धारकयन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि ॥
वृत्तानुवादपूर्वकं धारकयन्त्रविषयकः प्रश्नः
नारदः—
विश्वास-प्रस्तुतिः - 27.1
कथितो यन्त्रराजस्य देवदेवस्य विस्तरः।
स्वरूपं साधनं चास्य प्रकारश्च फलं तथा ॥ 27.1 ॥
मूलम् - 27.1
कथितो यन्त्रराजस्य देवदेवस्य विस्तरः।
स्वरूपं साधनं चास्य प्रकारश्च फलं तथा ॥ 27.1 ॥
विश्वास-प्रस्तुतिः - 27.2
अद्येदं श्रोतुमिच्छामि भगवन् परमेश्वर।
एतदत्यद्भूतं दिव्यं ध्रियते 1केन भूषणम् ॥ 27.2 ॥
मूलम् - 27.2
अद्येदं श्रोतुमिच्छामि भगवन् परमेश्वर।
एतदत्यद्भूतं दिव्यं ध्रियते 1केन भूषणम् ॥ 27.2 ॥
विश्वास-प्रस्तुतिः - 27.3
न चास्य 2धारणे शक्तिं कस्यचित् कलयाम्यहम्।
अतिशक्तितयास्येमं संशयं छेत्तुमर्हसि ॥ 27.3 ॥
मूलम् - 27.3
न चास्य 2धारणे शक्तिं कस्यचित् कलयाम्यहम्।
अतिशक्तितयास्येमं संशयं छेत्तुमर्हसि ॥ 27.3 ॥
तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः—-
विश्वास-प्रस्तुतिः - 27.4
सत्यं न केनचिद्धर्तुं पार्यते तन्महाद्युति।
ऋते यन्त्रान्तरादस्माद्3 देवर्षे शक्तिशालिनः ॥ 27.4 ॥
मूलम् - 27.4
सत्यं न केनचिद्धर्तुं पार्यते तन्महाद्युति।
ऋते यन्त्रान्तरादस्माद्3 देवर्षे शक्तिशालिनः ॥ 27.4 ॥
विश्वास-प्रस्तुतिः - 27.10
कार्कोटकं चाम्बुजं च लिखेदुत्तरतो मुने।
तस्य मध्ये महाज्वालामालावर्तविराजितम् ॥ 27.10 ॥
मूलम् - 27.10
कार्कोटकं चाम्बुजं च लिखेदुत्तरतो मुने।
तस्य मध्ये महाज्वालामालावर्तविराजितम् ॥ 27.10 ॥
विश्वास-प्रस्तुतिः - 27.14
द्वाभ्यां द्वाभ्यां तु वर्णाभ्यामरेषु नवसु क्रमात्।
दशमे हनशब्दं तु विन्यसेदरकेऽस्य वै ॥ 27.14 ॥
मूलम् - 27.14
द्वाभ्यां द्वाभ्यां तु वर्णाभ्यामरेषु नवसु क्रमात्।
दशमे हनशब्दं तु विन्यसेदरकेऽस्य वै ॥ 27.14 ॥
विश्वास-प्रस्तुतिः - 27.15
चक्रमध्ये न्यसेत् पद्मं दलैरष्टभिरन्वितम्।
कर्णिकाघटितं रम्यं केसरैरुपशोभितम् ॥ 27.15 ॥
मूलम् - 27.15
चक्रमध्ये न्यसेत् पद्मं दलैरष्टभिरन्वितम्।
कर्णिकाघटितं रम्यं केसरैरुपशोभितम् ॥ 27.15 ॥
विश्वास-प्रस्तुतिः - 27.17
तदेतत् परमं दिव्यं मङ्गलानां च मङ्गलम्।
पवित्राणां पवित्रं च 8चोरपीडानिवारणम् ॥ 27.17 ॥
मूलम् - 27.17
तदेतत् परमं दिव्यं मङ्गलानां च मङ्गलम्।
पवित्राणां पवित्रं च 8चोरपीडानिवारणम् ॥ 27.17 ॥
विश्वास-प्रस्तुतिः - 27.20
केनोपायेन भगवन् विजेष्यामो महासुरान्।
बलहानिः कथं वैषां भविता भगवन् वद ॥ 27.20 ॥
मूलम् - 27.20
केनोपायेन भगवन् विजेष्यामो महासुरान्।
बलहानिः कथं वैषां भविता भगवन् वद ॥ 27.20 ॥
विश्वास-प्रस्तुतिः - 27.22
नश्यन्ति शत्रवः सर्वे सुराणां बलसूदन।
इत्युक्त्वा स्थापयामास यन्त्रं मघवतः पुरे ॥ 27.22 ॥
मूलम् - 27.22
नश्यन्ति शत्रवः सर्वे सुराणां बलसूदन।
इत्युक्त्वा स्थापयामास यन्त्रं मघवतः पुरे ॥ 27.22 ॥
विश्वास-प्रस्तुतिः - 27.23
मणिविद्रुममुक्ताढ्यं सौवर्णममितप्रभम्।
ततः प्रभृति दैतेया नष्टश्रीका हतत्विषः ॥ 27.23 ॥
मूलम् - 27.23
मणिविद्रुममुक्ताढ्यं सौवर्णममितप्रभम्।
ततः प्रभृति दैतेया नष्टश्रीका हतत्विषः ॥ 27.23 ॥
विश्वास-प्रस्तुतिः - 27.24
पराजिता विद्रवन्ति दिशो नष्टनिकेतनाः ।
तदेतदतिवीर्यं तु यन्त्रं सुरसुपूजितम् ॥ 27.24 ॥
मूलम् - 27.24
पराजिता विद्रवन्ति दिशो नष्टनिकेतनाः ।
तदेतदतिवीर्यं तु यन्त्रं सुरसुपूजितम् ॥ 27.24 ॥
विश्वास-प्रस्तुतिः - 27.25
तदेतेनैव यन्त्रेण यन्त्रं सौदर्शनं परम्।
धार्यते तत् सुरमुने विचित्रं विष्टरात्मना ॥ 27.25 ॥
मूलम् - 27.25
तदेतेनैव यन्त्रेण यन्त्रं सौदर्शनं परम्।
धार्यते तत् सुरमुने विचित्रं विष्टरात्मना ॥ 27.25 ॥
विश्वास-प्रस्तुतिः - 27.26
यन्त्रमेतन्मयाख्यातमेवं माहासुदर्शनम्।
धृतं यन्त्रेण वीर्यात्तु सुदर्शननृसिंहयोः ॥ 27.26 ॥
मूलम् - 27.26
यन्त्रमेतन्मयाख्यातमेवं माहासुदर्शनम्।
धृतं यन्त्रेण वीर्यात्तु सुदर्शननृसिंहयोः ॥ 27.26 ॥
विश्वास-प्रस्तुतिः - 27.27
एतस्य तु विशिष्टस्य भरणे सैव भूः क्षमा।
यस्याः पालयिता राजा धार्मिको दृढविक्रमः ॥ 27.27 ॥
मूलम् - 27.27
एतस्य तु विशिष्टस्य भरणे सैव भूः क्षमा।
यस्याः पालयिता राजा धार्मिको दृढविक्रमः ॥ 27.27 ॥
विश्वास-प्रस्तुतिः - 27.30
कर्षणादीनि कर्माणि प्रतिष्ठान्तान्यमुष्य तु।
एतन्मन्त्रोक्तमार्गेण कारयेन्नृपतिः स्वयम् ॥ 27.30 ॥
मूलम् - 27.30
कर्षणादीनि कर्माणि प्रतिष्ठान्तान्यमुष्य तु।
एतन्मन्त्रोक्तमार्गेण कारयेन्नृपतिः स्वयम् ॥ 27.30 ॥
विश्वास-प्रस्तुतिः - 27.31
सात्त्वतादिषु तन्त्रेषु विहितेनैव चाध्वना।
सुदर्शनस्य मन्त्रस्य नारसिंहस्य वा मुने ॥ 27.31 ॥
मूलम् - 27.31
सात्त्वतादिषु तन्त्रेषु विहितेनैव चाध्वना।
सुदर्शनस्य मन्त्रस्य नारसिंहस्य वा मुने ॥ 27.31 ॥
विश्वास-प्रस्तुतिः - 27.32
कल्पप्रयुक्ता विधयः सर्वे चैतस्य संनिधौ।
भवन्ति सकलाश्चैतत्प्रभावेण प्रयोजिताः ॥ 27.32 ॥
मूलम् - 27.32
कल्पप्रयुक्ता विधयः सर्वे चैतस्य संनिधौ।
भवन्ति सकलाश्चैतत्प्रभावेण प्रयोजिताः ॥ 27.32 ॥
विश्वास-प्रस्तुतिः - 27.36
भूपतेर्यानि कर्माणि 9साधयंस्तानि साधकः।
मन्त्रेणानेन जुहुयादस्मिन् कुण्डे समाहितः ॥ 27.36 ॥
मूलम् - 27.36
भूपतेर्यानि कर्माणि 9साधयंस्तानि साधकः।
मन्त्रेणानेन जुहुयादस्मिन् कुण्डे समाहितः ॥ 27.36 ॥
वैकल्पिकप्रदेशान्तरविधिः
विश्वास-प्रस्तुतिः - 27.37
अनेनैव तु मन्त्रेण राज्ञो रक्षाविधिर्यदि।
विष्णोरायतने रम्ये 10मण्डपे मण्डितेऽथवा ॥ 27.37 ॥
मूलम् - 27.37
अनेनैव तु मन्त्रेण राज्ञो रक्षाविधिर्यदि।
विष्णोरायतने रम्ये 10मण्डपे मण्डितेऽथवा ॥ 27.37 ॥
विश्वास-प्रस्तुतिः - 27.39
अनेन [^20]कृतकृत्यस्तु राजा राज्यमवाप्नुयात्।
नीरोगो निःसपत्नश्च दीर्घायुश्च भविष्यति ॥ 27.39 ॥
मूलम् - 27.39
अनेन [^20]कृतकृत्यस्तु राजा राज्यमवाप्नुयात्।
नीरोगो निःसपत्नश्च दीर्घायुश्च भविष्यति ॥ 27.39 ॥
विश्वास-प्रस्तुतिः - 27.40
नागैरनेकसाहस्रैरसंख्येयैश्च वाजिभिः।
स्यन्दनैर्नरवर्यैश्च पूर्णा तस्य पुरी भवेत् ॥ 27.40 ॥
मूलम् - 27.40
नागैरनेकसाहस्रैरसंख्येयैश्च वाजिभिः।
स्यन्दनैर्नरवर्यैश्च पूर्णा तस्य पुरी भवेत् ॥ 27.40 ॥
विश्वास-प्रस्तुतिः - 27.42
यदर्थं योऽर्चयेदेनमात्मार्थे यतते परम्।
सर्वेषामेव भूतानां राज्ञश्च कुरुते हितम् ॥ 27.42 ॥
मूलम् - 27.42
यदर्थं योऽर्चयेदेनमात्मार्थे यतते परम्।
सर्वेषामेव भूतानां राज्ञश्च कुरुते हितम् ॥ 27.42 ॥
विश्वास-प्रस्तुतिः - 27.43
अयं मन्त्रश्च यन्त्रं राज्ञामेव विधीयते।
सर्वसाधारणार्थानि मन्त्रजातानि नारद ॥ 27.43 ॥
मूलम् - 27.43
अयं मन्त्रश्च यन्त्रं राज्ञामेव विधीयते।
सर्वसाधारणार्थानि मन्त्रजातानि नारद ॥ 27.43 ॥
विश्वास-प्रस्तुतिः - 27.44
एतदभ्यर्चनपरा मन्त्रिणो यस्य भूपतेः।
अभिरक्षन्ति राजानमरिष्ठमुखतोऽपि ते ॥ 27.44 ॥
मूलम् - 27.44
एतदभ्यर्चनपरा मन्त्रिणो यस्य भूपतेः।
अभिरक्षन्ति राजानमरिष्ठमुखतोऽपि ते ॥ 27.44 ॥
एतत्प्रणामेन समर्चनेन
संकीर्तनेन स्मरणेन वाऽपि।
संतोषयेत् संततमस्य सर्वं
मनीषितं हस्तगतं प्रपश्येत् ॥ 27.45 ॥
अध्यायार्थनिगमनम्
इति निगदितमेतद्यन्त्ररूपं समन्त्रं
सकलदुरितभेदव्यापृतं संश्रितानाम्।
तदिह कृतविधेयो भूपतिः पूर्णकामो
भुवनतलमशेषं प्राप्नुयाच्चक्रवर्ती ॥ 27.46 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां धारकयन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः
आदितः श्लोकाः 1611
————-******—————
-
वा सुधात्मकम् D ↩︎
-
वज्रलाञ्छन A B C ↩︎
-
वार्यमाणम् D ↩︎
-
लिखेन्नाभौ तक्षकं महाम्बुजम् D
मध्ये वह्निमण्डलकल्पना
कोणषट्कयुतं वह्निमण्डलं बीजसंयुतम्।
तन्मध्ये वायुमण्डलविन्यासः
समालिख्य च तन्मध्ये वायव्यं मण्कडलं लिखेत् ॥ 27.11 ॥
वर्तुलं बिन्दुसंयुक्तं तद्बीजेन समन्वितम्।
तन्मध्ये दशारचक्रलेखनम्
तन्मध्ये चक्रमतुलं प्रोज्ज्वलन्नेमिमण्डलम् ॥ 27.12 ॥
अरैर्दशभिराकीर्णं विन्यसेदरिमर्दनम्।
अरेषु सुदर्शननारसिंहमन्त्रन्यासः
मन्त्रं सौदर्शनस्यास्य नारसिंहस्य विन्यसेत् ॥ 27.13 ॥ ↩︎