३१

योगाङ्गयमनियमासननिरूपणं नाम एकत्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥

हृद्यागस्वरूपप्रश्नः
नारदः—

विश्वास-प्रस्तुतिः - 31.1

प्रथमं बाह्ययागस्य हृदयाराधनं परम्।
उक्तं त्वया तत्स्वरूपं यथावद्वक्तुमर्हसि ॥ 31.1 ॥

मूलम् - 31.1

प्रथमं बाह्ययागस्य हृदयाराधनं परम्।
उक्तं त्वया तत्स्वरूपं यथावद्वक्तुमर्हसि ॥ 31.1 ॥

तदुत्तरकथनारम्भः
अहिर्बुध्न्यः—

विश्वास-प्रस्तुतिः - 31.2

साधु पृष्टं त्वया तस्य स्वरूपं श्रृणु नारद।
येन प्रीणाति भगवान् सर्वलोकनमस्कृतः ॥ 31.2 ॥

मूलम् - 31.2

साधु पृष्टं त्वया तस्य स्वरूपं श्रृणु नारद।
येन प्रीणाति भगवान् सर्वलोकनमस्कृतः ॥ 31.2 ॥

हृद्यागलक्षणम्
विश्वास-प्रस्तुतिः - 31.3

यैर्बाह्ययागः1 क्रियते साधनैस्त्रिविधैरिह।
संकल्पसिद्धैस्तैरेव देवं प्रति समर्चनम् ॥ 31.3 ॥

मूलम् - 31.3

यैर्बाह्ययागः1 क्रियते साधनैस्त्रिविधैरिह।
संकल्पसिद्धैस्तैरेव देवं प्रति समर्चनम् ॥ 31.3 ॥

हृदयाराधनं प्रोक्तमेतत् सर्वार्थसाधनम्।
विश्वास-प्रस्तुतिः - 31.6

वियुक्तं प्रकृते रूपमात्मनो वक्तुमर्हसि।
केनोपायेन तत्प्राप्तिस्तन्मे4 ब्रूहि सुनिश्चितम् ॥ 31.6 ॥

मूलम् - 31.6

वियुक्तं प्रकृते रूपमात्मनो वक्तुमर्हसि।
केनोपायेन तत्प्राप्तिस्तन्मे4 ब्रूहि सुनिश्चितम् ॥ 31.6 ॥

तदुत्तरकथनारम्भः अहिर्बुध्न्यः---
विश्वास-प्रस्तुतिः - 31.7

श्रृणु 5तत् परमं सूक्ष्मं सर्वगं सर्वभृत्6 तथा।
ज्ञानरूपमनाद्यन्तमविकारि निरामयम् ॥ 31.7 ॥

मूलम् - 31.7

श्रृणु 5तत् परमं सूक्ष्मं सर्वगं सर्वभृत्6 तथा।
ज्ञानरूपमनाद्यन्तमविकारि निरामयम् ॥ 31.7 ॥

विश्वास-प्रस्तुतिः - 31.8

अचक्षुःश्रोत्रमस्पर्शमपाणिचरणं ध्रुवम्।
नामजात्यादिरहितमवर्णमगुणं7 त्वपि ॥ 31.8 ॥

मूलम् - 31.8

अचक्षुःश्रोत्रमस्पर्शमपाणिचरणं ध्रुवम्।
नामजात्यादिरहितमवर्णमगुणं7 त्वपि ॥ 31.8 ॥

[^8]विश्वश्रवो विश्वचक्षुर्विश्वपाणिपदं परम्। असक्तमचरं शान्तं [^9]स्वयंज्योतिरनौपमम् ॥ 31.9 ॥ दूरस्थमन्तिकचरं ज्ञानगम्यं निरञजनम्।

योगकर्मणोर्विविक्तात्मस्वरूपप्राप्तिसाधनता
तत्प्राप्तिसाधनं योगः कर्म च श्रुतिचोदितम् ॥ 31.11 ॥
तद्विषयकः प्रश्नः
नारदः—

विश्वास-प्रस्तुतिः - 31.12

कीदृशं कर्म विज्ञेयं योगः कीदृश उच्यते।
याभ्यां संप्राप्यते चात्मा 8केवलं प्रकृतेः परः ॥ 31.12 ॥

मूलम् - 31.12

कीदृशं कर्म विज्ञेयं योगः कीदृश उच्यते।
याभ्यां संप्राप्यते चात्मा 8केवलं प्रकृतेः परः ॥ 31.12 ॥

तदुत्तरकथनारम्भः अहिर्बुध्न्यः--- श्रृणुष्व [^11]प्रथमं कर्म द्विविधं तदिहोच्यते। कर्मणां द्वैविध्यम् एकं प्रवर्तकं प्रोक्तं निवर्तकमथापरम् ॥ 31.13 ॥

प्रवर्तकनिवर्तककर्मणोः क्रमादभ्युदयनिश्रेयससाधनत्वम्

विश्वास-प्रस्तुतिः - 31.14

प्रवर्तकं च स्वर्गादिफलसाधनमुच्यते।
निवर्तकाख्यं देवर्षे विज्ञेयं मोक्षसाधनम् ॥ 31.14 ॥

मूलम् - 31.14

प्रवर्तकं च स्वर्गादिफलसाधनमुच्यते।
निवर्तकाख्यं देवर्षे विज्ञेयं मोक्षसाधनम् ॥ 31.14 ॥

जीवपरसंयोगस्याष्टाङ्गयोगशब्दार्थता
विश्वास-प्रस्तुतिः - 31.15

संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः।
अष्टाङ्गः एष कथितो येनात्मा दृश्यतां गतः ॥ 31.15 ॥

मूलम् - 31.15

संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः।
अष्टाङ्गः एष कथितो येनात्मा दृश्यतां गतः ॥ 31.15 ॥

योगाङ्गपरिगणनम्

विश्वास-प्रस्तुतिः - 31.16

अष्टाङ्गान्यस्य वक्ष्यामि पृथक् तानि निशामय।
यमश्च नियमश्चैवमासनं तदनन्तरम् ॥ 31.16 ॥

मूलम् - 31.16

अष्टाङ्गान्यस्य वक्ष्यामि पृथक् तानि निशामय।
यमश्च नियमश्चैवमासनं तदनन्तरम् ॥ 31.16 ॥

विश्वास-प्रस्तुतिः - 31.17

प्राणायामस्ततः प्रोक्तः प्रत्याहारश्च धारणा।
ध्यानं तथा समाधिश्चाप्यङ्गान्येतानि नारद ॥ 31.17 ॥

मूलम् - 31.17

प्राणायामस्ततः प्रोक्तः प्रत्याहारश्च धारणा।
ध्यानं तथा समाधिश्चाप्यङ्गान्येतानि नारद ॥ 31.17 ॥

यमस्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - 31.18

सत्यं दया धृतिः शौचं ब्रह्मचर्यं क्षमार्जवम्।
मिताहारस्तथास्तेयमहिंसेति यमा दश ॥ 31.18 ॥

मूलम् - 31.18

सत्यं दया धृतिः शौचं ब्रह्मचर्यं क्षमार्जवम्।
मिताहारस्तथास्तेयमहिंसेति यमा दश ॥ 31.18 ॥

सत्यादीनां स्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - 31.19

हितरूपं वचः सत्यं यथादृष्टार्थगोचरम्।
दया दुःखासहिष्णुत्वं सर्वभूतेषु सर्वदा ॥ 31.19 ॥

मूलम् - 31.19

हितरूपं वचः सत्यं यथादृष्टार्थगोचरम्।
दया दुःखासहिष्णुत्वं सर्वभूतेषु सर्वदा ॥ 31.19 ॥

विश्वास-प्रस्तुतिः - 31.20

आपद्यपि स्वकार्येषु कर्तव्यत्वस्थितिर्धृतिः।
शौचं सर्वेन्द्रियाणां च वैधकर्मसु योग्यता ॥ 31.20 ॥

मूलम् - 31.20

आपद्यपि स्वकार्येषु कर्तव्यत्वस्थितिर्धृतिः।
शौचं सर्वेन्द्रियाणां च वैधकर्मसु योग्यता ॥ 31.20 ॥

विश्वास-प्रस्तुतिः - 31.21

ब्रह्मचर्यं स्वयोषित्सु भोग्यताबुद्धिवर्जनम्।
अविकारमनस्त्वं तु क्षमा विकृतिहेतुषु ॥ 31.21 ॥

मूलम् - 31.21

ब्रह्मचर्यं स्वयोषित्सु भोग्यताबुद्धिवर्जनम्।
अविकारमनस्त्वं तु क्षमा विकृतिहेतुषु ॥ 31.21 ॥

विश्वास-प्रस्तुतिः - 31.22

वाङ्भनः कायवृत्तीनामेकरूपत्वमार्जवम्।
मिताहारस्त्वाश्रमिणां श्रुतिचोदितभोजनम् ॥ 31.22 ॥

मूलम् - 31.22

वाङ्भनः कायवृत्तीनामेकरूपत्वमार्जवम्।
मिताहारस्त्वाश्रमिणां श्रुतिचोदितभोजनम् ॥ 31.22 ॥

विश्वास-प्रस्तुतिः - 31.23

अस्तेयमस्पृहान्येषां वित्ते वाक्कायमानसैः।
अहिंसा वाङ्भनः कायैः परपीडानिवर्तनम् ॥ 31.23 ॥

मूलम् - 31.23

अस्तेयमस्पृहान्येषां वित्ते वाक्कायमानसैः।
अहिंसा वाङ्भनः कायैः परपीडानिवर्तनम् ॥ 31.23 ॥

नियमस्वरूपनिरूपणम्
विश्वास-प्रस्तुतिः - 31.24

सिद्धान्तश्रवणं दानं मतिरीश्वरपूजनम्।
संतोषस्तप आस्तिक्यं ह्रीर्जपश्च तथा व्रतम् ॥ 31.24 ॥

मूलम् - 31.24

सिद्धान्तश्रवणं दानं मतिरीश्वरपूजनम्।
संतोषस्तप आस्तिक्यं ह्रीर्जपश्च तथा व्रतम् ॥ 31.24 ॥

एते तु नियमाः प्रोक्ता दश योगस्य साधकाः। सिद्धान्तश्रवणादीनां स्वरूपनिरूपणम् सिद्धान्तश्रवणं प्रोक्तं वेदान्तश्रवणं बुधैः ॥ 31.25 ॥
विश्वास-प्रस्तुतिः - 31.26

दानं न्यायार्जितार्थस्य सत्पात्रे प्रतिपादनम्।
विहिते कर्मणि श्रद्धा मतिरित्यभिधीयते ॥ 31.26 ॥

मूलम् - 31.26

दानं न्यायार्जितार्थस्य सत्पात्रे प्रतिपादनम्।
विहिते कर्मणि श्रद्धा मतिरित्यभिधीयते ॥ 31.26 ॥

विश्वास-प्रस्तुतिः - 31.27

यथाशक्त्यर्चनं भक्त्या विष्णोरीश्वरपूजनम्।
संतोषोऽलमनेनेति प्रीतिर्यादृच्छिकेन वै9 ॥ 31.27 ॥

मूलम् - 31.27

यथाशक्त्यर्चनं भक्त्या विष्णोरीश्वरपूजनम्।
संतोषोऽलमनेनेति प्रीतिर्यादृच्छिकेन वै9 ॥ 31.27 ॥

विश्वास-प्रस्तुतिः - 31.28

कृच्छ्रचान्द्रायणाद्यैश्च तपो देहविशोषणम्।
आस्तिक्यमस्ति वेदैकगम्यं वस्त्विति निश्चयः ॥ 31.28 ॥

मूलम् - 31.28

कृच्छ्रचान्द्रायणाद्यैश्च तपो देहविशोषणम्।
आस्तिक्यमस्ति वेदैकगम्यं वस्त्विति निश्चयः ॥ 31.28 ॥

विश्वास-प्रस्तुतिः - 31.29

निषिद्धकर्मकरणे व्रीडा ह्रीः प्रोच्यते बुधैः।
गुरूपदिष्टस्वाध्यायमन्त्राभ्यासो जपः स्मृतः॥ 31.29 ॥

मूलम् - 31.29

निषिद्धकर्मकरणे व्रीडा ह्रीः प्रोच्यते बुधैः।
गुरूपदिष्टस्वाध्यायमन्त्राभ्यासो जपः स्मृतः॥ 31.29 ॥

सदाचार्योपदिष्टेपूपायत्वप्रग्रहो व्रतम्। अथासनानां स्वास्थ्यहेतुत्वम् आसनानि प्रवक्ष्यामि मुख्यानि विविधानि च ॥ 31.30 ॥ आस्थायैषामन्यतमं योगिनो यान्ति निर्वृतिम्।

मुख्यासनपरिगणनम्
चक्रं पद्मासनं कूर्मं मायूरं कौक्कूटं तथा ॥ 31.31 ॥

विश्वास-प्रस्तुतिः - 31.32

वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा।
मुक्तासनं गोमुखं च मुख्यान्येतानि नारद ॥ 31.32 ॥

मूलम् - 31.32

वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा।
मुक्तासनं गोमुखं च मुख्यान्येतानि नारद ॥ 31.32 ॥

चक्रासनम्
विश्वास-प्रस्तुतिः - 31.33

सव्योरुं दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे।
निदध्यादृजुकायस्तु चक्रासनमिदं परम् ॥ 31.33 ॥

मूलम् - 31.33

सव्योरुं दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे।
निदध्यादृजुकायस्तु चक्रासनमिदं परम् ॥ 31.33 ॥

पद्मासनम्
विश्वास-प्रस्तुतिः - 31.34

ऊर्वोरुपरि संस्थाप्य उभे पादतले सुखम्।
पद्मासनमिदं प्रोक्तं सर्वकिल्बिषनाशनम् ॥ 31.34 ॥

मूलम् - 31.34

ऊर्वोरुपरि संस्थाप्य उभे पादतले सुखम्।
पद्मासनमिदं प्रोक्तं सर्वकिल्बिषनाशनम् ॥ 31.34 ॥

कूर्मासनम्
विश्वास-प्रस्तुतिः - 31.35

गुदं 10निपीड्य गुल्फाभ्यां व्युत्क्रमेण समाहितः।
एतत् कूर्मासनं प्रोक्तं योगसिद्धिकरं परम् ॥ 31.35 ॥

मूलम् - 31.35

गुदं 10निपीड्य गुल्फाभ्यां व्युत्क्रमेण समाहितः।
एतत् कूर्मासनं प्रोक्तं योगसिद्धिकरं परम् ॥ 31.35 ॥

मयूरासनम्
विश्वास-प्रस्तुतिः - 31.36

निवेश्य कूर्परौ 11सम्यङ् नाभिमण्डलपार्श्वयोः।
अवष्टभ्य भुवं पाणितलाभ्यां व्योम्नि दण्डवत् ॥ 31.36 ॥

मूलम् - 31.36

निवेश्य कूर्परौ 11सम्यङ् नाभिमण्डलपार्श्वयोः।
अवष्टभ्य भुवं पाणितलाभ्यां व्योम्नि दण्डवत् ॥ 31.36 ॥

विश्वास-प्रस्तुतिः - 31.37

समोन्नतशिरः पादो मायूरासनमिष्यते12
एतत् सर्वविषघ्नं च सर्वव्याधिनिवारणम्13 ॥ 31.37 ॥

मूलम् - 31.37

समोन्नतशिरः पादो मायूरासनमिष्यते12
एतत् सर्वविषघ्नं च सर्वव्याधिनिवारणम्13 ॥ 31.37 ॥

विश्वास-प्रस्तुतिः - 31.38

पद्मासनमधिष्ठाय जान्वन्तरविनिः सृतौ।
करौ भूमौ निवेश्यैतद्व्योमस्थं14 कुक्कुटासनम् ॥ 31.38 ॥

मूलम् - 31.38

पद्मासनमधिष्ठाय जान्वन्तरविनिः सृतौ।
करौ भूमौ निवेश्यैतद्व्योमस्थं14 कुक्कुटासनम् ॥ 31.38 ॥

वीरासनम्
विश्वास-प्रस्तुतिः - 31.39

एकत्रोरौ तु संस्थाप्य पादमेकमथेतरम्।
ऊरुं पादे निवेश्यैतद्वीरासनमुदाहृतम् ॥ 31.39 ॥

मूलम् - 31.39

एकत्रोरौ तु संस्थाप्य पादमेकमथेतरम्।
ऊरुं पादे निवेश्यैतद्वीरासनमुदाहृतम् ॥ 31.39 ॥

स्वस्तिकासनम्
विश्वास-प्रस्तुतिः - 31.40

उभे पादतले कृत्वा जानूर्वोरन्तरे दृढम्।
ऋजुकायः 15समासीत स्वस्तिकं तत् प्रचक्षते ॥ 31.40 ॥

मूलम् - 31.40

उभे पादतले कृत्वा जानूर्वोरन्तरे दृढम्।
ऋजुकायः 15समासीत स्वस्तिकं तत् प्रचक्षते ॥ 31.40 ॥

भद्रासनम्
विश्वास-प्रस्तुतिः - 31.41

सीवन्याः पार्श्वयोर्गुल्फौ निवेश्याग्रपदे दृढम्।
बद्ध्वा कराभ्यां तत् प्रोक्तं भद्रासनमघापहम् ॥ 31.41 ॥

मूलम् - 31.41

सीवन्याः पार्श्वयोर्गुल्फौ निवेश्याग्रपदे दृढम्।
बद्ध्वा कराभ्यां तत् प्रोक्तं भद्रासनमघापहम् ॥ 31.41 ॥

सिंहासनम्
विश्वास-प्रस्तुतिः - 31.42

सीवन्याः पार्श्वयोर्गुल्पौ व्युत्क्रमेण निवेश्य च।
करौ जान्वोर्निधायोभौ प्रसार्य निखिलाङ्गलीः ॥ 31.42 ॥

मूलम् - 31.42

सीवन्याः पार्श्वयोर्गुल्पौ व्युत्क्रमेण निवेश्य च।
करौ जान्वोर्निधायोभौ प्रसार्य निखिलाङ्गलीः ॥ 31.42 ॥

विश्वास-प्रस्तुतिः - 31.43

नासाग्रन्यस्तनयनो व्यात्तवक्त्र ऋजुः सुधीः।
एतत् सिंहासनं प्रोक्तं सर्वदेवाभिपूजितम् ॥ 31.43 ॥

मूलम् - 31.43

नासाग्रन्यस्तनयनो व्यात्तवक्त्र ऋजुः सुधीः।
एतत् सिंहासनं प्रोक्तं सर्वदेवाभिपूजितम् ॥ 31.43 ॥

मुक्तासनम्

विश्वास-प्रस्तुतिः - 31.44

मेढ्रादुपरि विन्यस्य सव्यगुल्फमिहेतरम्।
गुल्फं विन्यस्य पाणी 16चाप्यङ्गमध्ये निवेश्य च ॥ 31.44 ॥

मूलम् - 31.44

मेढ्रादुपरि विन्यस्य सव्यगुल्फमिहेतरम्।
गुल्फं विन्यस्य पाणी 16चाप्यङ्गमध्ये निवेश्य च ॥ 31.44 ॥

मुक्तासनमिदं प्रोक्तं स्थिता यत्र मुमुक्षवः। गोमुखासनम् उभयोर्गुल्फयोः कृत्वा पृष्ठपार्श्वावुभावपि ॥ 31.45 ॥
विश्वास-प्रस्तुतिः - 31.46

व्युत्क्रमेणाथ पाणिभ्यां विन्यस्ताभ्यां 17विगृह्य च।
पृष्ठगाभ्यां पदाङ्गुष्ठावेतद् गोमुखमुच्यते ॥ 31.46 ॥

मूलम् - 31.46

व्युत्क्रमेणाथ पाणिभ्यां विन्यस्ताभ्यां 17विगृह्य च।
पृष्ठगाभ्यां पदाङ्गुष्ठावेतद् गोमुखमुच्यते ॥ 31.46 ॥

प्राणायामसिद्धये नाडीशुद्ध्यावश्यकता
विश्वास-प्रस्तुतिः - 31.47

प्राणायामप्रसिद्ध्यर्थं नाडीशुद्धिमनन्तरम्।
देहस्थवायुभिः कुर्यात् साग्निभिश्च तपोधन ॥ 31.47 ॥

मूलम् - 31.47

प्राणायामप्रसिद्ध्यर्थं नाडीशुद्धिमनन्तरम्।
देहस्थवायुभिः कुर्यात् साग्निभिश्च तपोधन ॥ 31.47 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां योगाङ्गयमनियमासननिरूपणं नामैकत्रिंशोऽध्यायः आदितः श्लोकाः 1872

  1. योगः A B C
    आत्मसमर्पणस्य हृद्यागतुल्यत्वम्
    यद्वा भगवते तस्मै स्वकीयात्मसमर्पणम् ॥ 31.4 ॥
    वियुक्तं प्रकृतेः शुद्धं दद्यादात्महविः स्वयम्।
    2विशिष्टदैवतायास्मै चक्ररूपाय 3मन्त्रतः ॥ 31.5 ॥
    प्रकृतिवियुक्तात्मस्वरूपविषयकः प्रश्नः
    नारदः— ↩︎ ↩︎

  2. विशिष्टं D ↩︎

  3. तन्त्रतः D ↩︎

  4. तत्स्यादिति विनिश्चितम् A B C E F ↩︎ ↩︎

  5. तं D ↩︎ ↩︎

  6. हृत्तथा A B C E F ↩︎ ↩︎

  7. अगुणच्छवि D ↩︎ ↩︎

  8. केवलः E F ↩︎ ↩︎

  9. मे D ↩︎ ↩︎

  10. निरुध्य D ↩︎ ↩︎

  11. सम्यग्लग्रतुन्दिलपार्शयोः E. ↩︎ ↩︎

  12. उच्यते E F ↩︎ ↩︎

  13. निबर्हणम् B C
    कुक्कुटासनम् ↩︎ ↩︎

  14. स्थ A B C E F ↩︎ ↩︎

  15. समासीनः A B C E F ↩︎ ↩︎

  16. च हस्तमध्ये D; चाप्यङ्गं मध्ये E ↩︎ ↩︎

  17. प्रगृह्य D ↩︎ ↩︎