२८

भगवदाराधनविधिनिरूपणं नाम अष्टाविंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥

आराधनविधिनिरूपणारम्भः
अहिर्बुध्न्य—-

विश्वास-प्रस्तुतिः - 28.1

आराधनविधिं वक्ष्ये समासेनैव नारद।
आयुरारोग्यविजयभूप्रदं धनधान्यदम्1 ॥ 28.1 ॥

मूलम् - 28.1

आराधनविधिं वक्ष्ये समासेनैव नारद।
आयुरारोग्यविजयभूप्रदं धनधान्यदम्1 ॥ 28.1 ॥

तस्यैहिकामुष्मिकफलसाधनत्वम्

विश्वास-प्रस्तुतिः - 28.2

पुत्रपश्वन्नकामानां तत्तत्साधनमुत्तमम्।
भुक्तिमुक्तिप्रदं शान्तं पराभिभवकारणम्2 ॥ 28.2 ॥

मूलम् - 28.2

पुत्रपश्वन्नकामानां तत्तत्साधनमुत्तमम्।
भुक्तिमुक्तिप्रदं शान्तं पराभिभवकारणम्2 ॥ 28.2 ॥

तत्रादौ स्नानविधिः
विश्वास-प्रस्तुतिः - 28.3

तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः।
द्विधा कृत्वैकभागेन कुर्याद् देहस्य शोधनम् ॥ 28.3 ॥

मूलम् - 28.3

तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः।
द्विधा कृत्वैकभागेन कुर्याद् देहस्य शोधनम् ॥ 28.3 ॥

विश्वास-प्रस्तुतिः - 28.4

स्नात्वाचम्य 3गृहीत्वान्यं मृद्भागं विन्यसेत् त्रिधा।
वामे पाणौ दिशाबन्धं विदध्यादेकभागतः ॥ 28.4 ॥

मूलम् - 28.4

स्नात्वाचम्य 3गृहीत्वान्यं मृद्भागं विन्यसेत् त्रिधा।
वामे पाणौ दिशाबन्धं विदध्यादेकभागतः ॥ 28.4 ॥

गात्रालेपं ततः कुर्यादन्येनांशेन नारद।

संकल्पयेत् तृतीयांशं 6तीर्थपीठमतः परम् ॥ 28.5 ॥

विश्वास-प्रस्तुतिः - 28.6

गङ्गं तत्र स्मरेद्विष्णोर्वामपादविनिः सृताम्।
अर्घ्यमस्यै निवेद्यथ ततो हृत्वा जलाञ्जलिम् ॥ 28.6 ॥

मूलम् - 28.6

गङ्गं तत्र स्मरेद्विष्णोर्वामपादविनिः सृताम्।
अर्घ्यमस्यै निवेद्यथ ततो हृत्वा जलाञ्जलिम् ॥ 28.6 ॥

विश्वास-प्रस्तुतिः - 28.7

स्वमूर्ध्नि सिञ्चेत् त्रिस्तावत् सप्तकृत्वोऽभिमन्त्रितम्।
निमग्नस्तत्र देवस्य पादाब्जन्यस्तमस्तकः ॥ 28.7 ॥

मूलम् - 28.7

स्वमूर्ध्नि सिञ्चेत् त्रिस्तावत् सप्तकृत्वोऽभिमन्त्रितम्।
निमग्नस्तत्र देवस्य पादाब्जन्यस्तमस्तकः ॥ 28.7 ॥

विश्वास-प्रस्तुतिः - 28.8

यथाशक्ति 7जपेन्मन्त्रं तस्य ध्यानपरायणः।
तत उत्तीर्य चाचम्य धृत्वा वस्त्रोत्तरीयके ॥ 28.8 ॥

मूलम् - 28.8

यथाशक्ति 7जपेन्मन्त्रं तस्य ध्यानपरायणः।
तत उत्तीर्य चाचम्य धृत्वा वस्त्रोत्तरीयके ॥ 28.8 ॥

विश्वास-प्रस्तुतिः - 28.9

धृतोर्ध्वपुण्ड्रः स्वाचान्तो देवादीनच्युतात्मकान्।
ध्यात्वा संतर्पयेदन्यदाह्निकं विधिवच्चरेत् ॥ 28.9 ॥

मूलम् - 28.9

धृतोर्ध्वपुण्ड्रः स्वाचान्तो देवादीनच्युतात्मकान्।
ध्यात्वा संतर्पयेदन्यदाह्निकं विधिवच्चरेत् ॥ 28.9 ॥

यागभूमिमथागम्य क्षालिताङ्घ्रिकरो वशी। आराधनोपक्रमः आचम्य वाग्यतो भूत्वा प्रारभेत समर्चनम् ॥ 28.10 ॥
विश्वास-प्रस्तुतिः - 28.11

चतुर्द्वारयुतं रम्यं गत्वा 8शरणमात्मवान्।
द्वाःस्थानशेषानभ्यर्च्य ततो मण्डपमाश्रयेत् ॥ 28.11 ॥

मूलम् - 28.11

चतुर्द्वारयुतं रम्यं गत्वा 8शरणमात्मवान्।
द्वाःस्थानशेषानभ्यर्च्य ततो मण्डपमाश्रयेत् ॥ 28.11 ॥

मण्डपवर्णनम् [^7]तुङ्गं मङ्गलसंयुक्तं मणिकुट्टिमभूषितम्[^8]। सौवर्णैर्बहुभिः स्तम्भैर्मणिविद्रुमभूषितैः॥ 28.12 ॥ उपेतं दीपिकाजालैर्जातरूपमयैर्वृतम्।
विश्वास-प्रस्तुतिः - 28.14

मणिकिङ्किणिजालैश्च वितानैः क्षौमकल्पितैः।
विराजमानं सर्वत्र मणिपीठविराजितम्9 ॥ 28.14 ॥

मूलम् - 28.14

मणिकिङ्किणिजालैश्च वितानैः क्षौमकल्पितैः।
विराजमानं सर्वत्र मणिपीठविराजितम्9 ॥ 28.14 ॥

तत्र वेदिकानिर्माणम्
विश्वास-प्रस्तुतिः - 28.15

तस्य मण्कडपरत्नस्य मध्ये परमभास्वराम्।
पद्मरागमयैः स्तम्भैश्चतुर्भिरुपशोभिताम् ॥ 28.15 ॥

मूलम् - 28.15

तस्य मण्कडपरत्नस्य मध्ये परमभास्वराम्।
पद्मरागमयैः स्तम्भैश्चतुर्भिरुपशोभिताम् ॥ 28.15 ॥

विश्वास-प्रस्तुतिः - 28.16

मुक्तामयवितानेन युक्तां रत्निचतुष्किकाम्।
वैडूर्यघटितोत्तुङ्गवेदिकां दीपिकायुताम् ॥ 28.16 ॥

मूलम् - 28.16

मुक्तामयवितानेन युक्तां रत्निचतुष्किकाम्।
वैडूर्यघटितोत्तुङ्गवेदिकां दीपिकायुताम् ॥ 28.16 ॥

एवं कर्तुमशक्तश्चेदेवं [^10]ध्यायीत पूजकः।

तत्र सपरिवारभगवद्ध्यानम्
एवं चतुष्किकामध्ये चक्राब्जमयविष्टरे ॥ 28.17 ॥
10आधारशक्तिकमठानन्तधर्मादिधारिते।
पद्मे सोमरविज्योतिः सत्त्वादिपरिवारिते ॥ 28.18 ॥
11एवमुक्तप्रकारेण परिवारैर्निषेवितम्।
वेदैर्मन्त्रैस्तथा शस्त्रैरस्त्रैः शक्तिभिरावृतम् ॥ 28.19 ॥
12ध्यायेत् तदासने देवं समासीनः समासने।

विश्वास-प्रस्तुतिः - 28.22

ततः स्थूलमिदं देहं शोषयित्वाथ संदहेत्।
प्राणायामेन चाद्येन मन्त्रं 13नाभ्यां तु विन्यसेत् ॥ 28.22 ॥

मूलम् - 28.22

ततः स्थूलमिदं देहं शोषयित्वाथ संदहेत्।
प्राणायामेन चाद्येन मन्त्रं 13नाभ्यां तु विन्यसेत् ॥ 28.22 ॥

[^16]तदुद्भूतेन नादेन सुषुम्नामध्यवर्तिना। वायुमण्डलमभ्येत्य तदुत्थेनैव वायुना ॥ 28.23 ॥
विश्वास-प्रस्तुतिः - 28.24

संशोषयेदिमं देहं स्थूलं सुरमुने ततः।
प्राणायामद्वितीयेन हृदये विन्यसेन्मनुम् ॥ 28.24 ॥

मूलम् - 28.24

संशोषयेदिमं देहं स्थूलं सुरमुने ततः।
प्राणायामद्वितीयेन हृदये विन्यसेन्मनुम् ॥ 28.24 ॥

विश्वास-प्रस्तुतिः - 28.25

मन्त्रोत्थेनाग्निना देहं दहेन्मण्डलवर्तिना।
तृतीयेन स्वमात्मानं प्राणायामेन देशिकः ॥ 28.25 ॥

मूलम् - 28.25

मन्त्रोत्थेनाग्निना देहं दहेन्मण्डलवर्तिना।
तृतीयेन स्वमात्मानं प्राणायामेन देशिकः ॥ 28.25 ॥

विश्वास-प्रस्तुतिः - 28.26

अधो 14निवेशयन् विष्णोर्वामपादाम्बुजस्य वै।
स्वं तदङ्गष्ठनिष्ठ्यूतपीयूषाप्लावितं स्मरेत् ॥ 28.26 ॥

मूलम् - 28.26

अधो 14निवेशयन् विष्णोर्वामपादाम्बुजस्य वै।
स्वं तदङ्गष्ठनिष्ठ्यूतपीयूषाप्लावितं स्मरेत् ॥ 28.26 ॥

विश्वास-प्रस्तुतिः - 28.27

पञ्चैपनिषदैर्मन्त्रैस्ततः संज्ञातविग्रहः।
न्यस्ताङ्गो मन्त्रविन्मन्त्रैश्चिन्तयित्वा सुदर्शनम्॥ 28.27 ॥

मूलम् - 28.27

पञ्चैपनिषदैर्मन्त्रैस्ततः संज्ञातविग्रहः।
न्यस्ताङ्गो मन्त्रविन्मन्त्रैश्चिन्तयित्वा सुदर्शनम्॥ 28.27 ॥

[^18]आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्यमण्डलात्। प्रारभेत ततः पूजां करन्यासं विधाय वै ॥ 28.28 ॥ हृद्यागं प्रथमं कुर्यान्नियतेन्द्रियमानसः।
विश्वास-प्रस्तुतिः - 28.30

पूरितं स्थापयेत् पात्रं मूलमन्त्रेण 15मन्त्रितम्।
वामपार्श्वे तथा सर्वं विन्यसेत् साधनान्तरम् ॥ 28.30 ॥

मूलम् - 28.30

पूरितं स्थापयेत् पात्रं मूलमन्त्रेण 15मन्त्रितम्।
वामपार्श्वे तथा सर्वं विन्यसेत् साधनान्तरम् ॥ 28.30 ॥

ततो [^20]विस्तीर्य पुरतः शाटिकामतिनिर्मलाम्। [^21]तस्यामाग्नेयदिग्भागे विन्यसेदर्घ्यपात्रकम् ॥ 28.31 ॥ [^22]पाद्यपात्रमथो न्यस्येत् कोणे दक्षिणपश्चिमे। पात्रमाचमनीयस्य विन्यसेत् पश्चिमोत्तरे ॥ 28.32 ॥ स्नानीयपात्रं दिग्भागे विन्यसेच्छांकरे ततः। अर्घ्यदिषु प्रक्षेप्यद्रव्याणि सिद्धार्थमक्षतं चैव कुशाग्रं तिलमेव च ॥ 28.33 ॥ यवं गन्धं फलं [^23]पुष्पमष्टाङ्गं चार्घ्यमुच्यते दूर्वा च विष्णुपर्णी च श्यामाकं पद्ममेव च ॥ 28.34 ॥
विश्वास-प्रस्तुतिः - 28.35

पाद्यद्रव्याणि चत्वारि सोदकानि प्रकल्पयेत्।
लवङ्गजातीतक्कोलद्रव्याण्याचमनीयके ॥ 28.35 ॥

मूलम् - 28.35

पाद्यद्रव्याणि चत्वारि सोदकानि प्रकल्पयेत्।
लवङ्गजातीतक्कोलद्रव्याण्याचमनीयके ॥ 28.35 ॥

सिद्धार्थकादि स्नानीये पूर्ववत् कल्पयेद् बुधः।
विश्वास-प्रस्तुतिः - 28.37

पाद्यपात्रादिकेष्वेवं ब्रूयात् सुरमुने क्रमात्।
गन्धतोयेन संपूर्य पात्राण्येतानि सर्वशः ॥ 28.37 ॥

मूलम् - 28.37

पाद्यपात्रादिकेष्वेवं ब्रूयात् सुरमुने क्रमात्।
गन्धतोयेन संपूर्य पात्राण्येतानि सर्वशः ॥ 28.37 ॥

विश्वास-प्रस्तुतिः - 28.38

अर्घ्यात् किंचित् समुद्धृत्य जलं पात्रान्तरेण तु ।
देवस्य दक्षिणे पाणौ मूलमन्त्रेण विन्यसेत् ॥ 28.38 ॥

मूलम् - 28.38

अर्घ्यात् किंचित् समुद्धृत्य जलं पात्रान्तरेण तु ।
देवस्य दक्षिणे पाणौ मूलमन्त्रेण विन्यसेत् ॥ 28.38 ॥

विश्वास-प्रस्तुतिः - 28.39

पुष्पं दत्त्वाथ पाद्येन पादौ देवस्य सेचयेत्।
वस्त्रेण मार्जयित्वाथ दद्यादाचमनीयकम् ॥ 28.39 ॥

मूलम् - 28.39

पुष्पं दत्त्वाथ पाद्येन पादौ देवस्य सेचयेत्।
वस्त्रेण मार्जयित्वाथ दद्यादाचमनीयकम् ॥ 28.39 ॥

विश्वास-प्रस्तुतिः - 28.40

अर्ध्यादिदत्तशिष्टानि16 क्षिपेत् पात्रान्तरे तदा।
चन्दनं माल्यदानं च धूपं दीपं दिशेत् ततः ॥ 28.40 ॥

मूलम् - 28.40

अर्ध्यादिदत्तशिष्टानि16 क्षिपेत् पात्रान्तरे तदा।
चन्दनं माल्यदानं च धूपं दीपं दिशेत् ततः ॥ 28.40 ॥

विश्वास-प्रस्तुतिः - 28.41

पुनराचमनीयं च मुखवासमतः परम्।
ताम्बूलं च निवेद्याथ प्रणम्यात्मनिवेदनम् ॥ 28.41 ॥

मूलम् - 28.41

पुनराचमनीयं च मुखवासमतः परम्।
ताम्बूलं च निवेद्याथ प्रणम्यात्मनिवेदनम् ॥ 28.41 ॥

स्नानासनं द्वितीयम्
विश्वास-प्रस्तुतिः - 28.42

विधाय स्नानपीठं तु गन्धपुष्पादिनार्चयेत्।
विज्ञाप्य 17पादुके दत्त्वा देवे 18स्नानासनं गते ॥ 28.42 ॥

मूलम् - 28.42

विधाय स्नानपीठं तु गन्धपुष्पादिनार्चयेत्।
विज्ञाप्य 17पादुके दत्त्वा देवे 18स्नानासनं गते ॥ 28.42 ॥

विश्वास-प्रस्तुतिः - 28.43

वस्त्र भूषणमाल्यानि व्यपनीय ततः परम्।
स्नानार्थं शाटिकां दद्यात् पाद्यमाचमनीयकम् ॥ 28.43 ॥

मूलम् - 28.43

वस्त्र भूषणमाल्यानि व्यपनीय ततः परम्।
स्नानार्थं शाटिकां दद्यात् पाद्यमाचमनीयकम् ॥ 28.43 ॥

पादपीठप्रदानं च दन्तकाष्ठं दिशेत् ततः।

जिह्वानिर्लेखनं चैव 19मुखशोधमथो दिशेत् ॥ 28.44 ॥
20पुनराचमनीयं च तथादर्शोपदर्शनम्।
पुनस्ताम्बूलदानं च तैलाभ्यङ्गमतः परम् ॥ 28.45 ॥

विश्वास-प्रस्तुतिः - 28.46

उद्वर्तनविधानं च दानमामलकस्य च।
तोयदानं ततः कुर्यात् कङ्कतप्लोतमेव च ॥ 28.46 ॥

मूलम् - 28.46

उद्वर्तनविधानं च दानमामलकस्य च।
तोयदानं ततः कुर्यात् कङ्कतप्लोतमेव च ॥ 28.46 ॥

[^30]ततो विदद्याद् देवस्य देहशोधनशाटिकाम्। हरिद्रालेपनं कुर्यात् प्रक्षालनमतः परम् ॥ 28.47 ॥
विश्वास-प्रस्तुतिः - 28.48

वस्त्रोत्तरीयके दद्यादुपवीतं तथैव च।
पाद्याचमनके कुर्याद् विचित्रं चन्दनं तथा ॥ 28.48 ॥

मूलम् - 28.48

वस्त्रोत्तरीयके दद्यादुपवीतं तथैव च।
पाद्याचमनके कुर्याद् विचित्रं चन्दनं तथा ॥ 28.48 ॥

विश्वास-प्रस्तुतिः - 28.49

गन्धं पुष्पं तथा धूपं दीपमाचमनं तथा।
तृत्तवादित्रगीतादिसर्वमङ्गलसंयुतम् ॥ 28.49 ॥

मूलम् - 28.49

गन्धं पुष्पं तथा धूपं दीपमाचमनं तथा।
तृत्तवादित्रगीतादिसर्वमङ्गलसंयुतम् ॥ 28.49 ॥

विश्वास-प्रस्तुतिः - 28.50

अभिषेकं ततः कुर्यान्नीराजनविधिं ततः।
प्लोतवस्त्रोत्तरीये च उपवीतमतः परम् ॥ 28.50 ॥

मूलम् - 28.50

अभिषेकं ततः कुर्यान्नीराजनविधिं ततः।
प्लोतवस्त्रोत्तरीये च उपवीतमतः परम् ॥ 28.50 ॥

तत आचमनीयं च दत्त्वा देवाय देशिकः। तृतीयमलंकारासनम् अलंकारासनं पश्चादभ्यर्च्य प्रोक्षणादिना ॥ 28.51 ॥
विश्वास-प्रस्तुतिः - 28.52

विज्ञाप्य पादुके दत्त्वा देवे विष्टरमाश्रिते।
अर्घ्यादीन्यथ पात्राणि पूर्ववत् कल्पयेत् ततः ॥ 28.52 ॥

मूलम् - 28.52

विज्ञाप्य पादुके दत्त्वा देवे विष्टरमाश्रिते।
अर्घ्यादीन्यथ पात्राणि पूर्ववत् कल्पयेत् ततः ॥ 28.52 ॥

अर्घ्यं पाद्यं ततो दद्यात् तत आचमनीयकम्।
विश्वास-प्रस्तुतिः - 28.54

ततश्चित्राणि वासांसि प्रयच्छेद् भूषणानि च।
यज्ञोपवीतदानं च तत आचमनीयकम् ॥ 28.54 ॥

मूलम् - 28.54

ततश्चित्राणि वासांसि प्रयच्छेद् भूषणानि च।
यज्ञोपवीतदानं च तत आचमनीयकम् ॥ 28.54 ॥

विश्वास-प्रस्तुतिः - 28.55

गन्धपुष्पप्रदानं चाप्यादर्शस्य प्रदर्शनम्।
धूपदीपौ तथा दद्यात् पुनराचमनीयकम् ॥ 28.55 ॥

मूलम् - 28.55

गन्धपुष्पप्रदानं चाप्यादर्शस्य प्रदर्शनम्।
धूपदीपौ तथा दद्यात् पुनराचमनीयकम् ॥ 28.55 ॥

विश्वास-प्रस्तुतिः - 28.56

ततः स्तोत्रं जपेच्छत्रचामराणां प्रदर्शनम्।
दर्शनं वाहनानां च ततः शङ्खरवं तथा ॥ 28.56 ॥

मूलम् - 28.56

ततः स्तोत्रं जपेच्छत्रचामराणां प्रदर्शनम्।
दर्शनं वाहनानां च ततः शङ्खरवं तथा ॥ 28.56 ॥

विश्वास-प्रस्तुतिः - 28.57

वीणाकाहलभेर्यादिनिनादश्रावणं तथा।
नृत्तवादित्रगीताद्यैरर्चयेन्मन्त्रतस्ततः ॥ 28.57 ॥

मूलम् - 28.57

वीणाकाहलभेर्यादिनिनादश्रावणं तथा।
नृत्तवादित्रगीताद्यैरर्चयेन्मन्त्रतस्ततः ॥ 28.57 ॥

विश्वास-प्रस्तुतिः - 28.58

मूलमन्त्रेण दद्यात्तु पुष्पं देवाय देशिकः ।
पुष्पाञ्जलिं प्रतिदिशं प्रदक्षिणपुरः सरम् ॥ 28.58 ॥

मूलम् - 28.58

मूलमन्त्रेण दद्यात्तु पुष्पं देवाय देशिकः ।
पुष्पाञ्जलिं प्रतिदिशं प्रदक्षिणपुरः सरम् ॥ 28.58 ॥

विश्वास-प्रस्तुतिः - 28.59

दत्त्वा पुनः प्रणम्याथ स्तोत्रैर्देवं स्तुवीत वै।
स्वमात्मानं भगवते किंकरत्वाय वेदयेत् ॥ 28.59 ।

मूलम् - 28.59

दत्त्वा पुनः प्रणम्याथ स्तोत्रैर्देवं स्तुवीत वै।
स्वमात्मानं भगवते किंकरत्वाय वेदयेत् ॥ 28.59 ।

विश्वास-प्रस्तुतिः - 28.60

ततो ध्यात्वा जपेन्मन्त्रं यथाशक्ति समाहितः।
आचार्यं गन्धपुष्पाद्यैः समभ्यर्च्य मुने ततः॥ 28.60 ॥

मूलम् - 28.60

ततो ध्यात्वा जपेन्मन्त्रं यथाशक्ति समाहितः।
आचार्यं गन्धपुष्पाद्यैः समभ्यर्च्य मुने ततः॥ 28.60 ॥

विश्वास-प्रस्तुतिः - 28.61

सर्वभोगैस्तु संपूर्णान् मन्त्रांस्तस्मै निवेदयेत्।
मुखवासं ततो दद्यात् ताम्बूलं चार्घ्यमेव च ॥ 28.61 ॥

मूलम् - 28.61

सर्वभोगैस्तु संपूर्णान् मन्त्रांस्तस्मै निवेदयेत्।
मुखवासं ततो दद्यात् ताम्बूलं चार्घ्यमेव च ॥ 28.61 ॥

चतुर्थं भोज्यासनम्
विश्वास-प्रस्तुतिः - 28.62

भोज्यासनमथाभ्यर्च्य देवं विज्ञाप्य पादुके।
दद्यात् तत्रोपविष्टेऽस्मिन् पाद्यमाचमनं ततः ॥ 28.62 ॥

मूलम् - 28.62

भोज्यासनमथाभ्यर्च्य देवं विज्ञाप्य पादुके।
दद्यात् तत्रोपविष्टेऽस्मिन् पाद्यमाचमनं ततः ॥ 28.62 ॥

विश्वास-प्रस्तुतिः - 28.63

अर्हणं च ततः कृत्वा दध्याज्यक्षीरमाक्षिकान्।
गन्धं च पात्रे निक्षिप्य शोषणादिकमाचरेत् ॥ 28.63 ॥

मूलम् - 28.63

अर्हणं च ततः कृत्वा दध्याज्यक्षीरमाक्षिकान्।
गन्धं च पात्रे निक्षिप्य शोषणादिकमाचरेत् ॥ 28.63 ॥

विश्वास-प्रस्तुतिः - 28.64

संप्रोक्ष्यार्घ्यजलेनैव मधुपर्कमथो दिशेत्।
ततो दद्यात् सुवर्णं च गां च रत्नानि पूजकः ॥ 28.64 ॥

मूलम् - 28.64

संप्रोक्ष्यार्घ्यजलेनैव मधुपर्कमथो दिशेत्।
ततो दद्यात् सुवर्णं च गां च रत्नानि पूजकः ॥ 28.64 ॥

हविर्निवेदनम् सुसंस्कृतान्नमाज्यं च दधिक्षीरमधूनि च। मूलानि मोदकान् स्निग्धान् व्यञ्जनानि फलानि च ॥
विश्वास-प्रस्तुतिः - 28.66

यानि कालोपपन्नानि शुचीनि गुणवन्ति च।
स्वादिष्ठानि प्रभूतानि हृद्यान्यन्यानि यानि च ॥ 28.66 ॥

मूलम् - 28.66

यानि कालोपपन्नानि शुचीनि गुणवन्ति च।
स्वादिष्ठानि प्रभूतानि हृद्यान्यन्यानि यानि च ॥ 28.66 ॥

विश्वास-प्रस्तुतिः - 28.67

विशोध्य शोषणाद्यैस्तु संप्रोक्ष्यार्घ्यजलेन तु।
विधाय रक्षामस्त्रेण हविरर्हणपूर्वकम् ॥ 28.67 ॥

मूलम् - 28.67

विशोध्य शोषणाद्यैस्तु संप्रोक्ष्यार्घ्यजलेन तु।
विधाय रक्षामस्त्रेण हविरर्हणपूर्वकम् ॥ 28.67 ॥

विश्वास-प्रस्तुतिः - 28.68

मुद्रां तु सुरभिं कृत्वा देवायैतन्निवेदयेत्।
अनुवासं ततो दद्याद् दर्पणं च ततः परम् ॥ 28.68 ॥

मूलम् - 28.68

मुद्रां तु सुरभिं कृत्वा देवायैतन्निवेदयेत्।
अनुवासं ततो दद्याद् दर्पणं च ततः परम् ॥ 28.68 ॥

विश्वास-प्रस्तुतिः - 28.69

दद्यादाचमनीयं च हस्तमार्जनचन्दनम्।
मुखवासं च ताम्बूलं प्रदायास्मै प्रणम्य च ॥ 28.69 ॥

मूलम् - 28.69

दद्यादाचमनीयं च हस्तमार्जनचन्दनम्।
मुखवासं च ताम्बूलं प्रदायास्मै प्रणम्य च ॥ 28.69 ॥

पुनर्मन्त्रासनं पञ्चमम्
विश्वास-प्रस्तुतिः - 28.70

अथ मन्त्रासनं न्यस्य कूर्चेन परिमृज्य च।
गन्धपुष्पादिनाभ्यर्च्य दद्याद् विज्ञाप्य पादुके ॥ 28.70 ॥

मूलम् - 28.70

अथ मन्त्रासनं न्यस्य कूर्चेन परिमृज्य च।
गन्धपुष्पादिनाभ्यर्च्य दद्याद् विज्ञाप्य पादुके ॥ 28.70 ॥

विश्वास-प्रस्तुतिः - 28.71

तथाधिरूढे देवेशे माल्यादिकमपोह्य तु।
पाद्याचमनके 21दत्त्वा ततो धूपं निवेदयेत्॥ 28.71 ॥

मूलम् - 28.71

तथाधिरूढे देवेशे माल्यादिकमपोह्य तु।
पाद्याचमनके 21दत्त्वा ततो धूपं निवेदयेत्॥ 28.71 ॥

स्वादिष्ठानि फलान्यस्मै दद्यात् ताम्बूलमेव च।
22गीतवादित्रनृत्ताद्यैर्देवमभ्यर्चयेत् ततः ॥ 28.72 ॥
प्रदक्षिणं विधायास्मै प्रणमेद् दण्डवत् ततः।

षष्ठं पर्यङ्कासनम्
अथ पर्यङ्कमभ्यर्च्य देवं विज्ञापयेत् ततः ॥ 28.73 ॥

विश्वास-प्रस्तुतिः - 28.74

ततः 23पादूप्रदानेन देवे पर्यङ्कमास्थिते।
पाद्यमाचमनीयं च पुनर्दत्त्वा समाहितः ॥ 28.74 ॥

मूलम् - 28.74

ततः 23पादूप्रदानेन देवे पर्यङ्कमास्थिते।
पाद्यमाचमनीयं च पुनर्दत्त्वा समाहितः ॥ 28.74 ॥

विश्वास-प्रस्तुतिः - 28.75

माल्यभूषणकादीनि व्यपनीय 24महामते।
शयनोचितमाल्यानि 25भूषणान्यंशुकानि च ॥ 28.75 ॥

मूलम् - 28.75

माल्यभूषणकादीनि व्यपनीय 24महामते।
शयनोचितमाल्यानि 25भूषणान्यंशुकानि च ॥ 28.75 ॥

विश्वास-प्रस्तुतिः - 28.76

सुखस्पर्शानि 26चान्यानि दद्याद्यज्ञोपवीतकम्।
दद्यादाचमनीयं च गन्धं पुष्पमथो दिशेत् ॥ 28.76 ॥

मूलम् - 28.76

सुखस्पर्शानि 26चान्यानि दद्याद्यज्ञोपवीतकम्।
दद्यादाचमनीयं च गन्धं पुष्पमथो दिशेत् ॥ 28.76 ॥

विश्वास-प्रस्तुतिः - 28.77

मुखवासं च ताम्बूलं दत्त्वा स्तोत्रैः स्तुवीत तम्27
अष्टाङ्गेन प्रणामेन प्रणम्य शरणं व्रजेत् ॥ 28.77 ॥

मूलम् - 28.77

मुखवासं च ताम्बूलं दत्त्वा स्तोत्रैः स्तुवीत तम्27
अष्टाङ्गेन प्रणामेन प्रणम्य शरणं व्रजेत् ॥ 28.77 ॥

विश्वास-प्रस्तुतिः - 28.78

प्रदक्षिणसमेतेन देवं योगासनस्थितम्।
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ॥ 28.78 ॥

मूलम् - 28.78

प्रदक्षिणसमेतेन देवं योगासनस्थितम्।
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ॥ 28.78 ॥

कूर्मवच्चतुरः पादाञ्छिरस्तत्रैव पञ्चमम्। दास्यप्रार्थना अज्ञानादथवा ज्ञानादशुभं यत् कृतं मया ॥ 28.79 ॥
विश्वास-प्रस्तुतिः - 28.80

क्षन्तुमर्हसि तत् सर्वं दास्येन च गृहाण माम्।
एवमाराधनं कुर्यादुभयत्र मुखे 28हरिम् ॥ 28.80 ॥

मूलम् - 28.80

क्षन्तुमर्हसि तत् सर्वं दास्येन च गृहाण माम्।
एवमाराधनं कुर्यादुभयत्र मुखे 28हरिम् ॥ 28.80 ॥

सुदर्शनं नृसिंहं च विष्णुरूपं सुदर्सनम्। एवमनुष्ठितस्याराधनस्य मोक्षसाधनत्वम् समाराधयतस्त्वेवमेकाहमपि नारद ॥ 28.81 ॥ मुक्तिः करे स्थिता तस्य सर्वे कामाश्च किं पुनः। आनुषङ्गिकफलसाधनत्वं कैमुतिकम् अनेन लोकपालाश्च सर्वे देवगणास्तथा ॥ 28.82 ॥ [^39]सिद्धगन्धर्वयक्षाश्च नागाश्चाप्सरसां गणाः। सर्वे वश्या भवन्तीह किं पुनर्भुवि मानवाः ॥ 28.83 ॥ भूतप्रेतपिशाचाश्च कूश्माण्डाश्च विनायकाः। [^40]प्रेष्यास्तस्य भविष्यन्ति साधकस्य महात्मनः॥ 28.84 ॥ परिवाराद्यर्चनविधिः तथास्य परिवाराणां देवानां शक्तियोषिताम्।
विश्वास-प्रस्तुतिः - 28.85

मन्त्राणामस्त्रशस्त्राणां स्वैः स्वैर्नामभिरर्चनम्।
नमोऽन्तैरुपचारैश्च कुर्यात् षोडशभिः क्रमात् ॥ 28.85 ॥

मूलम् - 28.85

मन्त्राणामस्त्रशस्त्राणां स्वैः स्वैर्नामभिरर्चनम्।
नमोऽन्तैरुपचारैश्च कुर्यात् षोडशभिः क्रमात् ॥ 28.85 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां भगवदाराधनविधिनिरूपणं नामाष्टाविँशोऽध्यायः आदितः श्लोकाः 1696

  1. विभूतिधनधान्यदम् A B C E F ↩︎ ↩︎

  2. वारणम् A B C E F ↩︎ ↩︎

  3. गृहीत्वा तमपरं D ↩︎ ↩︎

  4. एवम् B C; एनम् E F ↩︎

  5. ओमर्घ्यं कल्पयामीति जपेत् स्पृष्ट्वार्घ्यमादितः A B C E F ↩︎

  6. तीर्थं D ↩︎

  7. जपन्मन्त्रं D ↩︎ ↩︎

  8. वरणम् D ↩︎ ↩︎

  9. विमिश्रितम् D ↩︎ ↩︎

  10. D omits two lines from here ↩︎

  11. देवमुक्तप्रकारैश्च D ↩︎

  12. ध्यायेत् तदन्तिके शुद्धे D
    भगवत्प्रार्थना
    अर्चयामि त्वदीयोऽहं त्वद्दत्तैरौपचारिकैः ॥ 28.20 ॥
    सांस्पर्शिकैरिति ब्रूयाद् 4देवमाभ्यवहारिकैः।
    भूतशुद्धिक्रमः
    संहरेद् देहतत्त्वानि प्रतिसंचरवर्त्मना ॥ 28.21 ॥ ↩︎

  13. नासां तु A ↩︎ ↩︎

  14. निवेशयेत् A B C E F ↩︎ ↩︎

  15. मन्त्रवित् A B C E F ↩︎ ↩︎

  16. भक्तिशिष्टानि D ↩︎ ↩︎

  17. पादुकां E F ↩︎ ↩︎

  18. स्नानासने D ↩︎ ↩︎

  19. मुखशोधनमादिशेत् B C ↩︎

  20. पुनराचमनं चैव A B C E F ↩︎

  21. कृत्वा D E F ↩︎ ↩︎

  22. A B C E F omit two lines from here ↩︎

  23. पादुकदानेन A B C ↩︎ ↩︎

  24. महामुने D ↩︎ ↩︎

  25. भूषणानि च तानि च D ↩︎ ↩︎

  26. देवाय D E F ↩︎ ↩︎

  27. वै A B C E F ↩︎ ↩︎

  28. उद्दिश्येति शेषः ↩︎ ↩︎