२९

काम्याराधनविधिनिरूपणं नाम एकोनत्रिंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
भगवदाराधनस्यानुषङ्गिकफलसाधनत्वकथंताप्रश्नः
नारदः—

विश्वास-प्रस्तुतिः - 29.1

एतदाराधनैः कस्य कथं देवादयः सुराः।
अन्ये चोक्ता वशं यान्ति तन्मे ब्रूहि यथातथम् ॥ 29.1 ॥

मूलम् - 29.1

एतदाराधनैः कस्य कथं देवादयः सुराः।
अन्ये चोक्ता वशं यान्ति तन्मे ब्रूहि यथातथम् ॥ 29.1 ॥

तत्प्रतिवचनारम्भः अहिर्बुध्न्य---
विश्वास-प्रस्तुतिः - 29.2

क्षत्रियस्य विशेषेण जयार्थित्वान्महामुने।
येनार्चनविशेषेण विश्वे वश्या भवन्ति हि ॥ 29.2 ॥

मूलम् - 29.2

क्षत्रियस्य विशेषेण जयार्थित्वान्महामुने।
येनार्चनविशेषेण विश्वे वश्या भवन्ति हि ॥ 29.2 ॥

श्रृणुष्व तं समासेन कथयामि यथातथम्। तत्तदाराधनविशेषाणां तत्तद्दिग्विजयसाधनत्वम् यदीच्छेद्विजयं दिक्षु सर्वासु च महीपतिः ॥ 29.3 ॥ आराधनविशेषैस्तु तत्तद्विजयमाप्नुयात्। तत्र प्राचीदिग्विषये नृपेभ्यो विजयाकाङ्क्षी प्राच्येभ्यश्चेन्महीपतिः ॥ 29.4 ॥
विश्वास-प्रस्तुतिः - 29.5

आराधयेद्विशिष्टैस्तु द्रव्यैर्देवं सुदर्शनम्।
सितपुष्पैः सितैर्वस्त्रैरङ्गरागैः सितैरपि ॥ 29.5 ॥

मूलम् - 29.5

आराधयेद्विशिष्टैस्तु द्रव्यैर्देवं सुदर्शनम्।
सितपुष्पैः सितैर्वस्त्रैरङ्गरागैः सितैरपि ॥ 29.5 ॥

शाल्योदनैश्च दध्याढयैरर्चयित्वा सुदर्शनम्। [^1]मण्डपे मण्डिते शुद्धे पूर्वोक्ते देवसंनिधौ ॥ 29.6 ॥
विश्वास-प्रस्तुतिः - 29.7

प्रासादलक्षणे कुण्कडे चतुष्कोणपरिस्तृते।
तत्र वह्निमथादाय1 काष्ठैः प्रज्वाल्य बैल्वकैः ॥ 29.7 ॥

मूलम् - 29.7

प्रासादलक्षणे कुण्कडे चतुष्कोणपरिस्तृते।
तत्र वह्निमथादाय1 काष्ठैः प्रज्वाल्य बैल्वकैः ॥ 29.7 ॥

विश्वास-प्रस्तुतिः - 29.8

आसीनः प्राङ्मुखो भूत्वा शुचिस्तत्र समाहितः।
तस्मिन् फलानि बैल्वानि सर्पिः सिक्तानि नारद ॥ 29.8 ॥

मूलम् - 29.8

आसीनः प्राङ्मुखो भूत्वा शुचिस्तत्र समाहितः।
तस्मिन् फलानि बैल्वानि सर्पिः सिक्तानि नारद ॥ 29.8 ॥

विश्वास-प्रस्तुतिः - 29.9

नियुतं मूलमन्त्रेण जुहुयाज्ज्वलितेऽनले।
होमैरेभिः समुद्रान्ता प्राची वश्या भवेन्मही ॥ 29.9 ॥

मूलम् - 29.9

नियुतं मूलमन्त्रेण जुहुयाज्ज्वलितेऽनले।
होमैरेभिः समुद्रान्ता प्राची वश्या भवेन्मही ॥ 29.9 ॥

विश्वास-प्रस्तुतिः - 29.10

फलानां कोटिहोमेन बैल्वानां वशमेष्यति।
प्लक्षद्वीपस्य देशस्तु प्राच्यः सहमहीपतिः ॥ 29.10 ॥

मूलम् - 29.10

फलानां कोटिहोमेन बैल्वानां वशमेष्यति।
प्लक्षद्वीपस्य देशस्तु प्राच्यः सहमहीपतिः ॥ 29.10 ॥

विश्वास-प्रस्तुतिः - 29.11

कोटिद्वयेन चैतेषां शाल्मलो वशमेष्यति।
देशः 2प्राच्यः स भूपालः स्वदेश इव नारद ॥ 29.11 ॥

मूलम् - 29.11

कोटिद्वयेन चैतेषां शाल्मलो वशमेष्यति।
देशः 2प्राच्यः स भूपालः स्वदेश इव नारद ॥ 29.11 ॥

विश्वास-प्रस्तुतिः - 29.12

कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीपसंज्ञितः।
एकद्वित्रिचतुःपञ्चषट्कैः प्राच्याः क्रमेण वै3 ॥ 29.12 ॥

मूलम् - 29.12

कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीपसंज्ञितः।
एकद्वित्रिचतुःपञ्चषट्कैः प्राच्याः क्रमेण वै3 ॥ 29.12 ॥

विश्वास-प्रस्तुतिः - 29.13

कोटीनां फलहोमानां वशं यास्यन्ति 4भूपतेः।
द्वीपानामपि चैतेषां प्राची माघवती पुरी ॥ 29.13 ॥

मूलम् - 29.13

कोटीनां फलहोमानां वशं यास्यन्ति 4भूपतेः।
द्वीपानामपि चैतेषां प्राची माघवती पुरी ॥ 29.13 ॥

दशकोट्या तु होमानां वशं यास्यति सा द्रुवम्।

11पालनार्थं तु 12लोकानामेकेनांशेन वासवः ॥ 29.14 ॥

विश्वास-प्रस्तुतिः - 29.15

तत्रैव वर्तते सोऽपि साहाय्यं 13तस्य यास्यति।
स्त्रीभिरन्नैश्च पानैश्च वाजिभिः परमैर्गजैः ॥ 29.15 ॥

मूलम् - 29.15

तत्रैव वर्तते सोऽपि साहाय्यं 13तस्य यास्यति।
स्त्रीभिरन्नैश्च पानैश्च वाजिभिः परमैर्गजैः ॥ 29.15 ॥

विश्वास-प्रस्तुतिः - 29.16

यथा स्वस्मिन् पुरे राजा विहरत्यविशङ्कया।
चिन्तितोपनतैरेव तैर्द्रव्यै रंस्यते नृपः ॥ 29.16 ॥

मूलम् - 29.16

यथा स्वस्मिन् पुरे राजा विहरत्यविशङ्कया।
चिन्तितोपनतैरेव तैर्द्रव्यै रंस्यते नृपः ॥ 29.16 ॥

विश्वास-प्रस्तुतिः - 29.17

अस्य प्रभावतः सर्वे विष्टब्धाः सर्वसागराः।
गन्तुं 14योग्या भविष्यन्ति स्यन्दनेन यथा स्थली ॥ 29.17 ॥

मूलम् - 29.17

अस्य प्रभावतः सर्वे विष्टब्धाः सर्वसागराः।
गन्तुं 14योग्या भविष्यन्ति स्यन्दनेन यथा स्थली ॥ 29.17 ॥

विश्वास-प्रस्तुतिः - 29.18

हारं च वासवस्यस्य चक्रवर्तित्वलक्षणम्।
सर्वरत्नमयं दिव्यमुपनेष्यति च स्वयम् ॥ 29.18 ॥

मूलम् - 29.18

हारं च वासवस्यस्य चक्रवर्तित्वलक्षणम्।
सर्वरत्नमयं दिव्यमुपनेष्यति च स्वयम् ॥ 29.18 ॥

दक्षिणदिग्विषये
विश्वास-प्रस्तुतिः - 29.19

दक्षिणाशाजयाशा चेदजनिष्ट महीपतेः।
पूर्वोक्ते मण्डपे देवं दक्षिणामभिमुखं नयेत् ॥ 29.19 ॥

मूलम् - 29.19

दक्षिणाशाजयाशा चेदजनिष्ट महीपतेः।
पूर्वोक्ते मण्डपे देवं दक्षिणामभिमुखं नयेत् ॥ 29.19 ॥

विश्वास-प्रस्तुतिः - 29.20

रक्तमाल्याम्बरधरं रक्तचन्दनरञ्चितम्।
रक्ताम्बरधरं 15देवमभ्यर्च्योक्तेन वर्त्मना ॥ 29.20 ॥

मूलम् - 29.20

रक्तमाल्याम्बरधरं रक्तचन्दनरञ्चितम्।
रक्ताम्बरधरं 15देवमभ्यर्च्योक्तेन वर्त्मना ॥ 29.20 ॥

विश्वास-प्रस्तुतिः - 29.21

गुडौदनं हविस्तस्मै निवेद्य तिलमिश्रितम्।
अर्धचन्द्रोपमं कुण्डं कृत्वा प्रासादलक्षणम्॥ 29.21 ॥

मूलम् - 29.21

गुडौदनं हविस्तस्मै निवेद्य तिलमिश्रितम्।
अर्धचन्द्रोपमं कुण्डं कृत्वा प्रासादलक्षणम्॥ 29.21 ॥

विश्वास-प्रस्तुतिः - 29.22

कुशैः पुष्पैश्च लाजैश्च परिष्कृतमविक्षतम्।
दक्षिणाभिमुखस्तत्र समासीनोऽग्रतो विभोः ॥ 29.22 ॥

मूलम् - 29.22

कुशैः पुष्पैश्च लाजैश्च परिष्कृतमविक्षतम्।
दक्षिणाभिमुखस्तत्र समासीनोऽग्रतो विभोः ॥ 29.22 ॥

मन्त्रेण वह्निमादाय काष्ठैः प्रज्वाल्य स्वादिरैः।
16पद्मानां चैव रक्तानां नियुतैर्होममाचरेत् ॥ 29.23 ॥

विश्वास-प्रस्तुतिः - 29.24

ततः सा दक्षिणा पृथ्वी सागरान्ता वशा भवेत्।
सोपहाराश्च राजानस्तत्रत्या द्वारि वारिताः ॥ 29.24 ॥

मूलम् - 29.24

ततः सा दक्षिणा पृथ्वी सागरान्ता वशा भवेत्।
सोपहाराश्च राजानस्तत्रत्या द्वारि वारिताः ॥ 29.24 ॥

विश्वास-प्रस्तुतिः - 29.25

प्रतीक्षमाणाः स्थास्यन्ति कालं तस्य महात्मनः।
ततो दक्षिणदिग्भागे17 षट्सु द्वीपेषु संमताः ॥ 29.25 ॥

मूलम् - 29.25

प्रतीक्षमाणाः स्थास्यन्ति कालं तस्य महात्मनः।
ततो दक्षिणदिग्भागे17 षट्सु द्वीपेषु संमताः ॥ 29.25 ॥

विश्वास-प्रस्तुतिः - 29.26

एकद्वित्रिचतुः पञ्चषकड्भिर्वश्याः सभूभुजः।
रक्तपद्माहुतीनां च कोटीनां तु यथाक्रमम् ॥ 29.26 ॥

मूलम् - 29.26

एकद्वित्रिचतुः पञ्चषकड्भिर्वश्याः सभूभुजः।
रक्तपद्माहुतीनां च कोटीनां तु यथाक्रमम् ॥ 29.26 ॥

विश्वास-प्रस्तुतिः - 29.27

एषा दक्षिणतो रम्या याम्या संयमिनी पुरी।
सा रक्तपद्महोमानां दशकोट्या वशा भवेत् ॥ 29.27 ॥

मूलम् - 29.27

एषा दक्षिणतो रम्या याम्या संयमिनी पुरी।
सा रक्तपद्महोमानां दशकोट्या वशा भवेत् ॥ 29.27 ॥

विश्वास-प्रस्तुतिः - 29.28

यमोऽपि तस्य भावेन प्रसन्नः प्रीतमानसः।
राज्ञो मनीषितं यत् तन्नान्यथा वर्तयिष्यति ॥ 29.28 ॥

मूलम् - 29.28

यमोऽपि तस्य भावेन प्रसन्नः प्रीतमानसः।
राज्ञो मनीषितं यत् तन्नान्यथा वर्तयिष्यति ॥ 29.28 ॥

विश्वास-प्रस्तुतिः - 29.29

अकालमरणं किंचित् तद्देशे न भविष्यति।
ये पुर्यां संयमिन्यां च यमस्य वशवर्तिनः ॥ 29.29 ॥

मूलम् - 29.29

अकालमरणं किंचित् तद्देशे न भविष्यति।
ये पुर्यां संयमिन्यां च यमस्य वशवर्तिनः ॥ 29.29 ॥

[^13]ते सर्वे तस्य वशगा भविष्यन्ति न संशयः। दिव्ये [^14]रक्ताङ्गदे रम्ये सार्वभौमत्वलक्षणे ॥ 29.30 ॥ यमस्तु स्वयमादाय प्रीतस्तस्मै [^15]प्रयच्छति।
विश्वास-प्रस्तुतिः - 29.34

पद्मोपमानं प्रासादं कुण्डं कृत्वा स्वलंकृतम्।
तत्राधायाग्निमासित्वा18 देवस्य पुरतो वशी ॥ 29.34 ॥

मूलम् - 29.34

पद्मोपमानं प्रासादं कुण्डं कृत्वा स्वलंकृतम्।
तत्राधायाग्निमासित्वा18 देवस्य पुरतो वशी ॥ 29.34 ॥

काष्ठैः शमीमयैरग्निं [^20]प्रज्वाल्याथ समाहितः। [^21]मध्वक्तैः करवीरैस्तु नियुतं जुहुयान्मनुम् ॥ 29.35 ॥
विश्वास-प्रस्तुतिः - 29.36

ततः ससागरा पृथ्वी जम्बूद्वीपस्य पश्चिमा।
वर्तिष्यते वशे तस्य राज्ञः सनृपतिस्तदा ॥ 29.36 ॥

मूलम् - 29.36

ततः ससागरा पृथ्वी जम्बूद्वीपस्य पश्चिमा।
वर्तिष्यते वशे तस्य राज्ञः सनृपतिस्तदा ॥ 29.36 ॥

विश्वास-प्रस्तुतिः - 29.37

करवीराहुतीनां च कोट्या कोटिद्वयेन च।
कोटित्रयचतुःपञ्चषट्कैस्ते19 च यथाक्रमम् ॥ 29.37 ॥

मूलम् - 29.37

करवीराहुतीनां च कोट्या कोटिद्वयेन च।
कोटित्रयचतुःपञ्चषट्कैस्ते19 च यथाक्रमम् ॥ 29.37 ॥

विश्वास-प्रस्तुतिः - 29.38

षट् द्वीपखण्डाः पाश्चात्त्या वशं यास्यन्ति भूपतेः।
सुखाख्या वारुणी रम्या पुरी परमभास्वरा ॥ 29.38 ॥

मूलम् - 29.38

षट् द्वीपखण्डाः पाश्चात्त्या वशं यास्यन्ति भूपतेः।
सुखाख्या वारुणी रम्या पुरी परमभास्वरा ॥ 29.38 ॥

विश्वास-प्रस्तुतिः - 29.39

सदा संनिहितैर्भोज्यैर्लेह्यैः पेयैश्च पूरिता।
दिव्यपादपसंयुक्तेर्नन्दनारुपशोभिता ॥ 29.39 ॥

मूलम् - 29.39

सदा संनिहितैर्भोज्यैर्लेह्यैः पेयैश्च पूरिता।
दिव्यपादपसंयुक्तेर्नन्दनारुपशोभिता ॥ 29.39 ॥

विश्वास-प्रस्तुतिः - 29.40

सदोत्फुल्लाम्बुजाढ्याभिः सरसीभिः परिष्कृता।
आक्रीडपर्वतैर्युक्ता नानारत्नविभूषितैः ॥ 29.40 ॥

मूलम् - 29.40

सदोत्फुल्लाम्बुजाढ्याभिः सरसीभिः परिष्कृता।
आक्रीडपर्वतैर्युक्ता नानारत्नविभूषितैः ॥ 29.40 ॥

विश्वास-प्रस्तुतिः - 29.41

प्रासादैर्मण्डपैस्तुङ्गैर्मण्डिता सा हिरण्मयैः।
एवंविधा पुरी तस्य राज्ञो भोग्या भविष्यति ॥ 29.41 ॥

मूलम् - 29.41

प्रासादैर्मण्डपैस्तुङ्गैर्मण्डिता सा हिरण्मयैः।
एवंविधा पुरी तस्य राज्ञो भोग्या भविष्यति ॥ 29.41 ॥

विश्वास-प्रस्तुतिः - 29.42

वरुणोऽपि स्वयं छत्रं मणिविद्रुमभूषितम्।
मुक्तादामभिराकीर्णममृतस्यन्दि वन्दितम् ॥ 29.42 ॥

मूलम् - 29.42

वरुणोऽपि स्वयं छत्रं मणिविद्रुमभूषितम्।
मुक्तादामभिराकीर्णममृतस्यन्दि वन्दितम् ॥ 29.42 ॥

चिह्निं तच्चक्रवर्तीनां[^23] राज्ञे प्रीतः प्रदास्यति। उत्तरदिग्विषये उदीचीं दिशमुद्युक्तो जेतुं यदि महीपतिः ॥ 29.43 ॥
विश्वास-प्रस्तुतिः - 29.44

चक्राब्जविष्टरे देवमुत्तराभिमुखं नयेत्।
पीताम्बराणि बिभ्राणं 20पीतपुष्पैरलंकृतम् ॥ 29.44 ॥

मूलम् - 29.44

चक्राब्जविष्टरे देवमुत्तराभिमुखं नयेत्।
पीताम्बराणि बिभ्राणं 20पीतपुष्पैरलंकृतम् ॥ 29.44 ॥

विश्वास-प्रस्तुतिः - 29.45

विद्रुमाभरणैर्युक्तं 35 कुङ्कुमक्षोदरञ्चितम्।
घृतौदनं हविः कृत्वा तेनाभ्यर्च्य सुदर्शनम् ॥ 29.45 ॥

मूलम् - 29.45

विद्रुमाभरणैर्युक्तं 35 कुङ्कुमक्षोदरञ्चितम्।
घृतौदनं हविः कृत्वा तेनाभ्यर्च्य सुदर्शनम् ॥ 29.45 ॥

विश्वास-प्रस्तुतिः - 29.46

कुर्यात् तस्याग्रतः कुण्डं 21वृत्तप्रासादलक्षणम्।
उदङ्मुखोऽग्निमाधाय कुण्कडे मण्डपसंश्रिते ॥ 29.46 ॥

मूलम् - 29.46

कुर्यात् तस्याग्रतः कुण्डं 21वृत्तप्रासादलक्षणम्।
उदङ्मुखोऽग्निमाधाय कुण्कडे मण्डपसंश्रिते ॥ 29.46 ॥

विश्वास-प्रस्तुतिः - 29.47

काष्ठैरौदुम्बरैर्वह्निं प्रज्वाल्य ज्वलितेऽनले।
नन्द्यावर्तप्रसूनैस्तु नियुतं जुहुयात् 4पुरः ॥ 29.47 ॥

मूलम् - 29.47

काष्ठैरौदुम्बरैर्वह्निं प्रज्वाल्य ज्वलितेऽनले।
नन्द्यावर्तप्रसूनैस्तु नियुतं जुहुयात् 4पुरः ॥ 29.47 ॥

विश्वास-प्रस्तुतिः - 29.48

तेनेदं भारतं वर्षं काञ्चनाचलसंयुतम्22
सराजकं तस्य वशे भविष्यति न संशयः ॥ 29.48 ॥

मूलम् - 29.48

तेनेदं भारतं वर्षं काञ्चनाचलसंयुतम्22
सराजकं तस्य वशे भविष्यति न संशयः ॥ 29.48 ॥

विश्वास-प्रस्तुतिः - 29.49

लक्षद्वयेन होमानां वर्षं किंपुरुषाह्वयम्।
सभूपं भूपतेस्तस्य वशमेष्यत्यसंशयम् ॥ 29.49 ॥

मूलम् - 29.49

लक्षद्वयेन होमानां वर्षं किंपुरुषाह्वयम्।
सभूपं भूपतेस्तस्य वशमेष्यत्यसंशयम् ॥ 29.49 ॥

विश्वास-प्रस्तुतिः - 29.50

लक्षत्रयेण वश्यं स्याद्धरिवर्षं सराजकम्।
होमलक्षचतुष्केण भद्राश्वं वशमेष्यति ॥ 29.50 ॥

मूलम् - 29.50

लक्षत्रयेण वश्यं स्याद्धरिवर्षं सराजकम्।
होमलक्षचतुष्केण भद्राश्वं वशमेष्यति ॥ 29.50 ॥

विश्वास-प्रस्तुतिः - 29.51

पञ्चषट्सप्तभिर्होमलक्षाणां पृथिवीपतेः।
इलावृतं केतुमालं रम्यकं च वशे भवेत् ॥ 29.51 ।

मूलम् - 29.51

पञ्चषट्सप्तभिर्होमलक्षाणां पृथिवीपतेः।
इलावृतं केतुमालं रम्यकं च वशे भवेत् ॥ 29.51 ।

विश्वास-प्रस्तुतिः - 29.52

हिरण्मये 23मेरुवर्षे अष्टाभिर्नवभिस्तथा24
वशे भविष्यतो होमलक्षाणां समहीश्वरे ॥ 29.52 ॥

मूलम् - 29.52

हिरण्मये 23मेरुवर्षे अष्टाभिर्नवभिस्तथा24
वशे भविष्यतो होमलक्षाणां समहीश्वरे ॥ 29.52 ॥

विश्वास-प्रस्तुतिः - 29.53

षण्णां प्लक्षमुखानां तु द्वीपानां [^31]भोगभूमयः।
उक्तसंख्यायुतैर्होमैर्वशमेष्यन्ति नारद ॥ 29.53 ॥

मूलम् - 29.53

षण्णां प्लक्षमुखानां तु द्वीपानां [^31]भोगभूमयः।
उक्तसंख्यायुतैर्होमैर्वशमेष्यन्ति नारद ॥ 29.53 ॥

विश्वास-प्रस्तुतिः - 29.54

सर्वेषां द्वीपवर्षाणामुत्तरत्र पुरी वरा।
विभावरीति विख्याता सोमस्य परमाद्भुता ॥ 29.54 ॥

मूलम् - 29.54

सर्वेषां द्वीपवर्षाणामुत्तरत्र पुरी वरा।
विभावरीति विख्याता सोमस्य परमाद्भुता ॥ 29.54 ॥

विश्वास-प्रस्तुतिः - 29.55

दशकोट्या वशे तस्य 25होमानां सा भविष्यति।
ये तस्यां देवतावर्गाः सोमस्य वशवर्तिनः॥ 29.55 ॥

मूलम् - 29.55

दशकोट्या वशे तस्य 25होमानां सा भविष्यति।
ये तस्यां देवतावर्गाः सोमस्य वशवर्तिनः॥ 29.55 ॥

विश्वास-प्रस्तुतिः - 29.56

ते सर्वे भूपतेस्तस्य वर्तिष्यन्ते वशे मुने।
तस्य प्रभावतः सोमः स्वयमादाय चामरे ॥ 29.56 ॥

मूलम् - 29.56

ते सर्वे भूपतेस्तस्य वर्तिष्यन्ते वशे मुने।
तस्य प्रभावतः सोमः स्वयमादाय चामरे ॥ 29.56 ॥

विश्वास-प्रस्तुतिः - 29.57

स्वज्योत्स्नासंचयप्रख्ये रत्ननालसमन्विते।
विश्वाधिराज्यचिह्ने ते सुभ्रे शीतलदर्शने ॥ 29.57 ॥

मूलम् - 29.57

स्वज्योत्स्नासंचयप्रख्ये रत्ननालसमन्विते।
विश्वाधिराज्यचिह्ने ते सुभ्रे शीतलदर्शने ॥ 29.57 ॥

विश्वास-प्रस्तुतिः - 29.61

दिव्यचन्दनलिप्राङ्गं क्षौमैः कल्पितवाससम्।
एवमभ्यर्च्य विधिना पायसं खण्डसंमितम्॥ 29.61 ॥

मूलम् - 29.61

दिव्यचन्दनलिप्राङ्गं क्षौमैः कल्पितवाससम्।
एवमभ्यर्च्य विधिना पायसं खण्डसंमितम्॥ 29.61 ॥

विश्वास-प्रस्तुतिः - 29.62

आज्याढ्यं हविरावेद्य सर्वपक्वफलान्वितम्।
प्रासादकुण्डमष्टाश्रं सर्वमङ्गलसंयुतम् ॥ 29.62 ॥

मूलम् - 29.62

आज्याढ्यं हविरावेद्य सर्वपक्वफलान्वितम्।
प्रासादकुण्डमष्टाश्रं सर्वमङ्गलसंयुतम् ॥ 29.62 ॥

विश्वास-प्रस्तुतिः - 29.63

कारयित्वास्त्रमन्त्रेण26 वह्निमादाय27 मन्त्रवित्।
कृष्णागुरुमयैः 28काष्ठैर्ज्वलयेज्जातवेदसम् ॥ 29.63 ॥

मूलम् - 29.63

कारयित्वास्त्रमन्त्रेण26 वह्निमादाय27 मन्त्रवित्।
कृष्णागुरुमयैः 28काष्ठैर्ज्वलयेज्जातवेदसम् ॥ 29.63 ॥

विश्वास-प्रस्तुतिः - 29.64

तत्राज्यहोमं 29कुर्याद्वै शतकोटिसमन्वितम्।
अन्तरिक्षं ततस्तेन होमेन वशमेष्यति ॥ 29.64 ॥

मूलम् - 29.64

तत्राज्यहोमं 29कुर्याद्वै शतकोटिसमन्वितम्।
अन्तरिक्षं ततस्तेन होमेन वशमेष्यति ॥ 29.64 ॥

विश्वास-प्रस्तुतिः - 29.65

तल्लोकवासिनः सर्वे सिद्धगन्धर्वकिंनराः।
यक्षाः किंपुरुषाश्चैव चारणाः साङ्गनागणाः ॥ 29.65 ॥

मूलम् - 29.65

तल्लोकवासिनः सर्वे सिद्धगन्धर्वकिंनराः।
यक्षाः किंपुरुषाश्चैव चारणाः साङ्गनागणाः ॥ 29.65 ॥

विश्वास-प्रस्तुतिः - 29.66

वीणावेणुमृदङ्गैश्च वाद्यैस्तालैश्च सर्वशः।
तस्यापदानचरितगर्भा30 भोगवलीः पराः ॥ 29.66 ॥

मूलम् - 29.66

वीणावेणुमृदङ्गैश्च वाद्यैस्तालैश्च सर्वशः।
तस्यापदानचरितगर्भा30 भोगवलीः पराः ॥ 29.66 ॥

विश्वास-प्रस्तुतिः - 29.67

गायन्तः परिवार्यैनं हर्षयिष्यन्ति भूपतिम्।
कोटिकोट्या तु होमानां स्वर्गो वश्यो भविष्यति॥ 29.67 ॥

मूलम् - 29.67

गायन्तः परिवार्यैनं हर्षयिष्यन्ति भूपतिम्।
कोटिकोट्या तु होमानां स्वर्गो वश्यो भविष्यति॥ 29.67 ॥

विश्वास-प्रस्तुतिः - 29.68

तत्र देवैर्महेन्द्रोऽपि देव्या शच्या समन्वितः।
आरुह्यैरावतं नागमप्सराणां गणैः सह ॥ 29.68 ॥

मूलम् - 29.68

तत्र देवैर्महेन्द्रोऽपि देव्या शच्या समन्वितः।
आरुह्यैरावतं नागमप्सराणां गणैः सह ॥ 29.68 ॥

विश्वास-प्रस्तुतिः - 29.69

तमभ्येत्य महात्मानमवरुद्य मुदान्वितः।
मणिपीठं समारोप्य वाचयित्वा च मङ्गलम्॥ 29.69 ॥

मूलम् - 29.69

तमभ्येत्य महात्मानमवरुद्य मुदान्वितः।
मणिपीठं समारोप्य वाचयित्वा च मङ्गलम्॥ 29.69 ॥

नृतैर्गीतैश्च वाद्यैश्च दिव्यदुन्दुभिनिस्वनैः।
विश्वास-प्रस्तुतिः - 29.70

शङ्खकाहलनादैश्च सह तीर्थाहृतैर्जलैः।
वासवश्चक्रवर्तित्वे 31राजानमभिषेक्ष्यति ॥ 29.70 ॥

मूलम् - 29.70

शङ्खकाहलनादैश्च सह तीर्थाहृतैर्जलैः।
वासवश्चक्रवर्तित्वे 31राजानमभिषेक्ष्यति ॥ 29.70 ॥

मणिमुकुटमथास्भै वारणं दिव्यमेकं हयमनिलसमानं पुष्पकाभं विमानम्। सरसिजपरिक्लृप्तां काञ्चनीं दिव्यमाला- मपि च [^41]हरुषजुष्टो दास्यति [^42]स्वात्मसाम्यम्॥ 29.71 ॥ हयमेधशतेन [^43]याजयित्वा नृपतिं सर्वमहीपतिं विधाय। शतमप्सरसः प्रदाय तस्मै त्रिदिवं यास्यति वृत्रहा सदेवः ॥ 29.72 ॥
विश्वास-प्रस्तुतिः - 29.74

रक्तचन्दनलिप्ताङ्गं देवं पद्मैः समर्चयेत्।
पिष्टौदनं गुडाढ्यं च हविस्तस्मै निवेद्य च ॥ 29.74 ॥

मूलम् - 29.74

रक्तचन्दनलिप्ताङ्गं देवं पद्मैः समर्चयेत्।
पिष्टौदनं गुडाढ्यं च हविस्तस्मै निवेद्य च ॥ 29.74 ॥

विश्वास-प्रस्तुतिः - 29.75

प्रासादलक्षणे कुण्डे षट्कोणे ज्वलितानले।
अपूपानां तु कोटीनां कोट्या होमं समाचरेत् ॥ 29.75 ॥

मूलम् - 29.75

प्रासादलक्षणे कुण्डे षट्कोणे ज्वलितानले।
अपूपानां तु कोटीनां कोट्या होमं समाचरेत् ॥ 29.75 ॥

विश्वास-प्रस्तुतिः - 29.76

तेन तक्षकमुख्यानं नागानां परमा पुरी।
वक्ष्या भवेद्भोगवती स्वपुरीवास्य भूपतेः ॥ 29.76 ॥

मूलम् - 29.76

तेन तक्षकमुख्यानं नागानां परमा पुरी।
वक्ष्या भवेद्भोगवती स्वपुरीवास्य भूपतेः ॥ 29.76 ॥

तस्य प्रभावमवलोक्य स नागराजो रत्नानि भास्वरतराणि महान्ति भान्ति। द्वे कुण्डले मणिमये च सहाङ्गनाभि- रादाय सत्यमुपयास्यति सार्वभौमम् ॥ 29.77 ॥ सामान्यपरिभाषा [^45]उक्तानामप्यनुक्तानां श्रृणु नारद लक्षणम्। सामान्यं येन सिद्धिः स्यादिप्सितार्थस्य मन्त्रिणः॥ 29.78 ॥ एकद्वित्रिचतुः पञ्चषट्सप्ताष्टनवात्मकाः।

विहारास्त्रिचतुः पञ्च समुखान्तायतोच्छ्रिताः ॥ 29.79 ॥

विश्वास-प्रस्तुतिः - 29.80

दिग्विदिक्षु तथा मध्ये नवकाः परिकीर्तिताः।
दिक्षु मध्ये तथा पञ्च शेषाः प्राङ्मुखपङ्क्तयः ॥ 29.80 ॥

मूलम् - 29.80

दिग्विदिक्षु तथा मध्ये नवकाः परिकीर्तिताः।
दिक्षु मध्ये तथा पञ्च शेषाः प्राङ्मुखपङ्क्तयः ॥ 29.80 ॥

एकद्व्यादियुगाश्चैव शान्तिपुष्ट्योः प्रकीर्तिताः। [^46]एकत्र्याद्ययुजश्चैव क्षुद्रेषु नवकं विना ॥ 29.81 ॥
विश्वास-प्रस्तुतिः - 29.82

पलाशौदुम्बराश्वत्थखदिराद्याश्च यज्ञियाः।
दूर्वाद्याश्च तिलाद्याश्च प्रशस्ताः शुभकर्मणि ॥ 29.82 ॥

मूलम् - 29.82

पलाशौदुम्बराश्वत्थखदिराद्याश्च यज्ञियाः।
दूर्वाद्याश्च तिलाद्याश्च प्रशस्ताः शुभकर्मणि ॥ 29.82 ॥

[^47]कारस्करादयः क्षुद्रे कटुबीजादयस्तथा। सहस्राद्या लक्षमध्याः कोट्यन्ता होमजातयः ॥ 29.83 ॥ एको द्वौ बहवो वापि [^48]यथद्धर्या ऋत्विजः स्मृताः। [^49]एकस्मिन् वह्निकुण्डे चेज्जुहुयुः प्रागुदङ्मुखाः ॥ 29.84 ॥ वासुदेवालयोद्यानमन्दिरेषु शुभा क्रिया। अशुभा तु श्मशानादावथ कालविधिक्रमः ॥ 29.[^85]॥ [^50]युक्षु कुर्याद् दिनर्क्षेषु शुभामन्यामथान्यथा। व्यस्तैरथ समस्तैर्वा यद्वा कामविकल्पितैः[^51]॥ 29.86 ॥ [^52]समिदाज्यादिभिर्लक्षकोटिहोमादयः स्मृताः। [^53]एवमभ्यूह्य कुर्वीत मन्त्रेणेष्टस्य साधनम् ॥ 29.87 ॥
विश्वास-प्रस्तुतिः - 29.88

अनुक्तमिव यत् किंचित् तान् स्वगृह्योक्तमाचरेत्।
अपूर्वो वा भवेद्धोमो नाघारादिसमन्वितः ॥ 29.88 ॥

मूलम् - 29.88

अनुक्तमिव यत् किंचित् तान् स्वगृह्योक्तमाचरेत्।
अपूर्वो वा भवेद्धोमो नाघारादिसमन्वितः ॥ 29.88 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां काम्याराधनविधिनिरूपणं नामैकोनत्रिंशोऽध्यायः
आदितः श्लोकाः 1784
————*******————-


  1. धाय E F ↩︎ ↩︎

  2. प्राप्यः A ↩︎ ↩︎

  3. तु D ↩︎ ↩︎

  4. भूमिपाः B C ↩︎ ↩︎ ↩︎ ↩︎

  5. मण्डले D ↩︎

  6. चित्रैरंशुभिः D ↩︎

  7. मन्थोदनैः D ↩︎

  8. श्रीमांस्तस्मै D ↩︎

  9. प्राङ्मुखासनसंश्रितम् A B C E F ↩︎

  10. नाकलोकेषु जाता वै जिगीषा यदि भूपतेः D ↩︎

  11. मण्डले D ↩︎

  12. होमानां D ↩︎

  13. तत्र D ↩︎ ↩︎

  14. शक्याः B C ↩︎ ↩︎

  15. देवं समभ्यर्च्योक्तवर्त्मना B C ↩︎ ↩︎

  16. पद्मानामथ A B C ↩︎

  17. दिग्भागाः षड्द्वीषेषु सुसंमताः D ↩︎ ↩︎

  18. मासाद्य D ↩︎ ↩︎

  19. षट्कैस्तैश्च D ↩︎ ↩︎

  20. पीतपत्रेः D ↩︎ ↩︎

  21. वृतं A; वृत्तं B C E F ↩︎ ↩︎

  22. D omits two lines from here ↩︎ ↩︎

  23. कुरुवर्षे E F ↩︎ ↩︎

  24. नवभिः क्रमात् D
    [^31]भाग A D E F ↩︎ ↩︎

  25. होमेनासौ A B C E F
    प्रीतः प्रदास्यति 8श्रीमानस्मै विस्मितकर्मणे।
    विदिशां विषये
    महादिशां जयात् सिद्धो विदिशां वशिनो जयः ॥ 29.58 ॥
    उपहारान् प्रदास्यन्ति तत्तद्दिक्पालकाः परे।
    ऊर्ध्वलोकस्य विषये
    ऊर्ध्वलोकजयोद्योगो यद्यवर्तिष्ट भूपतेः ॥ 29.59 ॥
    देवं मण्डपरत्ने तु 9प्राङ्मुखासनमर्हयेत्।
    गन्धवन्माल्यसंवीतं मुक्ताभूषणभूषितम् ॥ 29.[^60]॥ ↩︎ ↩︎

  26. अग्निमन्त्रेण E ↩︎ ↩︎

  27. आधाय E F ↩︎ ↩︎

  28. दिव्यैः D ↩︎ ↩︎

  29. कुर्वीत D ↩︎ ↩︎

  30. चरितमहाभोगा D
    [^40] राजत्वे चामि B C D E F ↩︎ ↩︎

  31. एकत्र्यादियुगं चैव E ↩︎ ↩︎