३०

अस्त्राणां जन्मनामनिरूपणं नाम त्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

ब्राह्माद्यस्त्राणां देवपरिवारत्वकथंताप्रश्नः
नारदः—

विश्वास-प्रस्तुतिः - 30.1

कथं ब्रह्मास्त्रमुख्यानां महतां शक्तिशालिनाम्।
अस्त्राणामप्रमेयाणां देवस्य परिवारता ॥ 30.1 ॥

मूलम् - 30.1

कथं ब्रह्मास्त्रमुख्यानां महतां शक्तिशालिनाम्।
अस्त्राणामप्रमेयाणां देवस्य परिवारता ॥ 30.1 ॥

तेषां जन्मनामप्रश्नः
विश्वास-प्रस्तुतिः - 30.2

कस्मादेतानि जातानि महास्त्राणि महेश्वर।
अमीषां कानि नामानि तन्ममाचक्ष्व पृच्छतः ॥ 30.2 ॥

मूलम् - 30.2

कस्मादेतानि जातानि महास्त्राणि महेश्वर।
अमीषां कानि नामानि तन्ममाचक्ष्व पृच्छतः ॥ 30.2 ॥

तत्प्रतिवचनार्थमाख्यायिकारम्भः अहिर्बुध्न्यः---
विश्वास-प्रस्तुतिः - 30.3

पुरा नारायणो देवः स्वयमेव व्यवस्थितः।
प्राक् सृष्टेर्न रतिं लेभे लीलोपकरणादृते ॥ 30.3 ॥

मूलम् - 30.3

पुरा नारायणो देवः स्वयमेव व्यवस्थितः।
प्राक् सृष्टेर्न रतिं लेभे लीलोपकरणादृते ॥ 30.3 ॥

लीलार्थं भगवतो बहुभवनम् ततो लीलार्थमात्मानं बह्वकल्पयदीश्वरः। पुरुषाधिष्ठितप्रधानसृष्टिः अथ प्रधानमसृजत् पुरुषाधिष्ठितं स्वतः ॥ 30.4 ॥ प्रधानान्महतः सृष्टिः ततो महान्तमव्यक्ताज्जनयामास नारद। महतोऽहंकारसृष्टिः गुणत्रयात्मकं तस्मादहंकारमतः परम् ॥ 30.5 ॥ सात्त्विकाहंकारादेकादसेन्द्रियसृष्टिः
विश्वास-प्रस्तुतिः - 30.6

इन्द्रियाणि दशैतानि ज्ञानकर्मात्मकानि वै।
मनश्च सात्त्विकात् तस्मादहंकारादजीजनत् ॥ 30.6 ॥

मूलम् - 30.6

इन्द्रियाणि दशैतानि ज्ञानकर्मात्मकानि वै।
मनश्च सात्त्विकात् तस्मादहंकारादजीजनत् ॥ 30.6 ॥

तामसाहंकारात् भूतसूक्ष्माणां भूतानां च सृष्टिः [^1]भूतानि भूतसूक्ष्माणि दशैतानि महामुने। असृजत् तामसात् तस्मादहंकाराज्जनार्दनः ॥ 30.7 ॥ सप्तावरणवेष्टिताण्डसृष्टिः
विश्वास-प्रस्तुतिः - 30.8

महदादिविशेषान्तैरेतैरण्डमजीजनत्।
दशोत्तरैरावरणैः सप्तभिः परिवेष्टितम् ॥ 30.8 ॥

मूलम् - 30.8

महदादिविशेषान्तैरेतैरण्डमजीजनत्।
दशोत्तरैरावरणैः सप्तभिः परिवेष्टितम् ॥ 30.8 ॥

अण्डे चतुर्मुखसृष्टिः
विश्वास-प्रस्तुतिः - 30.9

तस्मिन्नण्डे स्वयं विष्णुः प्रजापतिमथाकरोत्।
उच्चावचानां भूतानां कर्तारं निजशक्तिभिः ॥ 30.9 ॥

मूलम् - 30.9

तस्मिन्नण्डे स्वयं विष्णुः प्रजापतिमथाकरोत्।
उच्चावचानां भूतानां कर्तारं निजशक्तिभिः ॥ 30.9 ॥

विश्वास-प्रस्तुतिः - 30.10

हरिः स्वशक्तिरूपेण कालेन चसमन्वितः।
महदादिषु सृज्येषु सृष्टिं चक्रे जगन्मयः ॥ 30.10 ॥

मूलम् - 30.10

हरिः स्वशक्तिरूपेण कालेन चसमन्वितः।
महदादिषु सृज्येषु सृष्टिं चक्रे जगन्मयः ॥ 30.10 ॥

चतुर्मुखव्याजेन भगवतक एव विचित्रजगत्स्रष्टृत्वम्
विश्वास-प्रस्तुतिः - 30.11

विष्णुर्ब्रह्मापदेशेन चिदचिन्मिश्रितं जगत्।
विचित्रं जनयामास तत्तच्छक्तिसमन्वितः ॥ 30.11 ॥

मूलम् - 30.11

विष्णुर्ब्रह्मापदेशेन चिदचिन्मिश्रितं जगत्।
विचित्रं जनयामास तत्तच्छक्तिसमन्वितः ॥ 30.11 ॥

वेदशब्देभ्य एव देवादीनां नामरूपव्याकरणम्
विश्वास-प्रस्तुतिः - 30.12

वेदानालोच्य भूतानां देवादीनां यमः प्रभुः।
नामरूपे च विविधे यथापूर्वमकल्पयत् ॥ 30.12 ॥

मूलम् - 30.12

वेदानालोच्य भूतानां देवादीनां यमः प्रभुः।
नामरूपे च विविधे यथापूर्वमकल्पयत् ॥ 30.12 ॥

आप्तकामस्यापि स्रष्टृत्वोपपत्तिः [^2]सर्वदावाप्तसकलकामोऽपि परमेश्वरः। जन्तुभिर्निजसृष्टैश्च लीलारसमथान्वभूत् ॥ 30.13 ॥ भगवत एव पालकत्वम्
विश्वास-प्रस्तुतिः - 30.14

अनालोच्यैव जगतां त्रातारमपरं हरिः।
स्वयमेवांशरूपेण पालयत्यखिलं जगत् ॥ 30.14 ॥

मूलम् - 30.14

अनालोच्यैव जगतां त्रातारमपरं हरिः।
स्वयमेवांशरूपेण पालयत्यखिलं जगत् ॥ 30.14 ॥

दुष्टनिरसनं विना पालनस्याशक्यत्वम्
विश्वास-प्रस्तुतिः - 30.15

दैतेयानां दानवानामन्तरेण निबर्हणम्।
न शक्यते पालयितुं सदेवासुरमानवम् ॥ 30.15 ॥

मूलम् - 30.15

दैतेयानां दानवानामन्तरेण निबर्हणम्।
न शक्यते पालयितुं सदेवासुरमानवम् ॥ 30.15 ॥

विश्वास-प्रस्तुतिः - 30.16

अतश्च भगवान् विष्णुश्चक्ररूपी व्यवस्थितः।
हन्यन्ते तेन चक्रेण विश्वे दैतेयदानवाः ॥ 30.16 ॥

मूलम् - 30.16

अतश्च भगवान् विष्णुश्चक्ररूपी व्यवस्थितः।
हन्यन्ते तेन चक्रेण विश्वे दैतेयदानवाः ॥ 30.16 ॥

देवादीनां सुदर्शनधारणासामर्थ्यम्
विश्वास-प्रस्तुतिः - 30.17

देवादीनां सुराणां च विशेषाच्च महीक्षिताम्।
न शक्यते धारयितुं सुदर्शनमनुत्तमम् ॥ 30.17 ॥

मूलम् - 30.17

देवादीनां सुराणां च विशेषाच्च महीक्षिताम्।
न शक्यते धारयितुं सुदर्शनमनुत्तमम् ॥ 30.17 ॥

शस्त्रास्त्ररूपेण तस्य विभागः
विश्वास-प्रस्तुतिः - 30.18

अतस्तेषां विभक्तानि विविधानि बहूनि च।
अस्त्राणि शस्त्रजातानि शत्रुनाशाय नारद ॥ 30.18 ॥

मूलम् - 30.18

अतस्तेषां विभक्तानि विविधानि बहूनि च।
अस्त्राणि शस्त्रजातानि शत्रुनाशाय नारद ॥ 30.18 ॥

भगवदात्मकात् सुदर्शनादस्त्राणामुत्पत्तिः
विश्वास-प्रस्तुतिः - 30.19

अस्त्राणि तानि निर्जग्मुर्विष्णुरूपत् सुदर्शनात्।
अमोघानि ततोऽस्त्राणि भीषणानि महान्ति च ॥ 30.19 ॥

मूलम् - 30.19

अस्त्राणि तानि निर्जग्मुर्विष्णुरूपत् सुदर्शनात्।
अमोघानि ततोऽस्त्राणि भीषणानि महान्ति च ॥ 30.19 ॥

विश्वास-प्रस्तुतिः - 30.20

प्रजाः स्रष्टुं मनश्चक्रे चक्ररूपी जगत्पतिः।
स्रष्टुमस्त्राणि सर्वाणि स्वस्माद्रूपान्महामुने ॥ 30.20 ॥

मूलम् - 30.20

प्रजाः स्रष्टुं मनश्चक्रे चक्ररूपी जगत्पतिः।
स्रष्टुमस्त्राणि सर्वाणि स्वस्माद्रूपान्महामुने ॥ 30.20 ॥

तस्माद्देवो भीममापद्य चोग्रं रूपं पिङ्गं पिङ्गलावृत्तनेत्रम्। दंष्ट्रानिर्यत्पावकप्लुष्टकाष्ठं भीमं केशैः पिङ्गलैर्विद्युदाभैः ॥ 30.21 ॥

तत्र मुखजातान्यस्त्राणि

विश्वास-प्रस्तुतिः - 30.22

नारायणं पाशुपतं ब्राह्ममस्त्रं तथैव च।
अस्त्रं ब्रह्मशिरो नाम विष्णुचक्रं च जृम्भणम्॥ 30.22 ॥

मूलम् - 30.22

नारायणं पाशुपतं ब्राह्ममस्त्रं तथैव च।
अस्त्रं ब्रह्मशिरो नाम विष्णुचक्रं च जृम्भणम्॥ 30.22 ॥

विश्वास-प्रस्तुतिः - 30.23

कालपाशमथाग्नेयमस्त्रं हयशिरस्तथा।
प्रस्वापनं 1तापसं च कालास्त्रममितप्रभम् ॥ 30.23 ॥

मूलम् - 30.23

कालपाशमथाग्नेयमस्त्रं हयशिरस्तथा।
प्रस्वापनं 1तापसं च कालास्त्रममितप्रभम् ॥ 30.23 ॥

विश्वास-प्रस्तुतिः - 30.24

दण्डचक्रं कालचक्रं 2धर्मचक्रं तथैव च।
शैवं शूलं रौद्रमस्त्रं त्रिशूलं घोरमेव च ॥ 30.24 ॥

मूलम् - 30.24

दण्डचक्रं कालचक्रं 2धर्मचक्रं तथैव च।
शैवं शूलं रौद्रमस्त्रं त्रिशूलं घोरमेव च ॥ 30.24 ॥

अस्त्राण्येतानि मुख्यानि मुखतो जज्ञिरे विभोः। वक्षोजातान्यस्त्राणि संमोहनं तथैषीकमैन्द्रं चक्रं महाद्युति ॥ 30.25 ॥ अशनी द्वे च शुष्कार्द्रासंज्ञिते सर्वभीषणे। [^5]पैनाकमस्त्रं कङ्कालं कापालमतिदारुणम् ॥ 30.26 ॥
विश्वास-प्रस्तुतिः - 30.27

सौर्यं वारुणपाशं च संतापनमरिंदमम्।
अस्त्रं वारुणमत्युग्रं धर्मपाशं तथैव च ॥ 30.27 ॥

मूलम् - 30.27

सौर्यं वारुणपाशं च संतापनमरिंदमम्।
अस्त्रं वारुणमत्युग्रं धर्मपाशं तथैव च ॥ 30.27 ॥

एतान्यस्त्राणि देवस्य निर्जग्मुर्वक्षसस्तथा। ऊरुजातान्यस्त्राणि शक्तिद्वयं च वायव्यमस्त्रं मौसलमेव च ॥ 30.28 ॥ [^6]गान्धर्वं दर्पणं चास्त्रं शोषणं परदारणम्[^7]। तेजःप्रभं च पैशाचमैन्द्रमस्त्रं सुदारुणम् ॥ 30.29 ॥ याम्यं विलापनं चास्त्रं वैद्याधरममित्रहम्।
विश्वास-प्रस्तुतिः - 30.32

मदनं सौमनं चास्त्रं सत्यं संवर्तनं तथा।
मायाधरं च सोमास्त्रं त्वाष्ट्रं शीतेषुमेव च ॥ 30.32 ॥

मूलम् - 30.32

मदनं सौमनं चास्त्रं सत्यं संवर्तनं तथा।
मायाधरं च सोमास्त्रं त्वाष्ट्रं शीतेषुमेव च ॥ 30.32 ॥

भगास्त्रमस्त्राण्येतानि पद्भ्यां जातानि नारद। अपराङ्गजातान्युपसंहारास्त्राणि [^8]संदामनं सत्यवन्तं [^9]धरणं धृष्टमेव च ॥ 30.33 ॥
विश्वास-प्रस्तुतिः - 30.34

भृशाश्वतनयं चैव सत्यकीर्तिं तथैव च।
मोहनं 3रभसास्त्रं च [^11]सर्वनाहं पराङ्मुखम् ॥ 30.34 ॥

मूलम् - 30.34

भृशाश्वतनयं चैव सत्यकीर्तिं तथैव च।
मोहनं 3रभसास्त्रं च [^11]सर्वनाहं पराङ्मुखम् ॥ 30.34 ॥

विश्वास-प्रस्तुतिः - 30.35

जृम्भकं प्रतिहारं च तथा वरणमुत्तमम्।
अवाङ्मुखं धनं धान्यं वृषाक्षं कामरूपकम् ॥ 30.35 ॥

मूलम् - 30.35

जृम्भकं प्रतिहारं च तथा वरणमुत्तमम्।
अवाङ्मुखं धनं धान्यं वृषाक्षं कामरूपकम् ॥ 30.35 ॥

विश्वास-प्रस्तुतिः - 30.36

दृढनाहं कामरुचिं सुनाभं मकरं तथा।
दशाक्षं वृत्तिमन्तं च दशवक्त्रं तथापरम् ॥ 30.36 ॥

मूलम् - 30.36

दृढनाहं कामरुचिं सुनाभं मकरं तथा।
दशाक्षं वृत्तिमन्तं च दशवक्त्रं तथापरम् ॥ 30.36 ॥

रुचिरं दशशीर्षं च योगं धरममित्रहम्[^12]। [^13]अनिद्रं मकरं चैव [^14]भोक्तारं कङ्कणीं तथा ॥ 30.37 ॥
विश्वास-प्रस्तुतिः - 30.38

शतोदरं सौमनसं पद्मनाभं तथैव च।
महानाभं प्रमथनं ज्यौतिषं 4क्रथनं तथा ॥ 30.38 ॥

मूलम् - 30.38

शतोदरं सौमनसं पद्मनाभं तथैव च।
महानाभं प्रमथनं ज्यौतिषं 4क्रथनं तथा ॥ 30.38 ॥

त्रैराशिं सार्चिमालिं च [^16]विमलां धृतिकां तथा। [^17]सृष्टिं तथा [^18]विषामास्त्रं [^19]सुध्याताहं तथैव च ॥ 30.39 ॥ विधूतं कृशनं चैव लक्षाक्षं कर्शनं तथा।
विश्वास-प्रस्तुतिः - 30.40

उपसंहाररूपाणि सर्वाण्यस्त्राण्यमूनि वै।
जनयामास देवोऽसौ स्वापराङ्गात् परंतपः ॥ 30.40 ॥

मूलम् - 30.40

उपसंहाररूपाणि सर्वाण्यस्त्राण्यमूनि वै।
जनयामास देवोऽसौ स्वापराङ्गात् परंतपः ॥ 30.40 ॥

अध्यायार्थनिगमनम्
विश्वास-प्रस्तुतिः - 30.41

एवमुक्तानि नामानि जन्मान्यापि च नारद।
अस्त्राणामपि माहात्म्यं यन्त्रस्यास्य समासतः ॥ 30.41 ॥

मूलम् - 30.41

एवमुक्तानि नामानि जन्मान्यापि च नारद।
अस्त्राणामपि माहात्म्यं यन्त्रस्यास्य समासतः ॥ 30.41 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अस्त्राणां जन्मनामनिरूपणं नाम त्रिंशोऽध्यायः आदितः श्लोकाः 1825

  1. तामसं B C D; स्वापनं E ↩︎ ↩︎

  2. धर्मचक्रमथापरम् D ↩︎ ↩︎

  3. भासमस्त्रं च D
    [^11]सर्वनाभं D सर्वनागं B C ↩︎ ↩︎

  4. शमकं D ↩︎ ↩︎