मन्त्रोद्धारो नाम अष्टादसोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥
शक्तिमन्त्रोद्धारः
अहिर्बुध्न्यः—
विश्वास-प्रस्तुतिः - 18.1
सक्तिं समुद्धरेत् पूर्वमग्नीषोमात्मना स्थिताम्।
विष्णुस्थां परमात्मस्थां स्पृशन्तीं व्यापिनीं पुनः ॥ 18.1 ॥
मूलम् - 18.1
सक्तिं समुद्धरेत् पूर्वमग्नीषोमात्मना स्थिताम्।
विष्णुस्थां परमात्मस्थां स्पृशन्तीं व्यापिनीं पुनः ॥ 18.1 ॥
विश्वास-प्रस्तुतिः - 18.2
वाणीहृदयमादाय1 योजयेदन्तरात्मना।
हृदा पुनः समायोज्य योजयेदूष्मणो 2द्वयम् ॥ 18.2 ॥
विश्वास-प्रस्तुतिः - 18.3
पञ्चबिन्दुं महाशक्तिं स्मरेदथ तदासनाम्।
व्योमेशमाश्रयन्तीं तां स्मरेदथ धिया पुनः ॥ 18.3 ॥
मूलम् - 18.3
पञ्चबिन्दुं महाशक्तिं स्मरेदथ तदासनाम्।
व्योमेशमाश्रयन्तीं तां स्मरेदथ धिया पुनः ॥ 18.3 ॥
विश्वास-प्रस्तुतिः - 18.4
इयं दिव्या महाशक्तिः सोमसूर्याग्निभूषणा।
माया नाम तनुर्विष्णोत्त्रैलोक्यैश्वर्यदोज्ज्वला ॥ 18.4 ॥
मूलम् - 18.4
इयं दिव्या महाशक्तिः सोमसूर्याग्निभूषणा।
माया नाम तनुर्विष्णोत्त्रैलोक्यैश्वर्यदोज्ज्वला ॥ 18.4 ॥
विश्वास-प्रस्तुतिः - 18.5
स्थूलसूक्ष्मपरत्वेन शक्तिरेषा निदर्शिता।
सौदर्शनानां मन्त्राणामियं योनिर्महामुने ॥ 18.5 ॥
मूलम् - 18.5
स्थूलसूक्ष्मपरत्वेन शक्तिरेषा निदर्शिता।
सौदर्शनानां मन्त्राणामियं योनिर्महामुने ॥ 18.5 ॥
विश्वास-प्रस्तुतिः - 18.6
विष्णुसंकल्परूपाणां ये चान्ये वैष्णवा भुवि।
इयं सा परमा शक्तिरहंतेयं हरेः परा ॥ 18.6 ॥
मूलम् - 18.6
विष्णुसंकल्परूपाणां ये चान्ये वैष्णवा भुवि।
इयं सा परमा शक्तिरहंतेयं हरेः परा ॥ 18.6 ॥
विश्वास-प्रस्तुतिः - 18.7
विचित्रानेकशब्दार्थतत्तत्संकल्पकोरका।
युग्मान्तैरादिभिः षड्भिराद्यन्तस्वरषट्कयोः ॥ 18.7 ॥
मूलम् - 18.7
विचित्रानेकशब्दार्थतत्तत्संकल्पकोरका।
युग्मान्तैरादिभिः षड्भिराद्यन्तस्वरषट्कयोः ॥ 18.7 ॥
विश्वास-प्रस्तुतिः - 18.9
समुद्धरेन्महामन्त्रं सोदर्शनमनन्यधीः।
अमृतं शक्तिहृद्भूतमप्रमेयेन 6वर्णयेत् ॥ 18.9 ॥
मूलम् - 18.9
समुद्धरेन्महामन्त्रं सोदर्शनमनन्यधीः।
अमृतं शक्तिहृद्भूतमप्रमेयेन 6वर्णयेत् ॥ 18.9 ॥
विश्वास-प्रस्तुतिः - 18.10
दिव्यं तदन्तरात्मानं परमात्मानमञ्जसा।
योजयेत् प्रथमेनैव तत्स्थां तृप्तिं तु केवलाम् ॥ 18.10 ॥
मूलम् - 18.10
दिव्यं तदन्तरात्मानं परमात्मानमञ्जसा।
योजयेत् प्रथमेनैव तत्स्थां तृप्तिं तु केवलाम् ॥ 18.10 ॥
विश्वास-प्रस्तुतिः - 18.11
केवलं तत्स्थितं सोमं 7तत्स्थितं च स्मरेत् सुधीः।
अशेषभुवनाधारं 8तत्स्थमानन्दमेव च ॥ 18.11 ॥
मूलम् - 18.11
केवलं तत्स्थितं सोमं 7तत्स्थितं च स्मरेत् सुधीः।
अशेषभुवनाधारं 8तत्स्थमानन्दमेव च ॥ 18.11 ॥
9तत्तद्विचित्रसंकल्पसदसद्भावभाविनी।
सर्वभावानुगा विष्णोः परा सौदर्शनी स्थितिः ॥ 18.14 ॥
10आकाशादिपृथिव्यन्तभूतिभेदानुयायिनी।
सूक्ष्मा सौदर्शनी शक्तिः कारणादिविभागिनी11 ॥ 18.15 ॥
तत्तद्दुरितदैत्यौघतमोविध्वंसनात्मिका।
12स्थूलचक्रस्वरूपाढ्या विष्णोः 13सांकल्पिकी स्थितिः॥ 18.16 ॥
विश्वास-प्रस्तुतिः - 18.17
स्वरव्यञ्जनकूटस्थैः पूर्णेयं चतुरक्षरी।
निदानं सर्वसिद्धीनामपदं14 लाभनाशयोः ॥ 18.17 ॥
मूलम् - 18.17
स्वरव्यञ्जनकूटस्थैः पूर्णेयं चतुरक्षरी।
निदानं सर्वसिद्धीनामपदं14 लाभनाशयोः ॥ 18.17 ॥
विश्वास-प्रस्तुतिः - 18.18
कूटे 15त्र्यर्णमये त्वस्याः परतः प्रायशः 16स्थितेः।
याभ्यां षडक्षरी सैषा विद्या भुवनकारिका ॥ 18.18 ॥
मूलम् - 18.18
कूटे 15त्र्यर्णमये त्वस्याः परतः प्रायशः 16स्थितेः।
याभ्यां षडक्षरी सैषा विद्या भुवनकारिका ॥ 18.18 ॥
विश्वास-प्रस्तुतिः - 18.19
परमातमानमादाय योजयेदुदयेन तु।
प्रधानं संसृपृशेद्भूयः परं बीजं तु पञ्चमम् ॥ 18.19 ॥
मूलम् - 18.19
परमातमानमादाय योजयेदुदयेन तु।
प्रधानं संसृपृशेद्भूयः परं बीजं तु पञ्चमम् ॥ 18.19 ॥
विश्वास-प्रस्तुतिः - 18.22
योजयेदप्रमेयेण चन्द्रिकाकेवलेन च।
परं तत् परमं षष्ठं दीप्तिशालि सुदर्शने ॥ 18.22 ॥
मूलम् - 18.22
योजयेदप्रमेयेण चन्द्रिकाकेवलेन च।
परं तत् परमं षष्ठं दीप्तिशालि सुदर्शने ॥ 18.22 ॥
विश्वास-प्रस्तुतिः - 18.23
सर्वशास्त्रार्थकूटस्थमिति17 तेजोऽप्रमेयकम्।
षष्ठे 18परा स्थितिर्बीजे सेयं नारद दर्शिता ॥ 18.23 ॥
मूलम् - 18.23
सर्वशास्त्रार्थकूटस्थमिति17 तेजोऽप्रमेयकम्।
षष्ठे 18परा स्थितिर्बीजे सेयं नारद दर्शिता ॥ 18.23 ॥
विश्वास-प्रस्तुतिः - 18.24
तत् फुल्लनयनाकारं फुल्लैर्यन्नयनैर्वृतम्19।
प्रथितं प्रथमाक्रान्तं विश्वाप्ययकृदुज्ज्वलम् ॥ 18.24 ॥
मूलम् - 18.24
तत् फुल्लनयनाकारं फुल्लैर्यन्नयनैर्वृतम्19।
प्रथितं प्रथमाक्रान्तं विश्वाप्ययकृदुज्ज्वलम् ॥ 18.24 ॥
विश्वास-प्रस्तुतिः - 18.25
सूक्ष्मं षष्ठं समुद्दिष्टं बीजं सौदर्शनं परम्।
यस्मान्नयति सन्मार्गं 20छित्त्वाघं बाह्यमान्तरम् ॥ 18.25 ॥
मूलम् - 18.25
सूक्ष्मं षष्ठं समुद्दिष्टं बीजं सौदर्शनं परम्।
यस्मान्नयति सन्मार्गं 20छित्त्वाघं बाह्यमान्तरम् ॥ 18.25 ॥
विश्वास-प्रस्तुतिः - 18.26
प्रथते च मुहुर्वृद्ध्या विश्वमाप्याययत्यपि।
इयं ते मध्यमावस्था सूक्ष्मा षष्ठी प्रदर्शिता ॥ 18.26 ॥
मूलम् - 18.26
प्रथते च मुहुर्वृद्ध्या विश्वमाप्याययत्यपि।
इयं ते मध्यमावस्था सूक्ष्मा षष्ठी प्रदर्शिता ॥ 18.26 ॥
विश्वास-प्रस्तुतिः - 18.29
आप्याय्य शान्तसंतापो व्याप्नुवन् विविधं फलम्।
आह्लादं लभतेऽतीव सेयं षष्ठीं परा मुने ॥ 18.29 ॥
मूलम् - 18.29
आप्याय्य शान्तसंतापो व्याप्नुवन् विविधं फलम्।
आह्लादं लभतेऽतीव सेयं षष्ठीं परा मुने ॥ 18.29 ॥
विश्वास-प्रस्तुतिः - 18.33
अक्षरादादिमादस्याः सूक्तं पौरुषमुद्गतम्।
द्वितीयाक्षरसंभूतं श्रीसूक्तं नाम यन्मुने ॥ 18.33 ॥
मूलम् - 18.33
अक्षरादादिमादस्याः सूक्तं पौरुषमुद्गतम्।
द्वितीयाक्षरसंभूतं श्रीसूक्तं नाम यन्मुने ॥ 18.33 ॥
विश्वास-प्रस्तुतिः - 18.36
ज्ञानक्रियात्मिका 21शक्तिरिति सौदर्शनी कला।
संप्राप्योदयमुद्दामं भुवनस्य कृते स्वयम् ॥ 18.36 ॥
मूलम् - 18.36
ज्ञानक्रियात्मिका 21शक्तिरिति सौदर्शनी कला।
संप्राप्योदयमुद्दामं भुवनस्य कृते स्वयम् ॥ 18.36 ॥
विश्वास-प्रस्तुतिः - 18.37
प्राणसूर्यात्मिका भूत्वा परमात्मस्वरूपिणी।
निहत्य दुरितं 22शश्वद्विश्वमाप्याययन्त्यपि23 ॥ 18.37 ॥
मूलम् - 18.37
प्राणसूर्यात्मिका भूत्वा परमात्मस्वरूपिणी।
निहत्य दुरितं 22शश्वद्विश्वमाप्याययन्त्यपि23 ॥ 18.37 ॥
अथाङ्गसिद्ध्यर्थाङ्गमन्त्रः
विश्वास-प्रस्तुतिः - 18.41
अथास्या 24अङ्गसिद्ध्यर्थमेकमङ्गं निशामय।
चन्द्रांशुमुद्धरेत् पूर्वमप्रमेयेण 25भूषयेत् ॥ 18.41 ॥
मूलम् - 18.41
अथास्या 24अङ्गसिद्ध्यर्थमेकमङ्गं निशामय।
चन्द्रांशुमुद्धरेत् पूर्वमप्रमेयेण 25भूषयेत् ॥ 18.41 ॥
विश्वास-प्रस्तुतिः - 18.42
अशेषभुवनाधारं परप्रकृतिसंयुतम्।
आनन्देन समाक्रान्तं द्वितीयं कूटमुद्धरेत् ॥ 18.42 ॥
मूलम् - 18.42
अशेषभुवनाधारं परप्रकृतिसंयुतम्।
आनन्देन समाक्रान्तं द्वितीयं कूटमुद्धरेत् ॥ 18.42 ॥
विश्वास-प्रस्तुतिः - 18.43
चतुर्गतिमथादाय ह्यप्रमेयेण भूषयेत्।
ततोऽमृतमुपादायाप्यमृताधारभूषितम्॥ 18.43 ॥
मूलम् - 18.43
चतुर्गतिमथादाय ह्यप्रमेयेण भूषयेत्।
ततोऽमृतमुपादायाप्यमृताधारभूषितम्॥ 18.43 ॥
विश्वास-प्रस्तुतिः - 18.44
आनन्दयोजितं 26पश्चात् परमात्मानमुद्धरेत्।
आनन्दपूरितः27 सोऽयं मन्त्रः सर्वाङ्गमन्त्रराट् ॥ 18.44 ॥
मूलम् - 18.44
आनन्दयोजितं 26पश्चात् परमात्मानमुद्धरेत्।
आनन्दपूरितः27 सोऽयं मन्त्रः सर्वाङ्गमन्त्रराट् ॥ 18.44 ॥
विश्वास-प्रस्तुतिः - 18.45
अतिचञ्चलदीप्ताग्निः फुल्लत्कमलसंनिभः।
सूर्यानलसहस्राभ आदिदेवसमद्युतिः ॥ 18.45 ॥
मूलम् - 18.45
अतिचञ्चलदीप्ताग्निः फुल्लत्कमलसंनिभः।
सूर्यानलसहस्राभ आदिदेवसमद्युतिः ॥ 18.45 ॥
इति श्रीपाञ्चरात्रे तत्ररहस्ये अहिर्बुध्न्यसंहितायां मन्त्रोद्धारो नाम अष्टादशोऽध्यायः
आदितः श्लोकाः 1103