काम्याराधनविधिनिरूपणं नाम एकोनत्रिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
भगवदाराधनस्यानुषङ्गिकफलसाधनत्वकथंताप्रश्नः
नारदः—
विश्वास-प्रस्तुतिः - 29.1
एतदाराधनैः कस्य कथं देवादयः सुराः।
अन्ये चोक्ता वशं यान्ति तन्मे ब्रूहि यथातथम् ॥ 29.1 ॥
मूलम् - 29.1
एतदाराधनैः कस्य कथं देवादयः सुराः।
अन्ये चोक्ता वशं यान्ति तन्मे ब्रूहि यथातथम् ॥ 29.1 ॥
विश्वास-प्रस्तुतिः - 29.2
क्षत्रियस्य विशेषेण जयार्थित्वान्महामुने।
येनार्चनविशेषेण विश्वे वश्या भवन्ति हि ॥ 29.2 ॥
मूलम् - 29.2
क्षत्रियस्य विशेषेण जयार्थित्वान्महामुने।
येनार्चनविशेषेण विश्वे वश्या भवन्ति हि ॥ 29.2 ॥
विश्वास-प्रस्तुतिः - 29.5
आराधयेद्विशिष्टैस्तु द्रव्यैर्देवं सुदर्शनम्।
सितपुष्पैः सितैर्वस्त्रैरङ्गरागैः सितैरपि ॥ 29.5 ॥
मूलम् - 29.5
आराधयेद्विशिष्टैस्तु द्रव्यैर्देवं सुदर्शनम्।
सितपुष्पैः सितैर्वस्त्रैरङ्गरागैः सितैरपि ॥ 29.5 ॥
विश्वास-प्रस्तुतिः - 29.7
प्रासादलक्षणे कुण्कडे चतुष्कोणपरिस्तृते।
तत्र वह्निमथादाय1 काष्ठैः प्रज्वाल्य बैल्वकैः ॥ 29.7 ॥
मूलम् - 29.7
प्रासादलक्षणे कुण्कडे चतुष्कोणपरिस्तृते।
तत्र वह्निमथादाय1 काष्ठैः प्रज्वाल्य बैल्वकैः ॥ 29.7 ॥
विश्वास-प्रस्तुतिः - 29.8
आसीनः प्राङ्मुखो भूत्वा शुचिस्तत्र समाहितः।
तस्मिन् फलानि बैल्वानि सर्पिः सिक्तानि नारद ॥ 29.8 ॥
मूलम् - 29.8
आसीनः प्राङ्मुखो भूत्वा शुचिस्तत्र समाहितः।
तस्मिन् फलानि बैल्वानि सर्पिः सिक्तानि नारद ॥ 29.8 ॥
विश्वास-प्रस्तुतिः - 29.9
नियुतं मूलमन्त्रेण जुहुयाज्ज्वलितेऽनले।
होमैरेभिः समुद्रान्ता प्राची वश्या भवेन्मही ॥ 29.9 ॥
मूलम् - 29.9
नियुतं मूलमन्त्रेण जुहुयाज्ज्वलितेऽनले।
होमैरेभिः समुद्रान्ता प्राची वश्या भवेन्मही ॥ 29.9 ॥
विश्वास-प्रस्तुतिः - 29.10
फलानां कोटिहोमेन बैल्वानां वशमेष्यति।
प्लक्षद्वीपस्य देशस्तु प्राच्यः सहमहीपतिः ॥ 29.10 ॥
मूलम् - 29.10
फलानां कोटिहोमेन बैल्वानां वशमेष्यति।
प्लक्षद्वीपस्य देशस्तु प्राच्यः सहमहीपतिः ॥ 29.10 ॥
विश्वास-प्रस्तुतिः - 29.11
कोटिद्वयेन चैतेषां शाल्मलो वशमेष्यति।
देशः 2प्राच्यः स भूपालः स्वदेश इव नारद ॥ 29.11 ॥
मूलम् - 29.11
कोटिद्वयेन चैतेषां शाल्मलो वशमेष्यति।
देशः 2प्राच्यः स भूपालः स्वदेश इव नारद ॥ 29.11 ॥
विश्वास-प्रस्तुतिः - 29.12
कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीपसंज्ञितः।
एकद्वित्रिचतुःपञ्चषट्कैः प्राच्याः क्रमेण वै3 ॥ 29.12 ॥
मूलम् - 29.12
कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीपसंज्ञितः।
एकद्वित्रिचतुःपञ्चषट्कैः प्राच्याः क्रमेण वै3 ॥ 29.12 ॥
विश्वास-प्रस्तुतिः - 29.13
कोटीनां फलहोमानां वशं यास्यन्ति 4भूपतेः।
द्वीपानामपि चैतेषां प्राची माघवती पुरी ॥ 29.13 ॥
मूलम् - 29.13
कोटीनां फलहोमानां वशं यास्यन्ति 4भूपतेः।
द्वीपानामपि चैतेषां प्राची माघवती पुरी ॥ 29.13 ॥
11पालनार्थं तु 12लोकानामेकेनांशेन वासवः ॥ 29.14 ॥
विश्वास-प्रस्तुतिः - 29.15
तत्रैव वर्तते सोऽपि साहाय्यं 13तस्य यास्यति।
स्त्रीभिरन्नैश्च पानैश्च वाजिभिः परमैर्गजैः ॥ 29.15 ॥
मूलम् - 29.15
तत्रैव वर्तते सोऽपि साहाय्यं 13तस्य यास्यति।
स्त्रीभिरन्नैश्च पानैश्च वाजिभिः परमैर्गजैः ॥ 29.15 ॥
विश्वास-प्रस्तुतिः - 29.16
यथा स्वस्मिन् पुरे राजा विहरत्यविशङ्कया।
चिन्तितोपनतैरेव तैर्द्रव्यै रंस्यते नृपः ॥ 29.16 ॥
मूलम् - 29.16
यथा स्वस्मिन् पुरे राजा विहरत्यविशङ्कया।
चिन्तितोपनतैरेव तैर्द्रव्यै रंस्यते नृपः ॥ 29.16 ॥
विश्वास-प्रस्तुतिः - 29.17
अस्य प्रभावतः सर्वे विष्टब्धाः सर्वसागराः।
गन्तुं 14योग्या भविष्यन्ति स्यन्दनेन यथा स्थली ॥ 29.17 ॥
मूलम् - 29.17
अस्य प्रभावतः सर्वे विष्टब्धाः सर्वसागराः।
गन्तुं 14योग्या भविष्यन्ति स्यन्दनेन यथा स्थली ॥ 29.17 ॥
विश्वास-प्रस्तुतिः - 29.18
हारं च वासवस्यस्य चक्रवर्तित्वलक्षणम्।
सर्वरत्नमयं दिव्यमुपनेष्यति च स्वयम् ॥ 29.18 ॥
मूलम् - 29.18
हारं च वासवस्यस्य चक्रवर्तित्वलक्षणम्।
सर्वरत्नमयं दिव्यमुपनेष्यति च स्वयम् ॥ 29.18 ॥
विश्वास-प्रस्तुतिः - 29.19
दक्षिणाशाजयाशा चेदजनिष्ट महीपतेः।
पूर्वोक्ते मण्डपे देवं दक्षिणामभिमुखं नयेत् ॥ 29.19 ॥
मूलम् - 29.19
दक्षिणाशाजयाशा चेदजनिष्ट महीपतेः।
पूर्वोक्ते मण्डपे देवं दक्षिणामभिमुखं नयेत् ॥ 29.19 ॥
विश्वास-प्रस्तुतिः - 29.20
रक्तमाल्याम्बरधरं रक्तचन्दनरञ्चितम्।
रक्ताम्बरधरं 15देवमभ्यर्च्योक्तेन वर्त्मना ॥ 29.20 ॥
मूलम् - 29.20
रक्तमाल्याम्बरधरं रक्तचन्दनरञ्चितम्।
रक्ताम्बरधरं 15देवमभ्यर्च्योक्तेन वर्त्मना ॥ 29.20 ॥
विश्वास-प्रस्तुतिः - 29.21
गुडौदनं हविस्तस्मै निवेद्य तिलमिश्रितम्।
अर्धचन्द्रोपमं कुण्डं कृत्वा प्रासादलक्षणम्॥ 29.21 ॥
मूलम् - 29.21
गुडौदनं हविस्तस्मै निवेद्य तिलमिश्रितम्।
अर्धचन्द्रोपमं कुण्डं कृत्वा प्रासादलक्षणम्॥ 29.21 ॥
विश्वास-प्रस्तुतिः - 29.22
कुशैः पुष्पैश्च लाजैश्च परिष्कृतमविक्षतम्।
दक्षिणाभिमुखस्तत्र समासीनोऽग्रतो विभोः ॥ 29.22 ॥
मूलम् - 29.22
कुशैः पुष्पैश्च लाजैश्च परिष्कृतमविक्षतम्।
दक्षिणाभिमुखस्तत्र समासीनोऽग्रतो विभोः ॥ 29.22 ॥
मन्त्रेण वह्निमादाय काष्ठैः प्रज्वाल्य स्वादिरैः।
16पद्मानां चैव रक्तानां नियुतैर्होममाचरेत् ॥ 29.23 ॥
विश्वास-प्रस्तुतिः - 29.24
ततः सा दक्षिणा पृथ्वी सागरान्ता वशा भवेत्।
सोपहाराश्च राजानस्तत्रत्या द्वारि वारिताः ॥ 29.24 ॥
मूलम् - 29.24
ततः सा दक्षिणा पृथ्वी सागरान्ता वशा भवेत्।
सोपहाराश्च राजानस्तत्रत्या द्वारि वारिताः ॥ 29.24 ॥
विश्वास-प्रस्तुतिः - 29.25
प्रतीक्षमाणाः स्थास्यन्ति कालं तस्य महात्मनः।
ततो दक्षिणदिग्भागे17 षट्सु द्वीपेषु संमताः ॥ 29.25 ॥
मूलम् - 29.25
प्रतीक्षमाणाः स्थास्यन्ति कालं तस्य महात्मनः।
ततो दक्षिणदिग्भागे17 षट्सु द्वीपेषु संमताः ॥ 29.25 ॥
विश्वास-प्रस्तुतिः - 29.26
एकद्वित्रिचतुः पञ्चषकड्भिर्वश्याः सभूभुजः।
रक्तपद्माहुतीनां च कोटीनां तु यथाक्रमम् ॥ 29.26 ॥
मूलम् - 29.26
एकद्वित्रिचतुः पञ्चषकड्भिर्वश्याः सभूभुजः।
रक्तपद्माहुतीनां च कोटीनां तु यथाक्रमम् ॥ 29.26 ॥
विश्वास-प्रस्तुतिः - 29.27
एषा दक्षिणतो रम्या याम्या संयमिनी पुरी।
सा रक्तपद्महोमानां दशकोट्या वशा भवेत् ॥ 29.27 ॥
मूलम् - 29.27
एषा दक्षिणतो रम्या याम्या संयमिनी पुरी।
सा रक्तपद्महोमानां दशकोट्या वशा भवेत् ॥ 29.27 ॥
विश्वास-प्रस्तुतिः - 29.28
यमोऽपि तस्य भावेन प्रसन्नः प्रीतमानसः।
राज्ञो मनीषितं यत् तन्नान्यथा वर्तयिष्यति ॥ 29.28 ॥
मूलम् - 29.28
यमोऽपि तस्य भावेन प्रसन्नः प्रीतमानसः।
राज्ञो मनीषितं यत् तन्नान्यथा वर्तयिष्यति ॥ 29.28 ॥
विश्वास-प्रस्तुतिः - 29.29
अकालमरणं किंचित् तद्देशे न भविष्यति।
ये पुर्यां संयमिन्यां च यमस्य वशवर्तिनः ॥ 29.29 ॥
मूलम् - 29.29
अकालमरणं किंचित् तद्देशे न भविष्यति।
ये पुर्यां संयमिन्यां च यमस्य वशवर्तिनः ॥ 29.29 ॥
विश्वास-प्रस्तुतिः - 29.34
पद्मोपमानं प्रासादं कुण्डं कृत्वा स्वलंकृतम्।
तत्राधायाग्निमासित्वा18 देवस्य पुरतो वशी ॥ 29.34 ॥
मूलम् - 29.34
पद्मोपमानं प्रासादं कुण्डं कृत्वा स्वलंकृतम्।
तत्राधायाग्निमासित्वा18 देवस्य पुरतो वशी ॥ 29.34 ॥
विश्वास-प्रस्तुतिः - 29.36
ततः ससागरा पृथ्वी जम्बूद्वीपस्य पश्चिमा।
वर्तिष्यते वशे तस्य राज्ञः सनृपतिस्तदा ॥ 29.36 ॥
मूलम् - 29.36
ततः ससागरा पृथ्वी जम्बूद्वीपस्य पश्चिमा।
वर्तिष्यते वशे तस्य राज्ञः सनृपतिस्तदा ॥ 29.36 ॥
विश्वास-प्रस्तुतिः - 29.37
करवीराहुतीनां च कोट्या कोटिद्वयेन च।
कोटित्रयचतुःपञ्चषट्कैस्ते19 च यथाक्रमम् ॥ 29.37 ॥
मूलम् - 29.37
करवीराहुतीनां च कोट्या कोटिद्वयेन च।
कोटित्रयचतुःपञ्चषट्कैस्ते19 च यथाक्रमम् ॥ 29.37 ॥
विश्वास-प्रस्तुतिः - 29.38
षट् द्वीपखण्डाः पाश्चात्त्या वशं यास्यन्ति भूपतेः।
सुखाख्या वारुणी रम्या पुरी परमभास्वरा ॥ 29.38 ॥
मूलम् - 29.38
षट् द्वीपखण्डाः पाश्चात्त्या वशं यास्यन्ति भूपतेः।
सुखाख्या वारुणी रम्या पुरी परमभास्वरा ॥ 29.38 ॥
विश्वास-प्रस्तुतिः - 29.39
सदा संनिहितैर्भोज्यैर्लेह्यैः पेयैश्च पूरिता।
दिव्यपादपसंयुक्तेर्नन्दनारुपशोभिता ॥ 29.39 ॥
मूलम् - 29.39
सदा संनिहितैर्भोज्यैर्लेह्यैः पेयैश्च पूरिता।
दिव्यपादपसंयुक्तेर्नन्दनारुपशोभिता ॥ 29.39 ॥
विश्वास-प्रस्तुतिः - 29.40
सदोत्फुल्लाम्बुजाढ्याभिः सरसीभिः परिष्कृता।
आक्रीडपर्वतैर्युक्ता नानारत्नविभूषितैः ॥ 29.40 ॥
मूलम् - 29.40
सदोत्फुल्लाम्बुजाढ्याभिः सरसीभिः परिष्कृता।
आक्रीडपर्वतैर्युक्ता नानारत्नविभूषितैः ॥ 29.40 ॥
विश्वास-प्रस्तुतिः - 29.41
प्रासादैर्मण्डपैस्तुङ्गैर्मण्डिता सा हिरण्मयैः।
एवंविधा पुरी तस्य राज्ञो भोग्या भविष्यति ॥ 29.41 ॥
मूलम् - 29.41
प्रासादैर्मण्डपैस्तुङ्गैर्मण्डिता सा हिरण्मयैः।
एवंविधा पुरी तस्य राज्ञो भोग्या भविष्यति ॥ 29.41 ॥
विश्वास-प्रस्तुतिः - 29.42
वरुणोऽपि स्वयं छत्रं मणिविद्रुमभूषितम्।
मुक्तादामभिराकीर्णममृतस्यन्दि वन्दितम् ॥ 29.42 ॥
मूलम् - 29.42
वरुणोऽपि स्वयं छत्रं मणिविद्रुमभूषितम्।
मुक्तादामभिराकीर्णममृतस्यन्दि वन्दितम् ॥ 29.42 ॥
विश्वास-प्रस्तुतिः - 29.44
चक्राब्जविष्टरे देवमुत्तराभिमुखं नयेत्।
पीताम्बराणि बिभ्राणं 20पीतपुष्पैरलंकृतम् ॥ 29.44 ॥
मूलम् - 29.44
चक्राब्जविष्टरे देवमुत्तराभिमुखं नयेत्।
पीताम्बराणि बिभ्राणं 20पीतपुष्पैरलंकृतम् ॥ 29.44 ॥
विश्वास-प्रस्तुतिः - 29.45
विद्रुमाभरणैर्युक्तं 35 कुङ्कुमक्षोदरञ्चितम्।
घृतौदनं हविः कृत्वा तेनाभ्यर्च्य सुदर्शनम् ॥ 29.45 ॥
मूलम् - 29.45
विद्रुमाभरणैर्युक्तं 35 कुङ्कुमक्षोदरञ्चितम्।
घृतौदनं हविः कृत्वा तेनाभ्यर्च्य सुदर्शनम् ॥ 29.45 ॥
विश्वास-प्रस्तुतिः - 29.46
कुर्यात् तस्याग्रतः कुण्डं 21वृत्तप्रासादलक्षणम्।
उदङ्मुखोऽग्निमाधाय कुण्कडे मण्डपसंश्रिते ॥ 29.46 ॥
मूलम् - 29.46
कुर्यात् तस्याग्रतः कुण्डं 21वृत्तप्रासादलक्षणम्।
उदङ्मुखोऽग्निमाधाय कुण्कडे मण्डपसंश्रिते ॥ 29.46 ॥
विश्वास-प्रस्तुतिः - 29.47
काष्ठैरौदुम्बरैर्वह्निं प्रज्वाल्य ज्वलितेऽनले।
नन्द्यावर्तप्रसूनैस्तु नियुतं जुहुयात् 4पुरः ॥ 29.47 ॥
मूलम् - 29.47
काष्ठैरौदुम्बरैर्वह्निं प्रज्वाल्य ज्वलितेऽनले।
नन्द्यावर्तप्रसूनैस्तु नियुतं जुहुयात् 4पुरः ॥ 29.47 ॥
विश्वास-प्रस्तुतिः - 29.48
तेनेदं भारतं वर्षं काञ्चनाचलसंयुतम्22।
सराजकं तस्य वशे भविष्यति न संशयः ॥ 29.48 ॥
मूलम् - 29.48
तेनेदं भारतं वर्षं काञ्चनाचलसंयुतम्22।
सराजकं तस्य वशे भविष्यति न संशयः ॥ 29.48 ॥
विश्वास-प्रस्तुतिः - 29.49
लक्षद्वयेन होमानां वर्षं किंपुरुषाह्वयम्।
सभूपं भूपतेस्तस्य वशमेष्यत्यसंशयम् ॥ 29.49 ॥
मूलम् - 29.49
लक्षद्वयेन होमानां वर्षं किंपुरुषाह्वयम्।
सभूपं भूपतेस्तस्य वशमेष्यत्यसंशयम् ॥ 29.49 ॥
विश्वास-प्रस्तुतिः - 29.50
लक्षत्रयेण वश्यं स्याद्धरिवर्षं सराजकम्।
होमलक्षचतुष्केण भद्राश्वं वशमेष्यति ॥ 29.50 ॥
मूलम् - 29.50
लक्षत्रयेण वश्यं स्याद्धरिवर्षं सराजकम्।
होमलक्षचतुष्केण भद्राश्वं वशमेष्यति ॥ 29.50 ॥
विश्वास-प्रस्तुतिः - 29.51
पञ्चषट्सप्तभिर्होमलक्षाणां पृथिवीपतेः।
इलावृतं केतुमालं रम्यकं च वशे भवेत् ॥ 29.51 ।
मूलम् - 29.51
पञ्चषट्सप्तभिर्होमलक्षाणां पृथिवीपतेः।
इलावृतं केतुमालं रम्यकं च वशे भवेत् ॥ 29.51 ।
विश्वास-प्रस्तुतिः - 29.52
हिरण्मये 23मेरुवर्षे अष्टाभिर्नवभिस्तथा24।
वशे भविष्यतो होमलक्षाणां समहीश्वरे ॥ 29.52 ॥
मूलम् - 29.52
हिरण्मये 23मेरुवर्षे अष्टाभिर्नवभिस्तथा24।
वशे भविष्यतो होमलक्षाणां समहीश्वरे ॥ 29.52 ॥
विश्वास-प्रस्तुतिः - 29.53
षण्णां प्लक्षमुखानां तु द्वीपानां [^31]भोगभूमयः।
उक्तसंख्यायुतैर्होमैर्वशमेष्यन्ति नारद ॥ 29.53 ॥
मूलम् - 29.53
षण्णां प्लक्षमुखानां तु द्वीपानां [^31]भोगभूमयः।
उक्तसंख्यायुतैर्होमैर्वशमेष्यन्ति नारद ॥ 29.53 ॥
विश्वास-प्रस्तुतिः - 29.54
सर्वेषां द्वीपवर्षाणामुत्तरत्र पुरी वरा।
विभावरीति विख्याता सोमस्य परमाद्भुता ॥ 29.54 ॥
मूलम् - 29.54
सर्वेषां द्वीपवर्षाणामुत्तरत्र पुरी वरा।
विभावरीति विख्याता सोमस्य परमाद्भुता ॥ 29.54 ॥
विश्वास-प्रस्तुतिः - 29.55
दशकोट्या वशे तस्य 25होमानां सा भविष्यति।
ये तस्यां देवतावर्गाः सोमस्य वशवर्तिनः॥ 29.55 ॥
मूलम् - 29.55
दशकोट्या वशे तस्य 25होमानां सा भविष्यति।
ये तस्यां देवतावर्गाः सोमस्य वशवर्तिनः॥ 29.55 ॥
विश्वास-प्रस्तुतिः - 29.56
ते सर्वे भूपतेस्तस्य वर्तिष्यन्ते वशे मुने।
तस्य प्रभावतः सोमः स्वयमादाय चामरे ॥ 29.56 ॥
मूलम् - 29.56
ते सर्वे भूपतेस्तस्य वर्तिष्यन्ते वशे मुने।
तस्य प्रभावतः सोमः स्वयमादाय चामरे ॥ 29.56 ॥
विश्वास-प्रस्तुतिः - 29.57
स्वज्योत्स्नासंचयप्रख्ये रत्ननालसमन्विते।
विश्वाधिराज्यचिह्ने ते सुभ्रे शीतलदर्शने ॥ 29.57 ॥
मूलम् - 29.57
स्वज्योत्स्नासंचयप्रख्ये रत्ननालसमन्विते।
विश्वाधिराज्यचिह्ने ते सुभ्रे शीतलदर्शने ॥ 29.57 ॥
विश्वास-प्रस्तुतिः - 29.61
दिव्यचन्दनलिप्राङ्गं क्षौमैः कल्पितवाससम्।
एवमभ्यर्च्य विधिना पायसं खण्डसंमितम्॥ 29.61 ॥
मूलम् - 29.61
दिव्यचन्दनलिप्राङ्गं क्षौमैः कल्पितवाससम्।
एवमभ्यर्च्य विधिना पायसं खण्डसंमितम्॥ 29.61 ॥
विश्वास-प्रस्तुतिः - 29.62
आज्याढ्यं हविरावेद्य सर्वपक्वफलान्वितम्।
प्रासादकुण्डमष्टाश्रं सर्वमङ्गलसंयुतम् ॥ 29.62 ॥
मूलम् - 29.62
आज्याढ्यं हविरावेद्य सर्वपक्वफलान्वितम्।
प्रासादकुण्डमष्टाश्रं सर्वमङ्गलसंयुतम् ॥ 29.62 ॥
विश्वास-प्रस्तुतिः - 29.63
कारयित्वास्त्रमन्त्रेण26 वह्निमादाय27 मन्त्रवित्।
कृष्णागुरुमयैः 28काष्ठैर्ज्वलयेज्जातवेदसम् ॥ 29.63 ॥
मूलम् - 29.63
कारयित्वास्त्रमन्त्रेण26 वह्निमादाय27 मन्त्रवित्।
कृष्णागुरुमयैः 28काष्ठैर्ज्वलयेज्जातवेदसम् ॥ 29.63 ॥
विश्वास-प्रस्तुतिः - 29.64
तत्राज्यहोमं 29कुर्याद्वै शतकोटिसमन्वितम्।
अन्तरिक्षं ततस्तेन होमेन वशमेष्यति ॥ 29.64 ॥
मूलम् - 29.64
तत्राज्यहोमं 29कुर्याद्वै शतकोटिसमन्वितम्।
अन्तरिक्षं ततस्तेन होमेन वशमेष्यति ॥ 29.64 ॥
विश्वास-प्रस्तुतिः - 29.65
तल्लोकवासिनः सर्वे सिद्धगन्धर्वकिंनराः।
यक्षाः किंपुरुषाश्चैव चारणाः साङ्गनागणाः ॥ 29.65 ॥
मूलम् - 29.65
तल्लोकवासिनः सर्वे सिद्धगन्धर्वकिंनराः।
यक्षाः किंपुरुषाश्चैव चारणाः साङ्गनागणाः ॥ 29.65 ॥
विश्वास-प्रस्तुतिः - 29.66
वीणावेणुमृदङ्गैश्च वाद्यैस्तालैश्च सर्वशः।
तस्यापदानचरितगर्भा30 भोगवलीः पराः ॥ 29.66 ॥
मूलम् - 29.66
वीणावेणुमृदङ्गैश्च वाद्यैस्तालैश्च सर्वशः।
तस्यापदानचरितगर्भा30 भोगवलीः पराः ॥ 29.66 ॥
विश्वास-प्रस्तुतिः - 29.67
गायन्तः परिवार्यैनं हर्षयिष्यन्ति भूपतिम्।
कोटिकोट्या तु होमानां स्वर्गो वश्यो भविष्यति॥ 29.67 ॥
मूलम् - 29.67
गायन्तः परिवार्यैनं हर्षयिष्यन्ति भूपतिम्।
कोटिकोट्या तु होमानां स्वर्गो वश्यो भविष्यति॥ 29.67 ॥
विश्वास-प्रस्तुतिः - 29.68
तत्र देवैर्महेन्द्रोऽपि देव्या शच्या समन्वितः।
आरुह्यैरावतं नागमप्सराणां गणैः सह ॥ 29.68 ॥
मूलम् - 29.68
तत्र देवैर्महेन्द्रोऽपि देव्या शच्या समन्वितः।
आरुह्यैरावतं नागमप्सराणां गणैः सह ॥ 29.68 ॥
विश्वास-प्रस्तुतिः - 29.69
तमभ्येत्य महात्मानमवरुद्य मुदान्वितः।
मणिपीठं समारोप्य वाचयित्वा च मङ्गलम्॥ 29.69 ॥
मूलम् - 29.69
तमभ्येत्य महात्मानमवरुद्य मुदान्वितः।
मणिपीठं समारोप्य वाचयित्वा च मङ्गलम्॥ 29.69 ॥
विश्वास-प्रस्तुतिः - 29.70
शङ्खकाहलनादैश्च सह तीर्थाहृतैर्जलैः।
वासवश्चक्रवर्तित्वे 31राजानमभिषेक्ष्यति ॥ 29.70 ॥
मूलम् - 29.70
शङ्खकाहलनादैश्च सह तीर्थाहृतैर्जलैः।
वासवश्चक्रवर्तित्वे 31राजानमभिषेक्ष्यति ॥ 29.70 ॥
विश्वास-प्रस्तुतिः - 29.74
रक्तचन्दनलिप्ताङ्गं देवं पद्मैः समर्चयेत्।
पिष्टौदनं गुडाढ्यं च हविस्तस्मै निवेद्य च ॥ 29.74 ॥
मूलम् - 29.74
रक्तचन्दनलिप्ताङ्गं देवं पद्मैः समर्चयेत्।
पिष्टौदनं गुडाढ्यं च हविस्तस्मै निवेद्य च ॥ 29.74 ॥
विश्वास-प्रस्तुतिः - 29.75
प्रासादलक्षणे कुण्डे षट्कोणे ज्वलितानले।
अपूपानां तु कोटीनां कोट्या होमं समाचरेत् ॥ 29.75 ॥
मूलम् - 29.75
प्रासादलक्षणे कुण्डे षट्कोणे ज्वलितानले।
अपूपानां तु कोटीनां कोट्या होमं समाचरेत् ॥ 29.75 ॥
विश्वास-प्रस्तुतिः - 29.76
तेन तक्षकमुख्यानं नागानां परमा पुरी।
वक्ष्या भवेद्भोगवती स्वपुरीवास्य भूपतेः ॥ 29.76 ॥
मूलम् - 29.76
तेन तक्षकमुख्यानं नागानां परमा पुरी।
वक्ष्या भवेद्भोगवती स्वपुरीवास्य भूपतेः ॥ 29.76 ॥
विहारास्त्रिचतुः पञ्च समुखान्तायतोच्छ्रिताः ॥ 29.79 ॥
विश्वास-प्रस्तुतिः - 29.80
दिग्विदिक्षु तथा मध्ये नवकाः परिकीर्तिताः।
दिक्षु मध्ये तथा पञ्च शेषाः प्राङ्मुखपङ्क्तयः ॥ 29.80 ॥
मूलम् - 29.80
दिग्विदिक्षु तथा मध्ये नवकाः परिकीर्तिताः।
दिक्षु मध्ये तथा पञ्च शेषाः प्राङ्मुखपङ्क्तयः ॥ 29.80 ॥
विश्वास-प्रस्तुतिः - 29.82
पलाशौदुम्बराश्वत्थखदिराद्याश्च यज्ञियाः।
दूर्वाद्याश्च तिलाद्याश्च प्रशस्ताः शुभकर्मणि ॥ 29.82 ॥
मूलम् - 29.82
पलाशौदुम्बराश्वत्थखदिराद्याश्च यज्ञियाः।
दूर्वाद्याश्च तिलाद्याश्च प्रशस्ताः शुभकर्मणि ॥ 29.82 ॥
विश्वास-प्रस्तुतिः - 29.88
अनुक्तमिव यत् किंचित् तान् स्वगृह्योक्तमाचरेत्।
अपूर्वो वा भवेद्धोमो नाघारादिसमन्वितः ॥ 29.88 ॥
मूलम् - 29.88
अनुक्तमिव यत् किंचित् तान् स्वगृह्योक्तमाचरेत्।
अपूर्वो वा भवेद्धोमो नाघारादिसमन्वितः ॥ 29.88 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां काम्याराधनविधिनिरूपणं नामैकोनत्रिंशोऽध्यायः
आदितः श्लोकाः 1784
————*******————-
-
मण्डले D ↩︎
-
चित्रैरंशुभिः D ↩︎
-
मन्थोदनैः D ↩︎
-
श्रीमांस्तस्मै D ↩︎
-
प्राङ्मुखासनसंश्रितम् A B C E F ↩︎
-
नाकलोकेषु जाता वै जिगीषा यदि भूपतेः D ↩︎
-
मण्डले D ↩︎
-
होमानां D ↩︎
-
पद्मानामथ A B C ↩︎
-
होमेनासौ A B C E F
प्रीतः प्रदास्यति 8श्रीमानस्मै विस्मितकर्मणे।
विदिशां विषये
महादिशां जयात् सिद्धो विदिशां वशिनो जयः ॥ 29.58 ॥
उपहारान् प्रदास्यन्ति तत्तद्दिक्पालकाः परे।
ऊर्ध्वलोकस्य विषये
ऊर्ध्वलोकजयोद्योगो यद्यवर्तिष्ट भूपतेः ॥ 29.59 ॥
देवं मण्डपरत्ने तु 9प्राङ्मुखासनमर्हयेत्।
गन्धवन्माल्यसंवीतं मुक्ताभूषणभूषितम् ॥ 29.[^60]॥ ↩︎ ↩︎