यन्त्रदेवताध्याननिरूपणं नाम चतुर्विंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
उक्तानामष्टानां चक्राणां संक्षेपेण फलकथनम्
अहिर्बुध्न्यः—
सोमसूर्यदहनप्रभोज्जवलं
चक्रमेतदुदितं महामुने।
वाङ्भयं सकलमन्त्रसंमितं
शब्दशब्द्यमखिलं यदुद्गतम् ॥ 24.1 ॥
ब्रह्मचक्रमुदितं यदान्तरं
केवलं 1विमलधीप्रदं मुने।
विष्णुचक्रमुदितं यदद्भुतं
2व्याप्तिकान्तिमतिविक्रमप्रदम् ॥ 24.2 ॥
यत् तृतीयमुदितं महाद्भुतं
चक्रमुज्ज्वलयशोऽर्थदं तु तत्।
यत्तु चक्रमुदितं तुरीयकं
मोक्षदं मुनिगणोदितं मुने ॥ 24.3 ॥
विस्तरेण तन्महिमवर्णनस्याशक्यत्वम्
एकैकशोऽल्पश इदं गदितं फलं ते
चक्राष्टके सकलयोगिमुनीन्द्रवन्द्ये।
वर्षायुतैर्बहुभिरप्यखिलान्मकस्य
शक्या न विस्तृतिरमुष्य मयाभिधातुम् ॥ 24.5 ॥
मन्त्राक्षरप्रथितभावविभेदपूर्वं
मन्त्री 12यजेत विधिवन्मनुदेवतास्ताः।
आकारशक्तिपरिवारविभूषणास्त्र-4
वीर्यप्रभावविषयैश्च विचिन्तयेत् ताः13 ॥ 24.6 ॥
तत्तच्चक्रदेवतास्वरूपतद्ध्यानादिप्रपञ्चन्म्
आद्यं निरञ्जनमशेषजगत्प्रसूति-
त्राणप्रमाथनियमोद्यदनुहग्रहस्थम्।
संपूर्णशक्तिमतरङ्गमहार्णवाभं
ध्यायेद्धरिं प्रणवगोचरमादिचक्रे ॥ 24.7 ॥
मातृकाचक्रे लक्ष्म्या ध्येयत्वम्
गोक्षीरशङ्खहिमदीधितिदेवसिन्धु-
कुन्दप्रभाविमलपङ्कजशङ्खहस्ता।
स्मेरप्रसन्नवदना कमलायताश्री
ध्येया 14स्वचक्रभवनोपरि 15मातृका सा ॥ 24.9॥
आलोलशूलदशकं त्रियुगाधिकं स्वै-
र्हस्तैर्द्विरष्टभिरथो दधती जपाभा।
चिन्तामणिस्थितिमती नयनत्रयाढ्या
शक्तिर्हरेरिति मुने मनसा विचिन्त्या ॥ 24.15 ॥
पूर्णेन्दुशीतलरुचिर्धृतबोधमुद्रा
बाह्वन्तरस्थनिजबोधनपुस्तकाढ्या।
देवी परा परमपूरुषदिव्यशक्ति-
श्चिन्त्या प्रसन्नवदना सरसीरुहाक्षी ॥ 24.16 ॥
पद्मारुणाभयवराङ्कुशपाशहस्ता
रक्ताम्बरा विपुलवारिजपत्रनेत्रा।
अङ्गमन्त्रदेवतातद्ध्यानादिप्रपञ्चनम्
अङ्गं तु चक्रमयदेवसमानरूप-
माचक्रपूर्वमखिलं गदितं यदादौ।
गायत्र्यपि ज्वलितपावकतुल्यवर्णा
चक्रेशतुल्यविभवा विपुलस्तनाढ्या ॥ 24.20 ॥
ज्वालाकुलद्रुतसमस्तसुरारिवर्गं
प्राकारमग्निमयमेव वदन्ति सन्तः।
सुदर्शनमयसर्वचक्रकूटध्यानम्
कालानलायुतसहस्रसमानरूपं
कूटं सुदर्शनमयं मनसा विचिन्त्यम्।
तापातुरक्वथदशेषसुरारिमेदो-
निष्यन्दमेदुरितदीप्तिशिखाजटालम् ॥ 24.24 ॥
सौदर्शनसर्वमन्त्रमूलभूतशक्तिध्यानम्
सूर्येन्दुवह्निनयना तरुणार्कवर्णा
व्याप्य स्थिता जगदशेषमशेषवन्द्या।
उक्तेषु यन्त्रेषु द्विजस्यैवाधिकारः
लेशतो गदितमेतदुदारं
रक्षणं सकललोकहिताय।
भूपतेरनुमतो द्विजवर्यो
भावयेदनिशमेतदतन्द्री16 ॥ 24.26 ॥
उक्तयन्त्राणामानुषङ्गिकफलपूर्वकमुक्तिरूपपरमफलसाधनत्वम्
नाद्रवन्ति दुरितानि कदाचि-
द्विद्रवन्ति निखिला ग्रहरोगाः।
वर्धते वसुमती बहुसस्या
न त्रिवर्गविहतिर्मनुजानाम् ॥ 24.27 ॥
धर्मार्थकामबहुलाश्चिरजीविनश्च
हीनाश्च पाप्मभिरुदारयशः प्रतापाः।
आराध्य शास्त्रनिरता विहितक्रियाभि-
रन्ते विशन्ति 17विमलाः परमं पुमांसम् ॥ 24.28 ॥
सौदर्शनमन्त्रेष्वभिक्रमनाशाद्यभावः
दिव्यो विधिः कथित एष मुने समस्तो
विप्रैर्नृपैर्धृतसमाधिभिरत्र भाव्यम्।
अस्मिन् समाधिविरही ललितक्रियोऽपि
18यत्नोचितं लभत एव फलं मनुष्यः ॥ 24.29 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां यन्त्रदेवताध्याननिरूपणं नाम चतुर्विशोऽध्यायः
आदितः श्लोकाः 1444
-
सकल A B C E F ↩︎
-
व्यक्ति E.
पञ्चमं विजयदायि कीर्तिदं
षष्ठमुग्रगदमृत्युनाशनम्।
ब्रह्मवर्चसविधायि सप्तमं
संपदर्थविजयार्थमष्टमम् ॥ 24.4 ॥ ↩︎ -
दैत्यम् A B C E F
सोमाग्निसूर्यकिरणोद्नमपुञ्जकुञ्जृ
मध्यस्थितं विधृतपद्मगदारिशङ्खम्।
छन्दःस्थितं भुवनकारणमप्रमेयं
श्रीशं विचिन्तय मुने पुरुषं पुराणम् ॥ 24.13 ॥ ↩︎ -
रिति सापि D ↩︎
-
वक्त्राग्र A; वक्राग्रनास D ↩︎
-
नेत्रेण B C; नक्रेण A ↩︎
-
महानुभावा D
व्योमस्थशक्तिरपि सूर्यसहस्रमाला
8नीलाम्बुजद्युतिमती मनसा विचिन्त्या ॥ 24.21 ॥
मालां चतुर्गतिमयीं वपुषा दधाना
वायुस्थशक्तिरपि धूम्रतनुर्विचिन्त्या।
कालान्लाख्यतरुणार्कसहस्रमाला
तेजःस्थशक्तिरपि रक्ततनुर्विचिन्त्या ॥ 24.22 ॥
पीयूषरूपरचना सलिलस्थशक्ति-
धर्येया 9वराहनियुतायुतक्लृप्तमाला।
उत्तप्ककाञ्चनरुचिः पुरुषेश्वराढ्या
भूशक्तिरादिपुरुषस्य विचिन्तनीया ॥ 24.23 ॥ ↩︎ -
B C omit two lines from here ↩︎
-
पराह A; परा वि D
चक्राणि 10बाहुनिवहैर्दधती सहस्रं
11योनिः सुदर्शनमनोरिति चिन्तनीया ॥ 24.25 ॥ ↩︎ ↩︎ -
बाहुनिधनैः D ↩︎
-
विष्णुः D ↩︎
-
यथेह A B C F; यथैव E. ↩︎
-
ताम् E.
श्वेतं प्रसन्नवदनं कमलायताक्षं
पीताम्बरं पृथुलवक्षसमात्मयोनिम्।
पीनोरुदीर्घभुजबृन्दधृतारिशङ्ख-
कौमोदकीसरसिजं खलु विष्णुचक्रे ॥ 24.8 ॥
श्यामं किरीटिनमुदारचतुर्भुजस्थ-
कौमोदकीकमलवारिजवर्यचक्रम्।
नारायणं नयननन्दनमादिदेवं
ध्यायेच्छ्रिया सह तृतीयपदस्थचक्रे ॥ 24.9 ॥
कुन्देन्दुगौरमरविन्ददलायताक्षं
शुद्धाक्षमालममलोद्यतबोधमुद्रम्।
बाहुद्वयीविधृतचक्रविशुद्धशङ्खं
तं वासुदेवमिति चिन्तय तुर्यचक्रे ॥ 24.10 ॥
शङ्खारिपङ्कजगदाङ्कुशपाशशार्ङ्ग-
सौनन्दकान् दधतमष्टभिरुग्रहस्तैः।
तार्क्ष्यस्थितं रजतशैलनिभं पुराणं
संचिन्तयेदजितचक्रगतं पुमांसम् ॥ 24.11 ॥
क्रूरोग्रवक्रनखकोटिनिकृत्तदैत्य-
वक्षःस्थलोच्चलितशोणितदिग्धदेहम्3।
घोरप्रकारनयनत्रयदुर्निरीक्षं
षष्ठे विचिन्तय मुने नरसिंहमीशम् ॥ 24.12 ॥ ↩︎ -
सचक्र B C E F ↩︎
-
मातृकाख्या A B C E F
सूक्ष्मप्रभास्थितपरावरतत्त्वजाता
चिन्त्यादिशक्तिरपि4 सा च परावराख्या ॥ 24.17 ॥
बाहुस्थपाशवलिताखिलजीववर्गा
बन्धूकपद्मकुसुमारुणदेहकान्तिः।
पीनस्तनी मदविघूर्णितनेत्रपद्मा
लक्ष्मीशपार्श्वनिलयाखिलदेवतेयम् ॥ 24.18 ॥
5वक्राग्रनासिनिशिताङ्कुशकीलितेन
6नम्रेण जीवनिकरेण समीड्यमाना।
दिव्याङ्कुशस्थितिमती हरिशक्तिराद्या
ध्येया समाधिनिरतेन 7महाप्रभावा ॥ 24.19 ॥ ↩︎ -
मेव तु मन्त्री A B C E F ↩︎
-
विमलं A D E F ↩︎
-
दत्तोचितं A B C ↩︎