१६

वर्णोत्पत्तिनिरूपणं नाम षोडशोऽध्यायः
रक्षातदधिकारिविषयः प्रश्नः

नारदः—

विश्वास-प्रस्तुतिः - 16.1

भगवंस्त्रिदशारिघ्न सर्वज्ञ वृषकेतन।
प्रमाणार्थः श्रुतोऽस्माभिः सहेतुः सविपर्ययः ॥ 16.1 ॥

मूलम् - 16.1

भगवंस्त्रिदशारिघ्न सर्वज्ञ वृषकेतन।
प्रमाणार्थः श्रुतोऽस्माभिः सहेतुः सविपर्ययः ॥ 16.1 ॥

विश्वास-प्रस्तुतिः - 16.2

सर्वस्यास्य च का रक्षा कश्च रक्षाधिकारवान्।
सप्रकारमिदं द्वन्द्वं भगवन् वक्तुमर्हसि ॥ 16.2 ॥

मूलम् - 16.2

सर्वस्यास्य च का रक्षा कश्च रक्षाधिकारवान्।
सप्रकारमिदं द्वन्द्वं भगवन् वक्तुमर्हसि ॥ 16.2 ॥

तत्प्रतिवचनारम्भः
अहिर्बुध्न्यः—
सुदर्शनमयी रक्षा देवस्य हरिमेधसः।
1स्वमृते विष्णुसंकल्पं रक्षान्या न विधीयते ॥ 16.3 ॥
वस्तुनिष्ठसामर्थ्यस्य सुदर्शनात्मकत्वम्

विश्वास-प्रस्तुतिः - 16.4

या सा दिव्या क्रियाशक्तिर्विष्णुशक्त्यंशसंभवा।
सुदर्शनाह्वया देवी सर्वकृत्यकरी विभोः2 ॥ 16.4 ॥

मूलम् - 16.4

या सा दिव्या क्रियाशक्तिर्विष्णुशक्त्यंशसंभवा।
सुदर्शनाह्वया देवी सर्वकृत्यकरी विभोः2 ॥ 16.4 ॥

विश्वास-प्रस्तुतिः - 16.5

तन्मयं विद्धि सामर्थ्यं सर्वं सर्वपदार्थजम्।
तत्त्वानां तात्त्विकानां च चेतनाचेतनात्मनाम् ॥ 16.5 ॥

मूलम् - 16.5

तन्मयं विद्धि सामर्थ्यं सर्वं सर्वपदार्थजम्।
तत्त्वानां तात्त्विकानां च चेतनाचेतनात्मनाम् ॥ 16.5 ॥

विश्वास-प्रस्तुतिः - 16.6

प्रमाणानां विचित्राणां भावाभावयुगस्य च।
धर्मस्यार्थस्य कामस्य मुक्तेर्बन्धत्रयस्य च ॥ 16.6 ॥

मूलम् - 16.6

प्रमाणानां विचित्राणां भावाभावयुगस्य च।
धर्मस्यार्थस्य कामस्य मुक्तेर्बन्धत्रयस्य च ॥ 16.6 ॥

यद्यत् स्वकार्यसामर्थ्यं तत्तत् सौदर्शनं [^3]वपुः। शस्त्रास्त्रव्यूहस्य रक्षासाधनत्वम् [^4]उक्ता शस्त्रास्त्ररूपा ते विष्णुसंकल्पविक्रिया ॥ 16.7 ॥
विश्वास-प्रस्तुतिः - 16.8

यया देवो जगन्नाथः काले काले जनार्दनः।
अवतीर्याथवाविश्य भूतानि 11लघयेद्भुवम् ॥ 16.8 ॥

मूलम् - 16.8

यया देवो जगन्नाथः काले काले जनार्दनः।
अवतीर्याथवाविश्य भूतानि 11लघयेद्भुवम् ॥ 16.8 ॥

मन्त्रग्रामस्यापि रक्षासाधनत्वम् नानामन्त्रमयी चान्या यन्त्रकोशविचित्रिता। [^6]वेदतन्त्रोभयोद्भूता नानाप्रसवशालिनी ॥ 16.9 ॥ साक्षाद्विष्णोः क्रियाशक्तिः सुद्धसंविन्मयी परा। मन्त्रमयरक्षायां ब्राह्मणस्यैवाधिकारः सर्वतत्त्वार्थपारज्ञः सर्वविद्याविशारदः ॥ 16.10 ॥
विश्वास-प्रस्तुतिः - 16.11

अस्कन्ननित्यनैमित्तः शुद्धाभिजनसंमतः।
त्रिशुक्लो निस्त्रिसंदेहः षट्कर्मविधिपारगः ॥ 16.11 ॥

मूलम् - 16.11

अस्कन्ननित्यनैमित्तः शुद्धाभिजनसंमतः।
त्रिशुक्लो निस्त्रिसंदेहः षट्कर्मविधिपारगः ॥ 16.11 ॥

विश्वास-प्रस्तुतिः - 16.12

ब्राह्मणो ब्रह्मयोनिस्थः स्वदारनिरतः शुचिः।
अधिकुर्यात् क्रियाशक्तिं विष्णोर्मन्त्रमयीं पराम् ॥ 16.12 ॥

मूलम् - 16.12

ब्राह्मणो ब्रह्मयोनिस्थः स्वदारनिरतः शुचिः।
अधिकुर्यात् क्रियाशक्तिं विष्णोर्मन्त्रमयीं पराम् ॥ 16.12 ॥

ब्राह्मणस्यापि राजानवष्टब्धस्य रक्षायामसामर्थ्यम्

विश्वास-प्रस्तुतिः - 16.13

ब्राह्मणो नानवष्टब्धस्तया कार्यमिहार्हति।
अवष्टभ्य तु राजानं जगतोऽर्थे तया चरेत् ॥ 16.13 ॥

मूलम् - 16.13

ब्राह्मणो नानवष्टब्धस्तया कार्यमिहार्हति।
अवष्टभ्य तु राजानं जगतोऽर्थे तया चरेत् ॥ 16.13 ॥

राजप्रशंसा
विश्वास-प्रस्तुतिः - 16.14

राजा हि परमं भूतं सर्वदेवमयो विभुः।
क्रियाशक्तेरधिष्ठानं वैष्णव्या भगवन्मयः ॥ 16.14 ॥

मूलम् - 16.14

राजा हि परमं भूतं सर्वदेवमयो विभुः।
क्रियाशक्तेरधिष्ठानं वैष्णव्या भगवन्मयः ॥ 16.14 ॥

विश्वास-प्रस्तुतिः - 16.15

मूर्धतो हि पुरा देवो राजानमसृजत् प्रभुः।
मूर्धाभिषिक्तस्तेनासौ सर्वभूतोपरि स्थितः ॥ 16.15 ॥

मूलम् - 16.15

मूर्धतो हि पुरा देवो राजानमसृजत् प्रभुः।
मूर्धाभिषिक्तस्तेनासौ सर्वभूतोपरि स्थितः ॥ 16.15 ॥

द्विगुणो [^7]ब्राह्मणो राजा वेदशास्त्रेषु गीयते। राजद्विषां दृष्टादृष्टयोः प्रत्यवायः यस्तु तं द्वेष्टि संमोहात् स हरिं द्वेष्टि दुर्मतिः ॥ 16.16 ॥
विश्वास-प्रस्तुतिः - 16.17

यो हरिं द्वेष्टि संमोहात् स लक्ष्मीं द्वेष्टि मानवः।
लक्ष्म्या द्वेष्टा तु दुर्मेधाः सर्वधर्मेषु12 हीयते ॥ 16.17 ॥

मूलम् - 16.17

यो हरिं द्वेष्टि संमोहात् स लक्ष्मीं द्वेष्टि मानवः।
लक्ष्म्या द्वेष्टा तु दुर्मेधाः सर्वधर्मेषु12 हीयते ॥ 16.17 ॥

विश्वास-प्रस्तुतिः - 16.18

स भ्रष्टः सर्वलोकेभ्यः 13सर्वदेवबहिष्कृतः।
अप्रतिष्ठे तमस्यन्धे समास्तिष्ठति शाश्वतीः ॥ 16.18 ॥

मूलम् - 16.18

स भ्रष्टः सर्वलोकेभ्यः 13सर्वदेवबहिष्कृतः।
अप्रतिष्ठे तमस्यन्धे समास्तिष्ठति शाश्वतीः ॥ 16.18 ॥

अतो राजा अवश्यं बहु मन्तव्यः
विश्वास-प्रस्तुतिः - 16.19

ऐहिकामुष्मिकीं लक्ष्मीमतः प्रेप्सुरुदारधीः।
राजानं बहु मन्येत सर्वलोकाधिदैवतम् ॥ 16.19 ॥

मूलम् - 16.19

ऐहिकामुष्मिकीं लक्ष्मीमतः प्रेप्सुरुदारधीः।
राजानं बहु मन्येत सर्वलोकाधिदैवतम् ॥ 16.19 ॥

विश्वास-प्रस्तुतिः - 16.20

ब्राह्मणे केवले लक्ष्मीर्न वसत्यतिमार्दवात्।
अत्यौग्र्याद् बिभ्यती क्षत्रे केवले नेच्छति स्थितिम् ॥ 16.20 ॥

मूलम् - 16.20

ब्राह्मणे केवले लक्ष्मीर्न वसत्यतिमार्दवात्।
अत्यौग्र्याद् बिभ्यती क्षत्रे केवले नेच्छति स्थितिम् ॥ 16.20 ॥

संसृष्टयोस्तयोर्लक्ष्म्याः स्यैर्यम् ब्रह्मक्षत्रे तु संपृक्ते ह्यग्नीषोममयात्मनि। [^10]निवसत्यतिसंप्रीता[^11] ग्रीष्मे शीत इव ह्रदे ॥ 16.21 ॥ तत्र हेतुः
विश्वास-प्रस्तुतिः - 16.22

द्वे हि ते बिभृतो लोकस्थितिं संभूय तेजसी।
तयोर्हि सकला शक्तिः स्थिता विष्णोः क्रियात्मिका ॥ 16.22 ॥

मूलम् - 16.22

द्वे हि ते बिभृतो लोकस्थितिं संभूय तेजसी।
तयोर्हि सकला शक्तिः स्थिता विष्णोः क्रियात्मिका ॥ 16.22 ॥

अन्वयव्यतिरेकाभ्यां तत्र दृष्टान्तकथनम्
विश्वास-प्रस्तुतिः - 16.23

महत्या हि यथा नद्याः कुसरो न धृतेः क्षमम्।
एवं लघुर्नरो नैव क्रियाशक्तेर्घृतौ क्षमः ॥ 16.23 ॥

मूलम् - 16.23

महत्या हि यथा नद्याः कुसरो न धृतेः क्षमम्।
एवं लघुर्नरो नैव क्रियाशक्तेर्घृतौ क्षमः ॥ 16.23 ॥

पारावारो यथा धीरो महतीं तां [^12]प्रतीच्छति। [^13]ब्रह्मपृक्तं तथा क्षत्रं क्रियाशक्तिं [^12]प्रतीच्छति ॥ 16.24 ॥
विश्वास-प्रस्तुतिः - 16.25

पूर्यमाणं महानद्या कुतटाकं विदीर्यते।
रक्ष्यमाणस्तथाप्येको नैव पर्याप्यते तया ॥ 16.25 ॥

मूलम् - 16.25

पूर्यमाणं महानद्या कुतटाकं विदीर्यते।
रक्ष्यमाणस्तथाप्येको नैव पर्याप्यते तया ॥ 16.25 ॥

राजार्थं प्रयुक्ताया अपि क्रियाशक्तेः सर्वप्रजोपकारकत्वकथनम् यथा समुद्रगामिन्यां महत्यां सरिति ध्रुवम्।
विश्वास-प्रस्तुतिः - 16.27

प्रयुक्तायां क्रियाशक्तौ चक्रे वै चक्रवर्तिनः।
चक्रस्था हि प्रजाः सर्वाः 14समेधन्ते तथा श्रिया ॥ 16.27 ॥

मूलम् - 16.27

प्रयुक्तायां क्रियाशक्तौ चक्रे वै चक्रवर्तिनः।
चक्रस्था हि प्रजाः सर्वाः 14समेधन्ते तथा श्रिया ॥ 16.27 ॥

चक्रवर्त्यादीनां क्रियाशक्तावधिकारतारतम्यम् चक्रवर्ती नृपः पूर्वां द्वितीयां मम्डलेश्वरः। [^15]अधिकुर्यात् क्रियाशक्तिं तृतीयां विषयेश्वरः ॥ 16.28 ॥ महामात्रो द्विजातिर्वा यो बह्वी रक्षति प्रजाः। [^16]इमां नैको नरः कुर्यादेकस्मै मानवाय तु ॥ 16.29 ॥ क्रियाशक्तिस्वरूपकथनारम्भः अधिकारः क्रियायाश्च शक्तेस्ते संप्रदर्शितः। [^17]रूपमस्या यथावन्मे गदतस्तन्निशामय ॥ 16.30 ॥ सामान्यतः शक्तेर्द्वैविध्यम्
विश्वास-प्रस्तुतिः - 16.31

उन्मेषः परमः शक्तेर्विष्णोः कोट्यंशकोटितः15
भाव्यभावकभेदेन स द्विधा 16व्यवतिष्ठते ॥ 16.31 ॥

मूलम् - 16.31

उन्मेषः परमः शक्तेर्विष्णोः कोट्यंशकोटितः15
भाव्यभावकभेदेन स द्विधा 16व्यवतिष्ठते ॥ 16.31 ॥

भावको विष्णुसंकल्पः सुदर्शनपराह्वयः[^20] । शक्तेः पर्यायशब्दाः [^21]सैषा देवी क्रियाशक्तिः सामर्थ्यं योग इत्यपि ॥ 16.32 ॥
विश्वास-प्रस्तुतिः - 16.33

पारमेष्ठ्यं महातेजो मायायोग इतीदृशैः।
शब्दैः17प्रकारसामर्थ्यः संकल्पः सोऽभिधीयते ॥ 16.33 ॥

मूलम् - 16.33

पारमेष्ठ्यं महातेजो मायायोग इतीदृशैः।
शब्दैः17प्रकारसामर्थ्यः संकल्पः सोऽभिधीयते ॥ 16.33 ॥

भावकस्य भूत्यंशप्रवर्तकत्वम्
विश्वास-प्रस्तुतिः - 16.34

भाव्यो नाम य उन्मेषः सा भूतिरिति गीयते।
शुद्ध्यशुद्धिमयी सेति पूर्वमेव निदर्शितम् ॥ 16.34 ॥

मूलम् - 16.34

भाव्यो नाम य उन्मेषः सा भूतिरिति गीयते।
शुद्ध्यशुद्धिमयी सेति पूर्वमेव निदर्शितम् ॥ 16.34 ॥

विश्वास-प्रस्तुतिः - 16.35

ज्वलनस्येव सा ज्वाला संकल्पेन प्रतन्यते।
एको नारायणो देवस्तस्य भावानुगामिनी ॥ 16.35 ॥

मूलम् - 16.35

ज्वलनस्येव सा ज्वाला संकल्पेन प्रतन्यते।
एको नारायणो देवस्तस्य भावानुगामिनी ॥ 16.35 ॥

तस्या देव्याः क्रियाशक्तेः स्थितिं मन्त्रमयीं श्रृणु। क्रियाशक्तेर्नादात्मकत्वम् उद्यती सा क्रियाशक्तिर्भजते नादरूपताम् ॥ 16.36 ॥ नादस्य दीर्घण्टाध्वनिसाम्यम् तं नादं परमं विद्धि दीर्घघण्टानदोपमम्। तस्य योगिमात्रप्रत्यक्षविषयत्वम् परमैर्योगिभिः स्वान्ते स साक्षात् क्रियते स्वयम् ॥ 16.37 ॥ क्कचिदुन्मेषात् तस्य बिन्दुरूपत्वम्
विश्वास-प्रस्तुतिः - 16.38

स बुद्बुदवदम्भोधौ क्वचिदुन्मेषमृच्छति।
अनुद्रुतगतैः 18सोऽथ योगिभिर्बिन्दुरुच्यते ॥ 16.38 ॥

मूलम् - 16.38

स बुद्बुदवदम्भोधौ क्वचिदुन्मेषमृच्छति।
अनुद्रुतगतैः 18सोऽथ योगिभिर्बिन्दुरुच्यते ॥ 16.38 ॥

विश्वास-प्रस्तुतिः - 16.41

सा हि बिन्दुमयी शक्तिः स्वेच्छया नामतां गता।
अवर्णोऽप्येकधा पूर्वमनुत्तरमयात्मना19 ॥ 16.41 ॥

मूलम् - 16.41

सा हि बिन्दुमयी शक्तिः स्वेच्छया नामतां गता।
अवर्णोऽप्येकधा पूर्वमनुत्तरमयात्मना19 ॥ 16.41 ॥

बिन्दौर्द्वैविध्यम्
विश्वास-प्रस्तुतिः - 16.42

स्वरव्यञ्जनभेदेन स द्विधा व्यवतिष्ठते।
बिन्दुशक्तेरमुष्यास्तु भूयोऽपि श्रृणु विस्तरम् ॥ 16.42 ॥

मूलम् - 16.42

स्वरव्यञ्जनभेदेन स द्विधा व्यवतिष्ठते।
बिन्दुशक्तेरमुष्यास्तु भूयोऽपि श्रृणु विस्तरम् ॥ 16.42 ॥

विश्वास-प्रस्तुतिः - 16.43

उदेत्येषा विसृष्टाख्या शब्दसर्गमयी परा।
एकानेकविचित्रार्था20 नानावर्णविकारिणी ॥ 16.43 ॥

मूलम् - 16.43

उदेत्येषा विसृष्टाख्या शब्दसर्गमयी परा।
एकानेकविचित्रार्था20 नानावर्णविकारिणी ॥ 16.43 ॥

विश्वास-प्रस्तुतिः - 16.44

साक्षात् सोमस्वरूपा सा लक्ष्म्याः शब्दमयी तनुः।
स्वरव्यञ्जनरूपेण सा विवर्तं प्रपद्यते ॥ 16.44 ॥

मूलम् - 16.44

साक्षात् सोमस्वरूपा सा लक्ष्म्याः शब्दमयी तनुः।
स्वरव्यञ्जनरूपेण सा विवर्तं प्रपद्यते ॥ 16.44 ॥

विश्वास-प्रस्तुतिः - 16.47

अनुत्तरः स आनन्द आभावं प्रतिपद्यते।
इरिच्छया 21स ईशान ईभावं प्रतिपद्यते ॥ 16.47 ॥

मूलम् - 16.47

अनुत्तरः स आनन्द आभावं प्रतिपद्यते।
इरिच्छया 21स ईशान ईभावं प्रतिपद्यते ॥ 16.47 ॥

[^29]उरुन्मिषन्नूनरूप ऊभावं प्रतिपद्यते । एचामुत्पत्तिः अनुत्तरेच्छासंधानादेकारो नाम जायते ॥ 16.48 ॥
विश्वास-प्रस्तुतिः - 16.49

अनुत्तराद्भवन् भूय ऐभावं प्रतिपद्यते।
दिव्यादनुत्तरोन्मेषादोकारो नाम जायते ॥ 16.49 ॥

मूलम् - 16.49

अनुत्तराद्भवन् भूय ऐभावं प्रतिपद्यते।
दिव्यादनुत्तरोन्मेषादोकारो नाम जायते ॥ 16.49 ॥

अनुत्तराद्भवन् भूय औभावं प्रतिपद्यते।
विश्वास-प्रस्तुतिः - 16.51

अनुत्तरेच्छायोगेन ह्येधमानः स ए स्मृतः।
भूयोऽनुत्तरसंयोगादै चाप्यैश्वर्यवान् स्मृतः ॥ 16.51 ॥

मूलम् - 16.51

अनुत्तरेच्छायोगेन ह्येधमानः स ए स्मृतः।
भूयोऽनुत्तरसंयोगादै चाप्यैश्वर्यवान् स्मृतः ॥ 16.51 ॥

[^30]दिव्यादनुत्तरोन्मेषादोतः सर्वत्र [^31]ओ स्मृतः। अनुत्तरात् स संभूय और्जित्यादौगतिं गतः ॥ 16.52 ॥ ऋलृवर्णोत्पत्तिः
विश्वास-प्रस्तुतिः - 16.53

एकत्रिभागयो ऋद्ध्या अरयो ऋ स्मृतो बुधैः।
अलयोश्च तता 22लृत्वमाकारः स्यादनुत्तरः ॥ 16.53 ॥

मूलम् - 16.53

एकत्रिभागयो ऋद्ध्या अरयो ऋ स्मृतो बुधैः।
अलयोश्च तता 22लृत्वमाकारः स्यादनुत्तरः ॥ 16.53 ॥

विश्वास-प्रस्तुतिः - 16.54

भूयोऽप्यनुत्तरोद्योगात् प्लवमानस्तथा स्मृतः।
एवं 23चतुदशोद्योगान्नानाकारविभाविनी ॥ 16.54 ॥

मूलम् - 16.54

भूयोऽप्यनुत्तरोद्योगात् प्लवमानस्तथा स्मृतः।
एवं 23चतुदशोद्योगान्नानाकारविभाविनी ॥ 16.54 ॥

[^34]नटीव कुण्डलीशक्तिराद्या[^35] विष्णोर्विजृम्भते। अस्य रूपद्वयं सूक्ष्मं सृष्टिसंहारकारणम् ॥ 16.55 ॥ [^36]अनाख्येया महासत्ता क्रियाशक्तिः क्रमेण सा। शब्दात्मना [^37]विवर्त्स्यन्ती सा पुरा याति सृष्टिताम् ॥ 16.56 ॥
विश्वास-प्रस्तुतिः - 16.59

पश्यन्ती नाम नाभौ सा योगद्दश्योदयं गता।
शक्तिः सा वैष्णवी सत्ता मन्त्रमाता समञ्जना ॥ 16.59 ॥

मूलम् - 16.59

पश्यन्ती नाम नाभौ सा योगद्दश्योदयं गता।
शक्तिः सा वैष्णवी सत्ता मन्त्रमाता समञ्जना ॥ 16.59 ॥

अधिकारक्षयं यान्ति योगिनस्तां गता धिया। तस्या हृदब्जे विस्तारः विजृम्भणोन्मुखी[^39] लक्ष्मीः पश्यन्ती सा क्रियामयी ॥ 16.60 ॥ [^40]भावं संस्कृत्य संस्कारैः [^41]समर्थाख्यां विवर्तनाम्। भृङ्गीव निनदन्ती सा [^42]हृदब्जे याति विस्तृतिम् ॥ 16.61 ॥
विश्वास-प्रस्तुतिः - 16.62

वाच्यवाचकभावेन लोलीभूता क्रियामयी।
तदा संस्कृतयः सर्वाः स्मृतीः पुष्यन्ति वाच्यगाः ॥ 16.62 ॥

मूलम् - 16.62

वाच्यवाचकभावेन लोलीभूता क्रियामयी।
तदा संस्कृतयः सर्वाः स्मृतीः पुष्यन्ति वाच्यगाः ॥ 16.62 ॥

तस्याः कण्ठदेशे विसर्गात्मना परिणामः एवंविधा क्रियाशक्तिस्तत्तद्वाच्यविवक्षया। [^43]शब्दरूपं समास्थाय कूटस्थं व्यक्तिवर्जितम् ॥ 16.63 ॥
विश्वास-प्रस्तुतिः - 16.65

अनुत्तरोत्तरा याति कण्ठे हेति विजृम्भणम्।
ततः सादिमयी भूत्वा 24कान्तव्यञ्जनशालिनी ॥ 16.65 ॥

मूलम् - 16.65

अनुत्तरोत्तरा याति कण्ठे हेति विजृम्भणम्।
ततः सादिमयी भूत्वा 24कान्तव्यञ्जनशालिनी ॥ 16.65 ॥

विश्वास-प्रस्तुतिः - 16.66

अनुत्तरमयी भूयो बिन्दौ संप्रतितिष्ठति।
बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते ॥ 16.66 ॥

मूलम् - 16.66

अनुत्तरमयी भूयो बिन्दौ संप्रतितिष्ठति।
बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते ॥ 16.66 ॥

विश्वास-प्रस्तुतिः - 16.67

इमौ द्वौ सृष्टिसंहारौ लेशतस्ते निदर्शितौ।
मत्तः श्रृणु मुने भूयः स्वराणां विविधां ततिम् ॥ 16.67 ॥

मूलम् - 16.67

इमौ द्वौ सृष्टिसंहारौ लेशतस्ते निदर्शितौ।
मत्तः श्रृणु मुने भूयः स्वराणां विविधां ततिम् ॥ 16.67 ॥

स्वराणामवान्तरभेदनिरूपणम्
विश्वास-प्रस्तुतिः - 16.68

यदादित्रितयं पूर्वं स्वरकूटस्थमीरितम्।
अष्टादशविधं तत्तु प्रत्येकं योगिनां मतम् ॥ 16.68 ॥

मूलम् - 16.68

यदादित्रितयं पूर्वं स्वरकूटस्थमीरितम्।
अष्टादशविधं तत्तु प्रत्येकं योगिनां मतम् ॥ 16.68 ॥

विश्वास-प्रस्तुतिः - 16.69

स्वरव्यञ्जनकूटौ यौ ऋ लृ इत्युदितौ पुरा।
आद्योऽष्टादशधान्त्यस्तु तयोर्द्वादशभेदवान् ॥ 16.69 ॥

मूलम् - 16.69

स्वरव्यञ्जनकूटौ यौ ऋ लृ इत्युदितौ पुरा।
आद्योऽष्टादशधान्त्यस्तु तयोर्द्वादशभेदवान् ॥ 16.69 ॥

इति स्वराणां पञ्चानामशीतिश्चतुरुत्तरा। [^47]स्वरकूटास्तु चत्वारो ये तेषामीदृशी भिदा ॥ 16.70 ॥
विश्वास-प्रस्तुतिः - 16.71

शतानि त्रीण्यथैकारा विंशतिश्चतुरुत्तरा।
एवं पञ्च सहस्राणि शतान्यष्टावनुष्टुभाम्25 ॥ 16.71 ॥

मूलम् - 16.71

शतानि त्रीण्यथैकारा विंशतिश्चतुरुत्तरा।
एवं पञ्च सहस्राणि शतान्यष्टावनुष्टुभाम्25 ॥ 16.71 ॥

विश्वास-प्रस्तुतिः - 16.72

ऐकारः कथितः सम्यक् शिक्षातत्त्वविशारदैः।
ओकारश्च तथौकार इयद्भेदौ प्रकीर्तितौ ॥ 16.72 ॥

मूलम् - 16.72

ऐकारः कथितः सम्यक् शिक्षातत्त्वविशारदैः।
ओकारश्च तथौकार इयद्भेदौ प्रकीर्तितौ ॥ 16.72 ॥

[^49]रम्यौ गौरौ यमित्येव संख्या संभूय संधिगा। योगिनस्तां प्रपश्यन्ति [^50]मन्यन्ते मनसा नराः ॥ 16.73 ॥
विश्वास-प्रस्तुतिः - 16.74

संभूय 26स्वरसंख्या तु 27स्तब्धौ गौरो यमित्यसौ।
द्विस्तावन्तः स्वरा ज्ञेयाः सृष्टिसंहारभेदिताः ॥ 16.74 ॥

मूलम् - 16.74

संभूय 26स्वरसंख्या तु 27स्तब्धौ गौरो यमित्यसौ।
द्विस्तावन्तः स्वरा ज्ञेयाः सृष्टिसंहारभेदिताः ॥ 16.74 ॥

विश्वास-प्रस्तुतिः - 16.75

सर्गयुक्ता बिन्दुयुक्ताः केवला इति ये त्रिधा।
देहोऽर्थः सङ्ग इत्येव ते संभूय चतुर्दश ॥ 16.75 ॥

मूलम् - 16.75

सर्गयुक्ता बिन्दुयुक्ताः केवला इति ये त्रिधा।
देहोऽर्थः सङ्ग इत्येव ते संभूय चतुर्दश ॥ 16.75 ॥

सृष्टिः सोमः समाख्याता बिन्दुः सूर्य उदीर्यते। स्वराणां सूर्यचन्द्रकिरणात्मता पूर्वे सप्त स्वराः सूर्यकिरणाः परिकीतिताः ॥ 16.76 ॥ सोमस्य किरणा ज्ञेया आकारादय उत्तरे। तयोरहोरात्रप्रवर्तकत्वम् अहर्नयति सूर्यस्तु स्वरैः पिङ्गलया चरन् ॥ 16.77 ॥ रात्रिं सृजति सोमस्तु स्वरैः स्वैहिडया चरन्। परशक्तेः सुषुम्नासंचारित्वम् स्वराणां या परा विष्णोः कूटस्था शक्तिरुज्ज्वला ॥ 16.78 ॥
विश्वास-प्रस्तुतिः - 16.79

सुषुम्नया संचरते शब्दब्रह्म वितन्वती।
इति ते लेशतः प्रोक्ता स्वराणां गतिरुत्तमा ॥ 16.79 ॥

मूलम् - 16.79

सुषुम्नया संचरते शब्दब्रह्म वितन्वती।
इति ते लेशतः प्रोक्ता स्वराणां गतिरुत्तमा ॥ 16.79 ॥

व्यञ्जनसृष्टिकथनारम्भः अथ व्यञ्जनसृष्टिं ते कथयामि मुने श्रृणु। विसर्गस्य वासुदेवमूर्तित्वम् अनुत्तरोत्तरा सृष्टिर्या सा हेति 53 पुरोदिता ॥ 16.80 ॥
विश्वास-प्रस्तुतिः - 16.81

आदिव्यूहस्य देवस्य वासुदेवस्य सा तनुः।
अच्युतो बिन्दुयुक्तोऽसौ रुन्धन्नाधारमादिमम्28 ॥ 16.81 ॥

मूलम् - 16.81

आदिव्यूहस्य देवस्य वासुदेवस्य सा तनुः।
अच्युतो बिन्दुयुक्तोऽसौ रुन्धन्नाधारमादिमम्28 ॥ 16.81 ॥

विश्वास-प्रस्तुतिः - 16.82

साग्रिं दीपयते नादं योगारम्भे तु योगिनाम्।
अच्युतः सृष्टियुक्तोऽसावूर्ध्वसृष्टिं करोति च ॥ 16.82 ॥

मूलम् - 16.82

साग्रिं दीपयते नादं योगारम्भे तु योगिनाम्।
अच्युतः सृष्टियुक्तोऽसावूर्ध्वसृष्टिं करोति च ॥ 16.82 ॥

अच्युतः सृष्टियुक्तस्तु बहिःसृष्टिं करोत्ययम्। तस्मादूष्मणामुत्पत्तिस्तेषां चातुरात्म्यं च [^55]हात् सात् षात् शात्ततः शश्वच्छक्त्यूष्माण उदीरिताः॥ 16.83 ॥ चातुरात्म्यमिदं प्रोक्तं चतुर्ब्रह्मेति शब्दितम्। क्षकारसहितानां तेषां ब्रह्मशब्दवाच्यत्वम् क्षेण कूटेन संयोगात् पञ्चब्रह्मेति शब्दितम् ॥ 16.84 ॥ क्षस्तु सत्यस्य बीजं तु प्रोक्तः सात्त्वतशासने।
विश्वास-प्रस्तुतिः - 16.87

अन्तःस्था इति च प्रोक्ता अन्तः स्थपुरुषेशयाः।
अवस्था इति च प्रोक्ता 29ईशावतरणक्रमे ॥ 16.87 ॥

मूलम् - 16.87

अन्तःस्था इति च प्रोक्ता अन्तः स्थपुरुषेशयाः।
अवस्था इति च प्रोक्ता 29ईशावतरणक्रमे ॥ 16.87 ॥

मकारोत्पत्तिः [^60]यकारादीशशक्तिस्थान्मकारो नाम जायते। अनुत्तरोत्तरो बिन्दुर्म इति प्रतिशब्द्यते ॥ 16.88 ॥ तस्य सर्वचेतनसमष्टिरूपत्वं जीववाचित्वं च चेतनानां तु सर्वेषां समष्टिः सा निगद्यते। [^61]अस्मदर्थोऽयमुद्दिष्टः सोऽयमुत्तमपूरुषः ॥ 16.89 ॥ भकारोत्पत्तिस्तस्य च प्रकृतिवाचित्वम्
विश्वास-प्रस्तुतिः - 16.90

सूक्ष्मेक्षयानुवृद्धौ सा प्रकृत्या 30भोग्यरूपया।
च इत्येव मकारात् सा पुनः स्थूला विविच्यते॥ 16.90 ॥

मूलम् - 16.90

सूक्ष्मेक्षयानुवृद्धौ सा प्रकृत्या 30भोग्यरूपया।
च इत्येव मकारात् सा पुनः स्थूला विविच्यते॥ 16.90 ॥

बादिटान्तत्रयोदशवर्णोत्पत्तिः

विश्वास-प्रस्तुतिः - 16.91

भोगोपकारणाकार बहिरन्तर्व्यवस्थया।
त्रयोदशात्मना व्यक्ता 31बद्या टान्ता महामुने ॥ 16.91 ॥

मूलम् - 16.91

भोगोपकारणाकार बहिरन्तर्व्यवस्थया।
त्रयोदशात्मना व्यक्ता 31बद्या टान्ता महामुने ॥ 16.91 ॥

बादित्रयस्य महदहंकारमनोवाचित्वम्; तवर्गस्य ज्ञानेन्द्रियवाचित्वम्
बुद्धिश्चाहंकृतिश्चैव मनश्चेति मनीषिभिः।
32बादित्रितयमुद्दिष्टं नादि तान्तं तु धीन्द्रियम् ॥ 16.92 ॥
टवर्गस्य कर्मेन्द्रियवाचकत्वम्
णादि टान्तं तु कर्माख्यमथ भोग्योद्भवो द्विधा।
चवर्गोत्पत्तिः; तस्य तन्मात्रवाचित्वम्
ञादि चान्तं तु तन्मात्रपञ्चकं प्रविजृम्भते ॥ 16.93 ॥
कवर्गोत्पत्तिः; तस्य महाभूतवाचित्वम्

विश्वास-प्रस्तुतिः - 16.94

ङादिः पञ्चमहाभूता कान्तान्या वर्णसंततिः।
यस्माद्यस्योद्भवो वर्णात् 33तत्त्वसृष्ट्यां तु तत् स्मरेत् ॥ 16.94 ॥

मूलम् - 16.94

ङादिः पञ्चमहाभूता कान्तान्या वर्णसंततिः।
यस्माद्यस्योद्भवो वर्णात् 33तत्त्वसृष्ट्यां तु तत् स्मरेत् ॥ 16.94 ॥

लकारोत्पत्तिः लस्यैव करणान्यत्वे लकारो नाम जायते। व्यञ्जनानां वैविध्यम् चतुस्त्रिंशदिति प्रोक्ता वर्णास्ते व्यञ्जनात्मकाः ॥ 16.95 ।
विश्वास-प्रस्तुतिः - 16.96

एवमेकैकशो योगाद्भेदाः स्युर्बहवः स्वरैः।
चतुःपञ्चाशदुद्दिष्टाः ककारास्तत्र वै मुने ॥ 16.96 ॥

मूलम् - 16.96

एवमेकैकशो योगाद्भेदाः स्युर्बहवः स्वरैः।
चतुःपञ्चाशदुद्दिष्टाः ककारास्तत्र वै मुने ॥ 16.96 ॥

विश्वास-प्रस्तुतिः - 16.97

किकाराश्च कुकाराश्च कृकाराश्च तथाविधाः।
क्लृकारास्तत्र षट्त्रिंशत् केकारा रसधीर्मुने ॥ 16.97 ॥

मूलम् - 16.97

किकाराश्च कुकाराश्च कृकाराश्च तथाविधाः।
क्लृकारास्तत्र षट्त्रिंशत् केकारा रसधीर्मुने ॥ 16.97 ॥

विश्वास-प्रस्तुतिः - 16.98

तथाविधाश्च कोकारा योगिभिः संख्यया स्मृताः।
स्तव्धस्वार्थोऽयमित्येवं 34कैकारो योगिभिः स्मृतः ॥ 16.98 ॥

मूलम् - 16.98

तथाविधाश्च कोकारा योगिभिः संख्यया स्मृताः।
स्तव्धस्वार्थोऽयमित्येवं 34कैकारो योगिभिः स्मृतः ॥ 16.98 ॥

विश्वास-प्रस्तुतिः - 16.99

कौकाराश्च तथासंख्याः सप्त संहत्य ते पुनः।
देहोऽर्थः सङ्ग इत्येवं संख्याताः परमरषिभिः ॥ 16.99 ॥

मूलम् - 16.99

कौकाराश्च तथासंख्याः सप्त संहत्य ते पुनः।
देहोऽर्थः सङ्ग इत्येवं संख्याताः परमरषिभिः ॥ 16.99 ॥

[^67]वेगव्यञ्जनसंख्यैव [^68]देहोऽर्थः साङ्गभेदिताः। नीतिमत्प्रतिभा[^69] हेति संख्यया जायते मुने ॥ 16.100 ॥
विश्वास-प्रस्तुतिः - 16.101

स्वरव्यञ्जनसंयोगादियं संख्या समीरिता।
एकद्वित्र्यादिसंयोगैर्व्यञ्जनानां क्रमात् क्रमात् ॥ 16.101 ॥

मूलम् - 16.101

स्वरव्यञ्जनसंयोगादियं संख्या समीरिता।
एकद्वित्र्यादिसंयोगैर्व्यञ्जनानां क्रमात् क्रमात् ॥ 16.101 ॥

केवलानां सस्वराणां ततः संख्याविधिः स्मृतः। वर्णमातृकाया भगवच्छक्तिप्रोतत्वम् [^70]पदवाक्यप्रमाणादिनानाकोरकशालिनी ॥ 16.102 ॥
विश्वास-प्रस्तुतिः - 16.103

वर्णस्तम्बा 35ज्ञानमूला शब्दशक्तिर्हि वैष्णवी।
विष्णुना देवदेवेन तेन शक्तिमता स्वयम् ॥ 16.103 ॥

मूलम् - 16.103

वर्णस्तम्बा 35ज्ञानमूला शब्दशक्तिर्हि वैष्णवी।
विष्णुना देवदेवेन तेन शक्तिमता स्वयम् ॥ 16.103 ॥

स्थूलसूक्ष्मपरत्वेन प्रोतेयं वर्णसंततिः।

भगवदाज्ञया रुद्रांशस्यापि वर्णमातृकाधिष्ठातृत्वम्

विश्वास-प्रस्तुतिः - 16.104

तदाज्ञयास्मदंशैश्च रुद्रैर्नानाविधैरियम्।
मन्त्रयोनिरियं देवी मातृकाधिष्ठिता सदा ॥ 16.104 ॥

मूलम् - 16.104

तदाज्ञयास्मदंशैश्च रुद्रैर्नानाविधैरियम्।
मन्त्रयोनिरियं देवी मातृकाधिष्ठिता सदा ॥ 16.104 ॥

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां वर्णोत्पत्तिनिरूपणं नाम षोडशोऽध्यायः आदितः श्लोकाः 1004 ---------------******------------------

  1. तत्र ते B C; संभूते D; स्वभूते J ↩︎

  2. हरेः D. ↩︎ ↩︎

  3. मन्त्रध्यानम् D ↩︎

  4. अ इत्यस्यायमुन्मेषः A B C E F J ↩︎

  5. द्रष्टु B C D ↩︎

  6. सा यात्यनुत्तरं A D ↩︎

  7. D omits four lines from here ↩︎

  8. कक्ष D; तक्ष A; तं क्षकूटम् B C E F ↩︎

  9. सारणा D ↩︎

  10. साद्या विश्वास A B; पाद्या विश्वस्य D;साद्या विक्षस्य C; सामविश्वास E.F ↩︎

  11. ललयेद्भुताम् A B C E F J ↩︎ ↩︎

  12. धर्मेण D ↩︎ ↩︎

  13. सर्ववेद B C E
    केवलयोर्ब्राह्म्णनृपयोर्लक्ष्म्या अस्थिरत्वम् ↩︎ ↩︎

  14. समेध्यन्ते E F J ↩︎ ↩︎

  15. कोटिशः E F; कोटिभिः J ↩︎ ↩︎

  16. त्ववतिष्ठते D ↩︎ ↩︎

  17. प्रकाशसामर्थ्यः J ↩︎ ↩︎

  18. सोऽयम् B C
    बिन्दोर्नामनामिरूपेण द्वैविध्यम्
    नामनामिस्वरूपेण स बिन्दूर्भिद्यते द्विधा।
    नाम्नः शब्दब्रह्मत्वम्
    तत्र नामोदयं प्राप्य शब्दब्रह्म प्रवर्तते ॥ 16.39 ॥
    नामिनो भूतिरूपत्वम्
    प्राप्य नाम्युदयं भूतिः पूर्वोद्दिष्टा प्रवर्तते।
    वर्णोत्पत्तिकथनारम्भः
    नामोदयमिदानीं मे 3मन्त्राध्वानं मुने श्रृणु ॥ 16.40 ॥ ↩︎ ↩︎

  19. मलात्मना D; मथात्मना E F J ↩︎ ↩︎

  20. विचित्रस्था A B C E F J
    अकारात्मना तस्य समुन्मेषः
    4अ इत्यादिसमुन्मेषः सोऽनुत्तर उदीर्यते।
    अकारस्य सर्ववाग्रूपत्वम्
    सर्वा वागयमेवैकस्तत्तदाकारभेदवान् ॥ 16.45 ॥
    बिन्दोरिकारोकारात्मना समुन्मेषः
    स इत्छन्निरिति व्यक्त उन्मिषन्नुरिति स्सृतः।
    यथोक्तवर्णत्रयस्य सर्वस्वरविभावकत्वम्
    एत एव त्रयो वर्णाः सर्वस्वरविभावनाः ॥ 16.46 ॥
    तेषां दीर्घतापत्तिः ↩︎ ↩︎

  21. द्विरीशाना A B C E F J ↩︎ ↩︎

  22. अनुमितोऽयं पाठः; कोशेषु तु `क्लृप्तं’ इत्येव दृश्यते। ↩︎ ↩︎

  23. चतुर्दशोद्योगा नाना E F J ↩︎ ↩︎

  24. कान्ता A B C E ↩︎ ↩︎

  25. अनुष्टुभः D ↩︎ ↩︎

  26. त्वात्मसंख्या तु A B C D ↩︎ ↩︎

  27. तल्लो गौरो E; तल्पो B C F ↩︎ ↩︎

  28. सादिमम् D ↩︎ ↩︎

  29. ईशाय D ↩︎ ↩︎

  30. भोग A B C ↩︎ ↩︎

  31. पाद्या D. ↩︎ ↩︎

  32. पादि D. ↩︎

  33. तत्त्वसृष्ट्यादि B C D E F ↩︎ ↩︎

  34. कैकारा योगिमिः स्मृताः D ↩︎ ↩︎

  35. ज्ञानमूलम् A B C E F ↩︎ ↩︎