२३

वासुदेवादियन्त्रनिरूपणं नाम त्रयोविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

द्वादशारचक्रम्
अहिर्बुध्न्यः—

विश्वास-प्रस्तुतिः - 23.1

द्वादशारस्य चक्रस्य क्रमोऽयं परिगीयते।
पाप्मानो विप्रदूयन्ते यस्य स्मरणमात्रतः ॥ 23.1 ॥

मूलम् - 23.1

द्वादशारस्य चक्रस्य क्रमोऽयं परिगीयते।
पाप्मानो विप्रदूयन्ते यस्य स्मरणमात्रतः ॥ 23.1 ॥

विश्वास-प्रस्तुतिः - 23.2

नारायणाह्वयं चक्रं यत् पूर्वं समुदीरितम्।
तदक्षं कल्पयेन्मन्त्री वक्ष्यमाणविधानतः ॥ 23.2 ॥

मूलम् - 23.2

नारायणाह्वयं चक्रं यत् पूर्वं समुदीरितम्।
तदक्षं कल्पयेन्मन्त्री वक्ष्यमाणविधानतः ॥ 23.2 ॥

तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्। [^1]परितो विलिखेद् बाह्ये चक्रान्नारायणाह्वयात् ॥ 23.3 ॥ [^2]नामवर्णान् लिखेद् बाह्ये तारादित्रयलोलितान्। द्वादशाक्षरमन्त्रेण ग्रथितं मन्त्रनायकम् ॥ 23.4 ॥
विश्वास-प्रस्तुतिः - 23.5

परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्।
मातृकां विलिखेत् सर्वमेतदक्षं विचिन्तयेत् ॥ 23.5 ॥

मूलम् - 23.5

परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्।
मातृकां विलिखेत् सर्वमेतदक्षं विचिन्तयेत् ॥ 23.5 ॥

विश्वास-प्रस्तुतिः - 23.6

द्वादशाक्षरमन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितां कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.6 ॥

मूलम् - 23.6

द्वादशाक्षरमन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितां कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.6 ॥

विश्वास-प्रस्तुतिः - 23.7

स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा द्वादशाराण्यथो लिखेत् ॥ 23.7 ॥

मूलम् - 23.7

स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा द्वादशाराण्यथो लिखेत् ॥ 23.7 ॥

विश्वास-प्रस्तुतिः - 23.8

दिक्षु द्वे द्वे अरे लिख्याद्विदिक्ष्वेकैकमप्युत।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके ॥ 23.8 ॥

मूलम् - 23.8

दिक्षु द्वे द्वे अरे लिख्याद्विदिक्ष्वेकैकमप्युत।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके ॥ 23.8 ॥

विश्वास-प्रस्तुतिः - 23.9

रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा3
अराणि द्वादशैवं च द्वादशाक्षरविद्यया ॥ 23.9 ॥

मूलम् - 23.9

रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा3
अराणि द्वादशैवं च द्वादशाक्षरविद्यया ॥ 23.9 ॥

विश्वास-प्रस्तुतिः - 23.10

प्रागादीशानपर्यन्तं कल्पयेन्मन्त्रवित्तमः।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ 23.10 ॥

मूलम् - 23.10

प्रागादीशानपर्यन्तं कल्पयेन्मन्त्रवित्तमः।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ 23.10 ॥

विश्वास-प्रस्तुतिः - 23.11

द्वादशारी महाविद्या सेयं सर्वेश्वरप्रिया।
परितः कल्पयेन्नेमिं जितंताख्यमहामनुम्॥ 23.11 ॥

मूलम् - 23.11

द्वादशारी महाविद्या सेयं सर्वेश्वरप्रिया।
परितः कल्पयेन्नेमिं जितंताख्यमहामनुम्॥ 23.11 ॥

विश्वास-प्रस्तुतिः - 23.12

तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः ॥ 23.12 ॥

मूलम् - 23.12

तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः ॥ 23.12 ॥

विश्वास-प्रस्तुतिः - 23.13

फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
वासुदेवाह्वयं चक्रमेतद् देवैरभिष्टुतम्4 ॥ 23.13 ॥

मूलम् - 23.13

फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
वासुदेवाह्वयं चक्रमेतद् देवैरभिष्टुतम्4 ॥ 23.13 ॥

अस्य चक्रस्य माहात्म्यं वक्तं शक्यं न मादृशैः। अजिताख्यद्वात्रिंशदरचक्रम् अक्षं कृत्वा चक्रमेतद् द्वात्रिंशदरमालिखेत् ॥ 23.14 ॥
विश्वास-प्रस्तुतिः - 23.15

अजिताख्यमिदं चक्रं सुरासुरनमस्कृतम्।
अस्य चक्रस्य विधिवद् विधानमुपदिश्यते ॥ 23.15 ॥

मूलम् - 23.15

अजिताख्यमिदं चक्रं सुरासुरनमस्कृतम्।
अस्य चक्रस्य विधिवद् विधानमुपदिश्यते ॥ 23.15 ॥

विश्वास-प्रस्तुतिः - 23.16

वासुदेवाह्वयं 5चक्रमस्याक्षं परिकल्पयेत्।
यथा तथा विधानेन विधानं श्रुणु सांप्रतम् ॥ 23.16 ॥

मूलम् - 23.16

वासुदेवाह्वयं 5चक्रमस्याक्षं परिकल्पयेत्।
यथा तथा विधानेन विधानं श्रुणु सांप्रतम् ॥ 23.16 ॥

विश्वास-प्रस्तुतिः - 23.17

तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
परितो विलिखेन्मन्त्री वासुदेवाह्वयाद् बहिः ॥ 23.17 ॥

मूलम् - 23.17

तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
परितो विलिखेन्मन्त्री वासुदेवाह्वयाद् बहिः ॥ 23.17 ॥

विश्वास-प्रस्तुतिः - 23.18

तारादिग्रथितान् साध्यनामवर्णान् लिखेद्बहिः।
जितंताग्रथितं मन्त्रं परितो बहिरालिखेत् ॥ 23.18 ॥

मूलम् - 23.18

तारादिग्रथितान् साध्यनामवर्णान् लिखेद्बहिः।
जितंताग्रथितं मन्त्रं परितो बहिरालिखेत् ॥ 23.18 ॥

विश्वास-प्रस्तुतिः - 23.19

मातृकां विलिखेद् बाह्ये 6सहद्वन्द्वविदर्भिताम्।
विद्यादजितचक्रस्य सम्यगक्षमिदं बुधः ॥ 23.19 ॥

मूलम् - 23.19

मातृकां विलिखेद् बाह्ये 6सहद्वन्द्वविदर्भिताम्।
विद्यादजितचक्रस्य सम्यगक्षमिदं बुधः ॥ 23.19 ॥

विश्वास-प्रस्तुतिः - 23.20

जितंताख्येन मन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं 7कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.20 ॥

मूलम् - 23.20

जितंताख्येन मन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं 7कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.20 ॥

विश्वास-प्रस्तुतिः - 23.21

स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा पुण्डरीकाक्षसंमता ॥ 23.21 ॥

मूलम् - 23.21

स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा पुण्डरीकाक्षसंमता ॥ 23.21 ॥

विश्वास-प्रस्तुतिः - 23.22

द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत्।
दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥ 23.22 ॥

मूलम् - 23.22

द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत्।
दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥ 23.22 ॥

विश्वास-प्रस्तुतिः - 23.23

रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके।
रेफं मन्त्रार्णलक्ष्म्ययौ च रेफमित्यनया दिशा ॥ 23.23 ॥

मूलम् - 23.23

रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके।
रेफं मन्त्रार्णलक्ष्म्ययौ च रेफमित्यनया दिशा ॥ 23.23 ॥

द्वात्रिंशतमराण्येवं लिखेत् सम्यग्जितंतया।

तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ 23.24 ॥

विश्वास-प्रस्तुतिः - 23.25

सा द्वात्रिंशदरी दिव्या देवदेवजयप्रदा।
परितः कल्पयेन्नेमिं नृसिंहानुष्टुभं पराम् ॥ 23.25 ॥

मूलम् - 23.25

सा द्वात्रिंशदरी दिव्या देवदेवजयप्रदा।
परितः कल्पयेन्नेमिं नृसिंहानुष्टुभं पराम् ॥ 23.25 ॥

विश्वास-प्रस्तुतिः - 23.26

तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥ 23.26 ॥

मूलम् - 23.26

तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥ 23.26 ॥

विश्वास-प्रस्तुतिः - 23.27

फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
अजिताख्यमिदं चक्रं पुण्डरीकाक्षसंमतम् ॥ 23.27 ॥

मूलम् - 23.27

फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
अजिताख्यमिदं चक्रं पुण्डरीकाक्षसंमतम् ॥ 23.27 ॥

[^8]येनाद्य पुण्डरीकाक्षो दैत्यान् विजयतेऽखिलान्। एतदत्यद्भुतं चक्रं कथ्यते वैष्णवं यशः ॥ 23.28 ॥ नित्ययुक्तोऽत्र सन्मन्त्री जगद्विजयतेऽखिलम्। नारसिंहद्वात्रिंशदरचक्रम् अक्षीकृत्यैतच्चक्रं तु चक्रमन्यत् प्रवर्तते ॥ 23.29 ॥
विश्वास-प्रस्तुतिः - 23.30

महाविष्णुमयं घोरं भद्रं मृत्युविमर्दनम्।
विधानं श्रृणु तस्येदं कथ्यमानं मयानघ ॥ 23.30 ॥

मूलम् - 23.30

महाविष्णुमयं घोरं भद्रं मृत्युविमर्दनम्।
विधानं श्रृणु तस्येदं कथ्यमानं मयानघ ॥ 23.30 ॥

विश्वास-प्रस्तुतिः - 23.31

तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
अजिताख्यान्महाचक्रात् परितो बहिरालिखेत् ॥ 23.31 ॥

मूलम् - 23.31

तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
अजिताख्यान्महाचक्रात् परितो बहिरालिखेत् ॥ 23.31 ॥

विश्वास-प्रस्तुतिः - 23.32

तारादिग्रथितान् साध्यनामवर्णान् बहिर्लिखेत्।
उग्रवीरादिमन्त्रेण ग्रथितं मन्त्रनायकम् ॥ 23.32 ॥

मूलम् - 23.32

तारादिग्रथितान् साध्यनामवर्णान् बहिर्लिखेत्।
उग्रवीरादिमन्त्रेण ग्रथितं मन्त्रनायकम् ॥ 23.32 ॥

परितो विलिखेद् बाह्ये सहग्रथितमातृकम्[^9]।
विश्वास-प्रस्तुतिः - 23.34

उग्रवीरादिमन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.34 ॥

मूलम् - 23.34

उग्रवीरादिमन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.34 ॥

विश्वास-प्रस्तुतिः - 23.35

स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा महाविष्णुमयी परा ॥ 23.35 ॥

मूलम् - 23.35

स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा महाविष्णुमयी परा ॥ 23.35 ॥

विश्वास-प्रस्तुतिः - 23.36

द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत्।
दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥ 23.36 ॥

मूलम् - 23.36

द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत्।
दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥ 23.36 ॥

विश्वास-प्रस्तुतिः - 23.37

रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ 23.37 ॥

मूलम् - 23.37

रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ 23.37 ॥

विश्वास-प्रस्तुतिः - 23.38

द्वात्रिंशतमराण्येवं नृसिंहानुष्टुभा8 लिखेत्।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ 23.38 ॥

मूलम् - 23.38

द्वात्रिंशतमराण्येवं नृसिंहानुष्टुभा8 लिखेत्।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥ 23.38 ॥

विश्वास-प्रस्तुतिः - 23.39

सा द्वात्रिंशदरी 9विद्या दुष्टदैत्यनिबर्हणी।
अस्य चक्रस्य नेमिं तु त्रीणि छन्दांसि कल्पयेत् ॥ 23.39 ॥

मूलम् - 23.39

सा द्वात्रिंशदरी 9विद्या दुष्टदैत्यनिबर्हणी।
अस्य चक्रस्य नेमिं तु त्रीणि छन्दांसि कल्पयेत् ॥ 23.39 ॥

विश्वास-प्रस्तुतिः - 23.40

गायत्रीं त्रिष्टुभं चैव तथानुष्टुभमेव च।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ 23.40 ॥

मूलम् - 23.40

गायत्रीं त्रिष्टुभं चैव तथानुष्टुभमेव च।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ 23.40 ॥

विश्वास-प्रस्तुतिः - 23.41

शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत्।
फट्कारग्रथितां बाह्यो मातृकां प्रधिमालिखेत् ॥ 23.41 ॥

मूलम् - 23.41

शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत्।
फट्कारग्रथितां बाह्यो मातृकां प्रधिमालिखेत् ॥ 23.41 ॥

विश्वास-प्रस्तुतिः - 23.42

एतदत्यद्भुतं घोरं दुष्टदानवसूदनम्।
नारसिंहं महाचक्रं मृत्युंजयमिति श्रुतम् ॥ 23.42 ॥

मूलम् - 23.42

एतदत्यद्भुतं घोरं दुष्टदानवसूदनम्।
नारसिंहं महाचक्रं मृत्युंजयमिति श्रुतम् ॥ 23.42 ॥

विश्वास-प्रस्तुतिः - 23.43

प्रेतापस्मारकूश्माण्डदैत्यदानवराक्षसाः।
डाकिन्यो भूतयोगिन्यो याश्चान्याः क्रूरजातयः ॥ 23.43 ॥

मूलम् - 23.43

प्रेतापस्मारकूश्माण्डदैत्यदानवराक्षसाः।
डाकिन्यो भूतयोगिन्यो याश्चान्याः क्रूरजातयः ॥ 23.43 ॥

स्मरणादस्य चक्रस्य विनश्यन्त्येव सर्वदा।

शतारज्योतिश्चक्रम्
अक्षीकृत्यैतच्चक्रं तु ज्योतिश्चक्रं प्रवर्तते ॥ 23.44 ॥

विश्वास-प्रस्तुतिः - 23.45

ज्योतींषि त्रीणि च्छन्दांसि गायत्र्यादीन्यसंशयम्।
विधिज्ञैस्तस्य चक्रस्य विधानं विहितं श्रृणु ॥ 23.45 ॥

मूलम् - 23.45

ज्योतींषि त्रीणि च्छन्दांसि गायत्र्यादीन्यसंशयम्।
विधिज्ञैस्तस्य चक्रस्य विधानं विहितं श्रृणु ॥ 23.45 ॥

विश्वास-प्रस्तुतिः - 23.46

यदेतत् प्रथितं ज्योतिर्दिवि प्रत्यक्षमुत्तमम्।
एषा तदिति गायत्री 10वेदानां जननी परा ॥ 23.46 ॥

मूलम् - 23.46

यदेतत् प्रथितं ज्योतिर्दिवि प्रत्यक्षमुत्तमम्।
एषा तदिति गायत्री 10वेदानां जननी परा ॥ 23.46 ॥

विश्वास-प्रस्तुतिः - 23.47

यदेतदग्निहोत्रस्थं11 ज्योतिर्वहति वै हुतम्।
जातवेदस इत्येषा त्रिष्टुबग्निमयी तनुः ॥ 23.47 ॥

मूलम् - 23.47

यदेतदग्निहोत्रस्थं11 ज्योतिर्वहति वै हुतम्।
जातवेदस इत्येषा त्रिष्टुबग्निमयी तनुः ॥ 23.47 ॥

विश्वास-प्रस्तुतिः - 23.48

रसैः पुष्णाति यद्विश्वं ज्योतिर्नयननन्दनम्।
तत् त्रियम्बकमित्येषानुष्टुबिन्दुमयी तनुः ॥ 23.48 ॥

मूलम् - 23.48

रसैः पुष्णाति यद्विश्वं ज्योतिर्नयननन्दनम्।
तत् त्रियम्बकमित्येषानुष्टुबिन्दुमयी तनुः ॥ 23.48 ॥

विश्वास-प्रस्तुतिः - 23.49

ज्योतिर्भिर्धार्यते विश्वं बोधतापनहर्षणैः।
विरुद्धोपक्रमैर्विश्वं भोक्तृभोग्यमयात्मभिः ॥ 23.49 ॥

मूलम् - 23.49

ज्योतिर्भिर्धार्यते विश्वं बोधतापनहर्षणैः।
विरुद्धोपक्रमैर्विश्वं भोक्तृभोग्यमयात्मभिः ॥ 23.49 ॥

विश्वास-प्रस्तुतिः - 23.50

यत् पूर्वमुदितं चक्रं महाविष्णुमयं 12महत्।
तदक्षं कल्पयेन्मन्त्री त्रिभिर्ज्योतिर्भिरुत्तमैः ॥ 23.50 ॥

मूलम् - 23.50

यत् पूर्वमुदितं चक्रं महाविष्णुमयं 12महत्।
तदक्षं कल्पयेन्मन्त्री त्रिभिर्ज्योतिर्भिरुत्तमैः ॥ 23.50 ॥

विश्वास-प्रस्तुतिः - 23.51

छन्दोभिः कल्पयेदक्षं तारादिग्रथितं पुरा।
महाविष्णुमयाद् बाह्ये विलिखेन्मन्त्रनायकम् ॥ 23.51 ॥

मूलम् - 23.51

छन्दोभिः कल्पयेदक्षं तारादिग्रथितं पुरा।
महाविष्णुमयाद् बाह्ये विलिखेन्मन्त्रनायकम् ॥ 23.51 ॥

विश्वास-प्रस्तुतिः - 23.52

तारादिग्रथितांश्चापि साध्यवर्णान् लिखेद् बहिः।
छन्दोभिर्ग्रथितं मन्त्रं मन्त्री तद्बहिरालिखेत् ॥ 23.52 ॥

मूलम् - 23.52

तारादिग्रथितांश्चापि साध्यवर्णान् लिखेद् बहिः।
छन्दोभिर्ग्रथितं मन्त्रं मन्त्री तद्बहिरालिखेत् ॥ 23.52 ॥

विश्वास-प्रस्तुतिः - 23.53

मातृकां विलिखेद् बाह्यो सहद्वयविदर्भिताम्।
एतदक्षं समुद्दिष्टं ज्योतिश्चक्रस्य नारद ॥ 23.53 ॥

मूलम् - 23.53

मातृकां विलिखेद् बाह्यो सहद्वयविदर्भिताम्।
एतदक्षं समुद्दिष्टं ज्योतिश्चक्रस्य नारद ॥ 23.53 ॥

विश्वास-प्रस्तुतिः - 23.54

त्रिभिस्तदाद्यैश्छन्दोभिः शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.54 ॥

मूलम् - 23.54

त्रिभिस्तदाद्यैश्छन्दोभिः शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 23.54 ॥

विश्वास-प्रस्तुतिः - 23.55

स्राकारग्रथितां चापि मातृकां बहिरालिखेत्।
एषा नाभिः समुद्दिष्टा वेदवेदान्तपूजिता ॥ 23.55 ॥

मूलम् - 23.55

स्राकारग्रथितां चापि मातृकां बहिरालिखेत्।
एषा नाभिः समुद्दिष्टा वेदवेदान्तपूजिता ॥ 23.55 ॥

विश्वास-प्रस्तुतिः - 23.56

अराणि शतमस्य स्युर्विधानं 13तस्य मे श्रृणु।
वायुतो वह्निपर्यन्तं रक्षसः शर्वगोचरम् ॥ 23.56 ॥

मूलम् - 23.56

अराणि शतमस्य स्युर्विधानं 13तस्य मे श्रृणु।
वायुतो वह्निपर्यन्तं रक्षसः शर्वगोचरम् ॥ 23.56 ॥

विश्वास-प्रस्तुतिः - 23.57

सूत्रद्वयं पातयित्वा चतुर्धा प्रविभज्य तु।
अराणि पञ्च प़ञ्चैव क्षेत्रमेकैकमालिखेत् ॥ 23.57 ॥

मूलम् - 23.57

सूत्रद्वयं पातयित्वा चतुर्धा प्रविभज्य तु।
अराणि पञ्च प़ञ्चैव क्षेत्रमेकैकमालिखेत् ॥ 23.57 ॥

विश्वास-प्रस्तुतिः - 23.58

अराणि शतमेवं स्युर्विधानं तस्य मे श्रृणु।
गायत्र्यादीनि यानि स्युस्तत्र च्छन्दस्त्रयं लिखेत् ॥ 23.58 ॥

मूलम् - 23.58

अराणि शतमेवं स्युर्विधानं तस्य मे श्रृणु।
गायत्र्यादीनि यानि स्युस्तत्र च्छन्दस्त्रयं लिखेत् ॥ 23.58 ॥

विश्वास-प्रस्तुतिः - 23.59

रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ 23.59 ॥

मूलम् - 23.59

रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥ 23.59 ॥

विश्वास-प्रस्तुतिः - 23.60

विलिखेदरगायत्रीं गायत्र्यादौ समाहितः।
अराणां त्रिष्टुभं चैव त्रिष्टुभैव समालिखेत् ॥ 23.60 ॥

मूलम् - 23.60

विलिखेदरगायत्रीं गायत्र्यादौ समाहितः।
अराणां त्रिष्टुभं चैव त्रिष्टुभैव समालिखेत् ॥ 23.60 ॥

[^17]अनुष्टुभमराणां चानुष्टुभैव समालिखेत्।
विश्वास-प्रस्तुतिः - 23.63

पादैः पदैरक्षरैश्च त्रिधैव प्रतिलोमया।
ब्रह्मदण्डब्रह्मशिरोब्रह्मास्त्रमयतेजसा14 ॥ 23.63 ॥

मूलम् - 23.63

पादैः पदैरक्षरैश्च त्रिधैव प्रतिलोमया।
ब्रह्मदण्डब्रह्मशिरोब्रह्मास्त्रमयतेजसा14 ॥ 23.63 ॥

विश्वास-प्रस्तुतिः - 23.64

आन्तरं नेमिभागं तु गायत्र्या कल्पयेत् सुधीः।
आग्नेयास्त्रस्वरूपिण्या त्रिष्टुभा प्रतिलोमया ॥ 23.64 ॥

मूलम् - 23.64

आन्तरं नेमिभागं तु गायत्र्या कल्पयेत् सुधीः।
आग्नेयास्त्रस्वरूपिण्या त्रिष्टुभा प्रतिलोमया ॥ 23.64 ॥

विश्वास-प्रस्तुतिः - 23.65

मध्यमं नेमिभागं तु कल्पयेन्मन्त्रवित्तमः।
अनुष्टुभा तृतीयं तु नेमिभागं प्रकल्पयेत् ॥ 23.65 ॥

मूलम् - 23.65

मध्यमं नेमिभागं तु कल्पयेन्मन्त्रवित्तमः।
अनुष्टुभा तृतीयं तु नेमिभागं प्रकल्पयेत् ॥ 23.65 ॥

विश्वास-प्रस्तुतिः - 23.66

त्रैयम्बकास्त्ररूपिण्या वर्णशः प्रतिलोमया।
विलिखेत् प्रतिलोमास्ता मन्त्रेण ग्रथिताः सुधीः ॥ 23.66 ॥

मूलम् - 23.66

त्रैयम्बकास्त्ररूपिण्या वर्णशः प्रतिलोमया।
विलिखेत् प्रतिलोमास्ता मन्त्रेण ग्रथिताः सुधीः ॥ 23.66 ॥

विश्वास-प्रस्तुतिः - 23.67

तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥ 23.67 ॥

मूलम् - 23.67

तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥ 23.67 ॥

विश्वास-प्रस्तुतिः - 23.68

फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
त्रिषु लोकेषु विख्यातं त्रिज्योतिश्चक्रमुत्तमम्15 ॥ 23.68 ॥

मूलम् - 23.68

फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
त्रिषु लोकेषु विख्यातं त्रिज्योतिश्चक्रमुत्तमम्15 ॥ 23.68 ॥

ब्रह्मचक्रम् अस्माच्चक्राद् बहिः पञ्च होतारः [^20]सग्रहाः स्मृताः ॥ 23.69 ॥ सं भाराः [^21]पत्नयश्चैव दक्षिणा हृदयानि च।
विश्वास-प्रस्तुतिः - 23.72

प्रणवं चेति परितः 16पङ्क्तीरेताः क्रमाल्लिखेत्।
एतद् ब्रह्ममयं चक्रं सर्वच्छन्दोविनिर्मितम्17 ॥ 23.72 ॥

मूलम् - 23.72

प्रणवं चेति परितः 16पङ्क्तीरेताः क्रमाल्लिखेत्।
एतद् ब्रह्ममयं चक्रं सर्वच्छन्दोविनिर्मितम्17 ॥ 23.72 ॥

विश्वास-प्रस्तुतिः - 23.73

सर्वदुः खोपशमनं सर्वपापनिबर्हणम्।
स्मृतिमात्रेण सर्वेषामभीष्टार्थप्रदं सदा ॥ 23.73 ॥

मूलम् - 23.73

सर्वदुः खोपशमनं सर्वपापनिबर्हणम्।
स्मृतिमात्रेण सर्वेषामभीष्टार्थप्रदं सदा ॥ 23.73 ॥

सहस्रारमातृकाचक्रम् बहिः प्रवर्तते चास्मान्मातृकाचक्रमुत्तमम्। [^25]सोमसूर्यौर्वबिन्दूनां कूटं तु परितो लिखेत् ॥ 23.74 ॥
विश्वास-प्रस्तुतिः - 23.75

तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
तद्बहिर्विलिखेन्मन्त्री तारादिग्रथितान् पुनः ॥ 23.75 ॥

मूलम् - 23.75

तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
तद्बहिर्विलिखेन्मन्त्री तारादिग्रथितान् पुनः ॥ 23.75 ॥

विश्वास-प्रस्तुतिः - 23.76

नामवर्णान् लिखेद् बाह्ये तद्बहिर्मन्त्रमिश्रितान्18
मातृकां विलिखेद् बाह्ये सहग्रथितमातृकाम् ॥ 23.76 ॥

मूलम् - 23.76

नामवर्णान् लिखेद् बाह्ये तद्बहिर्मन्त्रमिश्रितान्18
मातृकां विलिखेद् बाह्ये सहग्रथितमातृकाम् ॥ 23.76 ॥

विश्वास-प्रस्तुतिः - 23.77

एतदक्षं समुद्दिष्टं मातृकाचक्रसंभवम्।
तारतारानुताराभिर्वर्णमातृकयापि च ॥ 23.77 ॥

मूलम् - 23.77

एतदक्षं समुद्दिष्टं मातृकाचक्रसंभवम्।
तारतारानुताराभिर्वर्णमातृकयापि च ॥ 23.77 ॥

विश्वास-प्रस्तुतिः - 23.78

ग्रथितं 19कल्पयेन्नाभिं स्राकारं परमाद्भुतम्।
स्राकारग्रथितां चापि मातृकां बहिरालिखेत् ॥ 23.78 ॥

मूलम् - 23.78

ग्रथितं 19कल्पयेन्नाभिं स्राकारं परमाद्भुतम्।
स्राकारग्रथितां चापि मातृकां बहिरालिखेत् ॥ 23.78 ॥

विश्वास-प्रस्तुतिः - 23.79

एषा नाभिः समुद्दिष्टा शब्दब्रह्ममयी परा।
अराण्यस्य सहस्रं 20स्युस्तद्विधानमिदं श्रृणु ॥ 23.79 ॥

मूलम् - 23.79

एषा नाभिः समुद्दिष्टा शब्दब्रह्ममयी परा।
अराण्यस्य सहस्रं 20स्युस्तद्विधानमिदं श्रृणु ॥ 23.79 ॥

विश्वास-प्रस्तुतिः - 23.80

पूर्वादिषु विभक्तेषु सूत्रैः क्षेत्रेषु पूर्ववत्।
पञ्च पञ्चाशतं कुर्यादराणि 21प्रतिभागशः ॥ 23.80 ॥

मूलम् - 23.80

पूर्वादिषु विभक्तेषु सूत्रैः क्षेत्रेषु पूर्ववत्।
पञ्च पञ्चाशतं कुर्यादराणि 21प्रतिभागशः ॥ 23.80 ॥

विश्वास-प्रस्तुतिः - 23.81

पञ्चाशद्भिस्तु विंशत्या सहस्रारं भवेत् तलम्।
तारतारानुताराभिर्वाग्भवाद्यैस्त्रिभिस्तथा ॥ 23.81 ॥

मूलम् - 23.81

पञ्चाशद्भिस्तु विंशत्या सहस्रारं भवेत् तलम्।
तारतारानुताराभिर्वाग्भवाद्यैस्त्रिभिस्तथा ॥ 23.81 ॥

विश्वास-प्रस्तुतिः - 23.82

चतुर्भिर्मातृकाबीजैराद्यैरौर्वान्तिमैः स्वरैः।
आदिद्विसप्तसंभिन्नैः काद्यैः क्षान्तैश्च वर्णकैः ॥ 23.82 ॥

मूलम् - 23.82

चतुर्भिर्मातृकाबीजैराद्यैरौर्वान्तिमैः स्वरैः।
आदिद्विसप्तसंभिन्नैः काद्यैः क्षान्तैश्च वर्णकैः ॥ 23.82 ॥

विश्वास-प्रस्तुतिः - 23.83

त्रैलोक्यैश्वर्यदोपेतैः शतैः पञ्चभिरक्षरैः22
तावद्भिश्चैव सृष्ट्यन्तैः सहस्रेणेति संहतैः23 ॥ 23.83 ॥

मूलम् - 23.83

त्रैलोक्यैश्वर्यदोपेतैः शतैः पञ्चभिरक्षरैः22
तावद्भिश्चैव सृष्ट्यन्तैः सहस्रेणेति संहतैः23 ॥ 23.83 ॥

विश्वास-प्रस्तुतिः - 23.84

अराणि कल्पयेदेवं सहस्रं सद्विधिं श्रृणु।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके ॥ 23.84 ॥

मूलम् - 23.84

अराणि कल्पयेदेवं सहस्रं सद्विधिं श्रृणु।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके ॥ 23.84 ॥

विश्वास-प्रस्तुतिः - 23.85

रेफं मन्त्रार्णलक्षअम्यौ च रेफमित्यनया दिशा।
प्रागादिक्रमयोगेन लिखेदरसहस्रकम् ॥ 23.85 ॥

मूलम् - 23.85

रेफं मन्त्रार्णलक्षअम्यौ च रेफमित्यनया दिशा।
प्रागादिक्रमयोगेन लिखेदरसहस्रकम् ॥ 23.85 ॥

विश्वास-प्रस्तुतिः - 23.86

सहस्रारीयमुद्दिष्टा शब्दब्रह्ममयी परा।
ऐश्वर्यं बिन्दुसंयुक्तं वाग्भवं संप्रचक्षते ॥ 23.86 ॥

मूलम् - 23.86

सहस्रारीयमुद्दिष्टा शब्दब्रह्ममयी परा।
ऐश्वर्यं बिन्दुसंयुक्तं वाग्भवं संप्रचक्षते ॥ 23.86 ॥

विश्वास-प्रस्तुतिः - 23.87

करालविबुधाख्यस्था माया व्यापिसमन्विता।
कामराजमयं बीजं 24सोमोर्वव्यापिसंयुता ॥ 23.87 ॥

मूलम् - 23.87

करालविबुधाख्यस्था माया व्यापिसमन्विता।
कामराजमयं बीजं 24सोमोर्वव्यापिसंयुता ॥ 23.87 ॥

25बीजं सारस्वतमिदं वाग्भवाद्या इमे त्रयः।
कालानलस्थकमलबास्करानिलगामिनी26॥ 23.88 ॥

विश्वास-प्रस्तुतिः - 23.89

माया 27व्यापिसमायुक्ता मातृकाबीजमादिमम्।
अशेषभुवनाधारसूर्यानलविहारिणी ॥ 23.89 ॥

मूलम् - 23.89

माया 27व्यापिसमायुक्ता मातृकाबीजमादिमम्।
अशेषभुवनाधारसूर्यानलविहारिणी ॥ 23.89 ॥

विश्वास-प्रस्तुतिः - 23.90

पञ्चबिन्दुर्व्यापियुता द्वितीयं बिजमुच्यते।
सोमानलस्थसूक्ष्मस्थानन्दव्यापिसमन्वयः28॥ 23.90 ॥

मूलम् - 23.90

पञ्चबिन्दुर्व्यापियुता द्वितीयं बिजमुच्यते।
सोमानलस्थसूक्ष्मस्थानन्दव्यापिसमन्वयः28॥ 23.90 ॥

तृतीयं बीजमुद्दिष्टं चतुर्थमपि मे श्रृणु। [^37]सोमतालाङ्कसूक्ष्मस्थकालपावकगोपना[^38] ॥ 23.91 ॥
विश्वास-प्रस्तुतिः - 23.92

कूटीकृता व्यापियुता चतुर्थं बीजमुत्तमम्।
बीजानीमानि चत्वारि मातृकायां महामुने ॥ 23.92 ॥

मूलम् - 23.92

कूटीकृता व्यापियुता चतुर्थं बीजमुत्तमम्।
बीजानीमानि चत्वारि मातृकायां महामुने ॥ 23.92 ॥

विश्वास-प्रस्तुतिः - 23.93

तत्तदक्षरसंयुक्तं मन्त्रं चोभयपार्श्वयोः।
अराणां विलिखेन्मन्त्री सहस्रारविधिक्रमे ॥ 23.93 ॥

मूलम् - 23.93

तत्तदक्षरसंयुक्तं मन्त्रं चोभयपार्श्वयोः।
अराणां विलिखेन्मन्त्री सहस्रारविधिक्रमे ॥ 23.93 ॥

विश्वास-प्रस्तुतिः - 23.94

मन्त्रार्णग्रथितां मन्त्री मातृकां प्रतिलोमिकाम्।
विलिखेत् परितो मन्त्री तारादिग्रथितं च हुम् ॥ 23.94 ॥

मूलम् - 23.94

मन्त्रार्णग्रथितां मन्त्री मातृकां प्रतिलोमिकाम्।
विलिखेत् परितो मन्त्री तारादिग्रथितं च हुम् ॥ 23.94 ॥

विश्वास-प्रस्तुतिः - 23.95

बहिर्लिखेच्छक्तिताररमास्त्रिस्त्रिर्विचक्षणः।
फट्कारग्रथितां चापि मातृकां 29प्रधिमालिखेत्॥ 23.95 ॥

मूलम् - 23.95

बहिर्लिखेच्छक्तिताररमास्त्रिस्त्रिर्विचक्षणः।
फट्कारग्रथितां चापि मातृकां 29प्रधिमालिखेत्॥ 23.95 ॥

एतत् तन्मातृकाचक्रं यत्र सर्वं प्रतिष्ठितम्।

30यद्बीजं मातृकाक्षाद्यं तद्बहिः प्रधिमालिखेत् ॥ 23.96 ॥

विश्वास-प्रस्तुतिः - 23.97

ततश्चिन्तामणिं बाह्ये तद्बहिश्च लिखेत् पराम्।
परावरां तद्बहिश्च तद्बहिः श्रियमालिखेत् ॥ 23.97 ॥

मूलम् - 23.97

ततश्चिन्तामणिं बाह्ये तद्बहिश्च लिखेत् पराम्।
परावरां तद्बहिश्च तद्बहिः श्रियमालिखेत् ॥ 23.97 ॥

विश्वास-प्रस्तुतिः - 23.98

तद्बहिस्तारिकां चैव तद्बहिस्तारकं परम्।
तद्बहिश्चाङ्कुशांस्त्रिस्त्रिः पाशांस्त्रिस्त्रिश्च तद्बहिः ॥ 23.98 ॥

मूलम् - 23.98

तद्बहिस्तारिकां चैव तद्बहिस्तारकं परम्।
तद्बहिश्चाङ्कुशांस्त्रिस्त्रिः पाशांस्त्रिस्त्रिश्च तद्बहिः ॥ 23.98 ॥

[^41]आचक्रादीनि चाङ्गानि तद्बहिः परितो लिखेत्। तद्बहिश्चापि दिग्बन्धं तस्य रूपमिदं श्रृणु ॥ 23.99 ॥ पुरुषाय ततः स्वाहा दिङ्नामामर्षणं ततः। [^42]सहेति च ततः पश्चाद्बन्धयामीति दिग्गतम् ॥ 23.100 ॥ आत्मने च ततः स्वाहा विदिङ्नामाप्यमर्षणम्।
विश्वास-प्रस्तुतिः - 23.101

सहेति च ततः स्वाहा विदिङ्नामाप्यमर्षणम्।
सहेति च ततः पश्चाद्बन्धयामि विदिग्गतम् ॥ 23.101 ॥

मूलम् - 23.101

सहेति च ततः स्वाहा विदिङ्नामाप्यमर्षणम्।
सहेति च ततः पश्चाद्बन्धयामि विदिग्गतम् ॥ 23.101 ॥

विश्वास-प्रस्तुतिः - 23.102

विलिखेच्चक्रगायत्रीमग्निपाकारमन्ततः31
आकाशमण्डलं बाह्ये तद्बीजेन समन्वितम् ॥ 23.102 ॥

मूलम् - 23.102

विलिखेच्चक्रगायत्रीमग्निपाकारमन्ततः31
आकाशमण्डलं बाह्ये तद्बीजेन समन्वितम् ॥ 23.102 ॥

[^44]वायुबीजं तु तद्बाह्ये स्वबीजेन समन्वितम्। [^45]वह्निबीजं तु तद्बाह्ये स्वबीजेन समन्वितम् ॥ 23.103 ॥
विश्वास-प्रस्तुतिः - 23.104

आप्यं तु मण्डलं बाह्ये स्वबीजेन समन्वितम्।
तद्बाह्ये पार्थिवं बिम्बं स्वबीजेन समन्वितम् ॥ 23.104 ॥

मूलम् - 23.104

आप्यं तु मण्डलं बाह्ये स्वबीजेन समन्वितम्।
तद्बाह्ये पार्थिवं बिम्बं स्वबीजेन समन्वितम् ॥ 23.104 ॥

प्राणः सूक्ष्मोऽनलश्चैव[^46] वारुणः पुरुषेश्वरः।
विश्वास-प्रस्तुतिः - 23.106

अनलः कमलश्चैव भास्करो मर्दनस्तथा।
अनलः सूक्ष्म और्वश्चाप्यूर्जः पिण्डीकृता इमे ॥ 23.106 ॥

मूलम् - 23.106

अनलः कमलश्चैव भास्करो मर्दनस्तथा।
अनलः सूक्ष्म और्वश्चाप्यूर्जः पिण्डीकृता इमे ॥ 23.106 ॥

विश्वास-प्रस्तुतिः - 23.107

सव्यापिनः स्मृतं बीजं चिन्तामणिरिदं परम्।
परा नाम महाविद्या सोमस्थौर्वस्थसृष्टिका ॥ 23.107 ॥

मूलम् - 23.107

सव्यापिनः स्मृतं बीजं चिन्तामणिरिदं परम्।
परा नाम महाविद्या सोमस्थौर्वस्थसृष्टिका ॥ 23.107 ॥

विश्वास-प्रस्तुतिः - 23.108

सव्यापी सोमगो विष्णुरियं प्रोक्ता परावरा।
सौदर्शनेन कूटेन पृथिवीं परिवेष्टयेत् ॥ 23.108 ॥

मूलम् - 23.108

सव्यापी सोमगो विष्णुरियं प्रोक्ता परावरा।
सौदर्शनेन कूटेन पृथिवीं परिवेष्टयेत् ॥ 23.108 ॥

[^45]योनिं सुदर्शनस्याथ वेष्टयेत् तारया बहिः। सोमः सूर्यस्ततः सोमः कालपावकयोर्द्वयम् ॥ 23.109 ॥
विश्वास-प्रस्तुतिः - 23.110

सौदर्शनमिदं कूटं निरचां पञ्चकं हलाम्।
एतत् सौदर्शनं रूपं कालानलसमद्युति ॥ 23.110 ॥

मूलम् - 23.110

सौदर्शनमिदं कूटं निरचां पञ्चकं हलाम्।
एतत् सौदर्शनं रूपं कालानलसमद्युति ॥ 23.110 ॥

शमयेत् कूटमेतद्वै तारयामृतरूपया।
विश्वास-प्रस्तुतिः - 23.111

अग्नीषोमात्मकं चक्रमेतत्ते दर्शितं मुने।
वैष्णवं परमं तेजो 32ध्याहि चक्रमिदं सदा ॥ 23.111 ॥

मूलम् - 23.111

अग्नीषोमात्मकं चक्रमेतत्ते दर्शितं मुने।
वैष्णवं परमं तेजो 32ध्याहि चक्रमिदं सदा ॥ 23.111 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां वासुदेवादियन्त्रनिरूपणं नाम त्रयोविंसोऽध्यायः आदितः श्लोकाः 1415

  1. मयस्यैतदक्षं B C E F ↩︎

  2. त्वरिताः B C E F ↩︎

  3. अनिशम् B C ↩︎ ↩︎

  4. देवैरनुष्ठितम् B C E F ↩︎ ↩︎

  5. मन्त्रमस्याक्षं E ↩︎ ↩︎

  6. सहद्वय D ↩︎ ↩︎

  7. कर्षयेन्नाभिं D ↩︎ ↩︎

  8. नृसिंहानुष्टभं B C ↩︎ ↩︎

  9. दिव्या B.F ↩︎ ↩︎

  10. देवानां D ↩︎ ↩︎

  11. नेत्रस्थं D ↩︎ ↩︎

  12. जगत् A ↩︎ ↩︎

  13. तत्र D ↩︎ ↩︎

  14. तेजसः D ↩︎ ↩︎

  15. अद्भुतम् E.F ↩︎ ↩︎

  16. पङ्क्तीरेखाः E; पङ्क्तिरेखाः B C ↩︎ ↩︎

  17. विनिर्जितम् D ↩︎ ↩︎

  18. तद्वहिर्मातृकां श्रिताम् B C E F ↩︎ ↩︎

  19. मन्त्रयेन्नाभिं D ↩︎ ↩︎

  20. स्यात् D ↩︎ ↩︎

  21. प्रविभागशः A B C ↩︎ ↩︎

  22. पञ्च पञ्चभिरक्षरैः B C;शनैः पञ्चभिरक्षरैः D ↩︎ ↩︎

  23. संहरैः D ↩︎ ↩︎

  24. सोमोर्वौर्यापि संयुता D ↩︎ ↩︎

  25. सारस्वतमिदं बीजं D ↩︎

  26. नलभामिनि E ↩︎

  27. द्व्यादि D ↩︎ ↩︎

  28. सूक्ष्मस्थ आनन्दो व्यापिसंमितम् A B C E F ↩︎ ↩︎

  29. बहिरालिखेत् D ↩︎ ↩︎

  30. यं बीजम् D ↩︎

  31. प्राकारकं ततः D ↩︎ ↩︎

  32. व्यापि D ↩︎ ↩︎