२६

महासुदर्शनयन्त्रलक्षणं नाम षड्विंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघोघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

विस्तरेण महासुदर्शनयन्त्रलक्षणप्रश्नः

नारदः—

विश्वास-प्रस्तुतिः - 26.1

विस्तरेणास्य यन्त्रस्य संस्थानं लक्षणं तथा।
श्रोतुमिच्छामि भगवंस्तन्ममाचक्ष्व पृच्छतः ॥ 26.1 ॥

मूलम् - 26.1

विस्तरेणास्य यन्त्रस्य संस्थानं लक्षणं तथा।
श्रोतुमिच्छामि भगवंस्तन्ममाचक्ष्व पृच्छतः ॥ 26.1 ॥

तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः—

विश्वास-प्रस्तुतिः - 26.2

विस्तरेण प्रवक्ष्यामि स्वरूपं लक्षणं तथा।
अस्य यन्त्रस्य देवर्षे तन्मे कथयतः श्रृणु ॥ 26.2 ॥

मूलम् - 26.2

विस्तरेण प्रवक्ष्यामि स्वरूपं लक्षणं तथा।
अस्य यन्त्रस्य देवर्षे तन्मे कथयतः श्रृणु ॥ 26.2 ॥

यन्त्रनिर्माणद्रव्याणि
विश्वास-प्रस्तुतिः - 26.3

रजतेन सुवर्णेन लोहैर्वा शिलयापि वा।
यथाधिकारं यन्त्रस्य कुर्यादर्चां तु साधकः ॥ 26.3 ॥

मूलम् - 26.3

रजतेन सुवर्णेन लोहैर्वा शिलयापि वा।
यथाधिकारं यन्त्रस्य कुर्यादर्चां तु साधकः ॥ 26.3 ॥

यन्त्रलेखनसाधनद्रव्याणि
विश्वास-प्रस्तुतिः - 26.4

धातुचन्दनकर्पूरकुङ्कुमागुरुजै रसैः।
सुवर्णसूच्या यदि वा 1यन्त्रमेतल्लिखेत् पटे ॥ 26.4 ॥

मूलम् - 26.4

धातुचन्दनकर्पूरकुङ्कुमागुरुजै रसैः।
सुवर्णसूच्या यदि वा 1यन्त्रमेतल्लिखेत् पटे ॥ 26.4 ॥

विश्वास-प्रस्तुतिः - 26.5

चन्द्रमण्डलमध्ये तु तारं कुर्यात् समाहितः।
तस्य मध्ये 9लिखेद् देवं रक्तवर्णं सुदर्शनम् ॥ 26.5 ॥

मूलम् - 26.5

चन्द्रमण्डलमध्ये तु तारं कुर्यात् समाहितः।
तस्य मध्ये 9लिखेद् देवं रक्तवर्णं सुदर्शनम् ॥ 26.5 ॥

तत्स्वरूपवर्णनम्

विश्वास-प्रस्तुतिः - 26.6

पिङ्गाक्षं पिङ्गकेशाढ्यं रक्ताम्बरधरं विभुम्।
युक्तं षोडशभिर्हस्तैरष्टाभिर्वा महाद्युतिम् ॥ 26.6 ॥

मूलम् - 26.6

पिङ्गाक्षं पिङ्गकेशाढ्यं रक्ताम्बरधरं विभुम्।
युक्तं षोडशभिर्हस्तैरष्टाभिर्वा महाद्युतिम् ॥ 26.6 ॥

विश्वास-प्रस्तुतिः - 26.7

पाशाङ्कुशाब्जमुसलधनुः शङ्खगदारिभिः।
भीषणैरायुधवरैरुपेतं जयिनां वरम् ॥ 26.7 ॥

मूलम् - 26.7

पाशाङ्कुशाब्जमुसलधनुः शङ्खगदारिभिः।
भीषणैरायुधवरैरुपेतं जयिनां वरम् ॥ 26.7 ॥

विश्वास-प्रस्तुतिः - 26.8

तद्विष्णोः परमं रूपं नित्यं तैजसविग्रहम्।
दंष्ट्रानिष्ठ्यूतसप्तार्चिर्ज्वालापल्लविताननम् ॥ 26.8 ॥

मूलम् - 26.8

तद्विष्णोः परमं रूपं नित्यं तैजसविग्रहम्।
दंष्ट्रानिष्ठ्यूतसप्तार्चिर्ज्वालापल्लविताननम् ॥ 26.8 ॥

विश्वास-प्रस्तुतिः - 26.9

भूषणैर्भूषितं चित्रैर्भीषणं रोमहर्षणम्।
स्वतेजसा जगत् सर्वं पूरयन्तं महाबलम् ॥ 26.9 ॥

मूलम् - 26.9

भूषणैर्भूषितं चित्रैर्भीषणं रोमहर्षणम्।
स्वतेजसा जगत् सर्वं पूरयन्तं महाबलम् ॥ 26.9 ॥

विश्वास-प्रस्तुतिः - 26.10

निर्भिद्यमानदैतेयशोणिताशनलम्पटम्।
उद्यत्प्रद्योतनशतप्रख्यं विख्यातपौरुषम् ॥ 26.10 ॥

मूलम् - 26.10

निर्भिद्यमानदैतेयशोणिताशनलम्पटम्।
उद्यत्प्रद्योतनशतप्रख्यं विख्यातपौरुषम् ॥ 26.10 ॥

[^3]मनस्तत्त्वेन सततं संश्रितं वेगवत्तया। नारायणकराम्भोजसेवारसविशारदम् ॥ 26.11 ॥
विश्वास-प्रस्तुतिः - 26.12

जवेन विष्णुचिन्तायाः परमं मार्गदर्शिनम्।
स्मृत्यैव स्वानुरक्तानां दृष्टादृष्टार्थसाधनम् ॥ 26.12 ॥

मूलम् - 26.12

जवेन विष्णुचिन्तायाः परमं मार्गदर्शिनम्।
स्मृत्यैव स्वानुरक्तानां दृष्टादृष्टार्थसाधनम् ॥ 26.12 ॥

स्वभक्तप्रत्यनीकानां मारणं सुरपूजितम्।
विश्वास-प्रस्तुतिः - 26.14

भक्तारिभञ्जनपरं शरण्यं शरणार्थिनाम्।
नित्यनिः सीमनिर्दोषकल्याणगुणसागरम् ॥ 26.14 ॥

मूलम् - 26.14

भक्तारिभञ्जनपरं शरण्यं शरणार्थिनाम्।
नित्यनिः सीमनिर्दोषकल्याणगुणसागरम् ॥ 26.14 ॥

तत्पादप्रान्ते साधकनामलेखनम्
विश्वास-प्रस्तुतिः - 26.15

एवंभूतं समालिख्य सदानन्दं सुदर्शनम्।
तत्पादपद्मपर्यन्ते साधकं नाम विन्यसेत् ॥ 26.15 ॥

मूलम् - 26.15

एवंभूतं समालिख्य सदानन्दं सुदर्शनम्।
तत्पादपद्मपर्यन्ते साधकं नाम विन्यसेत् ॥ 26.15 ॥

ततः पर्यन्ते षट्कोणचक्रलेखनम्
विश्वास-प्रस्तुतिः - 26.16

इन्दुबिम्बस्य पर्यन्ते षट्कोणं चक्रमालिखेत्।
आग्नेयममितप्रख्यममोघं सर्वसाधकम्10 ॥ 26.16 ॥

मूलम् - 26.16

इन्दुबिम्बस्य पर्यन्ते षट्कोणं चक्रमालिखेत्।
आग्नेयममितप्रख्यममोघं सर्वसाधकम्10 ॥ 26.16 ॥

तत्र षडक्षरविन्यासः प्राच्यादिदिक्षु कोणेषु षड् वर्णान् विन्यसेन्मनोः। अङ्गमन्त्रन्यासः षट्सु कोणान्तरालेषु त्वङ्गमन्त्रान् न्यसेत् क्रमात् ॥ 26.17 ॥ ततश्चतुर्दलपद्मलेखनम् अस्माद्बहिस्तथा पद्मं चतुर्दलसमन्वितम्। तत्र न्यसनीया वर्णाः सबिन्दुवर्म फट् चास्य दलेष्वेषु क्रमान्न्यसेत् ॥ 26.18 ॥
विश्वास-प्रस्तुतिः - 26.24

द्वात्रिंशति दलेष्वस्य नारसिंहं क्रमाल्लिखेत्।
आनुष्टुभं महामन्त्रममोघं सर्वसाधकम् ॥ 26.24 ॥

मूलम् - 26.24

द्वात्रिंशति दलेष्वस्य नारसिंहं क्रमाल्लिखेत्।
आनुष्टुभं महामन्त्रममोघं सर्वसाधकम् ॥ 26.24 ॥

चतुः षष्टिदलपद्मलेखनम् तस्य बाह्ये लिखेत् पद्मं चतुः षष्टिदलैर्युतम्। तद्दलेषु पातालनारसिंहमन्त्रन्यासः पातालनारसिंहाख्यं [^8]नद्दलेषु न्यसेन्मनुम् ॥ 26.25 ॥ पुनरष्टदलपद्मलेखनम् पुनश्च पद्मं विन्यस्य दलैरष्टभिरावृतम्। तद्दलेष्वष्टाक्षरनारसिंहमन्त्रन्यासः अष्टाक्षरं नारसिंहं तद्दलेषु समालिखेत् ॥ 26.26 ॥ तद्वहिर्माहेन्द्रमण्डलकल्पनम्
विश्वास-प्रस्तुतिः - 26.27

तद्बाह्ये मण्डलं कुर्यान्माहेन्द्रं वज्रभूषितम्।
जाज्वल्यमानं स्वेनैव सर्वालंकारमण्डितम् ॥ 26.27 ॥

मूलम् - 26.27

तद्बाह्ये मण्डलं कुर्यान्माहेन्द्रं वज्रभूषितम्।
जाज्वल्यमानं स्वेनैव सर्वालंकारमण्डितम् ॥ 26.27 ॥

तद्बिहिः साधकनाम्ना सह तद्बीजन्यासः तस्य बाह्ये महादिक्षु प्रागादिषु यथाक्रमम्।
विश्वास-प्रस्तुतिः - 26.33

तप्तजाम्बूनदप्रख्यं पुण्डरीकायतेक्षणम्।
अपारकरुणं पद्मशङ्खचक्रगदाधरम् ॥ 26.33 ॥

मूलम् - 26.33

तप्तजाम्बूनदप्रख्यं पुण्डरीकायतेक्षणम्।
अपारकरुणं पद्मशङ्खचक्रगदाधरम् ॥ 26.33 ॥

विश्वास-प्रस्तुतिः - 26.34

पीताम्बरधरं देवं वनमालाविभूषितम्।
हारकेयूरकटककुण्डलैरुपशोभितम् ॥ 26.34 ॥

मूलम् - 26.34

पीताम्बरधरं देवं वनमालाविभूषितम्।
हारकेयूरकटककुण्डलैरुपशोभितम् ॥ 26.34 ॥

विश्वास-प्रस्तुतिः - 26.35

चतुर्बाहुमुदाराङ्गं प्रसन्नवदनं 11विभुम्।
प्रागादि विन्यसेद् देवं केशवं क्लेशनाशनम् ॥ 26.35 ॥

मूलम् - 26.35

चतुर्बाहुमुदाराङ्गं प्रसन्नवदनं 11विभुम्।
प्रागादि विन्यसेद् देवं केशवं क्लेशनाशनम् ॥ 26.35 ॥

नारायणस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 26.36

शङ्कपद्मगदाचक्रधरं नीलाम्बुदच्छविम्।
सर्वालंकारसंयुक्तं कुर्यान्नारायणं 12ततः ॥ 26.36 ॥

मूलम् - 26.36

शङ्कपद्मगदाचक्रधरं नीलाम्बुदच्छविम्।
सर्वालंकारसंयुक्तं कुर्यान्नारायणं 12ततः ॥ 26.36 ॥

माधवस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 26.37

पद्मकौमोदकीशङ्खचक्रधारिणमव्ययम्।
देवमिन्दीवरश्यामं माधवं भावयेत् ततः ॥ 26.37 ॥

मूलम् - 26.37

पद्मकौमोदकीशङ्खचक्रधारिणमव्ययम्।
देवमिन्दीवरश्यामं माधवं भावयेत् ततः ॥ 26.37 ॥

गोविन्दस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 26.38

चक्रकौमोदकीशङ्खपद्मायुधविराजितम्।
इन्दुबिम्बनिभं कुर्याद् गोविन्दममितौजसम् ॥ 26.38 ॥

मूलम् - 26.38

चक्रकौमोदकीशङ्खपद्मायुधविराजितम्।
इन्दुबिम्बनिभं कुर्याद् गोविन्दममितौजसम् ॥ 26.38 ॥

विष्णुस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 26.39

गदाब्जशङ्खचक्रास्त्रधरं परमभूषितम्।
विष्णु विश्वपतिं कुर्यात् पद्मकिञ्जल्कसंनिभम् ॥ 26.39 ॥

मूलम् - 26.39

गदाब्जशङ्खचक्रास्त्रधरं परमभूषितम्।
विष्णु विश्वपतिं कुर्यात् पद्मकिञ्जल्कसंनिभम् ॥ 26.39 ॥

विश्वास-प्रस्तुतिः - 26.40

चक्रशङ्खाम्बुजगदाधारिणं करुणानिधिम्।
रक्तपद्मदलप्रख्यं भावयेन्मधुसूदनम् ॥ 26.40 ॥

मूलम् - 26.40

चक्रशङ्खाम्बुजगदाधारिणं करुणानिधिम्।
रक्तपद्मदलप्रख्यं भावयेन्मधुसूदनम् ॥ 26.40 ॥

त्रिविक्रमस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 26.41

चक्रकौमोदकीपद्मशङ्खसेवितमीश्वरम्।
उज्ज्वलत्कनकप्रख्यं तं कुर्वीत त्रिविक्रमम् ॥ 26.41 ॥

मूलम् - 26.41

चक्रकौमोदकीपद्मशङ्खसेवितमीश्वरम्।
उज्ज्वलत्कनकप्रख्यं तं कुर्वीत त्रिविक्रमम् ॥ 26.41 ॥

वामनस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 26.42

शङ्खचक्रगदापद्मधरं परमभूषितम्।
तरुणादित्यसंकाशं वामनं भावयेत् ततः ॥ 26.42 ॥

मूलम् - 26.42

शङ्खचक्रगदापद्मधरं परमभूषितम्।
तरुणादित्यसंकाशं वामनं भावयेत् ततः ॥ 26.42 ॥

श्रीधरस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 26.43

पद्मचक्रगदाशङ्खधरं सद्गुणसागरम्।
पुण्डरीकनिभं देवं श्रीधरं परिकल्पयेत् ॥ 26.43 ॥

मूलम् - 26.43

पद्मचक्रगदाशङ्खधरं सद्गुणसागरम्।
पुण्डरीकनिभं देवं श्रीधरं परिकल्पयेत् ॥ 26.43 ॥

हृषीकेशस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 26.44

गदासुदर्शनयुते शङ्खपद्मे च बिभ्रतम्।
विद्युत्प्रभं हृषीकेशं कुर्वीत कमलेक्षणम् ॥ 26.44 ॥

मूलम् - 26.44

गदासुदर्शनयुते शङ्खपद्मे च बिभ्रतम्।
विद्युत्प्रभं हृषीकेशं कुर्वीत कमलेक्षणम् ॥ 26.44 ॥

पद्मनाभस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 26.45

शङ्खपद्मे गदाचक्रे तथा बिभ्राणमुज्ज्वलम्।
सहस्रादित्यसंकाशं पद्मनाभं तु कारयेत् ॥ 26.45 ॥

मूलम् - 26.45

शङ्खपद्मे गदाचक्रे तथा बिभ्राणमुज्ज्वलम्।
सहस्रादित्यसंकाशं पद्मनाभं तु कारयेत् ॥ 26.45 ॥

दामोदरस्वरूपवर्णनम्
विश्वास-प्रस्तुतिः - 26.46

पद्मशङ्खगदाचक्रधरं बन्धूकसंनिभम्।
भक्त्येकसुलभं देवं दामोदरमथ स्मरेत् ॥ 26.46 ॥

मूलम् - 26.46

पद्मशङ्खगदाचक्रधरं बन्धूकसंनिभम्।
भक्त्येकसुलभं देवं दामोदरमथ स्मरेत् ॥ 26.46 ॥

नमोऽन्तानां तत्तन्नाम्नामपि लेखनम्
विश्वास-प्रस्तुतिः - 26.47

एवं क्रमेण न्यस्यैतानेषां नामानि च न्यसेत्।
नमोऽन्तान्यमुक्तं रक्ष रक्षेति च समन्ततः ॥ 26.47 ॥

मूलम् - 26.47

एवं क्रमेण न्यस्यैतानेषां नामानि च न्यसेत्।
नमोऽन्तान्यमुक्तं रक्ष रक्षेति च समन्ततः ॥ 26.47 ॥

प्रागादिषु प्रादक्षिणयेन बीजाक्षरन्यासः
विश्वास-प्रस्तुतिः - 26.48

यं शं रं षं तथा लं सं वं हं चेति द्वयं द्वयम्।
प्राच्यादिषु महादिक्षु प्रादक्षिण्येन विन्यसेत् ॥ 26.48 ॥

मूलम् - 26.48

यं शं रं षं तथा लं सं वं हं चेति द्वयं द्वयम्।
प्राच्यादिषु महादिक्षु प्रादक्षिण्येन विन्यसेत् ॥ 26.48 ॥

ऐशान्यादिष्वप्रादक्षिण्येन बीजाक्षरन्यासः यं शं रं षं तथा लं सं वं हं चेति युगं युगम्। [^15]ऐशान्यादिषु कोणेषु विन्यसेदप्रदक्षिणम् ॥ 26.49 ॥ पुनः पाशाङ्कुशाभ्यां वेष्टनम्
विश्वास-प्रस्तुतिः - 26.50

पाशेन तु समावेष्ट्य 13अङ्कुशेनापि वेष्टयेत्।
सर्वमेतत् सबीजेन14 हृल्लेखमनुना वृतम् ॥ 26.50 ॥

मूलम् - 26.50

पाशेन तु समावेष्ट्य 13अङ्कुशेनापि वेष्टयेत्।
सर्वमेतत् सबीजेन14 हृल्लेखमनुना वृतम् ॥ 26.50 ॥

प्रागादिचतुर्दिक्षु विष्णुविन्यासस्तेषामायुधानि च
विश्वास-प्रस्तुतिः - 26.51

प्रागादिषु चतुर्दिक्षु विन्यसेद् विष्णुमव्ययम्।
चक्रकौमोदकीशार्ङ्गखड्गैर्युक्तं यथाक्रमम् ॥ 26.51 ॥

मूलम् - 26.51

प्रागादिषु चतुर्दिक्षु विन्यसेद् विष्णुमव्ययम्।
चक्रकौमोदकीशार्ङ्गखड्गैर्युक्तं यथाक्रमम् ॥ 26.51 ॥

साधारणौ च सर्वेषां सङ्खचक्रौ वरायुधौ।
विश्वास-प्रस्तुतिः - 26.54

दण्डं कुन्तं तथा शक्तिं पशमङ्कुशमेव च।
वज्रं तथैव परशुं तथा शतमुखानलम् ॥ 26.54 ॥

मूलम् - 26.54

दण्डं कुन्तं तथा शक्तिं पशमङ्कुशमेव च।
वज्रं तथैव परशुं तथा शतमुखानलम् ॥ 26.54 ॥

करेष्वमीषामेतानि विलिखेत्तु यथाक्रमम्। तत्तत्पार्श्वेषु तत्तत्परीवारलेखनम् प्रत्येकं परिवारांस्तु तेषां पार्श्वेषु विन्यसेत् ॥ 26.55 ॥ ततो भूमौ भूम्या सह पुरुषोत्तमस्मरणम् वराहरूपिणं देवं शङ्खचक्रगदाधरम्[^18]। भूमौ च सहितं भूम्या संस्मरेत् पुरुषोत्तमम् ॥ 26.[^56]॥ अम्बरे नरसिंहस्मरणम्
विश्वास-प्रस्तुतिः - 26.57

अम्बरे नारसिंहं तु चिन्तयेदमितौजसम्।
भीषणं घटितानेकभूषणं दारितासुरम् ॥ 26.57 ॥

मूलम् - 26.57

अम्बरे नारसिंहं तु चिन्तयेदमितौजसम्।
भीषणं घटितानेकभूषणं दारितासुरम् ॥ 26.57 ॥

विश्वास-प्रस्तुतिः - 26.58

प्राच्यां दिशि महाज्वालागतं चक्रं स्मरेद्बुधः।
दक्षिणस्यां दिशि तथा स्मरेज्ज्वालागतां गदाम्॥ 26.58 ॥

मूलम् - 26.58

प्राच्यां दिशि महाज्वालागतं चक्रं स्मरेद्बुधः।
दक्षिणस्यां दिशि तथा स्मरेज्ज्वालागतां गदाम्॥ 26.58 ॥

विश्वास-प्रस्तुतिः - 26.59

प्रतीच्यां शार्ङ्गमत्युग्रज्वालामध्यगतं स्मरेत्।
उत्तरस्यां दिशि तथा स्मरेत् खड्गं सुदारुणम् ॥ 26.59 ॥

मूलम् - 26.59

प्रतीच्यां शार्ङ्गमत्युग्रज्वालामध्यगतं स्मरेत्।
उत्तरस्यां दिशि तथा स्मरेत् खड्गं सुदारुणम् ॥ 26.59 ॥

अस्य यन्त्रस्यापराङ्गकल्पनाय मध्ये चतुर्विंशत्यरचक्रकल्पनम्
विश्वास-प्रस्तुतिः - 26.60

अपराङ्गेऽथ यन्त्रस्य मध्ये चक्राब्जसंस्थितम्।
चतुर्विंशत्यरं चक्रं सुनेमि रुचिराकृति ॥ 26.60 ॥

मूलम् - 26.60

अपराङ्गेऽथ यन्त्रस्य मध्ये चक्राब्जसंस्थितम्।
चतुर्विंशत्यरं चक्रं सुनेमि रुचिराकृति ॥ 26.60 ॥

तन्मध्ये द्वादशदलपद्मलेखनम् मध्येचक्रं न्यसेत् पद्मं युक्तं द्वादशभिर्दलैः। तत्कर्णिकायामाग्नेयमण्डलन्यासः चक्राब्जकर्णिकास्थाने न्यसेदाग्नेयमण्डलम् ॥ 26.61 ॥ तन्मध्ये योगनृसिंहलेखनम्
विश्वास-प्रस्तुतिः - 26.62

तन्मध्ये योगपट्टेन पिनद्धाङ्गं सनातनम्।
नारसिंहं चतुर्बाहुं चतुश्चक्रधरं परम् ॥ 26.62 ॥

मूलम् - 26.62

तन्मध्ये योगपट्टेन पिनद्धाङ्गं सनातनम्।
नारसिंहं चतुर्बाहुं चतुश्चक्रधरं परम् ॥ 26.62 ॥

विश्वास-प्रस्तुतिः - 26.63

समासीनमशोकस्य मूले कालानलद्युतिम्।
सर्वाभरणसंयुक्तं सर्वभक्तार्तिहारिणम्॥ 26.63 ॥

मूलम् - 26.63

समासीनमशोकस्य मूले कालानलद्युतिम्।
सर्वाभरणसंयुक्तं सर्वभक्तार्तिहारिणम्॥ 26.63 ॥

विश्वास-प्रस्तुतिः - 26.64

अपारसंख्यकल्याणगुणपूर्णमहार्णवम्।
भक्तानुकम्पिनं नित्यं सर्वलोकैकनायकम् ॥ 26.64 ॥

मूलम् - 26.64

अपारसंख्यकल्याणगुणपूर्णमहार्णवम्।
भक्तानुकम्पिनं नित्यं सर्वलोकैकनायकम् ॥ 26.64 ॥

तत्पादपर्यन्ते द्वयोस्तद्भृत्ययोर्विन्यासः
विश्वास-प्रस्तुतिः - 26.65

एवं विन्यस्य तत्पादपर्यन्ते 15विन्यसेदुभौ।
तदाज्ञाकारिणौ भीमौ नीलनीरदविग्रहौ ॥ 26.65 ॥

मूलम् - 26.65

एवं विन्यस्य तत्पादपर्यन्ते 15विन्यसेदुभौ।
तदाज्ञाकारिणौ भीमौ नीलनीरदविग्रहौ ॥ 26.65 ॥

विश्वास-प्रस्तुतिः - 26.66

उदग्रकायौ भीमाक्षौ भीमायुधधरौ वरौ।
दंष्ट्राकरालवदनौ 16विन्यसेद् वृत्तलोचनौ ॥ 26.66 ॥

मूलम् - 26.66

उदग्रकायौ भीमाक्षौ भीमायुधधरौ वरौ।
दंष्ट्राकरालवदनौ 16विन्यसेद् वृत्तलोचनौ ॥ 26.66 ॥

चक्रस्य प्रागादिष्वष्टशक्तिध्यानम्
विश्वास-प्रस्तुतिः - 26.67

चिन्तयेदथ चक्रस्य समन्तादष्ट योषितः।
ऊर्ध्वमाबद्धकेशाढ्यास्तच्छक्तीः प्राप्तयौवनाः ॥ 26.67 ॥

मूलम् - 26.67

चिन्तयेदथ चक्रस्य समन्तादष्ट योषितः।
ऊर्ध्वमाबद्धकेशाढ्यास्तच्छक्तीः प्राप्तयौवनाः ॥ 26.67 ॥

विश्वास-प्रस्तुतिः - 26.68

सर्वालंकारसंयुक्ता द्विभुजा माल्यधारिणीः।
प्राच्यां दिशि जयां देवीं 17पीतवर्णां विचिन्तयेत् ॥ 26.68 ॥

मूलम् - 26.68

सर्वालंकारसंयुक्ता द्विभुजा माल्यधारिणीः।
प्राच्यां दिशि जयां देवीं 17पीतवर्णां विचिन्तयेत् ॥ 26.68 ॥

विश्वास-प्रस्तुतिः - 26.69

आग्नेय्यां मोहिनीं देवीं श्यामलामायतेक्षणाम्।
याम्यामनुस्मरेद् देवीं विजयां कृष्णरूपिणीम् ॥ 26.69 ॥

मूलम् - 26.69

आग्नेय्यां मोहिनीं देवीं श्यामलामायतेक्षणाम्।
याम्यामनुस्मरेद् देवीं विजयां कृष्णरूपिणीम् ॥ 26.69 ॥

विश्वास-प्रस्तुतिः - 26.70

रक्तवर्णां तथा देवीं नैर्ऋत्यां ह्लादिनीं तथा।
अजितां पीतवर्णां तु प्रतीच्यां संस्मरेत् पराम्॥ 26.70 ॥

मूलम् - 26.70

रक्तवर्णां तथा देवीं नैर्ऋत्यां ह्लादिनीं तथा।
अजितां पीतवर्णां तु प्रतीच्यां संस्मरेत् पराम्॥ 26.70 ॥

विश्वास-प्रस्तुतिः - 26.71

वायव्यां दिशि मायां तु कृष्णवर्णां सनातनीम्।
उदीच्यां रक्तवर्णां तामाशायामपराजिताम् ॥ 26.71 ॥

मूलम् - 26.71

वायव्यां दिशि मायां तु कृष्णवर्णां सनातनीम्।
उदीच्यां रक्तवर्णां तामाशायामपराजिताम् ॥ 26.71 ॥

ऐशान्यां संस्मरेत् सिद्धिं धूम्रवर्णामतः परम्। यथोक्तलक्षणयन्त्रमहिमा एवमेतन्महायन्त्रं महापातकनाशनम् ॥ 26.72 ॥
विश्वास-प्रस्तुतिः - 26.73

आयुरारोग्यधनदं पुत्रमित्रकलत्रदम्।
सर्वविघ्नोपशमनं सर्वदुष्टनिवारणम् ॥ 26.73 ॥

मूलम् - 26.73

आयुरारोग्यधनदं पुत्रमित्रकलत्रदम्।
सर्वविघ्नोपशमनं सर्वदुष्टनिवारणम् ॥ 26.73 ॥

विश्वास-प्रस्तुतिः - 26.74

यो यदर्थी लिखेद्यन्त्रं तत् तदस्य प्रयचछति।
मणिविद्रुममुक्ताढ्यं कुर्याद् यन्त्रं हिरण्मयम् ॥ 26.74 ॥

मूलम् - 26.74

यो यदर्थी लिखेद्यन्त्रं तत् तदस्य प्रयचछति।
मणिविद्रुममुक्ताढ्यं कुर्याद् यन्त्रं हिरण्मयम् ॥ 26.74 ॥

राजा चेद्राज्यमाप्नोति निष्कण्टकमनामयम्। भूर्जपत्रलिखितस्यापि यन्त्रस्य सर्वफलसाधनता भूर्जपत्रे लिखित्वैतत् कुङ्कुमैश्चन्दनेन तु ॥ 26.75 ॥
विश्वास-प्रस्तुतिः - 26.76

यो मर्त्यः शिरसा धत्ते तस्य स्यात् सर्वमीप्सितम्।
पिशाचोरगरक्षांसि क्षिप्रं नश्यन्ति तस्य वै ॥ 26.76 ॥

मूलम् - 26.76

यो मर्त्यः शिरसा धत्ते तस्य स्यात् सर्वमीप्सितम्।
पिशाचोरगरक्षांसि क्षिप्रं नश्यन्ति तस्य वै ॥ 26.76 ॥

एतद्यन्त्रशिलाप्रतिष्ठाया मुक्तिसाधनत्वम्
विश्वास-प्रस्तुतिः - 26.77

शिलाप्रतिष्ठां यः कुर्यादेतस्य जगतीतले।
सर्वान् कामानिहावाप्य विष्णुसायुज्यमाप्नुयात् ॥ 26.77 ॥

मूलम् - 26.77

शिलाप्रतिष्ठां यः कुर्यादेतस्य जगतीतले।
सर्वान् कामानिहावाप्य विष्णुसायुज्यमाप्नुयात् ॥ 26.77 ॥

लोहादिभिर्यन्त्रप्रतिमानिर्माणफलम्
विश्वास-प्रस्तुतिः - 26.78

लोहैर्वा रजतेनाथ यः कुर्यात् प्रतिमां बुधः।
त्रिवर्गफलमाप्नोति निर्वाणमचिरात् पुनः ॥ 26.78 ॥

मूलम् - 26.78

लोहैर्वा रजतेनाथ यः कुर्यात् प्रतिमां बुधः।
त्रिवर्गफलमाप्नोति निर्वाणमचिरात् पुनः ॥ 26.78 ॥

कर्षणादिप्रतिष्ठान्तायतननिर्माणफलम्
विश्वास-प्रस्तुतिः - 26.79

कर्षणादि प्रतिष्ठान्तं कुर्यादायतनं च यः।
आप्नुवन्ति च तद्वंश्याः पुण्यलोकाननुत्तमान् ॥ 26.79 ॥

मूलम् - 26.79

कर्षणादि प्रतिष्ठान्तं कुर्यादायतनं च यः।
आप्नुवन्ति च तद्वंश्याः पुण्यलोकाननुत्तमान् ॥ 26.79 ॥

भयादिषु यन्त्रस्मरणए फलम्
विश्वास-प्रस्तुतिः - 26.80

भयागमे च संग्रामे वादे वा यः स्मरेदिदम्।
विजयस्तस्य हस्तस्थो नात्र कार्या विचारणा ॥ 26.80 ॥

मूलम् - 26.80

भयागमे च संग्रामे वादे वा यः स्मरेदिदम्।
विजयस्तस्य हस्तस्थो नात्र कार्या विचारणा ॥ 26.80 ॥

त्रिसंध्यं यन्त्रार्चनं मुक्तिसाधनम्
विश्वास-प्रस्तुतिः - 26.81

अर्चयेद्यस्त्रिसंध्यं वै यन्त्रमेतदनुत्तमम्।
तापत्रयविनिर्मुक्तो विष्णुलोके महीयते ॥ 26.81 ॥

मूलम् - 26.81

अर्चयेद्यस्त्रिसंध्यं वै यन्त्रमेतदनुत्तमम्।
तापत्रयविनिर्मुक्तो विष्णुलोके महीयते ॥ 26.81 ॥

रक्षाविधौ राज्ञां वैशेषिकविध्यारम्भः
विश्वास-प्रस्तुतिः - 26.82

राज्ञां रक्षाविधाने तु विशेषं श्रृणु नारद।
राज्यार्थी हृतराज्यो वा परिभूतोऽथवा नृपैः॥ 26.82 ॥

मूलम् - 26.82

राज्ञां रक्षाविधाने तु विशेषं श्रृणु नारद।
राज्यार्थी हृतराज्यो वा परिभूतोऽथवा नृपैः॥ 26.82 ॥

तत्र प्रथममाचार्यपूजाविधिः
विश्वास-प्रस्तुतिः - 26.83

सौदर्शनस्य यन्त्रस्य प्रदातारं गुरुं परम्।
सर्वेभ्यो ह्यधिकं मत्वा तमभ्यर्च्यं महाधनैः ॥ 26.83 ॥

मूलम् - 26.83

सौदर्शनस्य यन्त्रस्य प्रदातारं गुरुं परम्।
सर्वेभ्यो ह्यधिकं मत्वा तमभ्यर्च्यं महाधनैः ॥ 26.83 ॥

ततो भगवदाराधनविधिः
विश्वास-प्रस्तुतिः - 26.84

ततो नारायणं देवं पुण्डरीकायतेक्षणम्।
श्यामलं पीतवसनं सर्वाभरणभूषितम् ॥ 26.84 ॥

मूलम् - 26.84

ततो नारायणं देवं पुण्डरीकायतेक्षणम्।
श्यामलं पीतवसनं सर्वाभरणभूषितम् ॥ 26.84 ॥

आराधयेच्चतुर्बाहुमाचार्योक्तविधानतः। ततो यन्त्रनिर्माणम् तप्तजाम्बूनदमयं मणिविद्रुमचित्रितम् ॥ 26.85 ॥ सर्वालंकारसंयुक्तं कारयेद्यन्त्रमुत्तमम्।

यन्त्रनिर्माणस्य राज्यप्राप्तिहेतुत्वम्
एतत्करणमात्रेण राज्यमाप्नोत्यनामयम् ॥ 26.86 ॥
प्रतिष्ठापूर्वकार्चनस्य सप्तद्वीपान्तभूमिप्राप्तिहेतुत्वम्

विश्वास-प्रस्तुतिः - 26.87

प्रतिष्ठाप्यार्चयेदेतत् सादरं सर्वसिद्धिदम्।
ततो भूमिमवाप्नेति सप्तद्वीपां सपत्तनाम् ॥ 26.87 ॥

मूलम् - 26.87

प्रतिष्ठाप्यार्चयेदेतत् सादरं सर्वसिद्धिदम्।
ततो भूमिमवाप्नेति सप्तद्वीपां सपत्तनाम् ॥ 26.87 ॥

अन्ततस्त्रैलोक्यपालयितृत्वसिद्धिः
विश्वास-प्रस्तुतिः - 26.88

वश्या भवन्ति सततं सिद्धगन्धर्वदानवाः।
त्रैलोक्यराज्यमखिलं पालयत्यवनीतले ॥ 26.88 ॥

मूलम् - 26.88

वश्या भवन्ति सततं सिद्धगन्धर्वदानवाः।
त्रैलोक्यराज्यमखिलं पालयत्यवनीतले ॥ 26.88 ॥

परकृताभिचारपरावर्तनसिद्धिः
विश्वास-प्रस्तुतिः - 26.89

अभिचाराः परकृताश्चैनमप्राप्य 18भीषिताः।
प्रविशन्ति प्रयोक्तारमापगेवाचलाहता ॥ 26.89 ॥

मूलम् - 26.89

अभिचाराः परकृताश्चैनमप्राप्य 18भीषिताः।
प्रविशन्ति प्रयोक्तारमापगेवाचलाहता ॥ 26.89 ॥

अवग्रहादिपरिहारसिद्धिः
विश्वास-प्रस्तुतिः - 26.90

अवग्रहाश्च नश्यन्ति शत्रवो विद्रवन्ति च।
अपमृत्युमृगव्यालचोररोगादिभिर्भयम् ॥ 26.90 ॥

मूलम् - 26.90

अवग्रहाश्च नश्यन्ति शत्रवो विद्रवन्ति च।
अपमृत्युमृगव्यालचोररोगादिभिर्भयम् ॥ 26.90 ॥

न तस्य राज्ये भवति विद्यते तत्कुले बलम्। सर्वेषां स्वधर्मप्रवृत्तिसिद्धिः सर्वे स्वेष्वेव धर्मेषु प्रवर्तन्ते सदा मुने ॥ 26.91 ॥
विश्वास-प्रस्तुतिः - 26.92

पुरा दुर्वाससः शापाद्धृतराज्ये शचीपतौ।
एतत्प्रसादादखिलं पुनः प्राप त्रिविष्टपम् ॥ 26.92 ॥

मूलम् - 26.92

पुरा दुर्वाससः शापाद्धृतराज्ये शचीपतौ।
एतत्प्रसादादखिलं पुनः प्राप त्रिविष्टपम् ॥ 26.92 ॥

चतुर्मुखस्य भगवत्सकाशाद्यन्त्रप्राप्तिः एतत् पुरा महायन्त्रं ब्रह्मणे प्रोक्तवान् हरिः। चतुर्मुखेन विश्वकर्मणा यन्त्रविमानयोर्निर्मापणम् ब्रह्मा च विश्वकर्माणमाहूयैतदकारयत् ॥ 26.93 ॥ विमानं च तदारभ्य देवगन्धर्वदानवाः। तदा प्रभृति यन्त्रस्यैव रक्षासाधनत्वम्
विश्वास-प्रस्तुतिः - 26.94

अनेन रक्षणविधिं चक्रुः पूर्वे नृपास्तथा।
तस्माद्राज्ञां च सर्वेषामेष रक्षाविधिः परः ॥ 26.94 ॥

मूलम् - 26.94

अनेन रक्षणविधिं चक्रुः पूर्वे नृपास्तथा।
तस्माद्राज्ञां च सर्वेषामेष रक्षाविधिः परः ॥ 26.94 ॥

अध्यायार्थनिगमनम् अभिनवदिननाथप्रोज्ज्वलद्बिम्बतुल्यं कमलभवमुखाद्यैः संश्रितं देवबृन्दैः। परिगतमपि भूतैः पञ्चभिः सेव्यमानं प्रकृतिमहदहंकारैः स्मरेद्यन्त्रराजम् ॥ 26.95 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां महासुदर्शनयन्त्रलक्षणं नाम षड्विंशोऽध्यायः
आदितः श्लोकाः 1565
————-******—————–


  1. यन्त्रं तत् कारयेत् पटे D
    यन्त्रमध्ये सौदर्शनपुरुषलेखनम् ↩︎ ↩︎

  2. संस्तूयमानमनिशम् D ↩︎

  3. पत्रगम् B C E F
    मन्त्रमानुष्टुभं 4सम्यग्वाराहं विलिखेत् परम् ॥ 26.23 ॥
    दलेषु नारसिंहानुष्टुभमन्त्रवर्णन्यासः ↩︎

  4. स्याद्वै वाराहम् A E F;सत्त्वैर्वाराहम् B C ↩︎

  5. समायुतम् D ↩︎

  6. परितोऽन्ययुगम् A B D F ↩︎

  7. लिखेन् A B C E F ↩︎

  8. पाशेन वेष्ट्येत् A B C E F
    केशवस्वरूपवर्णनम् ↩︎

  9. न्यसेद्देवम् D ↩︎ ↩︎

  10. घातकम् A D
    अन्तरालेष्वन्तः स्थवर्णविन्यासः
    दलान्तरालेष्वन्तः स्थान् विन्यसेत् साधकस्तथा।
    ततः षोडशकेसराष्टदलपद्मलेखनम्
    बाह्यो तत्राष्टपत्राब्जमन्तः षोडशकेसरम् ॥ 26.19 ॥
    केसरेषु षोडशस्वरविन्यासः
    केसरेषु क्रमादस्य विलिखेत् षोडश स्वरान्।
    दलेष्वष्टाक्षरमन्त्रन्यासः
    अष्टाक्षरं महामन्त्रं दलेष्वस्य समालिखेत् ॥ 26.20 ॥
    द्वात्रिंशत्केसरषोडशदलपद्मलेखनम्
    द्वात्रिंशत्केसरं चास्य बहिः षोडशपत्रकम्3
    केसरेषु कादिसान्तवर्णविन्यासः
    ककारादि सकारान्तं केसरेष्वस्य चालिखेत् ॥ 26.21 ॥
    दलेषु षोडशार्णमन्त्रवर्णन्यासः
    दलेष्वस्य लिखेन्मन्त्रं षोडशार्णं तु वैष्णवम्।
    द्वात्रिंशत्केसरदलपद्मलेखनम्
    द्वात्रिंशत्केसरदलं बाह्ये तस्य समालिखेत् ॥ 26.22 ॥
    केसरेषु वाराहानुष्टुभमन्त्रवर्णन्यासः
    केसरेष्वस्य पद्मस्य प्राच्यादिषु यथाक्रमम्। ↩︎ ↩︎

  11. परम् A B C E F ↩︎ ↩︎

  12. परम् A B C E F
    मधुसूदनस्वरूपवर्णनम् ↩︎ ↩︎

  13. अङ्कुशेन तु A B C E F ↩︎ ↩︎

  14. सजीवेन A B C E F
    आग्नेयादिकोणेषु हृषीकेशन्यासः
    आग्नेयादिषु कोणेषु हृषीकेशं ततो न्यसेत् ॥ 26.52 ॥
    तेषामायुधविशेषाः
    शङ्खं हलं च मुसलं शूलं चैतेषु धारयेत्।
    कोणान्तरालेष्वष्टसु जनार्दनविन्यासः
    विकोणेष्वष्टसु तथा जनार्दनमथो न्यसेत् ॥ 26.53 ॥
    तेषामायुधविशेषाः ↩︎ ↩︎

  15. चिन्तयेदुभौ A B C E F ↩︎ ↩︎

  16. विन्यस्यौ D ↩︎ ↩︎

  17. सितवर्णाम् A D E F ↩︎ ↩︎

  18. दीपिताः D
    दुर्वाससा सप्तस्येन्द्रस्य यन्त्रेणानेन पुनः स्वपदप्राप्तिः ↩︎ ↩︎