै।
तत्र तत्र मनःस्थैर्यं वह्निना सह नारद ॥ 32.48 ॥

मूलम् - 32.48

ततश्च वायवो देहे यत्र यत्र वसन्ति वै।
तत्र तत्र मनःस्थैर्यं वह्निना सह नारद ॥ 32.48 ॥

प्राणायामविधिः प्राणायामं ततः कुर्यात् सर्वपापप्रणाशनम्। शिखादिस्थानेषु मनोः षडक्षरन्यासः [^22]शिखास्थाने नाभिचक्रे हृदयाम्बुरुहे ततः ॥ 32.49 ॥ [^23]कण्ठकूपे भ्रुवोर्मध्ये जिह्वामूले तथैव च। मनोः षडक्षराण्येषु क्रमेणैव विचिन्तयेत् ॥ 32.50 ॥ प्राणायामप्रकारः
विश्वास-प्रस्तुतिः - 32.51

वायुं षोडशमात्राभिरिडयापूर्य चिन्तयेत्।
हृन्मध्ये परमात्मानं चक्ररूपिणमव्ययम् ॥ 32.51 ॥

मूलम् - 32.51

वायुं षोडशमात्राभिरिडयापूर्य चिन्तयेत्।
हृन्मध्ये परमात्मानं चक्ररूपिणमव्ययम् ॥ 32.51 ॥

विश्वास-प्रस्तुतिः - 32.52

यावच्छक्रि जपेन्मन्त्रमिमं सौदर्शनं स्मरन्।
पुनः षोडशमात्राभी रेचयेत् पिङ्गलाह्वया15 ॥ 32.52 ॥

मूलम् - 32.52

यावच्छक्रि जपेन्मन्त्रमिमं सौदर्शनं स्मरन्।
पुनः षोडशमात्राभी रेचयेत् पिङ्गलाह्वया15 ॥ 32.52 ॥

विश्वास-प्रस्तुतिः - 32.53

अनया पुनरारोप्य धृत्वा चेतरया त्यजेत्।
पूरणे कुम्भके चैव रेचने प्रणवं जपेत् ॥ 32.53 ॥

मूलम् - 32.53

अनया पुनरारोप्य धृत्वा चेतरया त्यजेत्।
पूरणे कुम्भके चैव रेचने प्रणवं जपेत् ॥ 32.53 ॥

विश्वास-प्रस्तुतिः - 32.54

दश 16पञ्चाशतं चैव चतुर्दश शतं क्रमात्।
गायत्रीं यदि वा जप्त्वा कुर्यादुक्तेन वर्त्मना ॥ 32.54 ॥

मूलम् - 32.54

दश 16पञ्चाशतं चैव चतुर्दश शतं क्रमात्।
गायत्रीं यदि वा जप्त्वा कुर्यादुक्तेन वर्त्मना ॥ 32.54 ॥

विश्वास-प्रस्तुतिः - 32.55

एवं प्रतिदिनं कुर्यात् प्राणायामांस्तु षोडश।
एते पुनन्ति मासेन महापातकिनं नरम् ॥ 32.55 ॥

मूलम् - 32.55

एवं प्रतिदिनं कुर्यात् प्राणायामांस्तु षोडश।
एते पुनन्ति मासेन महापातकिनं नरम् ॥ 32.55 ॥

प्रत्याहारनिरूपणम्
विश्वास-प्रस्तुतिः - 32.56

प्रत्याहारं ततः कुर्यादङ्गैः पञ्चभिरन्वितम्।
स्वबावेनेन्द्रियार्थेषु प्रवृत्तं मानसं बुधैः ॥ 32.56 ॥

मूलम् - 32.56

प्रत्याहारं ततः कुर्यादङ्गैः पञ्चभिरन्वितम्।
स्वबावेनेन्द्रियार्थेषु प्रवृत्तं मानसं बुधैः ॥ 32.56 ॥

विश्वास-प्रस्तुतिः - 32.57

तद्दोषदर्शनात् तेभ्यः समाहृत्य बलेन तु।
निवेशनं भगवति प्रत्याहार इति स्मृतः ॥ 32.57 ॥

मूलम् - 32.57

तद्दोषदर्शनात् तेभ्यः समाहृत्य बलेन तु।
निवेशनं भगवति प्रत्याहार इति स्मृतः ॥ 32.57 ॥

धारणानिरूपणम्
विश्वास-प्रस्तुतिः - 32.58

विषयेषु च वैराग्यादभ्यासाद् गुणदर्शनात्।
परमात्मनि संरोधो मनसो धारणा स्मृता ॥ 32.58 ॥

मूलम् - 32.58

विषयेषु च वैराग्यादभ्यासाद् गुणदर्शनात्।
परमात्मनि संरोधो मनसो धारणा स्मृता ॥ 32.58 ॥

ध्याननिरूपणम्
विश्वास-प्रस्तुतिः - 32.59

तदेवं धृतचित्तस्तु चक्ररूपं जनार्दनम्।
ध्यायीत नियतस्तस्मिन् युञ्जानः प्रथमं मनः ॥ 32.59 ॥

मूलम् - 32.59

तदेवं धृतचित्तस्तु चक्ररूपं जनार्दनम्।
ध्यायीत नियतस्तस्मिन् युञ्जानः प्रथमं मनः ॥ 32.59 ॥

वर्णाश्रमधर्माणं ध्यानेतिकर्तव्यतात्वम्

विश्वास-प्रस्तुतिः - 32.60

रमणीये शुचौ देशे विविक्ते सजले वने।
वर्णाश्रमोचिते धर्मे वर्तमानः प्रसन्नधीः ॥ 32.60 ॥

मूलम् - 32.60

रमणीये शुचौ देशे विविक्ते सजले वने।
वर्णाश्रमोचिते धर्मे वर्तमानः प्रसन्नधीः ॥ 32.60 ॥

विश्वास-प्रस्तुतिः - 32.61

शान्तः सर्वगुणोपेतः सममासनमास्थितः।
ऋजुकायः स्वनासाग्रन्थस्तदृग् भक्तिमान् हरौ ॥ 32.61 ॥

मूलम् - 32.61

शान्तः सर्वगुणोपेतः सममासनमास्थितः।
ऋजुकायः स्वनासाग्रन्थस्तदृग् भक्तिमान् हरौ ॥ 32.61 ॥

विश्वास-प्रस्तुतिः - 32.62

प्राणायामोत्थितेनैव वायुना साग्निना मुखम्।
कुण्डल्यास्तु विनिर्भिद्य सुषुम्नामध्यवर्तिना ॥ 32.62 ॥

मूलम् - 32.62

प्राणायामोत्थितेनैव वायुना साग्निना मुखम्।
कुण्डल्यास्तु विनिर्भिद्य सुषुम्नामध्यवर्तिना ॥ 32.62 ॥

विश्वास-प्रस्तुतिः - 32.63

विकास्य हृदयाम्भोजे तदाकाशे 17शिखास्पदे।
स्फुरद्वह्निशिकामध्ये चिन्तयेदद्भुताकृतिम् ॥ 32.63 ॥

मूलम् - 32.63

विकास्य हृदयाम्भोजे तदाकाशे 17शिखास्पदे।
स्फुरद्वह्निशिकामध्ये चिन्तयेदद्भुताकृतिम् ॥ 32.63 ॥

ध्यानालम्बनभूतध्येयस्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - 32.64

पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वलज्ज्वलनतेजसम्।
दंष्ट्राकरालवदनं भ्रुकुटीभीमदर्शनम् ॥ 32.64 ॥

मूलम् - 32.64

पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वलज्ज्वलनतेजसम्।
दंष्ट्राकरालवदनं भ्रुकुटीभीमदर्शनम् ॥ 32.64 ॥

[^27]विद्युत्पुञ्जप्रतीकाशैरूर्ध्वकेशैर्विराजितम्[^28]। विचित्रानन्दमाणिक्यमुक्ताढ्यमुकुटोज्ज्वलम्[^29] ॥ 32.65 ॥ [^30]पूर्णचन्द्रप्रतीकाशमणिताटङ्कमण्डितम्। [^31]भुजाभिरष्टभिर्युक्तं [^32]रत्नाम्बरधरं विभुम् ॥ 32.66 ॥ शङ्खचक्रगदाशार्ङ्गमुसलैः परमायुधैः।
विश्वास-प्रस्तुतिः - 32.68

दिव्यमाल्याम्बरधरं दिव्यचन्दनचर्चितम्।
हारकेयूरकटककाञ्चीमञ्जीरमण्डितम्18 ॥ 32.68 ॥

मूलम् - 32.68

दिव्यमाल्याम्बरधरं दिव्यचन्दनचर्चितम्।
हारकेयूरकटककाञ्चीमञ्जीरमण्डितम्18 ॥ 32.68 ॥

विश्वास-प्रस्तुतिः - 32.69

अन्यैश्च विविधैश्चित्रैर्भूषणैरुपशोभितम्।
पद्मासनस्थं भक्तानां विश्वेषामभयप्रदम् ॥ 32.69 ॥

मूलम् - 32.69

अन्यैश्च विविधैश्चित्रैर्भूषणैरुपशोभितम्।
पद्मासनस्थं भक्तानां विश्वेषामभयप्रदम् ॥ 32.69 ॥

एवं ध्यायन् विमुच्यते [^34]मुक्तः सकलकिल्बिषैः। समाधिनिरूपणम् [^35]तदेवं स्मृतिसंतानजनितोत्कर्षणं[^36] क्रमात् ॥ 32.70 ॥ [^37]अर्थमात्रावभासं तु समाधिं योगिनो विदुः।

समाधिनिष्ठस्य महिमानुवर्णनम्
ततः समाधिमास्थाय तन्मयत्वमुपागतः ॥ 32.71 ॥

विश्वास-प्रस्तुतिः - 32.72

तस्य प्रभावमखिलमश्नुते शक्तिशालिनः ।
अणिमादिगुणाः सर्वे भवन्त्यस्य महात्मनः ॥ 32.72 ॥

मूलम् - 32.72

तस्य प्रभावमखिलमश्नुते शक्तिशालिनः ।
अणिमादिगुणाः सर्वे भवन्त्यस्य महात्मनः ॥ 32.72 ॥

विश्वास-प्रस्तुतिः - 32.73

निःसहायः सपत्नानामनीकानि बहून्यपि।
हिनस्त्येष यथा चक्रं चक्रं दैतेयरक्षसाम् ॥ 32.73 ॥

मूलम् - 32.73

निःसहायः सपत्नानामनीकानि बहून्यपि।
हिनस्त्येष यथा चक्रं चक्रं दैतेयरक्षसाम् ॥ 32.73 ॥

विश्वास-प्रस्तुतिः - 32.74

मनीषितानि सर्वाणि स्वयमस्योपयान्ति वै।
सिद्धा विद्याधरा यक्षाः कैंकर्यं तस्य कुर्वते ॥ 32.74 ॥

मूलम् - 32.74

मनीषितानि सर्वाणि स्वयमस्योपयान्ति वै।
सिद्धा विद्याधरा यक्षाः कैंकर्यं तस्य कुर्वते ॥ 32.74 ॥

[^38]देवाश्च ऋषयः सर्वे गन्धर्वाप्सरसां गणाः[^39]।

तदाज्ञाकारिणः सर्वे पिशाचोरगराक्षसाः ॥ 32.75 ॥
निखिलभुवनजन्मस्थेमभङ्गैकहेतु-
र्भवति सकलवेत्ता सर्वदृक् सर्वशक्तिः।
अभिमतबहुरूपो दैत्यरक्षांसि निघ्नन्
परिहृतपरिवारो वर्तते पूर्णकामः ॥ 32.76 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां नाडीशुद्धिवायुजययोगाङ्गप्राणायामादिनिरूपणं नाम द्वात्रिंशोऽध्यायः
आदितः श्लोकाः 1948
———–******————–


  1. च D; त्वं E F ↩︎ ↩︎

  2. सत्यं D
    शरीरस्य षण्णवत्यङ्गुलपरिमाणत्वम्
    शरीरं सर्वजन्तूनामङ्गुलीभिरनामयम् ॥ 32.3 ॥
    स्वाभिः स्वाभिः सुरमुने षण्णवत्यङ्गुलात्मकम्।
    सरीरमध्यभागनिर्णयः
    शरीरमध्यः क इति शुश्रूषा चेन्महामुने ॥ 32.4 ॥
    3श्रूयतां पायुदेशात्तु द्व्यङ्गुलात् परतः परम्।
    मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्य उच्यते ॥ 32.5 ॥
    शरीरस्थवह्निमण्डलस्वरूपम् ↩︎ ↩︎

  3. स्नायुदेशात् परस्तात्तु D ↩︎

  4. कन्दम् A B C E F ↩︎ ↩︎

  5. संदधाति D ↩︎ ↩︎

  6. वारणा D ↩︎ ↩︎

  7. वारणा D. ↩︎ ↩︎

  8. गान्धारा D. ↩︎ ↩︎

  9. वारणा D ↩︎ ↩︎

  10. गान्धारा A B C F
    द्वावेव कुरुतः कालं भुङ्क्ते तं ब्रह्मनाडिका।
    शारीरवायुवृत्तान्तकथनम्
    श्रूयतां वायुवृत्तान्तः शरीरान्तरवस्थितः ॥ 32.31 ॥
    शरीरे दश वायवः ↩︎ ↩︎

  11. वङ्क्षणे B C ↩︎ ↩︎

  12. तिष्ठत्यत्र D ↩︎ ↩︎

  13. सर्वतः D ↩︎

  14. सिद्धाः D ↩︎

  15. ख्यया D ↩︎ ↩︎

  16. पञ्चशतं B C ↩︎ ↩︎

  17. अखिलास्पदे A B C E F ↩︎ ↩︎

  18. काञ्चीगुणसमन्वितम् A B C ↩︎ ↩︎