१९

अङ्गोपाङ्गमन्त्रोद्धारो नाम एकोनविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

हृदयमन्त्रः
अहिर्बुध्न्यः—

विश्वास-प्रस्तुतिः - 19.1

यत्तज्ज्ञानमयं दिव्यं गुणानां प्रकृतिः परा।
पञ्चानां तु बलादीनां नित्यशुद्धं निरञ्जनम् ॥ 19.1 ॥

मूलम् - 19.1

यत्तज्ज्ञानमयं दिव्यं गुणानां प्रकृतिः परा।
पञ्चानां तु बलादीनां नित्यशुद्धं निरञ्जनम् ॥ 19.1 ॥

विश्वास-प्रस्तुतिः - 19.2

तन्नाम हृदयं मन्त्रं स षाड्गुण्यमयो यतः।
तस्य वाचकमाकारमुद्धरेन्मनसा सुधीः ॥ 19.2 ॥

मूलम् - 19.2

तन्नाम हृदयं मन्त्रं स षाड्गुण्यमयो यतः।
तस्य वाचकमाकारमुद्धरेन्मनसा सुधीः ॥ 19.2 ॥

विश्वास-प्रस्तुतिः - 19.3

ज्ञानत्वादप्रमेयश्च1 प्रथमो 2व्यापकः स्मृतः।
आनन्द आदिदेवश्च गोपनश्चेति षड्विधाः ॥ 19.3 ।

मूलम् - 19.3

ज्ञानत्वादप्रमेयश्च1 प्रथमो 2व्यापकः स्मृतः।
आनन्द आदिदेवश्च गोपनश्चेति षड्विधाः ॥ 19.3 ।

क्रमात् संहत्य तज्ज्ञानं सांकर्षणमनुत्तमम्। [^3]तत्तद्विशेषसंयोगाद्विशेष्यस्तन्मयः [^4]सदा ॥ 19.4 ॥
विश्वास-प्रस्तुतिः - 19.5

इत्याभावसमायोगाज्ज्ञानात्मा मन्त्रराट् स्वयम्।
हृदयाय नमः पश्चाद्व्यक्त्यर्थं संप्रयोजयेत् ॥ 19.5 ॥

मूलम् - 19.5

इत्याभावसमायोगाज्ज्ञानात्मा मन्त्रराट् स्वयम्।
हृदयाय नमः पश्चाद्व्यक्त्यर्थं संप्रयोजयेत् ॥ 19.5 ॥

शिरोमन्त्रः

विश्वास-प्रस्तुतिः - 19.6

रमणीया समिद्धा च येच्छा देवस्य शाश्वती।
सर्वत्राप्रतिघा दिव्या ह्यमृताधारभेदिता ॥ 19.6 ॥

मूलम् - 19.6

रमणीया समिद्धा च येच्छा देवस्य शाश्वती।
सर्वत्राप्रतिघा दिव्या ह्यमृताधारभेदिता ॥ 19.6 ॥

[^5]वीति बीजेन निर्दिष्टा तच्चैश्वर्यं महद्धरेः। ऐश्वर्यं च शिरः स्थाने यत्तत् सर्वोपरि स्थितम् ॥ 19.7 ॥
विश्वास-प्रस्तुतिः - 19.8

अविघातात्मकं यत्तदिच्छाया रूपमुत्तमम्।
समिद्धं रमणीयं तदमृतस्याश्रयः परः ॥ 19.8 ॥

मूलम् - 19.8

अविघातात्मकं यत्तदिच्छाया रूपमुत्तमम्।
समिद्धं रमणीयं तदमृतस्याश्रयः परः ॥ 19.8 ॥

[^6]वीति तद्द्योतकं बीजं तेन संयोजयेच्छिरः। तेन संयोजितश्चक्रमन्त्र ऐश्वर्यबृंहितः ॥ 19.9 ॥ [^7]इच्छामिन्धान एवास्य मन्त्रिणः संप्रकाशते। ततस्तच्छिरसे स्वाहा व्यक्त्यर्थं संप्रयोजयेत् ॥ 19.10 ॥

शिखामन्त्रः

विश्वास-प्रस्तुतिः - 19.11

अमृता सोमरूपा च या सा तृप्तिमयी परा।
जगत्प्रकृतिरीशाना विष्णुशक्तिः परावरा ॥ 19.11 ॥

मूलम् - 19.11

अमृता सोमरूपा च या सा तृप्तिमयी परा।
जगत्प्रकृतिरीशाना विष्णुशक्तिः परावरा ॥ 19.11 ॥

विश्वास-प्रस्तुतिः - 19.12

तस्या यो भुवनाकार उद्दाम उदयोऽमलः।
सु इत्येवं समाख्याता शक्तिस्तेनोदिता सती ॥ 19.12 ॥

मूलम् - 19.12

तस्या यो भुवनाकार उद्दाम उदयोऽमलः।
सु इत्येवं समाख्याता शक्तिस्तेनोदिता सती ॥ 19.12 ॥

विश्वास-प्रस्तुतिः - 19.13

विशेषयति रूपेण चक्रमन्त्रं सनातनम्।
तया 3स भेदितः शक्त्या शक्त्यात्मा संप्रकाशते॥ 19.13 ॥

मूलम् - 19.13

विशेषयति रूपेण चक्रमन्त्रं सनातनम्।
तया 3स भेदितः शक्त्या शक्त्यात्मा संप्रकाशते॥ 19.13 ॥

विश्वास-प्रस्तुतिः - 19.14

या सा कुण्डलिनी शक्तिर्हृदयस्था समीरिता।
योगिभिर्या शिखा तस्या दिव्या दीपाकृतिः परा॥ 19.14 ॥

मूलम् - 19.14

या सा कुण्डलिनी शक्तिर्हृदयस्था समीरिता।
योगिभिर्या शिखा तस्या दिव्या दीपाकृतिः परा॥ 19.14 ॥

विश्वास-प्रस्तुतिः - 19.15

प्रसरत्यूर्ध्वभागे तु शिखास्थाने विराजते।
अतः शक्तेः शिखास्थाने न्यासस्तस्यास्ततः स्मृतः ॥ 19.15 ॥

मूलम् - 19.15

प्रसरत्यूर्ध्वभागे तु शिखास्थाने विराजते।
अतः शक्तेः शिखास्थाने न्यासस्तस्यास्ततः स्मृतः ॥ 19.15 ॥

शिखायै वषडित्येवं व्यक्त्यर्थं संप्रयोजयेत्। कवचमन्त्रः [^1]ऊर्जो नाम समुद्दिष्टो बलं विष्णोः स्वमूर्जितम् ॥ 19.16 ॥
विश्वास-प्रस्तुतिः - 19.17

प्रज्ञाधारणसामर्थ्यं नित्यतृप्तिमयं परम्।
सर्वकार्यैः समुद्युक्तः श्रमाभावे हि तृप्यति ॥ 19.17 ॥

मूलम् - 19.17

प्रज्ञाधारणसामर्थ्यं नित्यतृप्तिमयं परम्।
सर्वकार्यैः समुद्युक्तः श्रमाभावे हि तृप्यति ॥ 19.17 ॥

अशेषभुवनाधारस्तद्बलं[^10] परिगीयते। [^11]बले बलं धारणेद्धा विभर्ति सकलं जगत् ॥ 19.18 ॥
विश्वास-प्रस्तुतिः - 19.19

चतुर्गतिमयं यत्तत् प्राणानां परिगीयते।
व्यानापानादिका सा च प्रोक्ता गतिचतुष्टयी ॥ 19.19 ॥

मूलम् - 19.19

चतुर्गतिमयं यत्तत् प्राणानां परिगीयते।
व्यानापानादिका सा च प्रोक्ता गतिचतुष्टयी ॥ 19.19 ॥

विश्वास-प्रस्तुतिः - 19.20

चतुर्गतिमयः प्राणो बलं तत् परिगीयते।
अजितो भगवान् येन जयत्यखिलमच्युतः ॥ 19.20 ॥

मूलम् - 19.20

चतुर्गतिमयः प्राणो बलं तत् परिगीयते।
अजितो भगवान् येन जयत्यखिलमच्युतः ॥ 19.20 ॥

विश्वास-प्रस्तुतिः - 19.21

एतैर्गुणैः समायुक्तं बलं तद्वैष्णवं महत्।
अप्रमेयमनाद्यं तत् सूर्यशब्देन गीयते ॥ 19.21 ॥

मूलम् - 19.21

एतैर्गुणैः समायुक्तं बलं तद्वैष्णवं महत्।
अप्रमेयमनाद्यं तत् सूर्यशब्देन गीयते ॥ 19.21 ॥

विश्वास-प्रस्तुतिः - 19.22

बलेन 4भेदितो मन्त्रो बलात्मा व्यवतिष्ठते।
बलं चाखिलगात्रेषु मूर्छितं विपुलं महत् ॥ 19.22 ॥

मूलम् - 19.22

बलेन 4भेदितो मन्त्रो बलात्मा व्यवतिष्ठते।
बलं चाखिलगात्रेषु मूर्छितं विपुलं महत् ॥ 19.22 ॥

विश्वास-प्रस्तुतिः - 19.23

अंसयोस्तदभिव्यक्तिरतस्तत्रैव विन्यसेत्।
कवचाय हुमित्येव व्यक्त्यर्थं संप्रयोजयेत् ॥ 19.23 ॥

मूलम् - 19.23

अंसयोस्तदभिव्यक्तिरतस्तत्रैव विन्यसेत्।
कवचाय हुमित्येव व्यक्त्यर्थं संप्रयोजयेत् ॥ 19.23 ॥

अस्त्रमन्त्रः

विश्वास-प्रस्तुतिः - 19.24

महत्ता न्यूनताभावः स च स्यादविकारिता।
अव्याहतस्वसंकल्पः सुशब्दार्थो निरूपितः ॥ 19.24 ॥

मूलम् - 19.24

महत्ता न्यूनताभावः स च स्यादविकारिता।
अव्याहतस्वसंकल्पः सुशब्दार्थो निरूपितः ॥ 19.24 ॥

विश्वास-प्रस्तुतिः - 19.25

चेतनाचेतनं विश्वं स्वसंकल्पेन 5भावयन्।
यः स्यादविकृतः सोऽस्य भावो माहासुदर्शनः ॥ 19.25 ॥

मूलम् - 19.25

चेतनाचेतनं विश्वं स्वसंकल्पेन 5भावयन्।
यः स्यादविकृतः सोऽस्य भावो माहासुदर्शनः ॥ 19.25 ॥

विश्वास-प्रस्तुतिः - 19.26

तद्वीर्यं तच्च शास्त्रोक्तं यद् दुष्टदमनात्मकम्।
शान्तिदं सर्वपापानां शंकरं जगतामपि ॥ 19.26 ॥

मूलम् - 19.26

तद्वीर्यं तच्च शास्त्रोक्तं यद् दुष्टदमनात्मकम्।
शान्तिदं सर्वपापानां शंकरं जगतामपि ॥ 19.26 ॥

विश्वास-प्रस्तुतिः - 19.27

विकारविरहो दैत्यमर्दिनः परमात्मनः।
महासुदर्शनेत्येवं तद्वीर्थं बहुधोच्यते ॥ 19.27 ॥

मूलम् - 19.27

विकारविरहो दैत्यमर्दिनः परमात्मनः।
महासुदर्शनेत्येवं तद्वीर्थं बहुधोच्यते ॥ 19.27 ॥

विश्वास-प्रस्तुतिः - 19.28

वीर्येण भेदितो मन्त्रो वीर्यात्मा व्यवतिष्ठते।
तस्य हस्ततले स्थाने ततस्तत् तत्र विन्यसेत् ॥ 19.28 ॥

मूलम् - 19.28

वीर्येण भेदितो मन्त्रो वीर्यात्मा व्यवतिष्ठते।
तस्य हस्ततले स्थाने ततस्तत् तत्र विन्यसेत् ॥ 19.28 ॥

ततोऽस्त्राय फडित्येवं व्यक्त्यर्थं संप्रयोजयेत्।

नेत्रमन्त्रः
अन्तर्बोधस्वरूपो यः प्राकृतध्वान्तनाशनः ॥ 19.29 ॥

विश्वास-प्रस्तुतिः - 19.30

सूर्यवत् तपतस्तस्य या ज्वालाप्यूर्ध्वगामिनी।
पुरुषाणामशेषाणामैश्वर्यान्निरपेक्षता ॥ 19.30 ॥

मूलम् - 19.30

सूर्यवत् तपतस्तस्य या ज्वालाप्यूर्ध्वगामिनी।
पुरुषाणामशेषाणामैश्वर्यान्निरपेक्षता ॥ 19.30 ॥

[^14]अमृताधाररूपत्वमनिशं जन्मघातकम्[^15]।
विश्वास-प्रस्तुतिः - 19.32

ज्वालाशब्देन तत् तेजो वैष्णवं बहुधेर्यते।
तेजसा भेदितो मन्त्रस्तेजोरूपोऽवतिष्ठते ॥ 19.32 ॥

मूलम् - 19.32

ज्वालाशब्देन तत् तेजो वैष्णवं बहुधेर्यते।
तेजसा भेदितो मन्त्रस्तेजोरूपोऽवतिष्ठते ॥ 19.32 ॥

विश्वास-प्रस्तुतिः - 19.33

तेजसो नयनं स्थानमतस्तत् तत्र विन्यसेत्।
वौषण्नेत्रत्रयायेति 6व्यत्यासाद् व्यक्तये पठेत् ॥ 19.33 ॥

मूलम् - 19.33

तेजसो नयनं स्थानमतस्तत् तत्र विन्यसेत्।
वौषण्नेत्रत्रयायेति 6व्यत्यासाद् व्यक्तये पठेत् ॥ 19.33 ॥

विश्वास-प्रस्तुतिः - 19.34

इति षाड्गुण्यरूपेयं दर्शिता तेऽङ्गसंततिः।
उपाङ्गसंततिश्चैव न्यसनीया विपश्चिता ॥ 19.34 ॥

मूलम् - 19.34

इति षाड्गुण्यरूपेयं दर्शिता तेऽङ्गसंततिः।
उपाङ्गसंततिश्चैव न्यसनीया विपश्चिता ॥ 19.34 ॥

उपाङ्गमन्त्रः

विश्वास-प्रस्तुतिः - 19.35

कुक्षिपृष्ठांसयुग्मोरुजानुपादयुगेषु7 च।
शाद्यर्णान् व्यापिसंयुक्तान् ज्ञानाद्यैर्नमसा सह ॥ 19.35 ॥

मूलम् - 19.35

कुक्षिपृष्ठांसयुग्मोरुजानुपादयुगेषु7 च।
शाद्यर्णान् व्यापिसंयुक्तान् ज्ञानाद्यैर्नमसा सह ॥ 19.35 ॥

विश्वास-प्रस्तुतिः - 19.36

विन्यसेत् षड्गुणात्मैव मन्त्रिदेहः प्रजायते।
अप्रमेयो गदध्वंसी पन्थाः स्वर्गापवर्गयोः ॥ 19.36 ॥

मूलम् - 19.36

विन्यसेत् षड्गुणात्मैव मन्त्रिदेहः प्रजायते।
अप्रमेयो गदध्वंसी पन्थाः स्वर्गापवर्गयोः ॥ 19.36 ॥

विश्वास-प्रस्तुतिः - 19.37

इच्छामयो हि यो भावो विष्णुसंकल्पजृम्भितः।
अशेषदुरितप्लोषात् सोऽग्निरित्युच्यते बुधैः ॥ 19.37 ॥

मूलम् - 19.37

इच्छामयो हि यो भावो विष्णुसंकल्पजृम्भितः।
अशेषदुरितप्लोषात् सोऽग्निरित्युच्यते बुधैः ॥ 19.37 ॥

विश्वास-प्रस्तुतिः - 19.38

अग्निना भेदितो मन्त्रस्त्वगन्यात्मा व्यवतिष्ठते।
प्राकारं कल्पयेत् तेन परितः पावकाकृतिम् ॥ 19.38 ॥

मूलम् - 19.38

अग्निना भेदितो मन्त्रस्त्वगन्यात्मा व्यवतिष्ठते।
प्राकारं कल्पयेत् तेन परितः पावकाकृतिम् ॥ 19.38 ॥

विश्वास-प्रस्तुतिः - 19.39

अग्निप्राकारमध्यस्थो 8दुर्निरीक्षोऽभिजायते।
संस्मरंश्चक्रगायत्रीं परितश्चक्रमुद्रया ॥ 19.39 ॥

मूलम् - 19.39

अग्निप्राकारमध्यस्थो 8दुर्निरीक्षोऽभिजायते।
संस्मरंश्चक्रगायत्रीं परितश्चक्रमुद्रया ॥ 19.39 ॥

विश्वास-प्रस्तुतिः - 19.40

ऊर्ध्वाधस्तिर्यगाकारं मुद्रयेदात्मनो बहिः।
अग्निप्राकारतः पूर्वं चक्रमुद्राथवा भवेत् ॥ 19.40 ॥

मूलम् - 19.40

ऊर्ध्वाधस्तिर्यगाकारं मुद्रयेदात्मनो बहिः।
अग्निप्राकारतः पूर्वं चक्रमुद्राथवा भवेत् ॥ 19.40 ॥

विश्वास-प्रस्तुतिः - 19.41

हृदयं चाथ चक्राय विद्महेपदमादिमम्।
मन्त्रनाथस्य नेत्रादिपदं सूक्ष्मोऽथ धीमहि ॥ 19.41 ॥

मूलम् - 19.41

हृदयं चाथ चक्राय विद्महेपदमादिमम्।
मन्त्रनाथस्य नेत्रादिपदं सूक्ष्मोऽथ धीमहि ॥ 19.41 ॥

विश्वास-प्रस्तुतिः - 19.42

गायत्र्या आद्यनवमे ततश्चैवानिवारितः।
ततः समस्तरूपं तु गायत्र्या दशमं पदम् ॥ 19.42 ॥

मूलम् - 19.42

गायत्र्या आद्यनवमे ततश्चैवानिवारितः।
ततः समस्तरूपं तु गायत्र्या दशमं पदम् ॥ 19.42 ॥

विश्वास-प्रस्तुतिः - 19.43

उदिता चक्रगायत्री सप्तविंशतिकीर्तिता।
अथ सौदर्शनास्त्राणां मन्त्रानेतान् निबोध मे ॥ 19.43 ॥

मूलम् - 19.43

उदिता चक्रगायत्री सप्तविंशतिकीर्तिता।
अथ सौदर्शनास्त्राणां मन्त्रानेतान् निबोध मे ॥ 19.43 ॥

चक्राद्यस्त्रमन्त्राः
विश्वास-प्रस्तुतिः - 19.44

ओं नमो भगवन् विष्णो सर्वेषामादिमं समम्।
चक्रमूर्तिधरेत्येवं गदामूर्तिधरेति च ॥ 19.44 ॥

मूलम् - 19.44

ओं नमो भगवन् विष्णो सर्वेषामादिमं समम्।
चक्रमूर्तिधरेत्येवं गदामूर्तिधरेति च ॥ 19.44 ॥

[^19]शार्ङ्गमूर्ति धरेत्येवं खकड्गमूर्तिधरेति च। चक्राद्यस्त्रचतुष्कं तु ततः सेनापतेपदम् ॥ 19.45 ॥
विश्वास-प्रस्तुतिः - 19.46

सर्वत्र सममुच्चार्य वदेत् प्रातिस्विकं ततः।
मन्त्रनाथो भवेच्चक्रे षड्वर्णोऽथ गदादिषु ॥ 19.46 ॥

मूलम् - 19.46

सर्वत्र सममुच्चार्य वदेत् प्रातिस्विकं ततः।
मन्त्रनाथो भवेच्चक्रे षड्वर्णोऽथ गदादिषु ॥ 19.46 ॥

कौमोदकि महाशार्ङ्ग महाखड्गेत्युदीरयेत्। [^20]वर्मास्त्रे च ततो युञ्ज्यादेष मौनविधिक्रमः ॥ 19.47 ॥
विश्वास-प्रस्तुतिः - 19.48

इमाश्चतस्रो गायत्र्यश्चक्रादीनामुदीरिताः।
शङ्खादीनां चतुर्णां तु मन्त्रानेतान्निबोध मे ॥ 19.48 ॥

मूलम् - 19.48

इमाश्चतस्रो गायत्र्यश्चक्रादीनामुदीरिताः।
शङ्खादीनां चतुर्णां तु मन्त्रानेतान्निबोध मे ॥ 19.48 ॥

शङ्खादिमन्त्राः
9ओं नमो भगवन् विष्णो सर्वेषामादितः समम्।
सङ्खमूर्तिधरेत्येवं 10हलमूर्तिधरेति च ॥ 19.49 ॥

विश्वास-प्रस्तुतिः - 19.50

मुसलमूर्तिधरेत्येवं शूलमूर्तिधरेति च।
सेनापतेपदं पश्चात् सर्वेषां तुल्यमुच्चरेत् ॥ 19.50 ॥

मूलम् - 19.50

मुसलमूर्तिधरेत्येवं शूलमूर्तिधरेति च।
सेनापतेपदं पश्चात् सर्वेषां तुल्यमुच्चरेत् ॥ 19.50 ॥

विश्वास-प्रस्तुतिः - 19.51

महाथ पाञ्चजन्याय स्वाहेत्येकाधिको मनुः।
महाहलाय स्वाहेति मन्त्रोऽप्येकाधिकः स्मृतः॥ 19.51 ॥

मूलम् - 19.51

महाथ पाञ्चजन्याय स्वाहेत्येकाधिको मनुः।
महाहलाय स्वाहेति मन्त्रोऽप्येकाधिकः स्मृतः॥ 19.51 ॥

विश्वास-प्रस्तुतिः - 19.52

महा च मुसलायाथ 11स्वाहेत्यभ्यधिको मनुः।
महाशूलाय स्वाहेति स चाप्यभ्यधिको मनुः ॥ 19.52 ॥

मूलम् - 19.52

महा च मुसलायाथ 11स्वाहेत्यभ्यधिको मनुः।
महाशूलाय स्वाहेति स चाप्यभ्यधिको मनुः ॥ 19.52 ॥

विश्वास-प्रस्तुतिः - 19.53

इमाश्चतस्रो गायत्र्यः शङ्खादीनां प्रदर्शिताः।
दण्डादीनामथाष्टानामिमान् मन्त्रान् निबोध मे ॥ 19.53 ॥

मूलम् - 19.53

इमाश्चतस्रो गायत्र्यः शङ्खादीनां प्रदर्शिताः।
दण्डादीनामथाष्टानामिमान् मन्त्रान् निबोध मे ॥ 19.53 ॥

दण्डाद्यस्त्रमन्त्राः

विश्वास-प्रस्तुतिः - 19.54

ओं नमो भवन् विष्णो सर्वेषामादितः समम्।
दण्डमूर्तिधरेत्येवं कुन्तमूर्तिधरेति च ॥ 19.54 ॥

मूलम् - 19.54

ओं नमो भवन् विष्णो सर्वेषामादितः समम्।
दण्डमूर्तिधरेत्येवं कुन्तमूर्तिधरेति च ॥ 19.54 ॥

विश्वास-प्रस्तुतिः - 19.55

शक्तिमूर्तिधरेत्येवं पाशमूर्तिधरेति च।
अङ्कशमूर्तिधराय कुलिशमूर्तिधरेति च ॥ 19.55 ॥

मूलम् - 19.55

शक्तिमूर्तिधरेत्येवं पाशमूर्तिधरेति च।
अङ्कशमूर्तिधराय कुलिशमूर्तिधरेति च ॥ 19.55 ॥

विश्वास-प्रस्तुतिः - 19.56

परशुमूर्तिधरायाथ ततः शतमुखेति च।
अनलमूर्तिधरेत्येवं प्रातिस्विकपदक्रमः ॥ 19.56 ॥

मूलम् - 19.56

परशुमूर्तिधरायाथ ततः शतमुखेति च।
अनलमूर्तिधरेत्येवं प्रातिस्विकपदक्रमः ॥ 19.56 ॥

सेनापतेपदं पश्चात् सर्वेषां सममुच्चरेत्[^24]।

महादण्डायाथ नमो मन्त्र एवाधिकः स्मृतः॥ 19.57 ॥

विश्वास-प्रस्तुतिः - 19.58

महाकुन्तायाथ नमो मन्त्रोऽप्येकोधिकः स्मृतः।
महाशक्तये च नमो मन्त्रोऽप्येकोऽधिकः स्मृतः॥ 19.58 ॥

मूलम् - 19.58

महाकुन्तायाथ नमो मन्त्रोऽप्येकोधिकः स्मृतः।
महाशक्तये च नमो मन्त्रोऽप्येकोऽधिकः स्मृतः॥ 19.58 ॥

विश्वास-प्रस्तुतिः - 19.59

महापाशायाथ नमो मन्त्रोऽप्येकोऽधिकः स्मृतः।
महाङ्कुशाय नम इत्येषोऽप्यधिक उच्यते ॥ 19.59 ॥

मूलम् - 19.59

महापाशायाथ नमो मन्त्रोऽप्येकोऽधिकः स्मृतः।
महाङ्कुशाय नम इत्येषोऽप्यधिक उच्यते ॥ 19.59 ॥

विश्वास-प्रस्तुतिः - 19.60

महा च कुलिशायाथ नम इत्यपि तादृशः।
महापरशवे चाथ नम इत्यपि तादृशः ॥ 19.60 ॥

मूलम् - 19.60

महा च कुलिशायाथ नम इत्यपि तादृशः।
महापरशवे चाथ नम इत्यपि तादृशः ॥ 19.60 ॥

विश्वास-प्रस्तुतिः - 19.61

महाशतमुखेत्येवमनलाय ततो नमः।
अयं मन्त्रस्त्रयस्त्रिंशद्वर्णो वह्न्ययुतप्रभः ॥ 19.61 ॥

मूलम् - 19.61

महाशतमुखेत्येवमनलाय ततो नमः।
अयं मन्त्रस्त्रयस्त्रिंशद्वर्णो वह्न्ययुतप्रभः ॥ 19.61 ॥

इत्यस्त्राणामिमे मन्त्रा रूपतस्ते निदर्शिताः।

अत्रानुक्तस्य संहितान्तरात् ग्रहणम्
आधाराद्यासनाकारो द्वारपर्यन्तपूजनम् ॥ 19.62 ॥

विश्वास-प्रस्तुतिः - 19.63

मुद्रा च विविधाकारा यस्य यस्य च यादृशी।
अभिषेकविधिश्चैव दीक्षानियम एव च ॥ 19.63 ॥

मूलम् - 19.63

मुद्रा च विविधाकारा यस्य यस्य च यादृशी।
अभिषेकविधिश्चैव दीक्षानियम एव च ॥ 19.63 ॥

विश्वास-प्रस्तुतिः - 19.64

भूतशुद्धिविधिश्चैव 25 ध्यानानि विविधानि च।
सर्वं जयाश्रुतं कार्यं तत्तद्वैशेषिकं विना ॥ 19.64 ॥

मूलम् - 19.64

भूतशुद्धिविधिश्चैव 25 ध्यानानि विविधानि च।
सर्वं जयाश्रुतं कार्यं तत्तद्वैशेषिकं विना ॥ 19.64 ॥

विश्वास-प्रस्तुतिः - 19.65

अमुद्राणामिहास्त्राणां दण्डदीनां महामुने।
कार्या समन्विता दिव्या शक्तिमुद्रास्त्रमुद्रया ॥ 19.65 ॥

मूलम् - 19.65

अमुद्राणामिहास्त्राणां दण्डदीनां महामुने।
कार्या समन्विता दिव्या शक्तिमुद्रास्त्रमुद्रया ॥ 19.65 ॥

विश्वास-प्रस्तुतिः - 19.66

इति ते लेशतः प्रोक्तः सौदर्शनविधिक्रमः।
ग्रहणादिप्रकारोऽयं वक्ष्यते श्रृणु तं मुने ॥ 19.66 ॥

मूलम् - 19.66

इति ते लेशतः प्रोक्तः सौदर्शनविधिक्रमः।
ग्रहणादिप्रकारोऽयं वक्ष्यते श्रृणु तं मुने ॥ 19.66 ॥

इति श्रीपाञ्चारात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अङ्गोपाङ्गमान्त्रेद्धारो नाम एकेनविंशोऽध्यायः
आदितः श्लोकाः 1169
————******——————-


  1. मेयस्य D ↩︎ ↩︎

  2. व्यापकस्तथा D ↩︎ ↩︎

  3. सहोदिता A B C ↩︎ ↩︎

  4. बोधितो A B C E. ↩︎ ↩︎

  5. मावयेत् D ↩︎ ↩︎

  6. व्यत्यस्य व्यक्तये A B C; व्यत्यस्य व्यत्यये E F ↩︎ ↩︎

  7. जङ्घापादयुगेषु B C ↩︎ ↩︎

  8. दुर्निरीक्ष्यः E
    चक्रागायत्री ↩︎ ↩︎

  9. A B C omit this line ↩︎

  10. खड्गमूर्तिधरेति च A B C ↩︎

  11. स्वाहेति त्र्यधिको D ↩︎ ↩︎