भगवदाराधनविधिनिरूपणं नाम अष्टाविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
आराधनविधिनिरूपणारम्भः
अहिर्बुध्न्य—-
विश्वास-प्रस्तुतिः - 28.1
आराधनविधिं वक्ष्ये समासेनैव नारद।
आयुरारोग्यविजयभूप्रदं धनधान्यदम्1 ॥ 28.1 ॥
मूलम् - 28.1
आराधनविधिं वक्ष्ये समासेनैव नारद।
आयुरारोग्यविजयभूप्रदं धनधान्यदम्1 ॥ 28.1 ॥
तस्यैहिकामुष्मिकफलसाधनत्वम्
विश्वास-प्रस्तुतिः - 28.2
पुत्रपश्वन्नकामानां तत्तत्साधनमुत्तमम्।
भुक्तिमुक्तिप्रदं शान्तं पराभिभवकारणम्2 ॥ 28.2 ॥
मूलम् - 28.2
पुत्रपश्वन्नकामानां तत्तत्साधनमुत्तमम्।
भुक्तिमुक्तिप्रदं शान्तं पराभिभवकारणम्2 ॥ 28.2 ॥
विश्वास-प्रस्तुतिः - 28.3
तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः।
द्विधा कृत्वैकभागेन कुर्याद् देहस्य शोधनम् ॥ 28.3 ॥
मूलम् - 28.3
तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः।
द्विधा कृत्वैकभागेन कुर्याद् देहस्य शोधनम् ॥ 28.3 ॥
विश्वास-प्रस्तुतिः - 28.4
स्नात्वाचम्य 3गृहीत्वान्यं मृद्भागं विन्यसेत् त्रिधा।
वामे पाणौ दिशाबन्धं विदध्यादेकभागतः ॥ 28.4 ॥
मूलम् - 28.4
स्नात्वाचम्य 3गृहीत्वान्यं मृद्भागं विन्यसेत् त्रिधा।
वामे पाणौ दिशाबन्धं विदध्यादेकभागतः ॥ 28.4 ॥
संकल्पयेत् तृतीयांशं 6तीर्थपीठमतः परम् ॥ 28.5 ॥
विश्वास-प्रस्तुतिः - 28.6
गङ्गं तत्र स्मरेद्विष्णोर्वामपादविनिः सृताम्।
अर्घ्यमस्यै निवेद्यथ ततो हृत्वा जलाञ्जलिम् ॥ 28.6 ॥
मूलम् - 28.6
गङ्गं तत्र स्मरेद्विष्णोर्वामपादविनिः सृताम्।
अर्घ्यमस्यै निवेद्यथ ततो हृत्वा जलाञ्जलिम् ॥ 28.6 ॥
विश्वास-प्रस्तुतिः - 28.7
स्वमूर्ध्नि सिञ्चेत् त्रिस्तावत् सप्तकृत्वोऽभिमन्त्रितम्।
निमग्नस्तत्र देवस्य पादाब्जन्यस्तमस्तकः ॥ 28.7 ॥
मूलम् - 28.7
स्वमूर्ध्नि सिञ्चेत् त्रिस्तावत् सप्तकृत्वोऽभिमन्त्रितम्।
निमग्नस्तत्र देवस्य पादाब्जन्यस्तमस्तकः ॥ 28.7 ॥
विश्वास-प्रस्तुतिः - 28.8
यथाशक्ति 7जपेन्मन्त्रं तस्य ध्यानपरायणः।
तत उत्तीर्य चाचम्य धृत्वा वस्त्रोत्तरीयके ॥ 28.8 ॥
मूलम् - 28.8
यथाशक्ति 7जपेन्मन्त्रं तस्य ध्यानपरायणः।
तत उत्तीर्य चाचम्य धृत्वा वस्त्रोत्तरीयके ॥ 28.8 ॥
विश्वास-प्रस्तुतिः - 28.9
धृतोर्ध्वपुण्ड्रः स्वाचान्तो देवादीनच्युतात्मकान्।
ध्यात्वा संतर्पयेदन्यदाह्निकं विधिवच्चरेत् ॥ 28.9 ॥
मूलम् - 28.9
धृतोर्ध्वपुण्ड्रः स्वाचान्तो देवादीनच्युतात्मकान्।
ध्यात्वा संतर्पयेदन्यदाह्निकं विधिवच्चरेत् ॥ 28.9 ॥
विश्वास-प्रस्तुतिः - 28.11
चतुर्द्वारयुतं रम्यं गत्वा 8शरणमात्मवान्।
द्वाःस्थानशेषानभ्यर्च्य ततो मण्डपमाश्रयेत् ॥ 28.11 ॥
मूलम् - 28.11
चतुर्द्वारयुतं रम्यं गत्वा 8शरणमात्मवान्।
द्वाःस्थानशेषानभ्यर्च्य ततो मण्डपमाश्रयेत् ॥ 28.11 ॥
विश्वास-प्रस्तुतिः - 28.14
मणिकिङ्किणिजालैश्च वितानैः क्षौमकल्पितैः।
विराजमानं सर्वत्र मणिपीठविराजितम्9 ॥ 28.14 ॥
मूलम् - 28.14
मणिकिङ्किणिजालैश्च वितानैः क्षौमकल्पितैः।
विराजमानं सर्वत्र मणिपीठविराजितम्9 ॥ 28.14 ॥
विश्वास-प्रस्तुतिः - 28.15
तस्य मण्कडपरत्नस्य मध्ये परमभास्वराम्।
पद्मरागमयैः स्तम्भैश्चतुर्भिरुपशोभिताम् ॥ 28.15 ॥
मूलम् - 28.15
तस्य मण्कडपरत्नस्य मध्ये परमभास्वराम्।
पद्मरागमयैः स्तम्भैश्चतुर्भिरुपशोभिताम् ॥ 28.15 ॥
विश्वास-प्रस्तुतिः - 28.16
मुक्तामयवितानेन युक्तां रत्निचतुष्किकाम्।
वैडूर्यघटितोत्तुङ्गवेदिकां दीपिकायुताम् ॥ 28.16 ॥
मूलम् - 28.16
मुक्तामयवितानेन युक्तां रत्निचतुष्किकाम्।
वैडूर्यघटितोत्तुङ्गवेदिकां दीपिकायुताम् ॥ 28.16 ॥
तत्र सपरिवारभगवद्ध्यानम्
एवं चतुष्किकामध्ये चक्राब्जमयविष्टरे ॥ 28.17 ॥
10आधारशक्तिकमठानन्तधर्मादिधारिते।
पद्मे सोमरविज्योतिः सत्त्वादिपरिवारिते ॥ 28.18 ॥
11एवमुक्तप्रकारेण परिवारैर्निषेवितम्।
वेदैर्मन्त्रैस्तथा शस्त्रैरस्त्रैः शक्तिभिरावृतम् ॥ 28.19 ॥
12ध्यायेत् तदासने देवं समासीनः समासने।
विश्वास-प्रस्तुतिः - 28.22
ततः स्थूलमिदं देहं शोषयित्वाथ संदहेत्।
प्राणायामेन चाद्येन मन्त्रं 13नाभ्यां तु विन्यसेत् ॥ 28.22 ॥
मूलम् - 28.22
ततः स्थूलमिदं देहं शोषयित्वाथ संदहेत्।
प्राणायामेन चाद्येन मन्त्रं 13नाभ्यां तु विन्यसेत् ॥ 28.22 ॥
विश्वास-प्रस्तुतिः - 28.24
संशोषयेदिमं देहं स्थूलं सुरमुने ततः।
प्राणायामद्वितीयेन हृदये विन्यसेन्मनुम् ॥ 28.24 ॥
मूलम् - 28.24
संशोषयेदिमं देहं स्थूलं सुरमुने ततः।
प्राणायामद्वितीयेन हृदये विन्यसेन्मनुम् ॥ 28.24 ॥
विश्वास-प्रस्तुतिः - 28.25
मन्त्रोत्थेनाग्निना देहं दहेन्मण्डलवर्तिना।
तृतीयेन स्वमात्मानं प्राणायामेन देशिकः ॥ 28.25 ॥
मूलम् - 28.25
मन्त्रोत्थेनाग्निना देहं दहेन्मण्डलवर्तिना।
तृतीयेन स्वमात्मानं प्राणायामेन देशिकः ॥ 28.25 ॥
विश्वास-प्रस्तुतिः - 28.26
अधो 14निवेशयन् विष्णोर्वामपादाम्बुजस्य वै।
स्वं तदङ्गष्ठनिष्ठ्यूतपीयूषाप्लावितं स्मरेत् ॥ 28.26 ॥
मूलम् - 28.26
अधो 14निवेशयन् विष्णोर्वामपादाम्बुजस्य वै।
स्वं तदङ्गष्ठनिष्ठ्यूतपीयूषाप्लावितं स्मरेत् ॥ 28.26 ॥
विश्वास-प्रस्तुतिः - 28.27
पञ्चैपनिषदैर्मन्त्रैस्ततः संज्ञातविग्रहः।
न्यस्ताङ्गो मन्त्रविन्मन्त्रैश्चिन्तयित्वा सुदर्शनम्॥ 28.27 ॥
मूलम् - 28.27
पञ्चैपनिषदैर्मन्त्रैस्ततः संज्ञातविग्रहः।
न्यस्ताङ्गो मन्त्रविन्मन्त्रैश्चिन्तयित्वा सुदर्शनम्॥ 28.27 ॥
विश्वास-प्रस्तुतिः - 28.30
पूरितं स्थापयेत् पात्रं मूलमन्त्रेण 15मन्त्रितम्।
वामपार्श्वे तथा सर्वं विन्यसेत् साधनान्तरम् ॥ 28.30 ॥
मूलम् - 28.30
पूरितं स्थापयेत् पात्रं मूलमन्त्रेण 15मन्त्रितम्।
वामपार्श्वे तथा सर्वं विन्यसेत् साधनान्तरम् ॥ 28.30 ॥
विश्वास-प्रस्तुतिः - 28.35
पाद्यद्रव्याणि चत्वारि सोदकानि प्रकल्पयेत्।
लवङ्गजातीतक्कोलद्रव्याण्याचमनीयके ॥ 28.35 ॥
मूलम् - 28.35
पाद्यद्रव्याणि चत्वारि सोदकानि प्रकल्पयेत्।
लवङ्गजातीतक्कोलद्रव्याण्याचमनीयके ॥ 28.35 ॥
विश्वास-प्रस्तुतिः - 28.37
पाद्यपात्रादिकेष्वेवं ब्रूयात् सुरमुने क्रमात्।
गन्धतोयेन संपूर्य पात्राण्येतानि सर्वशः ॥ 28.37 ॥
मूलम् - 28.37
पाद्यपात्रादिकेष्वेवं ब्रूयात् सुरमुने क्रमात्।
गन्धतोयेन संपूर्य पात्राण्येतानि सर्वशः ॥ 28.37 ॥
विश्वास-प्रस्तुतिः - 28.38
अर्घ्यात् किंचित् समुद्धृत्य जलं पात्रान्तरेण तु ।
देवस्य दक्षिणे पाणौ मूलमन्त्रेण विन्यसेत् ॥ 28.38 ॥
मूलम् - 28.38
अर्घ्यात् किंचित् समुद्धृत्य जलं पात्रान्तरेण तु ।
देवस्य दक्षिणे पाणौ मूलमन्त्रेण विन्यसेत् ॥ 28.38 ॥
विश्वास-प्रस्तुतिः - 28.39
पुष्पं दत्त्वाथ पाद्येन पादौ देवस्य सेचयेत्।
वस्त्रेण मार्जयित्वाथ दद्यादाचमनीयकम् ॥ 28.39 ॥
मूलम् - 28.39
पुष्पं दत्त्वाथ पाद्येन पादौ देवस्य सेचयेत्।
वस्त्रेण मार्जयित्वाथ दद्यादाचमनीयकम् ॥ 28.39 ॥
विश्वास-प्रस्तुतिः - 28.40
अर्ध्यादिदत्तशिष्टानि16 क्षिपेत् पात्रान्तरे तदा।
चन्दनं माल्यदानं च धूपं दीपं दिशेत् ततः ॥ 28.40 ॥
मूलम् - 28.40
अर्ध्यादिदत्तशिष्टानि16 क्षिपेत् पात्रान्तरे तदा।
चन्दनं माल्यदानं च धूपं दीपं दिशेत् ततः ॥ 28.40 ॥
विश्वास-प्रस्तुतिः - 28.41
पुनराचमनीयं च मुखवासमतः परम्।
ताम्बूलं च निवेद्याथ प्रणम्यात्मनिवेदनम् ॥ 28.41 ॥
मूलम् - 28.41
पुनराचमनीयं च मुखवासमतः परम्।
ताम्बूलं च निवेद्याथ प्रणम्यात्मनिवेदनम् ॥ 28.41 ॥
विश्वास-प्रस्तुतिः - 28.42
विधाय स्नानपीठं तु गन्धपुष्पादिनार्चयेत्।
विज्ञाप्य 17पादुके दत्त्वा देवे 18स्नानासनं गते ॥ 28.42 ॥
मूलम् - 28.42
विधाय स्नानपीठं तु गन्धपुष्पादिनार्चयेत्।
विज्ञाप्य 17पादुके दत्त्वा देवे 18स्नानासनं गते ॥ 28.42 ॥
विश्वास-प्रस्तुतिः - 28.43
वस्त्र भूषणमाल्यानि व्यपनीय ततः परम्।
स्नानार्थं शाटिकां दद्यात् पाद्यमाचमनीयकम् ॥ 28.43 ॥
मूलम् - 28.43
वस्त्र भूषणमाल्यानि व्यपनीय ततः परम्।
स्नानार्थं शाटिकां दद्यात् पाद्यमाचमनीयकम् ॥ 28.43 ॥
जिह्वानिर्लेखनं चैव 19मुखशोधमथो दिशेत् ॥ 28.44 ॥
20पुनराचमनीयं च तथादर्शोपदर्शनम्।
पुनस्ताम्बूलदानं च तैलाभ्यङ्गमतः परम् ॥ 28.45 ॥
विश्वास-प्रस्तुतिः - 28.46
उद्वर्तनविधानं च दानमामलकस्य च।
तोयदानं ततः कुर्यात् कङ्कतप्लोतमेव च ॥ 28.46 ॥
मूलम् - 28.46
उद्वर्तनविधानं च दानमामलकस्य च।
तोयदानं ततः कुर्यात् कङ्कतप्लोतमेव च ॥ 28.46 ॥
विश्वास-प्रस्तुतिः - 28.48
वस्त्रोत्तरीयके दद्यादुपवीतं तथैव च।
पाद्याचमनके कुर्याद् विचित्रं चन्दनं तथा ॥ 28.48 ॥
मूलम् - 28.48
वस्त्रोत्तरीयके दद्यादुपवीतं तथैव च।
पाद्याचमनके कुर्याद् विचित्रं चन्दनं तथा ॥ 28.48 ॥
विश्वास-प्रस्तुतिः - 28.49
गन्धं पुष्पं तथा धूपं दीपमाचमनं तथा।
तृत्तवादित्रगीतादिसर्वमङ्गलसंयुतम् ॥ 28.49 ॥
मूलम् - 28.49
गन्धं पुष्पं तथा धूपं दीपमाचमनं तथा।
तृत्तवादित्रगीतादिसर्वमङ्गलसंयुतम् ॥ 28.49 ॥
विश्वास-प्रस्तुतिः - 28.50
अभिषेकं ततः कुर्यान्नीराजनविधिं ततः।
प्लोतवस्त्रोत्तरीये च उपवीतमतः परम् ॥ 28.50 ॥
मूलम् - 28.50
अभिषेकं ततः कुर्यान्नीराजनविधिं ततः।
प्लोतवस्त्रोत्तरीये च उपवीतमतः परम् ॥ 28.50 ॥
विश्वास-प्रस्तुतिः - 28.52
विज्ञाप्य पादुके दत्त्वा देवे विष्टरमाश्रिते।
अर्घ्यादीन्यथ पात्राणि पूर्ववत् कल्पयेत् ततः ॥ 28.52 ॥
मूलम् - 28.52
विज्ञाप्य पादुके दत्त्वा देवे विष्टरमाश्रिते।
अर्घ्यादीन्यथ पात्राणि पूर्ववत् कल्पयेत् ततः ॥ 28.52 ॥
विश्वास-प्रस्तुतिः - 28.54
ततश्चित्राणि वासांसि प्रयच्छेद् भूषणानि च।
यज्ञोपवीतदानं च तत आचमनीयकम् ॥ 28.54 ॥
मूलम् - 28.54
ततश्चित्राणि वासांसि प्रयच्छेद् भूषणानि च।
यज्ञोपवीतदानं च तत आचमनीयकम् ॥ 28.54 ॥
विश्वास-प्रस्तुतिः - 28.55
गन्धपुष्पप्रदानं चाप्यादर्शस्य प्रदर्शनम्।
धूपदीपौ तथा दद्यात् पुनराचमनीयकम् ॥ 28.55 ॥
मूलम् - 28.55
गन्धपुष्पप्रदानं चाप्यादर्शस्य प्रदर्शनम्।
धूपदीपौ तथा दद्यात् पुनराचमनीयकम् ॥ 28.55 ॥
विश्वास-प्रस्तुतिः - 28.56
ततः स्तोत्रं जपेच्छत्रचामराणां प्रदर्शनम्।
दर्शनं वाहनानां च ततः शङ्खरवं तथा ॥ 28.56 ॥
मूलम् - 28.56
ततः स्तोत्रं जपेच्छत्रचामराणां प्रदर्शनम्।
दर्शनं वाहनानां च ततः शङ्खरवं तथा ॥ 28.56 ॥
विश्वास-प्रस्तुतिः - 28.57
वीणाकाहलभेर्यादिनिनादश्रावणं तथा।
नृत्तवादित्रगीताद्यैरर्चयेन्मन्त्रतस्ततः ॥ 28.57 ॥
मूलम् - 28.57
वीणाकाहलभेर्यादिनिनादश्रावणं तथा।
नृत्तवादित्रगीताद्यैरर्चयेन्मन्त्रतस्ततः ॥ 28.57 ॥
विश्वास-प्रस्तुतिः - 28.58
मूलमन्त्रेण दद्यात्तु पुष्पं देवाय देशिकः ।
पुष्पाञ्जलिं प्रतिदिशं प्रदक्षिणपुरः सरम् ॥ 28.58 ॥
मूलम् - 28.58
मूलमन्त्रेण दद्यात्तु पुष्पं देवाय देशिकः ।
पुष्पाञ्जलिं प्रतिदिशं प्रदक्षिणपुरः सरम् ॥ 28.58 ॥
विश्वास-प्रस्तुतिः - 28.59
दत्त्वा पुनः प्रणम्याथ स्तोत्रैर्देवं स्तुवीत वै।
स्वमात्मानं भगवते किंकरत्वाय वेदयेत् ॥ 28.59 ।
मूलम् - 28.59
दत्त्वा पुनः प्रणम्याथ स्तोत्रैर्देवं स्तुवीत वै।
स्वमात्मानं भगवते किंकरत्वाय वेदयेत् ॥ 28.59 ।
विश्वास-प्रस्तुतिः - 28.60
ततो ध्यात्वा जपेन्मन्त्रं यथाशक्ति समाहितः।
आचार्यं गन्धपुष्पाद्यैः समभ्यर्च्य मुने ततः॥ 28.60 ॥
मूलम् - 28.60
ततो ध्यात्वा जपेन्मन्त्रं यथाशक्ति समाहितः।
आचार्यं गन्धपुष्पाद्यैः समभ्यर्च्य मुने ततः॥ 28.60 ॥
विश्वास-प्रस्तुतिः - 28.61
सर्वभोगैस्तु संपूर्णान् मन्त्रांस्तस्मै निवेदयेत्।
मुखवासं ततो दद्यात् ताम्बूलं चार्घ्यमेव च ॥ 28.61 ॥
मूलम् - 28.61
सर्वभोगैस्तु संपूर्णान् मन्त्रांस्तस्मै निवेदयेत्।
मुखवासं ततो दद्यात् ताम्बूलं चार्घ्यमेव च ॥ 28.61 ॥
विश्वास-प्रस्तुतिः - 28.62
भोज्यासनमथाभ्यर्च्य देवं विज्ञाप्य पादुके।
दद्यात् तत्रोपविष्टेऽस्मिन् पाद्यमाचमनं ततः ॥ 28.62 ॥
मूलम् - 28.62
भोज्यासनमथाभ्यर्च्य देवं विज्ञाप्य पादुके।
दद्यात् तत्रोपविष्टेऽस्मिन् पाद्यमाचमनं ततः ॥ 28.62 ॥
विश्वास-प्रस्तुतिः - 28.63
अर्हणं च ततः कृत्वा दध्याज्यक्षीरमाक्षिकान्।
गन्धं च पात्रे निक्षिप्य शोषणादिकमाचरेत् ॥ 28.63 ॥
मूलम् - 28.63
अर्हणं च ततः कृत्वा दध्याज्यक्षीरमाक्षिकान्।
गन्धं च पात्रे निक्षिप्य शोषणादिकमाचरेत् ॥ 28.63 ॥
विश्वास-प्रस्तुतिः - 28.64
संप्रोक्ष्यार्घ्यजलेनैव मधुपर्कमथो दिशेत्।
ततो दद्यात् सुवर्णं च गां च रत्नानि पूजकः ॥ 28.64 ॥
मूलम् - 28.64
संप्रोक्ष्यार्घ्यजलेनैव मधुपर्कमथो दिशेत्।
ततो दद्यात् सुवर्णं च गां च रत्नानि पूजकः ॥ 28.64 ॥
विश्वास-प्रस्तुतिः - 28.66
यानि कालोपपन्नानि शुचीनि गुणवन्ति च।
स्वादिष्ठानि प्रभूतानि हृद्यान्यन्यानि यानि च ॥ 28.66 ॥
मूलम् - 28.66
यानि कालोपपन्नानि शुचीनि गुणवन्ति च।
स्वादिष्ठानि प्रभूतानि हृद्यान्यन्यानि यानि च ॥ 28.66 ॥
विश्वास-प्रस्तुतिः - 28.67
विशोध्य शोषणाद्यैस्तु संप्रोक्ष्यार्घ्यजलेन तु।
विधाय रक्षामस्त्रेण हविरर्हणपूर्वकम् ॥ 28.67 ॥
मूलम् - 28.67
विशोध्य शोषणाद्यैस्तु संप्रोक्ष्यार्घ्यजलेन तु।
विधाय रक्षामस्त्रेण हविरर्हणपूर्वकम् ॥ 28.67 ॥
विश्वास-प्रस्तुतिः - 28.68
मुद्रां तु सुरभिं कृत्वा देवायैतन्निवेदयेत्।
अनुवासं ततो दद्याद् दर्पणं च ततः परम् ॥ 28.68 ॥
मूलम् - 28.68
मुद्रां तु सुरभिं कृत्वा देवायैतन्निवेदयेत्।
अनुवासं ततो दद्याद् दर्पणं च ततः परम् ॥ 28.68 ॥
विश्वास-प्रस्तुतिः - 28.69
दद्यादाचमनीयं च हस्तमार्जनचन्दनम्।
मुखवासं च ताम्बूलं प्रदायास्मै प्रणम्य च ॥ 28.69 ॥
मूलम् - 28.69
दद्यादाचमनीयं च हस्तमार्जनचन्दनम्।
मुखवासं च ताम्बूलं प्रदायास्मै प्रणम्य च ॥ 28.69 ॥
विश्वास-प्रस्तुतिः - 28.70
अथ मन्त्रासनं न्यस्य कूर्चेन परिमृज्य च।
गन्धपुष्पादिनाभ्यर्च्य दद्याद् विज्ञाप्य पादुके ॥ 28.70 ॥
मूलम् - 28.70
अथ मन्त्रासनं न्यस्य कूर्चेन परिमृज्य च।
गन्धपुष्पादिनाभ्यर्च्य दद्याद् विज्ञाप्य पादुके ॥ 28.70 ॥
विश्वास-प्रस्तुतिः - 28.71
तथाधिरूढे देवेशे माल्यादिकमपोह्य तु।
पाद्याचमनके 21दत्त्वा ततो धूपं निवेदयेत्॥ 28.71 ॥
मूलम् - 28.71
तथाधिरूढे देवेशे माल्यादिकमपोह्य तु।
पाद्याचमनके 21दत्त्वा ततो धूपं निवेदयेत्॥ 28.71 ॥
स्वादिष्ठानि फलान्यस्मै दद्यात् ताम्बूलमेव च।
22गीतवादित्रनृत्ताद्यैर्देवमभ्यर्चयेत् ततः ॥ 28.72 ॥
प्रदक्षिणं विधायास्मै प्रणमेद् दण्डवत् ततः।
षष्ठं पर्यङ्कासनम्
अथ पर्यङ्कमभ्यर्च्य देवं विज्ञापयेत् ततः ॥ 28.73 ॥
विश्वास-प्रस्तुतिः - 28.74
ततः 23पादूप्रदानेन देवे पर्यङ्कमास्थिते।
पाद्यमाचमनीयं च पुनर्दत्त्वा समाहितः ॥ 28.74 ॥
मूलम् - 28.74
ततः 23पादूप्रदानेन देवे पर्यङ्कमास्थिते।
पाद्यमाचमनीयं च पुनर्दत्त्वा समाहितः ॥ 28.74 ॥
विश्वास-प्रस्तुतिः - 28.75
माल्यभूषणकादीनि व्यपनीय 24महामते।
शयनोचितमाल्यानि 25भूषणान्यंशुकानि च ॥ 28.75 ॥
विश्वास-प्रस्तुतिः - 28.76
सुखस्पर्शानि 26चान्यानि दद्याद्यज्ञोपवीतकम्।
दद्यादाचमनीयं च गन्धं पुष्पमथो दिशेत् ॥ 28.76 ॥
मूलम् - 28.76
सुखस्पर्शानि 26चान्यानि दद्याद्यज्ञोपवीतकम्।
दद्यादाचमनीयं च गन्धं पुष्पमथो दिशेत् ॥ 28.76 ॥
विश्वास-प्रस्तुतिः - 28.77
मुखवासं च ताम्बूलं दत्त्वा स्तोत्रैः स्तुवीत तम्27।
अष्टाङ्गेन प्रणामेन प्रणम्य शरणं व्रजेत् ॥ 28.77 ॥
मूलम् - 28.77
मुखवासं च ताम्बूलं दत्त्वा स्तोत्रैः स्तुवीत तम्27।
अष्टाङ्गेन प्रणामेन प्रणम्य शरणं व्रजेत् ॥ 28.77 ॥
विश्वास-प्रस्तुतिः - 28.78
प्रदक्षिणसमेतेन देवं योगासनस्थितम्।
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ॥ 28.78 ॥
मूलम् - 28.78
प्रदक्षिणसमेतेन देवं योगासनस्थितम्।
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ॥ 28.78 ॥
विश्वास-प्रस्तुतिः - 28.80
क्षन्तुमर्हसि तत् सर्वं दास्येन च गृहाण माम्।
एवमाराधनं कुर्यादुभयत्र मुखे 28हरिम् ॥ 28.80 ॥
मूलम् - 28.80
क्षन्तुमर्हसि तत् सर्वं दास्येन च गृहाण माम्।
एवमाराधनं कुर्यादुभयत्र मुखे 28हरिम् ॥ 28.80 ॥
विश्वास-प्रस्तुतिः - 28.85
मन्त्राणामस्त्रशस्त्राणां स्वैः स्वैर्नामभिरर्चनम्।
नमोऽन्तैरुपचारैश्च कुर्यात् षोडशभिः क्रमात् ॥ 28.85 ॥
मूलम् - 28.85
मन्त्राणामस्त्रशस्त्राणां स्वैः स्वैर्नामभिरर्चनम्।
नमोऽन्तैरुपचारैश्च कुर्यात् षोडशभिः क्रमात् ॥ 28.85 ॥
-
एवम् B C; एनम् E F ↩︎
-
ओमर्घ्यं कल्पयामीति जपेत् स्पृष्ट्वार्घ्यमादितः A B C E F ↩︎
-
तीर्थं D ↩︎
-
D omits two lines from here ↩︎
-
देवमुक्तप्रकारैश्च D ↩︎
-
ध्यायेत् तदन्तिके शुद्धे D
भगवत्प्रार्थना
अर्चयामि त्वदीयोऽहं त्वद्दत्तैरौपचारिकैः ॥ 28.20 ॥
सांस्पर्शिकैरिति ब्रूयाद् 4देवमाभ्यवहारिकैः।
भूतशुद्धिक्रमः
संहरेद् देहतत्त्वानि प्रतिसंचरवर्त्मना ॥ 28.21 ॥ ↩︎ -
मुखशोधनमादिशेत् B C ↩︎
-
पुनराचमनं चैव A B C E F ↩︎
-
A B C E F omit two lines from here ↩︎