वर्णसंज्ञानिरूपणं नाम सप्तदशोऽध्यायः
1ध्यायिनां सुखदं नित्यं ज्वालाजटिलकुन्तलम्।
सुदर्शनाख्यं तद्दिव्यं महः किमपि धीमहि॥
वर्णमातृकाधिष्ठातृरूपप्रश्नः
नारदः—
विश्वास-प्रस्तुतिः - 17.1
नमस्ते शर्व सर्वज्ञ सर्वासुरनिबर्हण।
स्थूलसूक्ष्मपरैर्भावैर्यथा वर्णा अधिष्ठिताः ॥ 17.1 ॥
मूलम् - 17.1
नमस्ते शर्व सर्वज्ञ सर्वासुरनिबर्हण।
स्थूलसूक्ष्मपरैर्भावैर्यथा वर्णा अधिष्ठिताः ॥ 17.1 ॥
विश्वास-प्रस्तुतिः - 17.2
विष्णुना देवदेवेन रुद्रैश्च भवदंशकैः।
तथा तं मे परं भावं वक्तुमर्हसि शंकर ॥ 17.2 ॥
मूलम् - 17.2
विष्णुना देवदेवेन रुद्रैश्च भवदंशकैः।
तथा तं मे परं भावं वक्तुमर्हसि शंकर ॥ 17.2 ॥
विश्वास-प्रस्तुतिः - 17.3
विष्णुशक्तिमया वर्णा विष्णुसंकल्पजृम्भिताः।
अधिष्ठिता यथा 2भावैस्तथा तन्मे निशामय ॥ 17.3 ॥
मूलम् - 17.3
विष्णुशक्तिमया वर्णा विष्णुसंकल्पजृम्भिताः।
अधिष्ठिता यथा 2भावैस्तथा तन्मे निशामय ॥ 17.3 ॥
विश्वास-प्रस्तुतिः - 17.5
इष्ट इद्धश्च रामश्च इकारः 5परिपठ्यते।
विष्णुश्च पञ्चबिन्दुश्च माया ईकार उच्यते ॥ 17.5 ॥
मूलम् - 17.5
इष्ट इद्धश्च रामश्च इकारः 5परिपठ्यते।
विष्णुश्च पञ्चबिन्दुश्च माया ईकार उच्यते ॥ 17.5 ॥
विश्वास-प्रस्तुतिः - 17.6
उकार उदयश्चापि ह्युद्दामो भुवनाह्वयः।
प्रज्ञाधारश्च लोकेश ऊर्ज ऊकार उच्यते ॥ 17.6 ॥
मूलम् - 17.6
उकार उदयश्चापि ह्युद्दामो भुवनाह्वयः।
प्रज्ञाधारश्च लोकेश ऊर्ज ऊकार उच्यते ॥ 17.6 ॥
विश्वास-प्रस्तुतिः - 17.7
ऋकार ऋतधामा च सत्यश्चाङ्कुश एव च।
ज्वाला 6प्रसरणश्चैव ऋकारो विष्टराह्वयः ॥ 17.7 ॥
मूलम् - 17.7
ऋकार ऋतधामा च सत्यश्चाङ्कुश एव च।
ज्वाला 6प्रसरणश्चैव ऋकारो विष्टराह्वयः ॥ 17.7 ॥
विश्वास-प्रस्तुतिः - 17.8
लृकारस्तारकः प्रोक्तो लिङ्गात्मा भगवानिति।
लृकारो दीर्घघोणश्च देवदत्तस्तथा विराट् ॥ 17.8 ॥
मूलम् - 17.8
लृकारस्तारकः प्रोक्तो लिङ्गात्मा भगवानिति।
लृकारो दीर्घघोणश्च देवदत्तस्तथा विराट् ॥ 17.8 ॥
विश्वास-प्रस्तुतिः - 17.11
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशौंकार एव च।
अंकारः सृष्टिकृत् प्रोक्तो विसर्गः परमेश्वरः ॥ 17.11 ॥
मूलम् - 17.11
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशौंकार एव च।
अंकारः सृष्टिकृत् प्रोक्तो विसर्गः परमेश्वरः ॥ 17.11 ॥
विश्वास-प्रस्तुतिः - 17.12
ककारः कमलश्चैव करालः प्रकृतिः परा।
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः ॥ 17.12 ॥
मूलम् - 17.12
ककारः कमलश्चैव करालः प्रकृतिः परा।
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः ॥ 17.12 ॥
विश्वास-प्रस्तुतिः - 17.13
गकारस्तु गदध्वंसी गोविन्दश्च गदाधरः।
घकारस्त्वथ घर्मांशुस्तेजस्वी दीप्तिमांस्तथा ॥ 17.13 ॥
मूलम् - 17.13
गकारस्तु गदध्वंसी गोविन्दश्च गदाधरः।
घकारस्त्वथ घर्मांशुस्तेजस्वी दीप्तिमांस्तथा ॥ 17.13 ॥
विश्वास-प्रस्तुतिः - 17.14
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः7।
चन्द्रांशुश्चञ्चलश्चक्री चकारः परिकीर्त्यते ॥ 17.14 ॥
मूलम् - 17.14
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः7।
चन्द्रांशुश्चञ्चलश्चक्री चकारः परिकीर्त्यते ॥ 17.14 ॥
विश्वास-प्रस्तुतिः - 17.16
झकारो झषसंज्ञस्तु सामगः सामपाठकः।
ञकार उत्तमाख्यश्च ईश्वरस्तत्त्वधारकः ॥ 17.16 ॥
मूलम् - 17.16
झकारो झषसंज्ञस्तु सामगः सामपाठकः।
ञकार उत्तमाख्यश्च ईश्वरस्तत्त्वधारकः ॥ 17.16 ॥
विश्वास-प्रस्तुतिः - 17.17
विश्वाप्यायकरश्चन्द्री ट आह्लाद उदीरितः।
धाराधरो 8नेमिसंज्ञष्ठकारः 9कौस्तुभो मतः ॥ 17.17 ॥
मूलम् - 17.17
विश्वाप्यायकरश्चन्द्री ट आह्लाद उदीरितः।
धाराधरो 8नेमिसंज्ञष्ठकारः 9कौस्तुभो मतः ॥ 17.17 ॥
विश्वास-प्रस्तुतिः - 17.18
मौसलो दण्डधारश्च डकारोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च 10दृढकर्मा प्रतर्दनः ॥ 17.18 ॥
मूलम् - 17.18
मौसलो दण्डधारश्च डकारोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च 10दृढकर्मा प्रतर्दनः ॥ 17.18 ॥
विश्वास-प्रस्तुतिः - 17.19
णकारोऽभयदः शस्ता वैकुण्ठः परिकीर्तितः।
तकारस्ताललक्ष्मा च वैराजः स्रग्धरस्तथा ॥ 17.19 ॥
मूलम् - 17.19
णकारोऽभयदः शस्ता वैकुण्ठः परिकीर्तितः।
तकारस्ताललक्ष्मा च वैराजः स्रग्धरस्तथा ॥ 17.19 ॥
विश्वास-प्रस्तुतिः - 17.20
धन्वी भुवानपालश्च थकारः 11सर्वधारकः।
दत्तावकाशो दमनो 12दकारः शान्तिदः स्मृतः ॥ 17.20 ॥
मूलम् - 17.20
धन्वी भुवानपालश्च थकारः 11सर्वधारकः।
दत्तावकाशो दमनो 12दकारः शान्तिदः स्मृतः ॥ 17.20 ॥
विश्वास-प्रस्तुतिः - 17.21
धकारः 13शार्ङ्गधृग्धामा माघवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ 17.21 ॥
मूलम् - 17.21
धकारः 13शार्ङ्गधृग्धामा माघवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ 17.21 ॥
विश्वास-प्रस्तुतिः - 17.23
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते।
भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥ 17.23 ॥
मूलम् - 17.23
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते।
भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥ 17.23 ॥
विश्वास-प्रस्तुतिः - 17.24
मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ 17.24 ॥
मूलम् - 17.24
मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ 17.24 ॥
विश्वास-प्रस्तुतिः - 17.25
अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च 14धरेशः पुरुषेश्वरः ॥ 17.25 ॥
मूलम् - 17.25
अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च 14धरेशः पुरुषेश्वरः ॥ 17.25 ॥
विश्वास-प्रस्तुतिः - 17.26
वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्कडरीकः प्रकीर्तितः ॥ 17.26 ॥
मूलम् - 17.26
वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्कडरीकः प्रकीर्तितः ॥ 17.26 ॥
विश्वास-प्रस्तुतिः - 17.28
सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः।
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडः स्मृतः ॥ 17.28 ॥
मूलम् - 17.28
सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः।
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडः स्मृतः ॥ 17.28 ॥
तान्निबोध महाभागानक्षरस्थान् महामुने।
15श्रीकण्ठानन्दसूक्ष्मेशास्त्रिमूर्तिरमरेश्वरः ॥ 17.31 ॥
अङ्घ्रीशो भारभूतिश्च तिथिः 16स्थाणुर्भवाह्वयः।
17चण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः18 ॥ 17.32 ॥
विश्वास-प्रस्तुतिः - 17.33
अक्रूरश्च 19महासेनः स्युरेताः स्वरमूर्तयः।
ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः ॥ 17.33 ॥
मूलम् - 17.33
अक्रूरश्च 19महासेनः स्युरेताः स्वरमूर्तयः।
ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः ॥ 17.33 ॥
विश्वास-प्रस्तुतिः - 17.34
तथैकरुद्रः कूर्मैकनेत्राह्वचतुराननाः।
अजेशः शर्वसोमेशौ लाङ्गली दारिकस्तथा ॥ 17.34 ॥
मूलम् - 17.34
तथैकरुद्रः कूर्मैकनेत्राह्वचतुराननाः।
अजेशः शर्वसोमेशौ लाङ्गली दारिकस्तथा ॥ 17.34 ॥
विश्वास-प्रस्तुतिः - 17.35
अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ।
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ॥ 17.35 ॥
मूलम् - 17.35
अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ।
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ॥ 17.35 ॥
विश्वास-प्रस्तुतिः - 17.36
चलगण्डद्विगण्डौ20 च समाहाकालवालिनौ।
भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा ॥ 17.36 ॥
मूलम् - 17.36
चलगण्डद्विगण्डौ20 च समाहाकालवालिनौ।
भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा ॥ 17.36 ॥
विश्वास-प्रस्तुतिः - 17.38
तथा वर्णमयं चक्रं पद्मं 21चापि निबोध मे।
प्रणवोऽक्षः समुद्दिष्टः शक्तिर्नाभिरुदीरिता ॥ 17.38 ॥
मूलम् - 17.38
तथा वर्णमयं चक्रं पद्मं 21चापि निबोध मे।
प्रणवोऽक्षः समुद्दिष्टः शक्तिर्नाभिरुदीरिता ॥ 17.38 ॥
विश्वास-प्रस्तुतिः - 17.39
अकचाष्टतपाश्चैव सवर्ग्या अपरद्धतिः।
यादयो नेमिरुद्दिष्टा गरुडः प्रधिरुच्यते ॥ 17.39 ॥
मूलम् - 17.39
अकचाष्टतपाश्चैव सवर्ग्या अपरद्धतिः।
यादयो नेमिरुद्दिष्टा गरुडः प्रधिरुच्यते ॥ 17.39 ॥
विश्वास-प्रस्तुतिः - 17.40
प्रणवः कर्णिका प्रोक्ता शक्तिः केसरपद्धतिः।
स्वरद्विरष्टकं 22वर्गा अन्तःस्था ऊष्मभिः सह ॥ 17.40 ॥
मूलम् - 17.40
प्रणवः कर्णिका प्रोक्ता शक्तिः केसरपद्धतिः।
स्वरद्विरष्टकं 22वर्गा अन्तःस्था ऊष्मभिः सह ॥ 17.40 ॥
विश्वास-प्रस्तुतिः - 17.41
पत्राष्टकमिदं प्रोक्तं गरुडो दीप्तिरुच्यते।
इति चक्राब्जमध्यस्था मातृकावर्णमालिनी ॥ 17.41 ॥
मूलम् - 17.41
पत्राष्टकमिदं प्रोक्तं गरुडो दीप्तिरुच्यते।
इति चक्राब्जमध्यस्था मातृकावर्णमालिनी ॥ 17.41 ॥
विश्वास-प्रस्तुतिः - 17.43
पद्मगर्भप्रतीकाशा शङ्खपङ्कजधारिणी।
प्रणवेनाथ शक्त्या च श्रिया संक्लृप्तदेहिका23 ॥ 17.43 ॥
मूलम् - 17.43
पद्मगर्भप्रतीकाशा शङ्खपङ्कजधारिणी।
प्रणवेनाथ शक्त्या च श्रिया संक्लृप्तदेहिका23 ॥ 17.43 ॥
विश्वास-प्रस्तुतिः - 17.44
स्वरसंपूर्णवदना कचक्लृप्तकरद्वया।
टतक्लृप्तपदद्वन्द्वा पादिक्लृप्तोदरा शुभा ॥ 17.44 ॥
मूलम् - 17.44
स्वरसंपूर्णवदना कचक्लृप्तकरद्वया।
टतक्लृप्तपदद्वन्द्वा पादिक्लृप्तोदरा शुभा ॥ 17.44 ॥
विश्वास-प्रस्तुतिः - 17.46
सहृत्का हान्तरात्मा च क्षप्रभा वर्णमालिनी।
पाशाङ्कुशकराग्रा च वाणी ध्येया विपश्चिता ॥ 17.46 ॥
मूलम् - 17.46
सहृत्का हान्तरात्मा च क्षप्रभा वर्णमालिनी।
पाशाङ्कुशकराग्रा च वाणी ध्येया विपश्चिता ॥ 17.46 ॥
विश्वास-प्रस्तुतिः - 17.49
रौद्रान् रुद्रैस्ततः शाक्तान् 24भारत्यंशैः समुद्धरेत्।
यद्यपि व्यापका मन्त्रा नित्यं सिद्धा महामुने ॥ 17.49 ॥
मूलम् - 17.49
रौद्रान् रुद्रैस्ततः शाक्तान् 24भारत्यंशैः समुद्धरेत्।
यद्यपि व्यापका मन्त्रा नित्यं सिद्धा महामुने ॥ 17.49 ॥
विश्वास-प्रस्तुतिः - 17.51
अनुज्झित्वा क्रमं सर्वं यः सुधीर्मन्त्रमुद्धरेत्।
तस्याध्ययनमात्रेण मन्त्रः सिद्धिं प्रयच्छति ॥ 17.51 ॥
मूलम् - 17.51
अनुज्झित्वा क्रमं सर्वं यः सुधीर्मन्त्रमुद्धरेत्।
तस्याध्ययनमात्रेण मन्त्रः सिद्धिं प्रयच्छति ॥ 17.51 ॥