२५

सुदर्शनयन्त्रवैभववर्णनं नाम पञ्चविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

यन्त्रवैभवं प्रदर्शयितुमुक्तार्थानुवादः
नारदः—

विश्वास-प्रस्तुतिः - 25.1

भगवन् सम्यगाख्यातं विस्तरेण 1यथातथम्।
यत्कारणं यदाधारं यत्प्रमाणमिदं जगत् ॥ 25.1 ॥

मूलम् - 25.1

भगवन् सम्यगाख्यातं विस्तरेण 1यथातथम्।
यत्कारणं यदाधारं यत्प्रमाणमिदं जगत् ॥ 25.1 ॥

विश्वास-प्रस्तुतिः - 25.2

तथा धर्मार्थकामानां स्वरूपं 2साधनं तथा।
परविद्या तथा विद्या तथा चाध्यात्मसंज्ञिता ॥ 25.2 ॥

मूलम् - 25.2

तथा धर्मार्थकामानां स्वरूपं 2साधनं तथा।
परविद्या तथा विद्या तथा चाध्यात्मसंज्ञिता ॥ 25.2 ॥

विश्वास-प्रस्तुतिः - 25.3

मुक्तिश्च परमा प्रोक्ता बन्धस्तत्साधनं3 तथा।
वर्णाश्रमविभागश्च तद्धर्माश्च विशेषतः ॥ 25.3 ॥

मूलम् - 25.3

मुक्तिश्च परमा प्रोक्ता बन्धस्तत्साधनं3 तथा।
वर्णाश्रमविभागश्च तद्धर्माश्च विशेषतः ॥ 25.3 ॥

विश्वास-प्रस्तुतिः - 25.4

सर्वेषामेव वर्णानां राज्ञां रक्षाविधिस्तथा।
राज्ञां तु रक्षणविधिर्दिव्योऽयं वर्णितस्तथा ॥ 25.4 ॥

मूलम् - 25.4

सर्वेषामेव वर्णानां राज्ञां रक्षाविधिस्तथा।
राज्ञां तु रक्षणविधिर्दिव्योऽयं वर्णितस्तथा ॥ 25.4 ॥

कथं किल कलौ प्राप्ते राज्ञां रक्षाविधिर्भवेत्। संक्षेपतः कलिस्वरूपकथनम् न यक्ष्यन्ति न दास्यन्ति न होष्यन्ति द्विजातयः ॥ 25.5 ॥
विश्वास-प्रस्तुतिः - 25.6

न सर्वे स्वेषु धर्मेषु करिष्यन्ति मतिं कलौ।
शक्तयः सर्वमन्त्राणां प्रयास्यन्ति तिरस्कृतिम्॥ 25.6 ॥

मूलम् - 25.6

न सर्वे स्वेषु धर्मेषु करिष्यन्ति मतिं कलौ।
शक्तयः सर्वमन्त्राणां प्रयास्यन्ति तिरस्कृतिम्॥ 25.6 ॥

विश्वास-प्रस्तुतिः - 25.7

निर्वीर्याश्च भविष्यन्ति राजानः सत्त्ववर्जिताः।
निर्धना हृतराज्याश्च दस्युभिः परिपीडिताः ॥ 25.7 ॥

मूलम् - 25.7

निर्वीर्याश्च भविष्यन्ति राजानः सत्त्ववर्जिताः।
निर्धना हृतराज्याश्च दस्युभिः परिपीडिताः ॥ 25.7 ॥

विश्वास-प्रस्तुतिः - 25.8

अल्पक्षीरा भविष्यन्ति गावः प्राप्ते कलौ युगे।
प्रजाः क्षुधार्ताश्च 5कलाववग्रहनिपीडिताः ॥ 25.8 ॥

मूलम् - 25.8

अल्पक्षीरा भविष्यन्ति गावः प्राप्ते कलौ युगे।
प्रजाः क्षुधार्ताश्च 5कलाववग्रहनिपीडिताः ॥ 25.8 ॥

विश्वास-प्रस्तुतिः - 25.9

पाषण्डधर्मनिरता भगवन्तं जनार्दनम्।
निन्दनादीन् करिष्यन्ति तमः प्राया ह्यवेदिनः ॥ 25.9 ॥

मूलम् - 25.9

पाषण्डधर्मनिरता भगवन्तं जनार्दनम्।
निन्दनादीन् करिष्यन्ति तमः प्राया ह्यवेदिनः ॥ 25.9 ॥

तादृशे कलौ राज्ञां रक्षाविध्युपायप्रश्नः

विश्वास-प्रस्तुतिः - 25.10

इत्थं दोषास्पदे काले राज्ञां रक्षाविधिः कथम्।
संपत्स्यते शक्तिहीनैर्द्विजैः सत्त्वविवर्जितैः ॥ 25.10 ॥

मूलम् - 25.10

इत्थं दोषास्पदे काले राज्ञां रक्षाविधिः कथम्।
संपत्स्यते शक्तिहीनैर्द्विजैः सत्त्वविवर्जितैः ॥ 25.10 ॥

विश्वास-प्रस्तुतिः - 25.11

येनोपायेन रक्षा स्यात्तं6 मे ब्रूहि सुनिश्चितम्।
सर्वज्ञ त्वदृते वक्तुं कः शक्नोति महेश्वर ॥ 25.11 ॥

मूलम् - 25.11

येनोपायेन रक्षा स्यात्तं6 मे ब्रूहि सुनिश्चितम्।
सर्वज्ञ त्वदृते वक्तुं कः शक्नोति महेश्वर ॥ 25.11 ॥

तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः——-

विश्वास-प्रस्तुतिः - 25.12

साधु साधु यदेतत् त्वं पृष्टवानसि नारद।
सत्यमेतत् कलौ रक्षाविधिर्मन्त्रैर्न युज्यते ॥ 25.12 ॥

मूलम् - 25.12

साधु साधु यदेतत् त्वं पृष्टवानसि नारद।
सत्यमेतत् कलौ रक्षाविधिर्मन्त्रैर्न युज्यते ॥ 25.12 ॥

तथापि भक्त इति ते कथयामि श्रृणुष्व तम्।

स्वकृतपितामहशिरश्छेदमहापापप्रशमाय नारायणात् सुदर्शनयन्त्रप्राप्तिकथनम्

मम नारायणेनोक्तं पुण्ये बदरिकाश्रमे ॥ 25.14 ॥

विश्वास-प्रस्तुतिः - 25.15

पितामहशिरश्छेदमहापातकशान्तये।
सर्वबाधाप्रशमनं सर्वदुःखनिवारणम् ॥ 25.15 ॥

मूलम् - 25.15

पितामहशिरश्छेदमहापातकशान्तये।
सर्वबाधाप्रशमनं सर्वदुःखनिवारणम् ॥ 25.15 ॥

तन्महिमसंक्षेपः

विश्वास-प्रस्तुतिः - 25.16

सर्वसिद्धिप्रदं सर्वसंपदामेककारणम्।
पराभिचारशमनं परराज्यप्रदं [^26]शुभम् ॥ 25.16 ॥

मूलम् - 25.16

सर्वसिद्धिप्रदं सर्वसंपदामेककारणम्।
पराभिचारशमनं परराज्यप्रदं [^26]शुभम् ॥ 25.16 ॥

[^27]कलिदोषापहरणं सर्वशत्रुनिबर्हणम्। यस्य संस्मरणेनैव नॄणां नश्यन्ति शत्रवः ॥ 25.17 ॥
विश्वास-प्रस्तुतिः - 25.18

दस्यवो नष्टविषया विद्रवन्ति दिशो दश।
यन्त्रं यस्य गृहे न्यस्तं तस्य सर्वं प्रसिध्यति॥ 25.18 ॥

मूलम् - 25.18

दस्यवो नष्टविषया विद्रवन्ति दिशो दश।
यन्त्रं यस्य गृहे न्यस्तं तस्य सर्वं प्रसिध्यति॥ 25.18 ॥

विश्वास-प्रस्तुतिः - 25.19

यो राजा यन्त्रमेतत्तु सादरं कारयेद् गृहे।
तस्य भूमण्डलं सर्वं भवेद् वश्यं न संशयः ॥ 25.19 ॥

मूलम् - 25.19

यो राजा यन्त्रमेतत्तु सादरं कारयेद् गृहे।
तस्य भूमण्डलं सर्वं भवेद् वश्यं न संशयः ॥ 25.19 ॥

सौदर्शनस्य यन्त्रस्य माहात्म्यं वर्णितं मया।
विश्वास-प्रस्तुतिः - 25.21

यः कारयति तस्यान्यो लोको वश्यो भवेदपि।
एतल्लेखनमात्रेण सर्वं [^28]संपद्यते नृणाम् ॥ 25.21 ॥

मूलम् - 25.21

यः कारयति तस्यान्यो लोको वश्यो भवेदपि।
एतल्लेखनमात्रेण सर्वं [^28]संपद्यते नृणाम् ॥ 25.21 ॥

विष्णुपञ्जरयन्त्रफलप्रदर्शनम्
विश्वास-प्रस्तुतिः - 25.22

विष्णुपञ्जरयन्त्रस्य करणेनैव देवताः।
सर्वाः प्रसीदन्ति सदा किं पुनर्मनुजादयः7 ॥ 25.22 ॥

मूलम् - 25.22

विष्णुपञ्जरयन्त्रस्य करणेनैव देवताः।
सर्वाः प्रसीदन्ति सदा किं पुनर्मनुजादयः7 ॥ 25.22 ॥

समुदितयन्त्रत्रयफलस्याशक्यवर्णनत्वम्
विश्वास-प्रस्तुतिः - 25.23

एषां त्रयाणां यन्त्राणां समाहारफलं मया।
वक्तुं न शक्यते सर्वं सर्वज्ञेनापि नारद ॥ 25.23 ॥

मूलम् - 25.23

एषां त्रयाणां यन्त्राणां समाहारफलं मया।
वक्तुं न शक्यते सर्वं सर्वज्ञेनापि नारद ॥ 25.23 ॥

महासुदर्शनयन्त्रफलम्
विश्वास-प्रस्तुतिः - 25.24

महासुदर्शनस्येह यन्त्रस्य करणाद् द्विजः।
त्रैलोक्यं समवाप्नोति किं पुनर्मण्डलं भुवः ॥ 25.24 ॥

मूलम् - 25.24

महासुदर्शनस्येह यन्त्रस्य करणाद् द्विजः।
त्रैलोक्यं समवाप्नोति किं पुनर्मण्डलं भुवः ॥ 25.24 ॥

एकत्र कल्पितसुदर्शननारसिंह- मन्यत्र केवलसुदर्शनमुज्ज्वलाङ्गम्। संकल्पितोभयमुखं घटितास्त्रजालं श्रीविष्णुपञ्जरगतं युतमन्त्रजालम् ॥ 25.25 ॥

माहासुदर्शनमपुण्यकृतां जनाना-
मप्राप्यमाश्रितसुखप्रदमेकयन्त्रम्।
तेजोमयं सकललोकनमस्कृतं यत्
तत् कारयेत् सकललोकजयं यदीच्छेत् ॥ 25.26 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां सुदर्शनयन्त्रवैभववर्णनं नाम पञ्चविंशोऽध्यायः
आदितः श्लोकाः 1470
———-*****———


  1. यथातथा D ↩︎ ↩︎

  2. साधनानि च D ↩︎ ↩︎

  3. तद्भावनं D ↩︎ ↩︎

  4. राज्ञां रक्षा A B C ↩︎

  5. कलौ पापग्रह B C ↩︎ ↩︎

  6. तन्मे A B C
    सर्वेषामेव भूतानां 4राज्ञां चैव विशेषतः ॥ 25.13 ॥
    रक्षाविधिं परं गुह्यं तन्त्राणां सारमुत्तमम्। ↩︎ ↩︎

  7. मनुजा द्विज D ↩︎ ↩︎