अधिकारिनिरूपणं नाम पञ्चदशोऽध्यायः
1ध्यातो धृतात्मभिश्चक्रमध्यस्थो मधुसूदनः।
पायादपायात् संसाररूपकूपात्तु नः परः ॥
अधिकारिविषयः प्रश्नः
नारदः—
विश्वास-प्रस्तुतिः - 15.1
देवदेव नमस्तेऽस्तु वृषकेतन शंकर।
त्वत्प्रसादाच्छ्रुतं दिव्यं रहस्यं 2ज्ञानमुत्तमम् ॥ 15.1 ॥
मूलम् - 15.1
देवदेव नमस्तेऽस्तु वृषकेतन शंकर।
त्वत्प्रसादाच्छ्रुतं दिव्यं रहस्यं 2ज्ञानमुत्तमम् ॥ 15.1 ॥
विश्वास-प्रस्तुतिः - 15.2
प्रश्नशेषं मम ब्रूहि यत् पृष्टोऽसि मया पुरा।
पुरुषार्था हि ये प्रोक्ताश्चत्वारः सकलाश्रयाः ॥ 15.2 ॥
मूलम् - 15.2
प्रश्नशेषं मम ब्रूहि यत् पृष्टोऽसि मया पुरा।
पुरुषार्था हि ये प्रोक्ताश्चत्वारः सकलाश्रयाः ॥ 15.2 ॥
विश्वास-प्रस्तुतिः - 15.4
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदिताः।
मानवास्तत्प्रसूता ये तथा मानवमानवाः ॥ 15.4 ॥
मूलम् - 15.4
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदिताः।
मानवास्तत्प्रसूता ये तथा मानवमानवाः ॥ 15.4 ॥
विश्वास-प्रस्तुतिः - 15.5
मुखबाहूरुपादेभ्यो ब्राह्मणाद्याः समुत्थिताः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इत्यपि ते स्मृताः ॥ 15.5 ॥
मूलम् - 15.5
मुखबाहूरुपादेभ्यो ब्राह्मणाद्याः समुत्थिताः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इत्यपि ते स्मृताः ॥ 15.5 ॥
विश्वास-प्रस्तुतिः - 15.11
अनन्ययाजिनो विप्रा आसृष्टेरधिकारिणः।
मातापितृभ्यां तरुणाः प्राग्बुद्धेः साधु पालिताः ॥ 15.11 ॥
मूलम् - 15.11
अनन्ययाजिनो विप्रा आसृष्टेरधिकारिणः।
मातापितृभ्यां तरुणाः प्राग्बुद्धेः साधु पालिताः ॥ 15.11 ॥
विश्वास-प्रस्तुतिः - 15.12
आचार्यनयसंपन्नास्ते शुश्रूषणतन्पराः।
सम्यक् सप्तपदार्थज्ञा नियमस्थाः समाहिताः ॥ 15.12 ॥
मूलम् - 15.12
आचार्यनयसंपन्नास्ते शुश्रूषणतन्पराः।
सम्यक् सप्तपदार्थज्ञा नियमस्थाः समाहिताः ॥ 15.12 ॥
विश्वास-प्रस्तुतिः - 15.13
प्रकृतिज्ञानसंपन्नाः प्रमादपरिवर्जिताः।
त्यक्तकामाः सुधृतयः शुचयः संयतेन्द्रियाः ॥ 15.13 ॥
मूलम् - 15.13
प्रकृतिज्ञानसंपन्नाः प्रमादपरिवर्जिताः।
त्यक्तकामाः सुधृतयः शुचयः संयतेन्द्रियाः ॥ 15.13 ॥
विश्वास-प्रस्तुतिः - 15.14
सिद्धा नाम [^7]महाभागाः समाप्तज्ञाननिश्चयाः।
धिया समाप्तकर्माणश्चरणैरन्विताः शुभैः ॥ 15.14 ॥
मूलम् - 15.14
सिद्धा नाम [^7]महाभागाः समाप्तज्ञाननिश्चयाः।
धिया समाप्तकर्माणश्चरणैरन्विताः शुभैः ॥ 15.14 ॥
विश्वास-प्रस्तुतिः - 15.15
आसमाप्तेः समास्थाय चतर्णामेकमाश्रमम्।
पाञ्चकालिकमच्छिद्रं कुर्वाणाः शतवार्षिकम् ॥ 15.15 ॥
मूलम् - 15.15
आसमाप्तेः समास्थाय चतर्णामेकमाश्रमम्।
पाञ्चकालिकमच्छिद्रं कुर्वाणाः शतवार्षिकम् ॥ 15.15 ॥
विश्वास-प्रस्तुतिः - 15.16
विवेकजां परां प्राप्य कर्मणोऽन्ते [^8]शुभां धियम्।
प्रद्योतमानविज्ञाना निर्धूतप्राकृतोद्यमाः ॥ 15.16 ॥
मूलम् - 15.16
विवेकजां परां प्राप्य कर्मणोऽन्ते [^8]शुभां धियम्।
प्रद्योतमानविज्ञाना निर्धूतप्राकृतोद्यमाः ॥ 15.16 ॥
विश्वास-प्रस्तुतिः - 15.17
सहस्रार्चिषमीशानं लक्ष्मीपतिमनाविलम्।
क्षेत्रज्ञं सर्वभूतानां वासुदेवं विशन्ति ते ॥ 15.17 ॥
मूलम् - 15.17
सहस्रार्चिषमीशानं लक्ष्मीपतिमनाविलम्।
क्षेत्रज्ञं सर्वभूतानां वासुदेवं विशन्ति ते ॥ 15.17 ॥
विश्वास-प्रस्तुतिः - 15.18
अग्निमान् बहुमात्रावानेकः कौटुम्ब आश्रमः।
व्रतादिनिरताः शुद्धास्त्रयोऽन्येऽनग्नयः स्मृताः ॥ 15.18 ॥
मूलम् - 15.18
अग्निमान् बहुमात्रावानेकः कौटुम्ब आश्रमः।
व्रतादिनिरताः शुद्धास्त्रयोऽन्येऽनग्नयः स्मृताः ॥ 15.18 ॥
विश्वास-प्रस्तुतिः - 15.23
न धर्ममनुतिष्ठन्ति त्रयीस्थं ते पुनर्मुने।
पञ्चरात्रं प्रविश्येव नान्यं धर्मं वितन्वते ॥ 15.23 ॥
मूलम् - 15.23
न धर्ममनुतिष्ठन्ति त्रयीस्थं ते पुनर्मुने।
पञ्चरात्रं प्रविश्येव नान्यं धर्मं वितन्वते ॥ 15.23 ॥
विश्वास-प्रस्तुतिः - 15.25
कुर्यादलब्धलाभाय लब्धवृद्धय एव च।
ब्रह्मिष्ठो वैदिकं कर्म नित्यं नैमित्तिकं तथा ॥ 15.25 ॥
मूलम् - 15.25
कुर्यादलब्धलाभाय लब्धवृद्धय एव च।
ब्रह्मिष्ठो वैदिकं कर्म नित्यं नैमित्तिकं तथा ॥ 15.25 ॥
विश्वास-प्रस्तुतिः - 15.29
स त्रीनध्यापयेदेतान् ब्राह्मणादीननुक्रमात्।
याजयेच्च यथाकामं वृत्त्यर्थमनसूयया ॥ 15.29 ॥
मूलम् - 15.29
स त्रीनध्यापयेदेतान् ब्राह्मणादीननुक्रमात्।
याजयेच्च यथाकामं वृत्त्यर्थमनसूयया ॥ 15.29 ॥
विश्वास-प्रस्तुतिः - 15.32
इज्याध्ययनदानं तु द्विजातीनामिदं समम्।
नित्यं 10धर्मार्थमेवैतत् तत्र हिंसादिवर्जनम् ॥ 15.32 ॥
मूलम् - 15.32
इज्याध्ययनदानं तु द्विजातीनामिदं समम्।
नित्यं 10धर्मार्थमेवैतत् तत्र हिंसादिवर्जनम् ॥ 15.32 ॥
विश्वास-प्रस्तुतिः - 15.33
शुश्रूषैव तु शूद्रस्य धर्मो वृत्त्यर्थमेव च।
श्रेष्ठा ब्राह्मणशुश्रूषा कनिष्ठे त्वपरे स्मृते ॥ 15.33 ॥
मूलम् - 15.33
शुश्रूषैव तु शूद्रस्य धर्मो वृत्त्यर्थमेव च।
श्रेष्ठा ब्राह्मणशुश्रूषा कनिष्ठे त्वपरे स्मृते ॥ 15.33 ॥
विश्वास-प्रस्तुतिः - 15.34
अहिंसा सत्यमक्रोधः स्वदारनिरतिर्दया।
चतुर्ष्वेतेषु धर्मोऽयं सामान्येन विधीयते ॥ 15.34 ॥
मूलम् - 15.34
अहिंसा सत्यमक्रोधः स्वदारनिरतिर्दया।
चतुर्ष्वेतेषु धर्मोऽयं सामान्येन विधीयते ॥ 15.34 ॥
विश्वास-प्रस्तुतिः - 15.40
तन्निवेदितसर्वार्थो भिक्षार्थी तत्कुलाद्बहिः।
कर्मशेषण चाचार्यादिच्छन् स्वाध्यायमत्वरः ॥ 15.40 ॥
मूलम् - 15.40
तन्निवेदितसर्वार्थो भिक्षार्थी तत्कुलाद्बहिः।
कर्मशेषण चाचार्यादिच्छन् स्वाध्यायमत्वरः ॥ 15.40 ॥
विश्वास-प्रस्तुतिः - 15.41
उपासीत बहिः संध्ये 11नित्यस्नाय्यनसूयकः।
कुर्वन्निन्द्रियसंरोधं12 भूतानामनुकम्पकः ॥ 15.41 ॥
मूलम् - 15.41
उपासीत बहिः संध्ये 11नित्यस्नाय्यनसूयकः।
कुर्वन्निन्द्रियसंरोधं12 भूतानामनुकम्पकः ॥ 15.41 ॥
विश्वास-प्रस्तुतिः - 15.42
वह्निं समिद्भिरिन्धान उभे संध्ये समाहितः।
धर्मज्ञसमयस्थं चाप्याचरन्नात्मनो व्रतम् ॥ 15.42 ॥
मूलम् - 15.42
वह्निं समिद्भिरिन्धान उभे संध्ये समाहितः।
धर्मज्ञसमयस्थं चाप्याचरन्नात्मनो व्रतम् ॥ 15.42 ॥
विश्वास-प्रस्तुतिः - 15.45
आचार्यमेव सेवेत युक्त आ देहपातनात्।
जिज्ञासुर्ब्रह्मचारी स लभेत ज्ञानमुत्तमम् ॥ 15.45 ॥
मूलम् - 15.45
आचार्यमेव सेवेत युक्त आ देहपातनात्।
जिज्ञासुर्ब्रह्मचारी स लभेत ज्ञानमुत्तमम् ॥ 15.45 ॥
विश्वास-प्रस्तुतिः - 15.47
लब्धानुज्ञो गुरोः स्नात्वा संप्राप्य विधिवत् स्त्रियम्।
तया सह चरेद्धर्मं नित्यं स्वाध्यायतत्परः ॥ 15.47 ॥
मूलम् - 15.47
लब्धानुज्ञो गुरोः स्नात्वा संप्राप्य विधिवत् स्त्रियम्।
तया सह चरेद्धर्मं नित्यं स्वाध्यायतत्परः ॥ 15.47 ॥
संकोचिनीं 13चरन् वृत्तिमनसूयुरलोलुपः ॥ 15.48 ॥
स्नातकव्रतशाली च पञ्चयज्ञपरायणः।
गृहस्थस्यापि पाञ्चरात्रधर्मावश्यकता
14पञ्चकालरतो नित्यं दयाक्षान्तिधृतिस्थितिः15 ॥ 15.49 ॥
विश्वास-प्रस्तुतिः - 15.50
अक्रोधसत्यह्रीविद्याशौचास्तेयदमस्थितः।
अनायासो ह्यकृपणः शास्त्रीये मङ्गले रतः ॥ 15.50 ॥
मूलम् - 15.50
अक्रोधसत्यह्रीविद्याशौचास्तेयदमस्थितः।
अनायासो ह्यकृपणः शास्त्रीये मङ्गले रतः ॥ 15.50 ॥
निष्कामकर्मिणो गृहस्थस्यापि मोक्षप्राप्तिः
अकामहतया बुद्ध्या त्यक्ताहंकारलोभया ॥ 15.51 ॥
विश्वास-प्रस्तुतिः - 15.52
सत्तर्कव्यवसायाभ्यां लोचनाभ्येत्यसंभवम्16।
श्रौतस्मार्तक्रियानित्यो नित्यनैमित्तिके रतः ॥ 15.52 ॥
मूलम् - 15.52
सत्तर्कव्यवसायाभ्यां लोचनाभ्येत्यसंभवम्16।
श्रौतस्मार्तक्रियानित्यो नित्यनैमित्तिके रतः ॥ 15.52 ॥
विश्वास-प्रस्तुतिः - 15.53
ईदृग्गृहस्थो जिज्ञासुः प्राप्य ज्ञानमनुत्तमम्।
प्राप्तवेदान्तविज्ञानो वैष्णवं श्रयते पदम् ॥ 15.53 ॥
मूलम् - 15.53
ईदृग्गृहस्थो जिज्ञासुः प्राप्य ज्ञानमनुत्तमम्।
प्राप्तवेदान्तविज्ञानो वैष्णवं श्रयते पदम् ॥ 15.53 ॥
सकामस्य गृहस्थस्य ब्रह्मलोकप्राप्तिः
केवलो 17धर्मनित्योऽसौ ब्रह्मलोके महीयते।
वानप्रस्थधर्माः
गार्हस्थ्यादथवा 18पूर्वं वानप्रस्थयं श्रयेत् पदम् ॥ 15.54 ॥
विश्वास-प्रस्तुतिः - 15.55
गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः।
अपत्यस्यैव चापत्यं वनं चाथ समाश्रयेत् ॥ 15.55 ॥
मूलम् - 15.55
गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः।
अपत्यस्यैव चापत्यं वनं चाथ समाश्रयेत् ॥ 15.55 ॥
विश्वास-प्रस्तुतिः - 15.56
ग्राम्याहारं परित्यज्य वन्याहारोपयोगवान्।
बहिरात्मनि वाप्यग्निं जुह्वद्यज्ञपरायणः ॥ 15.56 ॥
मूलम् - 15.56
ग्राम्याहारं परित्यज्य वन्याहारोपयोगवान्।
बहिरात्मनि वाप्यग्निं जुह्वद्यज्ञपरायणः ॥ 15.56 ॥
विश्वास-प्रस्तुतिः - 15.58
सेवमानो व्रतस्थश्च तास्ता दीक्षाः समाहितः।
वृत्तिसंकोचकृच्छुभ्रस्तत्त्वजिज्ञासया युतः ॥ 15.58 ॥
मूलम् - 15.58
सेवमानो व्रतस्थश्च तास्ता दीक्षाः समाहितः।
वृत्तिसंकोचकृच्छुभ्रस्तत्त्वजिज्ञासया युतः ॥ 15.58 ॥
विश्वास-प्रस्तुतिः - 15.61
द्वयोरेकस्य वा पश्चात् पारिव्राज्यं समाचरेत्19।
प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् ॥ 15.61 ॥
मूलम् - 15.61
द्वयोरेकस्य वा पश्चात् पारिव्राज्यं समाचरेत्19।
प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् ॥ 15.61 ॥
विश्वास-प्रस्तुतिः - 15.62
लब्धानुज्ञो गुरोर्वाय 20कर्मश्रान्तो महाव्रती।
समारोप्याग्निमानग्नींश्चतुर्थाश्रममावसेत्21 ॥ 15.62 ॥
मूलम् - 15.62
लब्धानुज्ञो गुरोर्वाय 20कर्मश्रान्तो महाव्रती।
समारोप्याग्निमानग्नींश्चतुर्थाश्रममावसेत्21 ॥ 15.62 ॥
विश्वास-प्रस्तुतिः - 15.63
विमुक्तः सर्वदोषेभ्यो विरक्तो विषयेषु च।
उच्चावचां विचिन्वंश्च गतिमस्यान्तरात्मनः ॥ 15.63 ॥
मूलम् - 15.63
विमुक्तः सर्वदोषेभ्यो विरक्तो विषयेषु च।
उच्चावचां विचिन्वंश्च गतिमस्यान्तरात्मनः ॥ 15.63 ॥
विश्वास-प्रस्तुतिः - 15.64
अन्वीक्षमाणः सूक्ष्मं च परमात्मानमात्मना।
प्रसंख्यानपरो नित्यं वेदान्तज्ञानतत्परः ॥ 15.64 ॥
मूलम् - 15.64
अन्वीक्षमाणः सूक्ष्मं च परमात्मानमात्मना।
प्रसंख्यानपरो नित्यं वेदान्तज्ञानतत्परः ॥ 15.64 ॥
विश्वास-प्रस्तुतिः - 15.65
समाधिस्थश्च सततमुग्रव्रतपरोऽपि वा।
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ॥ 15.65 ॥
मूलम् - 15.65
समाधिस्थश्च सततमुग्रव्रतपरोऽपि वा।
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ॥ 15.65 ॥
विश्वास-प्रस्तुतिः - 15.66
विद्वेषमनुरागं वा द्वयोरप्यविचिन्तयन्।
वायुभूतः खवत् स्वस्थ उर्वीस्थिरमना मुनिः ॥ 15.66 ॥
मूलम् - 15.66
विद्वेषमनुरागं वा द्वयोरप्यविचिन्तयन्।
वायुभूतः खवत् स्वस्थ उर्वीस्थिरमना मुनिः ॥ 15.66 ॥
विश्वास-प्रस्तुतिः - 15.67
वारिवच्चार्द्रचेतास्तु शुचिर्ज्वलनवत् सदा।
गाङ्गो ह्रद इवाक्षोभ्यः शून्यागारसमाकृतिः ॥ 15.67 ॥
मूलम् - 15.67
वारिवच्चार्द्रचेतास्तु शुचिर्ज्वलनवत् सदा।
गाङ्गो ह्रद इवाक्षोभ्यः शून्यागारसमाकृतिः ॥ 15.67 ॥
विश्वास-प्रस्तुतिः - 15.68
धियालोचितसर्वार्थो धिया त्यक्तपरिग्रहः।
धिया स्वीकृतसच्छास्त्रो धिया तृप्तः सुशुद्धया ॥ 15.68 ॥
मूलम् - 15.68
धियालोचितसर्वार्थो धिया त्यक्तपरिग्रहः।
धिया स्वीकृतसच्छास्त्रो धिया तृप्तः सुशुद्धया ॥ 15.68 ॥
विश्वास-प्रस्तुतिः - 15.69
दत्तसर्वाभयो योगी 22सर्वैर्दत्ताभयस्तथा।
स्वाध्यायाद्योगमासीनो योगात् स्वाध्यायमामनेत्23॥ 15.69 ॥
मूलम् - 15.69
दत्तसर्वाभयो योगी 22सर्वैर्दत्ताभयस्तथा।
स्वाध्यायाद्योगमासीनो योगात् स्वाध्यायमामनेत्23॥ 15.69 ॥
विश्वास-प्रस्तुतिः - 15.70
अब्रुवन् केनचित् किंचित् प्राप्ते कालेऽप्यविब्रुवन्।
समः सर्वेषु भूतेषु मातृवत् पितृवत् सदा ॥ 15.70 ॥
मूलम् - 15.70
अब्रुवन् केनचित् किंचित् प्राप्ते कालेऽप्यविब्रुवन्।
समः सर्वेषु भूतेषु मातृवत् पितृवत् सदा ॥ 15.70 ॥
विश्वास-प्रस्तुतिः - 15.73
कैश्चित् कः स्विदिति प्रोक्तः 24कैश्चिद् घोर इतीरितः।
उपेक्षाकरुणामैत्रीमुदितालिङ्गितः सदा ॥ 15.73 ॥
मूलम् - 15.73
कैश्चित् कः स्विदिति प्रोक्तः 24कैश्चिद् घोर इतीरितः।
उपेक्षाकरुणामैत्रीमुदितालिङ्गितः सदा ॥ 15.73 ॥
विश्वास-प्रस्तुतिः - 15.74
विवेकबोधसंतोषैर्नित्यं परिजनैर्वृतः।
भैक्षाशी तुष्टिसंपूर्णो 25धर्मैरीदृग्गुणैर्युतः ॥ 15.74 ॥
मूलम् - 15.74
विवेकबोधसंतोषैर्नित्यं परिजनैर्वृतः।
भैक्षाशी तुष्टिसंपूर्णो 25धर्मैरीदृग्गुणैर्युतः ॥ 15.74 ॥
विश्वास-प्रस्तुतिः - 15.75
प्रदीप इव शान्तार्चिः परिव्राड् 26ध्यानमास्थितः।
देहसंस्कारनाशेन27 वैष्णवं श्रयते पदम् ॥ 15.75 ॥
मूलम् - 15.75
प्रदीप इव शान्तार्चिः परिव्राड् 26ध्यानमास्थितः।
देहसंस्कारनाशेन27 वैष्णवं श्रयते पदम् ॥ 15.75 ॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अधिकारिनिरूपणं नाम पञ्चदशोऽध्यायः
आदितः श्लोकाः 900
-
D Omits two lines from here ↩︎
-
रीतिर्लेशतस्ते महामुने A. ↩︎
-
पूर्वमप्रजास्ते D ↩︎
-
त्रयोऽपि यज्ञदीक्षायाम् D ↩︎
-
ब्राह्मणः सवनस्थास्ते सवनान्ते यथा यथा D ↩︎
-
वसेत् A B C E F J ↩︎
-
तत्कर्मकारी D ↩︎
-
कैश्चिन्मूढः D ↩︎
-
त्वरन् A B C E F ↩︎
-
जपयज्ञरतो D ↩︎
-
स्थितः B ↩︎
-
ब्रह्मनित्यः A B C E F J ↩︎
-
पूर्वाद्वानप्रस्थम् B C E F; पूर्णाद्वानप्रश्थम् A ↩︎
-
आत्मनः D
प्रज्ञाप्रासादमारूढो विमुक्तः सर्वतो जनैः ॥ 15.71 ॥
भूमिष्ठानिव शैलस्थः पश्यन् सर्वानवस्थितान्।
9कैश्चिन्मूक इति प्रोक्तः कैश्चिद्धीर इतीप्सितः ॥ 15.72 ॥ ↩︎ ↩︎