सुदर्शनयन्त्रवैभववर्णनं नाम पञ्चविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
यन्त्रवैभवं प्रदर्शयितुमुक्तार्थानुवादः
नारदः—
विश्वास-प्रस्तुतिः - 25.1
भगवन् सम्यगाख्यातं विस्तरेण 1यथातथम्।
यत्कारणं यदाधारं यत्प्रमाणमिदं जगत् ॥ 25.1 ॥
मूलम् - 25.1
भगवन् सम्यगाख्यातं विस्तरेण 1यथातथम्।
यत्कारणं यदाधारं यत्प्रमाणमिदं जगत् ॥ 25.1 ॥
विश्वास-प्रस्तुतिः - 25.2
तथा धर्मार्थकामानां स्वरूपं 2साधनं तथा।
परविद्या तथा विद्या तथा चाध्यात्मसंज्ञिता ॥ 25.2 ॥
मूलम् - 25.2
तथा धर्मार्थकामानां स्वरूपं 2साधनं तथा।
परविद्या तथा विद्या तथा चाध्यात्मसंज्ञिता ॥ 25.2 ॥
विश्वास-प्रस्तुतिः - 25.3
मुक्तिश्च परमा प्रोक्ता बन्धस्तत्साधनं3 तथा।
वर्णाश्रमविभागश्च तद्धर्माश्च विशेषतः ॥ 25.3 ॥
मूलम् - 25.3
मुक्तिश्च परमा प्रोक्ता बन्धस्तत्साधनं3 तथा।
वर्णाश्रमविभागश्च तद्धर्माश्च विशेषतः ॥ 25.3 ॥
विश्वास-प्रस्तुतिः - 25.4
सर्वेषामेव वर्णानां राज्ञां रक्षाविधिस्तथा।
राज्ञां तु रक्षणविधिर्दिव्योऽयं वर्णितस्तथा ॥ 25.4 ॥
मूलम् - 25.4
सर्वेषामेव वर्णानां राज्ञां रक्षाविधिस्तथा।
राज्ञां तु रक्षणविधिर्दिव्योऽयं वर्णितस्तथा ॥ 25.4 ॥
विश्वास-प्रस्तुतिः - 25.6
न सर्वे स्वेषु धर्मेषु करिष्यन्ति मतिं कलौ।
शक्तयः सर्वमन्त्राणां प्रयास्यन्ति तिरस्कृतिम्॥ 25.6 ॥
मूलम् - 25.6
न सर्वे स्वेषु धर्मेषु करिष्यन्ति मतिं कलौ।
शक्तयः सर्वमन्त्राणां प्रयास्यन्ति तिरस्कृतिम्॥ 25.6 ॥
विश्वास-प्रस्तुतिः - 25.7
निर्वीर्याश्च भविष्यन्ति राजानः सत्त्ववर्जिताः।
निर्धना हृतराज्याश्च दस्युभिः परिपीडिताः ॥ 25.7 ॥
मूलम् - 25.7
निर्वीर्याश्च भविष्यन्ति राजानः सत्त्ववर्जिताः।
निर्धना हृतराज्याश्च दस्युभिः परिपीडिताः ॥ 25.7 ॥
विश्वास-प्रस्तुतिः - 25.8
अल्पक्षीरा भविष्यन्ति गावः प्राप्ते कलौ युगे।
प्रजाः क्षुधार्ताश्च 5कलाववग्रहनिपीडिताः ॥ 25.8 ॥
मूलम् - 25.8
अल्पक्षीरा भविष्यन्ति गावः प्राप्ते कलौ युगे।
प्रजाः क्षुधार्ताश्च 5कलाववग्रहनिपीडिताः ॥ 25.8 ॥
विश्वास-प्रस्तुतिः - 25.9
पाषण्डधर्मनिरता भगवन्तं जनार्दनम्।
निन्दनादीन् करिष्यन्ति तमः प्राया ह्यवेदिनः ॥ 25.9 ॥
मूलम् - 25.9
पाषण्डधर्मनिरता भगवन्तं जनार्दनम्।
निन्दनादीन् करिष्यन्ति तमः प्राया ह्यवेदिनः ॥ 25.9 ॥
तादृशे कलौ राज्ञां रक्षाविध्युपायप्रश्नः
विश्वास-प्रस्तुतिः - 25.10
इत्थं दोषास्पदे काले राज्ञां रक्षाविधिः कथम्।
संपत्स्यते शक्तिहीनैर्द्विजैः सत्त्वविवर्जितैः ॥ 25.10 ॥
मूलम् - 25.10
इत्थं दोषास्पदे काले राज्ञां रक्षाविधिः कथम्।
संपत्स्यते शक्तिहीनैर्द्विजैः सत्त्वविवर्जितैः ॥ 25.10 ॥
विश्वास-प्रस्तुतिः - 25.11
येनोपायेन रक्षा स्यात्तं6 मे ब्रूहि सुनिश्चितम्।
सर्वज्ञ त्वदृते वक्तुं कः शक्नोति महेश्वर ॥ 25.11 ॥
मूलम् - 25.11
येनोपायेन रक्षा स्यात्तं6 मे ब्रूहि सुनिश्चितम्।
सर्वज्ञ त्वदृते वक्तुं कः शक्नोति महेश्वर ॥ 25.11 ॥
तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः——-
विश्वास-प्रस्तुतिः - 25.12
साधु साधु यदेतत् त्वं पृष्टवानसि नारद।
सत्यमेतत् कलौ रक्षाविधिर्मन्त्रैर्न युज्यते ॥ 25.12 ॥
मूलम् - 25.12
साधु साधु यदेतत् त्वं पृष्टवानसि नारद।
सत्यमेतत् कलौ रक्षाविधिर्मन्त्रैर्न युज्यते ॥ 25.12 ॥
स्वकृतपितामहशिरश्छेदमहापापप्रशमाय नारायणात् सुदर्शनयन्त्रप्राप्तिकथनम्
मम नारायणेनोक्तं पुण्ये बदरिकाश्रमे ॥ 25.14 ॥
विश्वास-प्रस्तुतिः - 25.15
पितामहशिरश्छेदमहापातकशान्तये।
सर्वबाधाप्रशमनं सर्वदुःखनिवारणम् ॥ 25.15 ॥
मूलम् - 25.15
पितामहशिरश्छेदमहापातकशान्तये।
सर्वबाधाप्रशमनं सर्वदुःखनिवारणम् ॥ 25.15 ॥
तन्महिमसंक्षेपः
विश्वास-प्रस्तुतिः - 25.16
सर्वसिद्धिप्रदं सर्वसंपदामेककारणम्।
पराभिचारशमनं परराज्यप्रदं [^26]शुभम् ॥ 25.16 ॥
मूलम् - 25.16
सर्वसिद्धिप्रदं सर्वसंपदामेककारणम्।
पराभिचारशमनं परराज्यप्रदं [^26]शुभम् ॥ 25.16 ॥
विश्वास-प्रस्तुतिः - 25.18
दस्यवो नष्टविषया विद्रवन्ति दिशो दश।
यन्त्रं यस्य गृहे न्यस्तं तस्य सर्वं प्रसिध्यति॥ 25.18 ॥
मूलम् - 25.18
दस्यवो नष्टविषया विद्रवन्ति दिशो दश।
यन्त्रं यस्य गृहे न्यस्तं तस्य सर्वं प्रसिध्यति॥ 25.18 ॥
विश्वास-प्रस्तुतिः - 25.19
यो राजा यन्त्रमेतत्तु सादरं कारयेद् गृहे।
तस्य भूमण्डलं सर्वं भवेद् वश्यं न संशयः ॥ 25.19 ॥
मूलम् - 25.19
यो राजा यन्त्रमेतत्तु सादरं कारयेद् गृहे।
तस्य भूमण्डलं सर्वं भवेद् वश्यं न संशयः ॥ 25.19 ॥
विश्वास-प्रस्तुतिः - 25.21
यः कारयति तस्यान्यो लोको वश्यो भवेदपि।
एतल्लेखनमात्रेण सर्वं [^28]संपद्यते नृणाम् ॥ 25.21 ॥
मूलम् - 25.21
यः कारयति तस्यान्यो लोको वश्यो भवेदपि।
एतल्लेखनमात्रेण सर्वं [^28]संपद्यते नृणाम् ॥ 25.21 ॥
विश्वास-प्रस्तुतिः - 25.22
विष्णुपञ्जरयन्त्रस्य करणेनैव देवताः।
सर्वाः प्रसीदन्ति सदा किं पुनर्मनुजादयः7 ॥ 25.22 ॥
मूलम् - 25.22
विष्णुपञ्जरयन्त्रस्य करणेनैव देवताः।
सर्वाः प्रसीदन्ति सदा किं पुनर्मनुजादयः7 ॥ 25.22 ॥
विश्वास-प्रस्तुतिः - 25.23
एषां त्रयाणां यन्त्राणां समाहारफलं मया।
वक्तुं न शक्यते सर्वं सर्वज्ञेनापि नारद ॥ 25.23 ॥
मूलम् - 25.23
एषां त्रयाणां यन्त्राणां समाहारफलं मया।
वक्तुं न शक्यते सर्वं सर्वज्ञेनापि नारद ॥ 25.23 ॥
विश्वास-प्रस्तुतिः - 25.24
महासुदर्शनस्येह यन्त्रस्य करणाद् द्विजः।
त्रैलोक्यं समवाप्नोति किं पुनर्मण्डलं भुवः ॥ 25.24 ॥
मूलम् - 25.24
महासुदर्शनस्येह यन्त्रस्य करणाद् द्विजः।
त्रैलोक्यं समवाप्नोति किं पुनर्मण्डलं भुवः ॥ 25.24 ॥
माहासुदर्शनमपुण्यकृतां जनाना-
मप्राप्यमाश्रितसुखप्रदमेकयन्त्रम्।
तेजोमयं सकललोकनमस्कृतं यत्
तत् कारयेत् सकललोकजयं यदीच्छेत् ॥ 25.26 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां सुदर्शनयन्त्रवैभववर्णनं नाम पञ्चविंशोऽध्यायः
आदितः श्लोकाः 1470
———-*****———