२७

धारकयन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥

वृत्तानुवादपूर्वकं धारकयन्त्रविषयकः प्रश्नः
नारदः—

विश्वास-प्रस्तुतिः - 27.1

कथितो यन्त्रराजस्य देवदेवस्य विस्तरः।
स्वरूपं साधनं चास्य प्रकारश्च फलं तथा ॥ 27.1 ॥

मूलम् - 27.1

कथितो यन्त्रराजस्य देवदेवस्य विस्तरः।
स्वरूपं साधनं चास्य प्रकारश्च फलं तथा ॥ 27.1 ॥

विश्वास-प्रस्तुतिः - 27.2

अद्येदं श्रोतुमिच्छामि भगवन् परमेश्वर।
एतदत्यद्भूतं दिव्यं ध्रियते 1केन भूषणम् ॥ 27.2 ॥

मूलम् - 27.2

अद्येदं श्रोतुमिच्छामि भगवन् परमेश्वर।
एतदत्यद्भूतं दिव्यं ध्रियते 1केन भूषणम् ॥ 27.2 ॥

विश्वास-प्रस्तुतिः - 27.3

न चास्य 2धारणे शक्तिं कस्यचित् कलयाम्यहम्।
अतिशक्तितयास्येमं संशयं छेत्तुमर्हसि ॥ 27.3 ॥

मूलम् - 27.3

न चास्य 2धारणे शक्तिं कस्यचित् कलयाम्यहम्।
अतिशक्तितयास्येमं संशयं छेत्तुमर्हसि ॥ 27.3 ॥

तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः—-

विश्वास-प्रस्तुतिः - 27.4

सत्यं न केनचिद्धर्तुं पार्यते तन्महाद्युति।
ऋते यन्त्रान्तरादस्माद्3 देवर्षे शक्तिशालिनः ॥ 27.4 ॥

मूलम् - 27.4

सत्यं न केनचिद्धर्तुं पार्यते तन्महाद्युति।
ऋते यन्त्रान्तरादस्माद्3 देवर्षे शक्तिशालिनः ॥ 27.4 ॥

श्रृणु तस्य मुनिश्रेष्ठ स्वरूपं [^4]वीर्यमद्य वै।
विश्वास-प्रस्तुतिः - 27.10

कार्कोटकं चाम्बुजं च लिखेदुत्तरतो मुने।
तस्य मध्ये महाज्वालामालावर्तविराजितम् ॥ 27.10 ॥

मूलम् - 27.10

कार्कोटकं चाम्बुजं च लिखेदुत्तरतो मुने।
तस्य मध्ये महाज्वालामालावर्तविराजितम् ॥ 27.10 ॥

विश्वास-प्रस्तुतिः - 27.14

द्वाभ्यां द्वाभ्यां तु वर्णाभ्यामरेषु नवसु क्रमात्।
दशमे हनशब्दं तु विन्यसेदरकेऽस्य वै ॥ 27.14 ॥

मूलम् - 27.14

द्वाभ्यां द्वाभ्यां तु वर्णाभ्यामरेषु नवसु क्रमात्।
दशमे हनशब्दं तु विन्यसेदरकेऽस्य वै ॥ 27.14 ॥

चक्रमध्ये अष्टदलपद्मलेखनम्
विश्वास-प्रस्तुतिः - 27.15

चक्रमध्ये न्यसेत् पद्मं दलैरष्टभिरन्वितम्।
कर्णिकाघटितं रम्यं केसरैरुपशोभितम् ॥ 27.15 ॥

मूलम् - 27.15

चक्रमध्ये न्यसेत् पद्मं दलैरष्टभिरन्वितम्।
कर्णिकाघटितं रम्यं केसरैरुपशोभितम् ॥ 27.15 ॥

कर्णिकायां प्रणवन्यासः तत्कर्णिकायां विलिखेत् तारं संसारतारकम्। तत्रैवाभीष्टर्थसाध्यनाम्नोर्विलेखनम् अभीष्टमर्थं साध्यस्य नामधेयमतः परम् ॥ 27.16 ॥ एवंभूतेन धारकयन्त्रेण सकलार्थसिद्धिः
विश्वास-प्रस्तुतिः - 27.17

तदेतत् परमं दिव्यं मङ्गलानां च मङ्गलम्।
पवित्राणां पवित्रं च 8चोरपीडानिवारणम् ॥ 27.17 ॥

मूलम् - 27.17

तदेतत् परमं दिव्यं मङ्गलानां च मङ्गलम्।
पवित्राणां पवित्रं च 8चोरपीडानिवारणम् ॥ 27.17 ॥

सर्वार्थसाधकं घोरं [^10]विश्ववन्द्यमनुत्तमम्। यन्त्रेणानेनेन्द्रस्य शत्रुजयप्राप्तिः पुरा देवेषु दैतेयैरभिभूतेषु वासवः ॥ 27.18 ॥ [^11]बृहस्पतिं समाहूय प्रोवाचेदं वचस्तदा। बाधन्ते नितरामस्मानिमे दैतेयदानवाः ॥ 27.19 ॥
विश्वास-प्रस्तुतिः - 27.20

केनोपायेन भगवन् विजेष्यामो महासुरान्।
बलहानिः कथं वैषां भविता भगवन् वद ॥ 27.20 ॥

मूलम् - 27.20

केनोपायेन भगवन् विजेष्यामो महासुरान्।
बलहानिः कथं वैषां भविता भगवन् वद ॥ 27.20 ॥

एवं मघवता प्रोक्तः प्रोवाचेदं बृहस्पतिः। [^12]सौदर्शननृसिंहस्य यन्त्रस्य करणादिह ॥ 27.21 ॥
विश्वास-प्रस्तुतिः - 27.22

नश्यन्ति शत्रवः सर्वे सुराणां बलसूदन।
इत्युक्त्वा स्थापयामास यन्त्रं मघवतः पुरे ॥ 27.22 ॥

मूलम् - 27.22

नश्यन्ति शत्रवः सर्वे सुराणां बलसूदन।
इत्युक्त्वा स्थापयामास यन्त्रं मघवतः पुरे ॥ 27.22 ॥

विश्वास-प्रस्तुतिः - 27.23

मणिविद्रुममुक्ताढ्यं सौवर्णममितप्रभम्।
ततः प्रभृति दैतेया नष्टश्रीका हतत्विषः ॥ 27.23 ॥

मूलम् - 27.23

मणिविद्रुममुक्ताढ्यं सौवर्णममितप्रभम्।
ततः प्रभृति दैतेया नष्टश्रीका हतत्विषः ॥ 27.23 ॥

विश्वास-प्रस्तुतिः - 27.24

पराजिता विद्रवन्ति दिशो नष्टनिकेतनाः ।
तदेतदतिवीर्यं तु यन्त्रं सुरसुपूजितम् ॥ 27.24 ॥

मूलम् - 27.24

पराजिता विद्रवन्ति दिशो नष्टनिकेतनाः ।
तदेतदतिवीर्यं तु यन्त्रं सुरसुपूजितम् ॥ 27.24 ॥

विश्वास-प्रस्तुतिः - 27.25

तदेतेनैव यन्त्रेण यन्त्रं सौदर्शनं परम्।
धार्यते तत् सुरमुने विचित्रं विष्टरात्मना ॥ 27.25 ॥

मूलम् - 27.25

तदेतेनैव यन्त्रेण यन्त्रं सौदर्शनं परम्।
धार्यते तत् सुरमुने विचित्रं विष्टरात्मना ॥ 27.25 ॥

विश्वास-प्रस्तुतिः - 27.26

यन्त्रमेतन्मयाख्यातमेवं माहासुदर्शनम्।
धृतं यन्त्रेण वीर्यात्तु सुदर्शननृसिंहयोः ॥ 27.26 ॥

मूलम् - 27.26

यन्त्रमेतन्मयाख्यातमेवं माहासुदर्शनम्।
धृतं यन्त्रेण वीर्यात्तु सुदर्शननृसिंहयोः ॥ 27.26 ॥

राजन्वद्देशस्यैव यथोक्तयन्त्रभरणक्षमत्वम्
विश्वास-प्रस्तुतिः - 27.27

एतस्य तु विशिष्टस्य भरणे सैव भूः क्षमा।
यस्याः पालयिता राजा धार्मिको दृढविक्रमः ॥ 27.27 ॥

मूलम् - 27.27

एतस्य तु विशिष्टस्य भरणे सैव भूः क्षमा।
यस्याः पालयिता राजा धार्मिको दृढविक्रमः ॥ 27.27 ॥

देवद्विजगुरुप्राज्ञपूजकः परमास्तिकः। राज्ञो नित्यमेतदभ्यर्चनविधिः एतदभ्यर्चयेद्राजा चक्राकारमतन्द्रितः ॥ 27.28 ॥ पुरुषाकारमपि वा तथैवोभयतोमुखम्। एतन्मन्त्रप्रदातुर्विशेषतः पूज्यत्वम् [^13]एतन्मन्त्रप्रदातारं विशिष्टं पूजयेद् बुधः ॥ 27.29 ॥ एतन्मन्त्रविधिना कर्षणादिप्रतिष्ठान्तकर्मविधिः
विश्वास-प्रस्तुतिः - 27.30

कर्षणादीनि कर्माणि प्रतिष्ठान्तान्यमुष्य तु।
एतन्मन्त्रोक्तमार्गेण कारयेन्नृपतिः स्वयम् ॥ 27.30 ॥

मूलम् - 27.30

कर्षणादीनि कर्माणि प्रतिष्ठान्तान्यमुष्य तु।
एतन्मन्त्रोक्तमार्गेण कारयेन्नृपतिः स्वयम् ॥ 27.30 ॥

विश्वास-प्रस्तुतिः - 27.31

सात्त्वतादिषु तन्त्रेषु विहितेनैव चाध्वना।
सुदर्शनस्य मन्त्रस्य नारसिंहस्य वा मुने ॥ 27.31 ॥

मूलम् - 27.31

सात्त्वतादिषु तन्त्रेषु विहितेनैव चाध्वना।
सुदर्शनस्य मन्त्रस्य नारसिंहस्य वा मुने ॥ 27.31 ॥

विश्वास-प्रस्तुतिः - 27.32

कल्पप्रयुक्ता विधयः सर्वे चैतस्य संनिधौ।
भवन्ति सकलाश्चैतत्प्रभावेण प्रयोजिताः ॥ 27.32 ॥

मूलम् - 27.32

कल्पप्रयुक्ता विधयः सर्वे चैतस्य संनिधौ।
भवन्ति सकलाश्चैतत्प्रभावेण प्रयोजिताः ॥ 27.32 ॥

तस्माद्यथोक्तमार्गेण प्रतिष्ठाप्यैतदर्चयेत्। राज्ञामेतदर्चनेन राज्यादिलाभः राजा राज्यं [^14]जयं भूतिमायुरारोग्यमाप्नुयात् ॥ 33 ॥ नित्यमर्चयतः फलविशेषः नित्यमर्चयतो राज्ञः सप्तद्वीपवती मही। [^15]समुद्रवसना चैषा विश्वा वश्या भविष्यति ॥ 27.34 ॥ होमार्थं प्रासादकुण्डयोर्निर्माणम् [^16]प्रासादं लक्षणोपेतं विधाय परमासनम्। तत्रैव कारयेत् कुण्डं मन्त्रस्यास्य यथाविधि ॥ 27.35 ॥ साधकेन तत्र होमादिनिर्वर्तनम्
विश्वास-प्रस्तुतिः - 27.36

भूपतेर्यानि कर्माणि 9साधयंस्तानि साधकः।
मन्त्रेणानेन जुहुयादस्मिन् कुण्डे समाहितः ॥ 27.36 ॥

मूलम् - 27.36

भूपतेर्यानि कर्माणि 9साधयंस्तानि साधकः।
मन्त्रेणानेन जुहुयादस्मिन् कुण्डे समाहितः ॥ 27.36 ॥

वैकल्पिकप्रदेशान्तरविधिः

विश्वास-प्रस्तुतिः - 27.37

अनेनैव तु मन्त्रेण राज्ञो रक्षाविधिर्यदि।
विष्णोरायतने रम्ये 10मण्डपे मण्डितेऽथवा ॥ 27.37 ॥

मूलम् - 27.37

अनेनैव तु मन्त्रेण राज्ञो रक्षाविधिर्यदि।
विष्णोरायतने रम्ये 10मण्डपे मण्डितेऽथवा ॥ 27.37 ॥

कृत्वैतत् कुण्डमत्रैव राजाभ्यर्च्य महाधनैः। [^19]एतन्मन्त्रप्रदातारं स्वकर्माण्येव कारयेत् ॥ 27.38 ॥ पुनर्यन्त्रार्चनफलविशेषकथनम्
विश्वास-प्रस्तुतिः - 27.39

अनेन [^20]कृतकृत्यस्तु राजा राज्यमवाप्नुयात्।
नीरोगो निःसपत्नश्च दीर्घायुश्च भविष्यति ॥ 27.39 ॥

मूलम् - 27.39

अनेन [^20]कृतकृत्यस्तु राजा राज्यमवाप्नुयात्।
नीरोगो निःसपत्नश्च दीर्घायुश्च भविष्यति ॥ 27.39 ॥

विश्वास-प्रस्तुतिः - 27.40

नागैरनेकसाहस्रैरसंख्येयैश्च वाजिभिः।
स्यन्दनैर्नरवर्यैश्च पूर्णा तस्य पुरी भवेत् ॥ 27.40 ॥

मूलम् - 27.40

नागैरनेकसाहस्रैरसंख्येयैश्च वाजिभिः।
स्यन्दनैर्नरवर्यैश्च पूर्णा तस्य पुरी भवेत् ॥ 27.40 ॥

[^21]यश्चैनमर्चयेद्राजा यन्त्रराजमनुत्तमम्। सर्वमन्त्रविशिष्टत्वादर्चितास्तेन[^22] देवताः ॥ 27.41 ॥
विश्वास-प्रस्तुतिः - 27.42

यदर्थं योऽर्चयेदेनमात्मार्थे यतते परम्।
सर्वेषामेव भूतानां राज्ञश्च कुरुते हितम् ॥ 27.42 ॥

मूलम् - 27.42

यदर्थं योऽर्चयेदेनमात्मार्थे यतते परम्।
सर्वेषामेव भूतानां राज्ञश्च कुरुते हितम् ॥ 27.42 ॥

अस्मिन् मन्त्रे यन्त्रे च राज्ञामेवाधिकारः
विश्वास-प्रस्तुतिः - 27.43

अयं मन्त्रश्च यन्त्रं राज्ञामेव विधीयते।
सर्वसाधारणार्थानि मन्त्रजातानि नारद ॥ 27.43 ॥

मूलम् - 27.43

अयं मन्त्रश्च यन्त्रं राज्ञामेव विधीयते।
सर्वसाधारणार्थानि मन्त्रजातानि नारद ॥ 27.43 ॥

विश्वास-प्रस्तुतिः - 27.44

एतदभ्यर्चनपरा मन्त्रिणो यस्य भूपतेः।
अभिरक्षन्ति राजानमरिष्ठमुखतोऽपि ते ॥ 27.44 ॥

मूलम् - 27.44

एतदभ्यर्चनपरा मन्त्रिणो यस्य भूपतेः।
अभिरक्षन्ति राजानमरिष्ठमुखतोऽपि ते ॥ 27.44 ॥

एतत्प्रणामादीनामपि तत्तत्फलसाधनत्वम्

एतत्प्रणामेन समर्चनेन
संकीर्तनेन स्मरणेन वाऽपि।
संतोषयेत् संततमस्य सर्वं
मनीषितं हस्तगतं प्रपश्येत् ॥ 27.45 ॥

अध्यायार्थनिगमनम्
इति निगदितमेतद्यन्त्ररूपं समन्त्रं
सकलदुरितभेदव्यापृतं संश्रितानाम्।
तदिह कृतविधेयो भूपतिः पूर्णकामो
भुवनतलमशेषं प्राप्नुयाच्चक्रवर्ती ॥ 27.46 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां धारकयन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः
आदितः श्लोकाः 1611
————-******—————


  1. येन A B C E F ↩︎ ↩︎

  2. भरणे D E F ↩︎ ↩︎

  3. तस्मात् B C E F ↩︎ ↩︎

  4. वा सुधात्मकम् D ↩︎

  5. वज्रलाञ्छन A B C ↩︎

  6. वार्यमाणम् D ↩︎

  7. लिखेन्नाभौ तक्षकं महाम्बुजम् D
    मध्ये वह्निमण्डलकल्पना
    कोणषट्कयुतं वह्निमण्डलं बीजसंयुतम्।
    तन्मध्ये वायुमण्डलविन्यासः
    समालिख्य च तन्मध्ये वायव्यं मण्कडलं लिखेत् ॥ 27.11 ॥
    वर्तुलं बिन्दुसंयुक्तं तद्बीजेन समन्वितम्।
    तन्मध्ये दशारचक्रलेखनम्
    तन्मध्ये चक्रमतुलं प्रोज्ज्वलन्नेमिमण्डलम् ॥ 27.12 ॥
    अरैर्दशभिराकीर्णं विन्यसेदरिमर्दनम्।
    अरेषु सुदर्शननारसिंहमन्त्रन्यासः
    मन्त्रं सौदर्शनस्यास्य नारसिंहस्य विन्यसेत् ॥ 27.13 ॥ ↩︎

  8. चोरव्याधि D ↩︎ ↩︎

  9. साधयंस्तत्र A B C; साधयंस्तस्य E.F ↩︎ ↩︎

  10. मण्डले D ↩︎ ↩︎