मन्त्रमयरक्षानिरूपणं नाम द्वाविंसोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
तत्रादौ चतुररब्रह्मचक्रम्
अहिर्बुध्न्यः—
श्रृणु 1मन्त्रमयीं रक्षां वाङ्भयी या निगद्यते।
2यस्मिन् विश्वमिदं प्रोतं सदेवासुरमानुषम्3 ॥ 22.1 ॥
विश्वास-प्रस्तुतिः - 22.2
मन्त्रनाथः पुरा यो हि षड्वर्णः समुदाहृतः।
कामधुक् साधकेन्द्राणामचिन्त्याश्चर्यबृंहितः ॥ 22.2 ॥
मूलम् - 22.2
मन्त्रनाथः पुरा यो हि षड्वर्णः समुदाहृतः।
कामधुक् साधकेन्द्राणामचिन्त्याश्चर्यबृंहितः ॥ 22.2 ॥
विश्वास-प्रस्तुतिः - 22.3
तं तारशक्तिश्रीबीजैर्ग्रथितं 4कल्पयेन्मनुम्।
तारेण वेष्टयेत् त्रिस्तं तथा शक्त्या तथा श्रिया ॥ 22.3 ॥
मूलम् - 22.3
तं तारशक्तिश्रीबीजैर्ग्रथितं 4कल्पयेन्मनुम्।
तारेण वेष्टयेत् त्रिस्तं तथा शक्त्या तथा श्रिया ॥ 22.3 ॥
विश्वास-प्रस्तुतिः - 22.4
विलिखेत् परितो भूयः सहग्रथितमातृकम्।
परितो विलिखेद् बाह्ये साध्यनाम विदर्भितम् ॥ 22.4 ॥
मूलम् - 22.4
विलिखेत् परितो भूयः सहग्रथितमातृकम्।
परितो विलिखेद् बाह्ये साध्यनाम विदर्भितम् ॥ 22.4 ॥
विश्वास-प्रस्तुतिः - 22.5
मन्त्रेश्वरं बहिर्भूयस्तारशक्तिश्रियो5 लिखेत्।
अक्षक्लृप्तिरियं दिव्या देवैरपि सुदुर्लभा ॥ 22.5 ॥
मूलम् - 22.5
मन्त्रेश्वरं बहिर्भूयस्तारशक्तिश्रियो5 लिखेत्।
अक्षक्लृप्तिरियं दिव्या देवैरपि सुदुर्लभा ॥ 22.5 ॥
विश्वास-प्रस्तुतिः - 22.6
स्राकारं कल्पयेन्नाभिं शक्तिश्रीकारलोलितम्।
स्राकारग्रथितेनैव मन्त्रनाथेन वेष्टयेत् ॥ 22.6 ॥
मूलम् - 22.6
स्राकारं कल्पयेन्नाभिं शक्तिश्रीकारलोलितम्।
स्राकारग्रथितेनैव मन्त्रनाथेन वेष्टयेत् ॥ 22.6 ॥
विश्वास-प्रस्तुतिः - 22.7
शक्तिश्रीतारग्रथितां मातृकां बहिरालिखेत् ।
अप्रमेयं ततस्तारं प्रथमं शक्तिमप्यतः ॥ 22.7 ॥
मूलम् - 22.7
शक्तिश्रीतारग्रथितां मातृकां बहिरालिखेत् ।
अप्रमेयं ततस्तारं प्रथमं शक्तिमप्यतः ॥ 22.7 ॥
विश्वास-प्रस्तुतिः - 22.8
व्यापकं च श्रियं चेति क्रमात् पूर्वमरं लिखेत्।
अप्रमेयेण ग्रथितं पार्श्वयोर्मन्त्रमालिखेत् ॥ 22.8 ॥
मूलम् - 22.8
व्यापकं च श्रियं चेति क्रमात् पूर्वमरं लिखेत्।
अप्रमेयेण ग्रथितं पार्श्वयोर्मन्त्रमालिखेत् ॥ 22.8 ॥
विश्वास-प्रस्तुतिः - 22.11
आद्यन्तयोरराणां च रेफं मन्त्राक्षरं लिखेत्।
कालानलसमज्योतिर्भवेदरचतुष्टयम्॥ 22.11 ॥
मूलम् - 22.11
आद्यन्तयोरराणां च रेफं मन्त्राक्षरं लिखेत्।
कालानलसमज्योतिर्भवेदरचतुष्टयम्॥ 22.11 ॥
विश्वास-प्रस्तुतिः - 22.12
परितः कल्पयेन्नेमिं वैष्णवं तु षडक्षरम्।
शक्तिताररमाबीजैर्ग्रथितं7 8वर्मवेष्टितम्॥ 22.12 ॥
मूलम् - 22.12
परितः कल्पयेन्नेमिं वैष्णवं तु षडक्षरम्।
शक्तिताररमाबीजैर्ग्रथितं7 8वर्मवेष्टितम्॥ 22.12 ॥
विश्वास-प्रस्तुतिः - 22.13
शक्तिताररमाश्चैव परितस्त्रिस्त्रिरालिखेत्।
फट्कारशक्तितारश्रीग्रथितां मातृकां पुनः ॥ 22.13 ॥
मूलम् - 22.13
शक्तिताररमाश्चैव परितस्त्रिस्त्रिरालिखेत्।
फट्कारशक्तितारश्रीग्रथितां मातृकां पुनः ॥ 22.13 ॥
विश्वास-प्रस्तुतिः - 22.15
तारशक्तिरमाबीजैर्ग्रथितं मन्त्रनायकम्।
परितो विलिखेच्चक्रं पूर्वमक्षीकृतं हि यत्9 ॥ 22.15 ॥
मूलम् - 22.15
तारशक्तिरमाबीजैर्ग्रथितं मन्त्रनायकम्।
परितो विलिखेच्चक्रं पूर्वमक्षीकृतं हि यत्9 ॥ 22.15 ॥
विश्वास-प्रस्तुतिः - 22.16
नामवर्णान् लिखेद् बाह्यो तारादित्रयदर्भितान्10।
वैष्णवेन षडर्णेन ग्रथितं मन्त्रनायकम् ॥ 22.16 ॥
मूलम् - 22.16
नामवर्णान् लिखेद् बाह्यो तारादित्रयदर्भितान्10।
वैष्णवेन षडर्णेन ग्रथितं मन्त्रनायकम् ॥ 22.16 ॥
विश्वास-प्रस्तुतिः - 22.17
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्11।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ 22.17 ॥
मूलम् - 22.17
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्11।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ 22.17 ॥
विश्वास-प्रस्तुतिः - 22.18
वैष्णवेन षडर्णेन शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 22.18 ॥
मूलम् - 22.18
वैष्णवेन षडर्णेन शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 22.18 ॥
विश्वास-प्रस्तुतिः - 22.19
स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
रेफं च प्रणवं रेफं प्रणवं शक्तिमेव च ॥ 22.19 ॥
मूलम् - 22.19
स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
रेफं च प्रणवं रेफं प्रणवं शक्तिमेव च ॥ 22.19 ॥
विश्वास-प्रस्तुतिः - 22.20
रेफं च प्रणवं पश्चाच्छ्रियं पश्चान्महामुने।
रेफं चेति लिखेत् पूर्वमरं कालानलद्युतिम् ॥ 22.20 ॥
मूलम् - 22.20
रेफं च प्रणवं पश्चाच्छ्रियं पश्चान्महामुने।
रेफं चेति लिखेत् पूर्वमरं कालानलद्युतिम् ॥ 22.20 ॥
विश्वास-प्रस्तुतिः - 22.21
प्रणवालोलितं मन्त्रमाग्नेयमरमालिखेत्।
रेफं विं प्रणवं रेफं विं शक्तिं रेफमेव च ॥ 22.21 ॥
मूलम् - 22.21
प्रणवालोलितं मन्त्रमाग्नेयमरमालिखेत्।
रेफं विं प्रणवं रेफं विं शक्तिं रेफमेव च ॥ 22.21 ॥
विश्वास-प्रस्तुतिः - 22.22
विं श्रियं रेफमित्येवं दक्षिणं चारमालिखेत्।
रेफं ष्णं प्रणवं रेफं ष्णं शक्तिं रेफमेव च ॥ 22.22 ॥
मूलम् - 22.22
विं श्रियं रेफमित्येवं दक्षिणं चारमालिखेत्।
रेफं ष्णं प्रणवं रेफं ष्णं शक्तिं रेफमेव च ॥ 22.22 ॥
विश्वास-प्रस्तुतिः - 22.23
ष्णं 14[श्रियं रेफमित्येवं नैर्ऋतं चाप्यरं लिखेत्।
रेफं वें प्रणवं रेफं वें शक्तिं रेफमेव च ॥ 22.23 ॥
मूलम् - 22.23
ष्णं 14[श्रियं रेफमित्येवं नैर्ऋतं चाप्यरं लिखेत्।
रेफं वें प्रणवं रेफं वें शक्तिं रेफमेव च ॥ 22.23 ॥
विश्वास-प्रस्तुतिः - 22.26
मों श्रियं रेफमित्येवमैशानं12 चाप्यरं लिखेत्।
तत्तदक्षरसंदिष्टं13 मन्त्रं तत्पार्श्वयोर्लिखेत् ॥ 22.26 ॥
मूलम् - 22.26
मों श्रियं रेफमित्येवमैशानं12 चाप्यरं लिखेत्।
तत्तदक्षरसंदिष्टं13 मन्त्रं तत्पार्श्वयोर्लिखेत् ॥ 22.26 ॥
विश्वास-प्रस्तुतिः - 22.27
दशाक्षराण्यराणि स्युः प्रत्येकं षडिमानि तु।
इयं हि षडरी दिव्या देवैरपि सुपूजिता ॥ 22.27 ॥
मूलम् - 22.27
दशाक्षराण्यराणि स्युः प्रत्येकं षडिमानि तु।
इयं हि षडरी दिव्या देवैरपि सुपूजिता ॥ 22.27 ॥
विश्वास-प्रस्तुतिः - 22.28
परितो विलिखेन्नेमिं मन्त्रमष्टाक्षरं बुधः।
हंकारं विलिखेन्नेमिं शक्तिश्रीतारलोलितम् ॥ 22.28 ॥
मूलम् - 22.28
परितो विलिखेन्नेमिं मन्त्रमष्टाक्षरं बुधः।
हंकारं विलिखेन्नेमिं शक्तिश्रीतारलोलितम् ॥ 22.28 ॥
विश्वास-प्रस्तुतिः - 22.29
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ 22.29 ॥
मूलम् - 22.29
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥ 22.29 ॥
विश्वास-प्रस्तुतिः - 22.31
अष्टाक्षरेण मन्त्रेण चक्रमष्टारमालिखेत्।
महाबलं 14महाभीमं कालानलसमद्युति15 ॥ 22.31 ॥
विश्वास-प्रस्तुतिः - 22.32
विधानमस्य चक्रस्य यथावदवधारय।
विलिखेत् परितो मन्त्रं तारादित्रयलोलितम् ॥ 22.32 ॥
मूलम् - 22.32
विधानमस्य चक्रस्य यथावदवधारय।
विलिखेत् परितो मन्त्रं तारादित्रयलोलितम् ॥ 22.32 ॥
विश्वास-प्रस्तुतिः - 22.33
नामवर्णान् लिखेद्बाह्यो तारादित्रयलोलितान्।
अष्टाक्षरेण मन्त्रेण ग्रथितं मन्त्रनायकम् ॥ 22.33 ॥
मूलम् - 22.33
नामवर्णान् लिखेद्बाह्यो तारादित्रयलोलितान्।
अष्टाक्षरेण मन्त्रेण ग्रथितं मन्त्रनायकम् ॥ 22.33 ॥
विश्वास-प्रस्तुतिः - 22.34
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ 22.34 ॥
मूलम् - 22.34
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥ 22.34 ॥
विश्वास-प्रस्तुतिः - 22.35
अष्टाक्षरेण मन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 22.35 ॥
मूलम् - 22.35
अष्टाक्षरेण मन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥ 22.35 ॥
विश्वास-प्रस्तुतिः - 22.36
स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा बहिरष्टाक्षरं लिखेत् ॥ 22.36 ॥
मूलम् - 22.36
स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा बहिरष्टाक्षरं लिखेत् ॥ 22.36 ॥
विश्वास-प्रस्तुतिः - 22.37
रेफं च प्रणवं तारं रेफं तारं च तारिकाम्।
रेफं तारं श्रियं चैव रं चेति प्रागरं लिखेत् ॥ 22.37 ॥
मूलम् - 22.37
रेफं च प्रणवं तारं रेफं तारं च तारिकाम्।
रेफं तारं श्रियं चैव रं चेति प्रागरं लिखेत् ॥ 22.37 ॥
विश्वास-प्रस्तुतिः - 22.38
रेफं नं तारकं रेफं नं शक्तिं रेफनौ तथा।
श्रियं रेफमिति प्राज्ञोऽप्याग्नेयं कल्पयेदरम् ॥ 22.38 ॥
मूलम् - 22.38
रेफं नं तारकं रेफं नं शक्तिं रेफनौ तथा।
श्रियं रेफमिति प्राज्ञोऽप्याग्नेयं कल्पयेदरम् ॥ 22.38 ॥
विश्वास-प्रस्तुतिः - 22.40
रेफं नां तारकं रेफं नां शक्तिं रेफमेव च।
नां श्रियं रेफमित्येवं नैर्ऋतं च लिखेदरम् ॥ 22.40 ॥
मूलम् - 22.40
रेफं नां तारकं रेफं नां शक्तिं रेफमेव च।
नां श्रियं रेफमित्येवं नैर्ऋतं च लिखेदरम् ॥ 22.40 ॥
विश्वास-प्रस्तुतिः - 22.41
रेफं रां तारकं रेफं रां शक्तिं रेफमेव च।
रां श्रियं रेफमित्येवं वारुणं च लिखेदरम् ॥ 22.41 ॥
मूलम् - 22.41
रेफं रां तारकं रेफं रां शक्तिं रेफमेव च।
रां श्रियं रेफमित्येवं वारुणं च लिखेदरम् ॥ 22.41 ॥
विश्वास-प्रस्तुतिः - 22.42
रेफं 16यं तारकं रेफं यं शक्तिं रेफमेव च।
यं श्रियं रेफमित्येवं वायव्यं च लिखेदरम् ॥ 22.42 ॥
मूलम् - 22.42
रेफं 16यं तारकं रेफं यं शक्तिं रेफमेव च।
यं श्रियं रेफमित्येवं वायव्यं च लिखेदरम् ॥ 22.42 ॥
विश्वास-प्रस्तुतिः - 22.43
रेफं णां तारकं रेफं णां शक्तिं रेफमेव च।
णां श्रियं रेफमित्येवं कौबेरं च लिखेदरम् ॥ 22.43 ॥
मूलम् - 22.43
रेफं णां तारकं रेफं णां शक्तिं रेफमेव च।
णां श्रियं रेफमित्येवं कौबेरं च लिखेदरम् ॥ 22.43 ॥
विश्वास-प्रस्तुतिः - 22.44
रेफं यं तारकं रेफं यं शक्तिं रेफमेव च।
यं श्रियं रेफमित्येवमैशानं च लिखेदरम् ॥ 22.44 ॥
मूलम् - 22.44
रेफं यं तारकं रेफं यं शक्तिं रेफमेव च।
यं श्रियं रेफमित्येवमैशानं च लिखेदरम् ॥ 22.44 ॥
विश्वास-प्रस्तुतिः - 22.46
परितः कल्पयेन्नेमिं द्वादशाक्षरमद्भुतम् ।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ 22.46 ॥
मूलम् - 22.46
परितः कल्पयेन्नेमिं द्वादशाक्षरमद्भुतम् ।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥ 22.46 ॥
विश्वास-प्रस्तुतिः - 22.48
अक्षं कृत्वा चक्रमेतद् द्वादशारं बहिर्लिखेत्।
वासुदेवं महाचक्रं विधिं तस्य निशामय ॥ 22.48 ॥
मूलम् - 22.48