२०

मन्त्रग्रहणादिदीक्षाविधानं नाम विंशोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

आचार्यलक्षणम्
अहिर्बुध्न्यः—

विश्वास-प्रस्तुतिः - 20.1

वेदवेदान्ततत्त्वज्ञो 1विद्यास्थानविचक्षणः।
ऊहापोहविधानज्ञो दैवपित्र्यक्रियापरः ॥ 20.1 ॥

मूलम् - 20.1

वेदवेदान्ततत्त्वज्ञो 1विद्यास्थानविचक्षणः।
ऊहापोहविधानज्ञो दैवपित्र्यक्रियापरः ॥ 20.1 ॥

अवक्ता चापवादानामकर्ता पापकर्मणाम्। [^2]अमत्सरी परोत्कर्षे परदुःखे घृणापरः ॥ 20.2 ॥
विश्वास-प्रस्तुतिः - 20.3

दयावान् सर्वभूतेषु हृष्टः परसुखोदये।
पुण्येषु मुदितायुक्त उपेक्षावान् कुबुद्धिषु ॥ 20.3 ॥

मूलम् - 20.3

दयावान् सर्वभूतेषु हृष्टः परसुखोदये।
पुण्येषु मुदितायुक्त उपेक्षावान् कुबुद्धिषु ॥ 20.3 ॥

विश्वास-प्रस्तुतिः - 20.4

तपःसंतोषशौचाढ्यो योगस्वाध्यायतत्परः।
पाञ्चरात्रविधानज्ञस्तन्त्रान्तरविचक्षणः ॥ 20.4 ॥

मूलम् - 20.4

तपःसंतोषशौचाढ्यो योगस्वाध्यायतत्परः।
पाञ्चरात्रविधानज्ञस्तन्त्रान्तरविचक्षणः ॥ 20.4 ॥

[^3]तन्त्राणामन्तरज्ञश्च मन्त्राणां [^4]कृत्यतत्त्ववित्। पदवाक्यप्रमाणज्ञो हेतुवादविचक्षणः ॥ 20.5 ॥
विश्वास-प्रस्तुतिः - 20.6

सामान्यस्यापवादस्य वेत्ता यन्त्रविचक्षणः।
कुण्डमण्डलभेदज्ञः 6क्रियाकारविचक्षणः ॥ 20.6 ॥

मूलम् - 20.6

सामान्यस्यापवादस्य वेत्ता यन्त्रविचक्षणः।
कुण्डमण्डलभेदज्ञः 6क्रियाकारविचक्षणः ॥ 20.6 ॥

विश्वास-प्रस्तुतिः - 20.7

अध्यात्मज्ञानकुशलः शान्तो दान्तो जितेन्द्रियः।
सदन्ववायसंभूत आचार्यो नाम वैष्णवः ॥ 20.7 ॥

मूलम् - 20.7

अध्यात्मज्ञानकुशलः शान्तो दान्तो जितेन्द्रियः।
सदन्ववायसंभूत आचार्यो नाम वैष्णवः ॥ 20.7 ॥

शिष्यलक्षणम्
आचार्यमाश्रयेच्छिष्यः 7श्रेयोऽर्थी सुसमाहितः।
8विनयव्रतशाली च द्विजातिः संस्कृतः शुचिः ॥ 20.8 ॥

विश्वास-प्रस्तुतिः - 20.9

ब्रह्मचर्यपरो धीमान् स्वदारनिरतोऽथवा।
अच्छलेन यथावत् स्वकृताकृतनिवेदकः॥ 20.9 ॥

मूलम् - 20.9

ब्रह्मचर्यपरो धीमान् स्वदारनिरतोऽथवा।
अच्छलेन यथावत् स्वकृताकृतनिवेदकः॥ 20.9 ॥

विश्वास-प्रस्तुतिः - 20.10

संसाराङ्गारमध्यस्थः पच्यमानः स्वकर्मभिः।
भवन्तं शरणं प्राप्त उपसन्नोऽस्म्यधीहि भोः ॥ 20.10 ॥

मूलम् - 20.10

संसाराङ्गारमध्यस्थः पच्यमानः स्वकर्मभिः।
भवन्तं शरणं प्राप्त उपसन्नोऽस्म्यधीहि भोः ॥ 20.10 ॥

इत्येवं प्रतिपद्येत शिष्य आचार्यसत्तमम्। दीक्षाक्रमः इत्येवं संप्रपन्नाय शिष्यायाच्छलवादिने ॥ 20.11 ॥
विश्वास-प्रस्तुतिः - 20.12

प्रत्यक्षाभिः परोक्षाभिरुपाधिभिरनेकधा।
शोधितायैकरूपाय रहस्याम्नायगोपिने ॥ 20.12 ॥

मूलम् - 20.12

प्रत्यक्षाभिः परोक्षाभिरुपाधिभिरनेकधा।
शोधितायैकरूपाय रहस्याम्नायगोपिने ॥ 20.12 ॥

विश्वास-प्रस्तुतिः - 20.13

अशठायानसूयाय लोभमोहाद्यसेविने।
संवत्सरं परीक्ष्यैवं परितः परितो धिया ॥ 20.13 ॥

मूलम् - 20.13

अशठायानसूयाय लोभमोहाद्यसेविने।
संवत्सरं परीक्ष्यैवं परितः परितो धिया ॥ 20.13 ॥

विश्वास-प्रस्तुतिः - 20.16

एवं पाणितलद्वन्द्वमङ्गुलीष्वथ विन्यसेत्।
उभाभ्यां मध्यमाग्राभ्यामुभयस्मिंस्तलद्वये ॥ 20.16 ॥

मूलम् - 20.16

एवं पाणितलद्वन्द्वमङ्गुलीष्वथ विन्यसेत्।
उभाभ्यां मध्यमाग्राभ्यामुभयस्मिंस्तलद्वये ॥ 20.16 ॥

विश्वास-प्रस्तुतिः - 20.17

तारकं तारिकां लक्ष्मीं प्रणवाद्यन्तगां न्यसेत्।
प्रणवाद्यन्तगं सोमं मध्यमेङ्गुष्ठपर्वणि ॥ 20.17 ॥

मूलम् - 20.17

तारकं तारिकां लक्ष्मीं प्रणवाद्यन्तगां न्यसेत्।
प्रणवाद्यन्तगं सोमं मध्यमेङ्गुष्ठपर्वणि ॥ 20.17 ॥

विश्वास-प्रस्तुतिः - 20.18

सबिन्दुं विन्यसेत् प्राणमेवं तर्जनिपर्वणि।
न्यसेद्वर्णास्तृतीयादीनङ्गुल्यन्तरपर्वसु ॥ 20.18 ॥

मूलम् - 20.18

सबिन्दुं विन्यसेत् प्राणमेवं तर्जनिपर्वणि।
न्यसेद्वर्णास्तृतीयादीनङ्गुल्यन्तरपर्वसु ॥ 20.18 ॥

लाङ्गलं परमास्त्रं तु न्यसेदूर्ध्वाङ्गुलीष्वथ।

ऋष्यादीनां स्थानभेदः
ऋषिं शिरसि विन्यस्येच्छन्दो वदनगोचरम् ॥ 20.19 ॥
नारायणमनाद्यन्तं देवतां हृदये स्मरेत्।

परसूक्ष्मस्थूलमन्त्राणामृषयः
पराकारस्य मन्त्रस्य परमात्मा ऋषिः स्मृतः ॥ 20.20 ॥
संकर्षणस्तु सूक्ष्मस्य स्थूलस्याहमृषिः स्मृतः।

विश्वास-प्रस्तुतिः - 20.23

दिव्यात् संकर्षणादेशात् परमेण समाधिना।
सर्व आथर्वणो वेदो मथितस्तु शनैः शनैः ॥ 20.23 ॥

मूलम् - 20.23

दिव्यात् संकर्षणादेशात् परमेण समाधिना।
सर्व आथर्वणो वेदो मथितस्तु शनैः शनैः ॥ 20.23 ॥

विश्वास-प्रस्तुतिः - 20.24

मथ्यमानात् ततस्तस्माद् दध्नो घृतमिवोद्धृतः9
मन्त्रोऽयं सपरीवारः साङ्गोपाङ्गः सनातनः ॥ 20.24 ॥

मूलम् - 20.24

मथ्यमानात् ततस्तस्माद् दध्नो घृतमिवोद्धृतः9
मन्त्रोऽयं सपरीवारः साङ्गोपाङ्गः सनातनः ॥ 20.24 ॥

विश्वास-प्रस्तुतिः - 20.25

स्थूलस्य मन्त्रनाथस्य ततो मामृषिमूचिरे।
दैवी ब्राह्मी तथार्षी च गायत्री छन्द उच्यते ॥ 20.25 ॥

मूलम् - 20.25

स्थूलस्य मन्त्रनाथस्य ततो मामृषिमूचिरे।
दैवी ब्राह्मी तथार्षी च गायत्री छन्द उच्यते ॥ 20.25 ॥

परः सूक्ष्मस्तथा स्थूलः परमात्मा च देवता। देहे संहारन्यासक्रमः विन्यसेदथ गात्रेषु मन्त्रनाथ सनातनम् ॥ 20.26 ॥
विश्वास-प्रस्तुतिः - 20.27

परसूक्ष्मादिभावेन सोमार्कानलदीधितिम्10
प्रणवादित्रयं मूर्ध्नि ललाटे सोममेव च ॥ 20.27 ॥

मूलम् - 20.27

परसूक्ष्मादिभावेन सोमार्कानलदीधितिम्10
प्रणवादित्रयं मूर्ध्नि ललाटे सोममेव च ॥ 20.27 ॥

आस्ये सूर्यं गले स्रां च हृदिं रं नाभिगं तु हुं[^12]। [^13]मूलाधारे तु फट्कारं तारादित्रितयं हृदि ॥ 20.28 ॥

अङ्गोपाङ्गन्यासः

विश्वास-प्रस्तुतिः - 20.30

हृदयादीन्यथाङ्गानि स्वेषु स्थानेषु विन्यसेत्।
उपाङ्गेषु तथा न्यासं मान्त्रैर्वर्णैः समाचरेत् ॥ 20.30 ॥

मूलम् - 20.30

हृदयादीन्यथाङ्गानि स्वेषु स्थानेषु विन्यसेत्।
उपाङ्गेषु तथा न्यासं मान्त्रैर्वर्णैः समाचरेत् ॥ 20.30 ॥

देहस्य त्रेधा विभावनम्
विश्वास-प्रस्तुतिः - 20.31

स्थूलसूक्षअमपरत्वेन देहं विद्यात् ततस्त्रिधा।
अङ्गप्रत्यङ्गकोसाढ्यं11 प्रत्यक्षं स्थूलमुच्यते ॥ 20.31 ॥

मूलम् - 20.31

स्थूलसूक्षअमपरत्वेन देहं विद्यात् ततस्त्रिधा।
अङ्गप्रत्यङ्गकोसाढ्यं11 प्रत्यक्षं स्थूलमुच्यते ॥ 20.31 ॥

विश्वास-प्रस्तुतिः - 20.32

पुर्यष्टकं तु सूक्ष्माख्यं परमाणव उच्यते।
वह्न्यर्ककोटिसंकाशज्वालाकोलाहलाकुले ॥ 20.32 ॥

मूलम् - 20.32

पुर्यष्टकं तु सूक्ष्माख्यं परमाणव उच्यते।
वह्न्यर्ककोटिसंकाशज्वालाकोलाहलाकुले ॥ 20.32 ॥

विश्वास-प्रस्तुतिः - 20.33

त्रिविधे 12मन्त्रनाथेऽस्मिंस्त्रिविधं 13भावयेद्वपुः।
तेजो दिव्यं महच्छुभ्रं मनः स्थं हृत्स्थमव्ययम्॥ 20.33 ॥

मूलम् - 20.33

त्रिविधे 12मन्त्रनाथेऽस्मिंस्त्रिविधं 13भावयेद्वपुः।
तेजो दिव्यं महच्छुभ्रं मनः स्थं हृत्स्थमव्ययम्॥ 20.33 ॥

नारायणमयं ध्यायेदात्मानं ज्योतिषां [^19]पतिम्। [^20]ततस्तच्चक्रमध्याक्षसोमसूर्यानलात्मनि ॥ 20.34 ॥ मज्जयित्वा स्वमात्मानं निर्वासनमथोद्धरेत्। सृष्टिन्यासः ततः परादिभावस्थान् मन्त्रनाथान् सनातनात् ॥ 20.35 ॥
विश्वास-प्रस्तुतिः - 20.36

तेनैव 14क्रमयोगेन तनूस्ता विसृजेत् पुनः।
तासु प्रवेश्य चात्मानं पुनर्न्यासं समाचरेत् ॥ 20.36 ॥

मूलम् - 20.36

तेनैव 14क्रमयोगेन तनूस्ता विसृजेत् पुनः।
तासु प्रवेश्य चात्मानं पुनर्न्यासं समाचरेत् ॥ 20.36 ॥

[^22]हस्तदेहादिगो न्यासो यावत् पूर्वमुदाहृतः। शिष्यावेक्षणम् अथ मन्त्रतनुर्दिव्यो मन्त्रात्मा मन्त्रसारथिः ॥ 20.37 ॥
विश्वास-प्रस्तुतिः - 20.38

विष्णुसंकल्पजं रूपं वहन् सौदर्शनं वपुः।
नेत्रैः शिष्यमवेक्षेत वह्न्यर्केन्दुमयैः क्रमात् ॥ 20.38 ॥

मूलम् - 20.38

विष्णुसंकल्पजं रूपं वहन् सौदर्शनं वपुः।
नेत्रैः शिष्यमवेक्षेत वह्न्यर्केन्दुमयैः क्रमात् ॥ 20.38 ॥

शिष्यस्य संहारन्यासः

विश्वास-प्रस्तुतिः - 20.39

अथ स्थूलादिभावेन दहेन्मन्त्रेण 15तद्धिया।
पूर्वोक्तक्रमयोगेन शिष्यात्मानं परात्मनि ॥ 20.39 ॥

मूलम् - 20.39

अथ स्थूलादिभावेन दहेन्मन्त्रेण 15तद्धिया।
पूर्वोक्तक्रमयोगेन शिष्यात्मानं परात्मनि ॥ 20.39 ॥

सृष्टिन्यासः

विश्वास-प्रस्तुतिः - 20.40

निमज्जयित्वेत्याद्यं तु क्रमं सर्वं समाचरेत्।
मनसा शुष्कदग्धोत्थे शिष्यदेहे तथा तथा ॥ 20.40 ॥

मूलम् - 20.40

निमज्जयित्वेत्याद्यं तु क्रमं सर्वं समाचरेत्।
मनसा शुष्कदग्धोत्थे शिष्यदेहे तथा तथा ॥ 20.40 ॥

विन्यसेत् [^24]क्रमयोगेन मन्त्रन्यासं धिया ततः। मन्त्रोपदेशः अथ तस्योपदेष्टव्यः सङाङ्गो मन्त्रनायकः ॥ 20.41 ॥ सार्थः सप्रतिपत्तिश्च यो यो भावः पुरोदितः।

विंशोऽध्यायः
एवं गृहीतमात्रे तु 16मन्त्रनाथे सनातने ॥ 20.42 ॥
17उत्पद्यते स्वयं चित्ते प्रत्ययो देवनिर्मितः।
शिष्यकृत्यम्
सम्यगित्थं गृहीतेन मन्त्रेणानेन मन्त्रवित् ॥ 20.43 ॥

विश्वास-प्रस्तुतिः - 20.44

कृतार्थं मन्यमानः स्वं गुरवेऽथ निवेदयेत्।
आत्मानमथ चात्मीयं यत् किंचिदुत् विद्यते ॥ 20.44 ॥

मूलम् - 20.44

कृतार्थं मन्यमानः स्वं गुरवेऽथ निवेदयेत्।
आत्मानमथ चात्मीयं यत् किंचिदुत् विद्यते ॥ 20.44 ॥

विश्वास-प्रस्तुतिः - 20.45

विना पापमनिष्टं च सर्वं तस्मै निवेदयेत्।
एवं निवेद्य मन्वीत कृतार्थोऽहमिति स्वयम् ॥ 20.45 ॥

मूलम् - 20.45

विना पापमनिष्टं च सर्वं तस्मै निवेदयेत्।
एवं निवेद्य मन्वीत कृतार्थोऽहमिति स्वयम् ॥ 20.45 ॥

[^27]एवंधियो ह्यच्छलेन मन्त्रः स्वेन प्रकाशते। [^28]भावस्य तारतम्येन तत्तद्दीक्षादिसाधनम् ॥ 20.46 ॥
विश्वास-प्रस्तुतिः - 20.47

दीक्षया दीक्षयित्वाथ पात्रयित्वाथवा धिया18
संस्कारेणाथर्वणेन यद्वा संस्कृत्य मन्त्रतः ॥ 20.47 ॥

मूलम् - 20.47

दीक्षया दीक्षयित्वाथ पात्रयित्वाथवा धिया18
संस्कारेणाथर्वणेन यद्वा संस्कृत्य मन्त्रतः ॥ 20.47 ॥

विश्वास-प्रस्तुतिः - 20.48

मन्त्रोऽयमुपदेष्टव्यो गुरुणा 19गुरुसेविनः।
इत्थं ग्रहणसिद्धेन साधनेनाथ 20वाग्यतः ॥ 20.48 ॥

मूलम् - 20.48

मन्त्रोऽयमुपदेष्टव्यो गुरुणा 19गुरुसेविनः।
इत्थं ग्रहणसिद्धेन साधनेनाथ 20वाग्यतः ॥ 20.48 ॥

मन्त्रेणानेन सिद्धेन कुर्याल्लोकहितं सुधीः। क्षुद्रार्थं मन्त्रो न प्रयोज्यः [^32]न जातु यस्य कस्यापि क्षुद्रस्यात्मन एव वा ॥ 20.49 ॥
विश्वास-प्रस्तुतिः - 20.51

राष्ट्रस्य वाथ राज्ञो वा राजमात्रस्य वा कृते।
भावायैव विधिः कार्यो नैवाभावाय कर्हिचित् ॥ 20.51 ॥

मूलम् - 20.51

राष्ट्रस्य वाथ राज्ञो वा राजमात्रस्य वा कृते।
भावायैव विधिः कार्यो नैवाभावाय कर्हिचित् ॥ 20.51 ॥

पुरश्चरणार्थप्रदेशविधिः
विश्वास-प्रस्तुतिः - 20.52

पर्वताग्रे नदीतीरे विष्णोरायतनेऽपि वा21
ऋषीणामाश्रमे वापि सिद्धानामालयेऽपि वा22॥ 20.52 ॥

मूलम् - 20.52

पर्वताग्रे नदीतीरे विष्णोरायतनेऽपि वा21
ऋषीणामाश्रमे वापि सिद्धानामालयेऽपि वा22॥ 20.52 ॥

गवामायतने वापि वह्न्यायतन एव वा। कृच्छ्रादिभिः शरीरशोधनम् त्रिभिः कृच्छ्रैर्विशोध्य स्वं गायत्रीनियुतेन वा॥ 20.53 ॥ त्रिभिर्वा ब्रह्मकूर्चोत्थैः स्नानैः सात्त्वतचोदितैः। पुरश्चरणाङ्गनियमाः अहरेकं हरेर्बिम्बमापादमवलोकयेत्[^36]॥ 20.54 ॥ ततो भैक्षहविष्याशी यावकेनोत वर्तयेत्। [^37]पयोव्रतो हविष्याशी यथा वा शक्नुयान्नरः ॥ 20.55 ॥

मन्त्रजपादिसंख्या

विश्वास-प्रस्तुतिः - 20.56

जपेल्लक्षाणि 23षण्मन्त्री जुहुयाच्चायुतानि षट्।
तावच्च तर्पयेत् तोयैर्ब्राह्मणानथ24 तर्पयेत् ॥ 20.56 ॥

मूलम् - 20.56

जपेल्लक्षाणि 23षण्मन्त्री जुहुयाच्चायुतानि षट्।
तावच्च तर्पयेत् तोयैर्ब्राह्मणानथ24 तर्पयेत् ॥ 20.56 ॥

मन्त्रसिद्धिः अच्छलेनेतिवृत्तस्य मन्त्रनाथः प्रसीदति। तेन लोकसंरक्षा प्रसन्नेनाथ मन्त्रेण रक्षा लोकानुकम्पया ॥ 20.57 ॥ राजार्थितेन वै कार्या नार्थकार्पण्यतः क्वचित्। इति ते दर्शितः सम्यङ् मन्त्रनाथस्य विस्तरः। मन्त्रानधिकारिणः नादान्तैः श्रावणीयोऽयं नैव यादृशतादृशैः ॥ 20.58 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां मन्त्रग्रहणादिदीक्षाविधानं नाम विंशोऽध्यायः
आदितः श्लोकाः 1227


  1. विद्यास्नातो विचक्षणः D ↩︎ ↩︎

  2. अभितो D. 9. हस्तन्यास All MSS
    सुदर्शनमन्त्रस्याथर्वणवेदसारतमत्वम्
    अथर्वाङ्गिरसो नाम पञ्च शाखा महामुने ॥ 20.21 ॥
    तासु त्वन्तर्हितो दिव्यः कृतान्तो मन्त्रराट् स्वयम्।
    संकर्षमाज्ञया अहिर्बुध्न्येन तदुद्धरणम्
    मया त्रेतायुगादौ तु तप्त्वा वर्षायुतं तपः ॥ 20.22 ॥ ↩︎

  3. समारुगम् A B C E F; समूरुगम् D ↩︎

  4. त्रिधा D E ↩︎

  5. क्षयकृत्यम् A B C E F ↩︎

  6. क्रियाकार्य B ↩︎ ↩︎

  7. श्रोत्रियोऽर्थी समाहितः A B C E F ↩︎

  8. विनयी E F
    निष्कम्पाय वदेद्विद्यां यावती यादृशी च सा।
    अङ्गन्यासकरन्यासौ
    मातृकामादितो2 देवीं विन्यसेद्वपुषि स्वके ॥ 20.14 ॥
    [^9]अङ्गन्यासकरन्यासौ मन्त्रवर्णैः समाचरेत्।
    मृजेत् प्रकोष्ठमेकैकं त्रिर्मन्त्रेण त्रिरूपिणा ॥ 20.15 ॥ ↩︎

  9. उद्गतम् D; उद्धृतम् A B C E F ↩︎ ↩︎

  10. दीपितम् D ↩︎ ↩︎

  11. केशाढ्यम् D ↩︎ ↩︎

  12. मन्त्रराजे A B C E F ↩︎ ↩︎

  13. व्यापयेत् D ↩︎ ↩︎

  14. चक्रयोगेन A B C E F ↩︎ ↩︎

  15. तं धिया A B C E F ↩︎ ↩︎

  16. मन्त्रराजे A B C ↩︎

  17. उत्पाद्यते B C E ↩︎

  18. अथ पात्रया A B C ↩︎ ↩︎

  19. गुरुसेविना E ↩︎ ↩︎

  20. वान्यतः A B C ↩︎ ↩︎

  21. अथवा D ↩︎ ↩︎

  22. अयतेऽपि वा D ↩︎ ↩︎

  23. तन्मन्त्री D. ↩︎ ↩︎

  24. ब्राह्मणानपि A B C E F ↩︎ ↩︎